________________
द्रव्यश्च भव्ये (पाणिनि ५-३-१०४) इत्युक्तत्वात् । यथोक्तं 'सदिति यतो द्रव्यगुणकर्मसु द्रव्यगुणकर्मभ्योऽर्थान्तरं सा सत्ता' इति,
(सदिति यतो द्रव्यगुणकर्मसु सा सत्ता, द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता (वैशेषिकसू. अ. १ आ.
२ सूत्र. ७-८ इति दृश्यतेऽद्यतनग्रन्थेषु ) यथोक्तं 'अर्थ इति द्रव्यगुणकर्मसु' (वैशे. अ. ८ आ. २ सू. ३) इति ।
आह च 'णिययवयणिज सच्चा सव्वणया परवियालणे मोहा । ते उण णदिट्ठसमओ विभजइ सच्चेव अलिए वा ॥' (सम्मति० का० १ गा० २८)
चक्षुर्विज्ञानसमङ्गी नीलं विजानाति नोतु नीलमित्यभिधर्मागमोऽपि, प्रकरणपदेऽप्येनमेवार्थ भावनयाऽनया विशेषयत्यर्थेऽर्थसंज्ञी न त्वर्थे धर्मसंज्ञीति ।
(अत्रेदं बोध्यम् , अभिधर्मपिटकस्य बौद्धागमस्य तद्याख्यानभूतस्य प्रकरणपदाभिख्यग्रन्थान्तरस्याभि
धर्मकोशस्य वसुबन्धुकृतस्य चानुपलम्मेनैतत्प्रकरणे मूलव्याख्याविवेकोऽस्माभिर्न सम्यगारचित इति ) एवमभिधर्मेऽप्युक्त 'धर्मो नामोच्यते नामकायः पदकायो व्यञ्जनकाय' इति । उक्तं हि वोऽभिधर्म एव 'सञ्चितालम्बनाः पञ्च विज्ञानकायाः' इति । भवतामभिधर्मपिटके यथोच्यते 'नीलं विजानाति नो तु नीलमिति । आगम एवोक्तं हि वः 'सङ्घाता एव सङ्घातान् स्पृशन्ति सावयवत्वात्' इति । यच्चाप्यभिहितमभिधर्मकोशे 'यत्तत्रानेकप्रकारभिन्न इत्यादि यावदनेकवर्णसंस्थानं पश्यतः' इति ।
संवृतिसल्लक्षणे ज्ञापकमाह-'यस्मिन् भिन्न' इति श्लोकः । (काशीविद्यापीठेन प्रकाशितेऽभिधर्मकोशे) 'भेदे यदि न तद्बुद्धिरित्यादिप्रथमादिपादभेदेन पूर्णा कारिका (कोश ६ कारिका ४) उपलभ्यते )
अभेदविषयज्ञानाभ्युपगमे च 'विजानाति न विज्ञान मित्यादि विरुध्येत । यदुक्तं वः सिद्धान्ते 'बुद्धिबोध्यं त्रयादन्यत् संस्कृतं क्षणिकञ्च तत्' इति । त्वमेवैतद्विकल्पद्वयं 'तदवस्थाः प्रत्येकसमुदिताः करणं परमाणव' इति ब्रुवाणश्चिन्तय । सर्वसर्वात्मकतायां 'श्रोत्रादिवृत्तिः प्रत्यक्षमिति ब्रुवतः (सांख्यस्य प्रत्यक्षलक्षणं भवेत् ) यदुक्तं लोकशास्त्रे 'बहिर्वस्तुस्वतत्त्वसाक्षात्प्रतिपतिः प्रत्यक्षमिति ।
नानात्वैकान्तवादेऽपि सामान्यविशेषयोः 'आत्मेन्द्रियमनोऽर्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत्' वैशे० अ० ३ आ० १ सू० १८) आत्मा मनसा मन इन्द्रियेणेन्द्रियमर्थेनेति चतुष्टयत्रयद्वयसन्निकर्षादुत्पद्यमानं प्रत्यक्षमिति (प्रशस्तपादभाष्ये प्रत्यक्षप्रकरणे चतुष्टयत्रयद्वयसन्निकः प्रत्यक्षोदाहरणानि दृश्यन्ते)
यथाचाऽऽहुः 'अस्त्यर्थः सर्वशब्दानां' ( वाक्यपदीये का० २ श्लो १२१) इति । 'लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहार' इति वचनात् ( तस्वार्थभा० अ. १ सू. ३५)
निबन्धनश्चास्य 'आया भंते नाणे अन्नाणे गोयमा ! आया सिय नाणे सिय अन्नाणे नाणे पुण नियम आया' (भग० १२ श. ३-१०) इति ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org