________________
प्राव्राज्य शिक्षणं दत्त्वा कृत्वा विद्याविशारदम् । सिद्धान्तं पाठयित्वा यैर्वात्सल्यात् प्रतिपाल्य माम् ॥ १॥ पदे स्वकीये संन्यस्य ख्यातिमन्तं विधाय च । ग्रन्थमेतं समीकर्तुं प्रेरितः स्तम्भने पुरे ॥ २ ॥ कालादशुद्धिभूयिष्ठं सुविचार्य विशोधितम् । श्रीमत्कमलसूरिभ्यस्तेभ्य एनं समर्पये ॥ ३ ॥
विजयलब्धिसूरिः
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org