SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ द्वितीयारके अग्निहोत्रं जुहुयात् वर्गकामः (मैत्रा० ६ ३६)। वसन्ते ब्राह्मणो यजेत, ग्रीष्मे राजन्यः शरदि वा यजेत वैश्यः । होलाको प्राच्यै उदृषभयज्ञ उदीच्यैः, वायव्यं श्वेतमालभेत भूतिकामः, वायुर्वै क्षेपिष्ठा देवता वायुमेव खेन भागधेयेनोपधावति स एवैनं भूतिं गमयति । (तैत्ति० सं० कां० २ प्र. १ अ. १) समर्थः पदविधिः ( पाणि० २।१।११) दश दाडिमादिश्लोकवादिवत् (दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्ड इत्यादिरूपेण वाक्यानि व्याकरणमहाभाष्ये दृश्यन्ते श्लोकस्तु न दृष्टः) __ 'यच्छब्द आह तन्नः प्रमाण' मितीष्टं भवताम् । (पा. म. भा. १-१-१) यूपं छिनत्ति, पालाशं अष्टास्रमित्यादीनि ( वेदवाक्यानि ) घृतेन जुहुयात् । शूर्पण जुहोति तेन ह्यन्नं क्रियते ( इमानि यदग्नये च प्रजापतये च सायं जुहोति (मै. सं. १-८-७) सर्वाणि वेदवाक्यानि ) आह च 'पुरुष एवेद'मित्यादि । ( पुरुषसूक्ते २) यथाच 'सुदीप्तात् पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः' । (मुण्डकोपनिषत् २।११) आह च तदेजति तन्नजति तदूरे तद्वदन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥' (ईशावास्योप०१-५) आह च 'प्राप्तव्यो नियतिबले' त्यादि ( सूत्रकृ० श्रु० १ अ० १ उ० २ टीकायां दृश्यते परन्तु कारिकेयं न टीकाकृत एव, प्राचीनस्य नियतिवादिनः कस्यचिद् भवेत् ) तस्मात् 'नाभाविभावो न च भाविनाशः' इति । तथा ह्याह 'उदकं पतितं सभावकं निर्भावकञ्च' । केसि णिमित्ता नियया भवंति केसिं च णं विप्पडिएति णाणं' यथा 'कालः पचति' इत्यादि ( आवश्यक० ४ अ० दृश्यते प्राचीनेयं कस्यापि कारिका) 'काल एव हि भूतानि कालः संहारसंभवौ । स्वपन्नपि स जागर्ति कालो हि दुरतिक्रमः' इति । अत्राह च 'कः कण्टकानां' इत्यादि, 'केनाञ्जितानि' इत्यादि ( कालवादिखभाववादिमते ) तथा चाहुः 'चित्रकः कटुकः पाके वीर्योष्णः कटुके रसे । तद्वदन्ती प्रभावात्तु विरेचयति सा नरम्' इति । (चरकसंहितायां सूत्रस्थाने अध्याये २६ श्लो० ६८ कटुकः कटुकः पाके वीर्योष्णश्चित्रको मत इति पूर्वार्धे विशेषो दृश्यते ) अन्वाह च 'यथा विशुद्धमाकाशं तिमिरोपप्लुतदृष्टेः केशोण्डुकमशकमक्षिकामयूरचन्द्रिकाऽलिमात्राभिरवयवैर्विततं तथेदमप्येकममृतं ब्रह्म निर्विकारमकलुषमपि सदविद्यया कलुषत्वमिवापन्नमभेदरूपमपि सद्भेदरूपमाभाति । यथैकमप्युदकमुत्पातेऽङ्गारराशिवत् प्रज्वलदुपलक्ष्यते तथाऽस्यानेकरूपता मिथ्या एवं प्रकृतित्वमनापनमेव विकारांस्तांस्तानेव खतः सृजत्युपसंहरति च, ऋतुधामेव निर्मले नभसि तन्नर्मल्याविनाशनेनैव शक्कार्मुकशतहदमहाधनस्तनितवर्षितकरकाधारावर्षादीनिति । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy