________________
तद्यथा- विधिभङ्गाः
उभयभङ्गाः
नियमभङ्गाः (विधिमात्रधर्मिका भङ्गाः) (प्रधानेन विधिनियममिकाः) (नियममात्रधर्मिकाः) (१) विधिः
(५) उभयम् (विधिश्च नियमश्च) (९) नियमः विधिविधिः उभयविधिः
नियमविधिः (२) (विधेर्विधानम्) (६) (विधिनियमस्य विधिः) .(१०) (नियमस्य विधिः) विध्युभयम् उभयोभयम्
नियमोभयम् (३) (विधेर्विधानं नियमनञ्च) (७) (विधिनियमस्य विधिनियमम् ) (११) (नियमस्य विधिनियमम् ,) विधिनियमः उभयनियमः
नियमनियमः (४) (विधेर्नियमः)
(८) (विधिनियमस्य नियमः) (१२) ( नियमस्य नियमः) तत्र पूर्वपूर्वभङ्गेषु परितोषाभावप्रदर्शनद्वारेणोत्तरोत्तरभङ्गारम्भणात् अन्तिमभङ्गस्याप्यन्ते परितोषाभाववर्णनाच्च द्वादशपरितोषाभावप्रदर्शनानि द्वादशारान्तराणीत्युच्यन्ते । ततश्चाराणां तुम्बप्रतिबद्धतयैव वृत्तित्ववद्विध्यादिभङ्गानामशेषभङ्गैकवाक्यतयैव वृत्तित्वं सत्यत्वञ्च नान्यथेति प्रतिपादितम् , एतेनान्यमतासाधारणगुणता व्यावर्णिता भवतीति द्वादशारनयचक्रशास्त्रार्थः समर्थितः सम्पद्यते । तत्राद्याः षडराः द्रव्यार्थावलम्बिनः शेषाश्च पर्यायार्थावलम्बिनः ।
तत्र प्रथमे विध्यरे-यथालोकग्राहमेव वस्तु, परीक्षकाभिमानिनां शास्त्रकाराणां मतेन खपरविषयतायां सामान्यविशेषयोरनुपपत्तेस्तयोरभावाल्लोकाभिप्रायस्यायत्नविवेकत्वादिति प्रतिपादनाय सामान्यवादिनि सांख्यमते विशेषवादिनि बौद्धमते तदुभयवादिनि वैशेषिकमते च सामान्यविशेषयोः स्वपरविषयतयाऽसम्भवः प्रतिपादितः, ततो लोकमाहं वस्तु सर्वथाऽन्तरङ्गभूतं न सामान्यविशेषावपेक्षते, तच्च कारणात्मकं वा कार्यात्मकं वा सामान्यात्म वा विशेषात्मं वा तदुभयरूपं वाऽन्यतरोपसर्जनप्रधानरूपं वाऽनुभयस्वरूपं वेति विचारो व्यर्थ एव, अत एव सिद्धे वस्तुनि तज्ज्ञापकशास्त्राणां निष्प्रयोजनत्वं कारणेऽपि कार्यसदसत्त्वानियमः कार्यानियमश्च । लोकप्रसिद्ध्युपेक्षया शास्त्रकारवचनप्रामाण्ये प्रत्यक्षादीनां मतत्रयेऽप्यप्रामाण्यञ्चोद्भावितम् । ततः प्रत्येकमताभिमतप्रत्यक्षलक्षणान्युपन्यस्य सुविस्तरेण निराकृतातिकल्पनात्मकत्वादिभिर्हेतुभिः । ततो लोकप्रमाणकोऽयमज्ञानवाद एवेत्यज्ञानवादस्य क्रियाभ्युपगमसहितस्य प्रतिपादनं कृतम्, ततश्चात्र भङ्गे पदार्थ वाक्यार्थश्चाभिधाय व्यवहारैकदेशत्वादस्य द्रव्यार्थत्वमाविष्कृत्यास्य नयस्य जिनवचनं निबन्धनं प्रदर्य प्रथमभङ्गः समापितः ।
द्वितीये विधिविध्यरे-अज्ञानसहितस्य क्रियाभ्युपगमवादस्य पूर्वोदितस्य सुष्टुनिराकरणाय 'अग्निहोत्रं जुहुयात् खर्गकाम' इत्येवं रूपस्य वैदिकक्रियावचनस्य प्रत्येकपदपदार्थविचारणाऽनेकधाऽऽरचिता, तत्प्रसङ्गतोऽसत्कार्यवादस्य चासत्सम्बन्धिविकल्पासङ्गतत्वप्रदर्शनद्वारेण प्रतिक्षेपो विहितः । ततो ज्ञानसहितक्रियाभ्युपगमवादमपि निराकृत्य अरान्तरं विधाय विधेरौत्सर्गिकविधित्वप्रदर्शनाय पुरुषवाद उपन्यस्तः, तत्र कार्यात्मानं कारणात्मानञ्च जगद्रूपं पुरुषमुपवर्ण्य तस्य कारणात्मकं प्रतिक्षिपता विधिविधिनयदर्शनाश्रयोऽपरो नियतिवाद उपस्थापितः । अत्रापि परापरादिव्यवहारासम्भवात् कालस्यैव भवनयोग्यत्वात् काल एव मुख्य कारणमिति कालवादं सर्वेषां खेनैव भावेन भवनात् स्वभाव एव प्रधान कारणमिति स्वभाववादञ्चोपन्यस्यात्र वादे खेतिविशेषणात् पुरुषादिवादानाञ्च सर्वेषामन्यदवस्त्विति खतोमिन्नान्यार्थाभ्युपगमेनैव सर्वैकत्वादिरूपताप्रतिपादनार्थ
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org