________________
मुद्यतानां वाभिमतपुरुषादिनिराकरणायैव तदीयनिरूपणस्य भावाच्च न द्रव्यार्थत्वमेतेषामिति भाव एव कारणमिति भाववादः प्ररूपितः । एषु वादेषु पदार्थ वाक्यार्थश्चोपवर्ण्य विधिविधिनयस्यास्य सङ्ग्रहैकदेशत्वाद्रव्यार्थत्वमित्याख्यायास्य जैनं निबन्धनमुदीर्य द्वितीयभङ्गः समापितः ।
तत्र तावद्वादशारनयचक्रभाष्यकर्ताऽयं तत्रभवान् श्रीमल्लवादिसूरिः कस्मिन् देशे कस्मिन् काले भुवनममुं मण्डयामासेति निर्णये नास्मदीयमभिमतमधुना किञ्चिदपि प्रकाश्यते । प्रभावकचरितानुसारेण तु गृहस्थावस्थायां मल्लनामा दुर्लभदेवीतनयः सभ्भवतो वल्लभीपुरवास्तव्य इल्यवगम्यते, तस्य सद्भावसमयस्तु 'श्रीवीरवत्सरादथ शताष्टके चतुरशीतिसंयुक्ते । जिग्ये स मल्लवादी बौद्धांस्तयन्तरांश्चापि ॥' इति विजयसिंहसूरिप्रबन्धगतेन गाथावृत्तेन श्रीवीरवत्सरात् (८८४) नवमशतकः विक्रमाच्च (४१४) पञ्चमशतकोऽवगम्यते । हरिभद्रसूरिमिक्रमसप्तमशतककालीनैः खकीये ग्रन्थे मल्लवादी स्मयते । तथा मदुद्धृतभाष्यानुसारेण मल्लवादिसूरिभिाकरणवाक्यपदीयकारिका भर्तृहरिविरचिता तत्सम्मतशब्दब्रह्मवादश्चोपन्यस्यते, भर्तृहरेश्च समयः ख्रिस्तीयसार्धत्रिशतात् सार्धचतुःशतवर्षमध्यगतः (370-440 A. D.) इति बहूनां समयपरिशोधकानां मतम् । तथा भाष्यकारो वसुबन्धुप्रत्यक्षलक्षणं वसुबन्धोर्नाम टीकाकृदभिप्रायेण तच्छिष्यस्य दिन्नस्य (दिनागस्य ) तल्लक्षणखण्डनप्रकारञ्चोपदर्शयति; दिङ्गागसमयस्तु खिस्तीयो द्वितीयस्तृतीयो वा शतक इति विश्वकोषकार आह, सतीशचन्द्रविद्याभूषणमहाशयस्तु पश्चमशतकान्तभाग इति वदति ।
-टीकाकारपरिचय:इति नियमभङ्गो नवमोऽरः श्रीमल्लवादिप्रणीतनयचक्रस्य टीकायां न्यायागमानुसारिण्यां सिंहसूरिगणिवादिक्षमाश्रमणदृब्धायां समाप्तः । इति प्रतौ तृतीयायां उल्लेखदर्शनान्न्यायागमानुसारिणीत्यभिधाना टीका नयचक्रस्य, तत्कर्ता च सिंहसूरिगणिरित्यवगम्यते, परन्तु इदमेव तस्य यथार्थ नामेति विश्वसितुं प्रमाणान्तरं नोपलभ्यते, तत्त्वार्थसूत्रटीकाप्रान्तभागे टीकाकर्तृभिः श्रीसिद्धसेनगणिभिरुपनिबद्धायाः प्रशस्त्यास्तृतीये वृत्ते 'तस्याभूत् परवादिनिर्जयपटुः सैंहीं दधच्छूरतां नाम्ना व्यज्यत सिंहसूर इति च ज्ञाताखिलार्थागमः । शिष्यः शिष्टजनप्रियः प्रियहितव्याहारचेष्टाश्रयाद्भव्यानां शरणं भवौघपतनक्लेशार्दितानां भुवि' इत्यत्र परवादिनिर्जयपटुः सैंही दधच्छूरतां नाम्ना व्यज्यत सिंहसूर इति च ज्ञाताखिलार्थागम इत्यंशेनावगम्यमानं न्यायागमवेत्तृत्वं वादित्वं सिंहसूर इत्यभिधानश्च न्यायागमानुसारिणीटीकाविधातुरस्य संजाघटीतीति व्याख्याकर्तुरस्य सिंहसूर इत्येवमभिधानं स्यादिति चिन्त्यते, तेनास्य समयो वैक्रमसप्तमशतकमध्ये स्यादिति सम्भाव्यते, तत्त्वार्थटीकाकृतः श्रीसिद्धसेनगणेः श्रीसिंहसूरप्रशिष्यस्य वैक्रमाष्टमशतकप्रारम्भे स्थितेस्तय॑माणत्वात् ।
मया पृथक्कृते मूलेऽन्योक्तितया गृहीतानि वचनानि-प्रथमारके ... यथोक्तं-आध्यात्मिकाः कार्यात्मका भेदाः शब्दस्पर्शरसरूपगन्धाः पञ्च त्रयाणां सुखदुःखमोहाना सन्निवेशमात्रम् , कस्मात् ? पञ्चानां पञ्चानामेककार्यभावात् , सुखानां शब्दस्पर्शरसरूपगन्धानां प्रसादलाघवाभिष्वङ्गोद्धर्षप्रीतयः कार्यम् , दुःखानां शोषतापभेदस्तम्भोद्वेगापद्वेगाः, मूढानां आवरणसदनापध्वंसनबैभत्स्यदैन्यगौरवाणीति, तथा कारणात्मकाः श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाग्यस्तपादमायूपस्थमनास्येकादश तैर्यग्योनमानुषदैवानि बाह्याश्च भेदाः सत्त्वरजस्तमसां कार्यसमन्वयदर्शनादिति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org