________________
कल्पनासमर्थनम्] न्यायागमानुसारिणीव्याख्यासमेतम् नव्यपेक्षाक्षेपदुस्तरविरोधपरिहारं खेनैवैतद्वचनेन पौर्वापर्येण प्रत्यवमृश्यमानेन विरुध्यते सदाऽहं मौनव्रतिकोऽस्मि, पिता मे कुमारब्रह्मचारीत्यादिवचनवत्, न त्वस्मद्रुपपत्तिदूष्यमिदम् । तदर्थे दृष्टान्त माह-त्वदुक्तिवदेवेदम् , यथेयं त्वदुक्तिः कल्पनात्मिका सती न प्रत्यक्षं तथैवेदमप्रत्यक्षमिति प्रतिज्ञा, कल्पनापोढलक्षणलक्षितं ज्ञानमत्र धर्मि, तदप्रत्यक्षत्वविशिष्टं साध्यते, को हेतुः ? कल्पनात्मकत्वात् ।
न त्विदमसिद्धं निरूपणविकल्पात्मकत्वात् , घटत्वादिज्ञानवत् , आलम्बनविपरीतप्रति- 5 पत्त्यात्मकत्वात् , यथाऽप्रतिपत्तिः।।
(नत्विति) न विदमसिद्धं कल्पनात्मकत्वं तस्य ज्ञानस्य कल्पनापोढत्वात् , अत्रेदं तत्साधनार्थमभिधीयते धर्मान्तरं तत्कल्पनात्मकं निरूपणविकल्पात्मकत्वात् , इदमित्थमिति ज्ञानं निरूपणं स एव विकल्पस्तदात्मकं तत्प्रत्यक्षं घटत्वादिज्ञानवदिति । आह-निरूपणविकल्पात्मकत्वमप्यसिद्धमिन्द्रियज्ञानस्येति, आचार्यस्तु तत्साधनार्थमाह-आलम्बनविपरीतप्रतिपत्त्यात्मकत्वात् , यथाऽप्रतिपत्ति- 10 रिति, द्रव्यसतामेवाणूनां नीलपीताद्याकारत्वात् संवृतिसत्त्वात्तस्यापि नीलपीताद्याकारस्य प्रत्येकं तारतम्यवत्त्वात् यथाऽप्रतिपत्तिरिति ।
स्यान्मतं द्रव्यसतामेवाणूनां नीलपीताद्याकारत्वान्न विपरीता प्रतिपत्तिरित्येतच्चायुक्तम् , आकारस्याध्यारोपात्मकत्वात् माणवकसिंहत्वाध्यारोपवत् । सदाऽध्यारोपित इति कुतो गम्यते ? सामान्यरूपविषयत्वात् , तत्सामान्यश्च कारीषतौषतार्णपार्णादिविशेषानाश्रि-15 ताग्नित्ववत् । तदप्यसिद्धमिति चेत्, सिद्धमेव तदतद्विषयवृत्तित्वात् , तैमिरिककेशोण्डुकादिज्ञानवत् ।
(स्यान्मतमिति) स चासश्च विषयौ तदतद्विषयौ, तत्र वृत्तिरस्येति तदतद्विषयवृत्ति तज्ज्ञानमनेकपरमाणुसमूहजत्वात् , तस्य समूहे तेषु च वृत्तित्वात् , समूहस्यासत्त्वात् समूहिनामेव द्रव्यसतामणूनां सत्त्वात्तयोश्चाभेदेन नीलाद्याकारपरिग्रहेण ज्ञानोत्पत्तेः, समूहासत्त्वञ्च तदग्रहे तबुद्ध्यभा- 20 वात् , बलाकापतिमुष्टिग्रन्थ्यादिवत् । उक्तञ्च "गुणानां परमं रूपं न दृष्टिपथमृच्छति । यत्तु माह सदेति। तथा च प्रत्यक्षवचनमलौकिकं पूर्वोत्तरवचनपरामर्श सति निजवचनविरुद्धत्वात् , सदाऽहं मौनप्रतिकोऽस्मीत्यादिवचनवत् , एवञ्च त्वदीयं प्रत्यक्षलक्षणं त्वद्वचनविरोधेनैव दुष्टं न त्वस्मदीयखण्डनहेतुभिर्दूष्यमित्यर्थः, तथा च कल्पनापोढलक्षणलक्षितं ज्ञानं न प्रत्यक्षं कल्पनात्मकत्वात् , सदेत्यादित्वदुक्तिवदित्यनुमानं फलितमिति भावः । द्रव्यसतामेवेति. योगाचाराणां हि त्रिविधं सत्, परमार्थसत्, संवृतिसत्, द्रव्यसत्, द्रव्यतः खलक्षणतः सत् द्रव्यसत, संवृतिः सम्बन्ध-25 स्तद्वशेन सत्यं संवृतिसत् पटोऽयमिति व्यवहारस्तन्तूनां परस्परसम्बन्धेन, विभिन्नाकारस्थानवशेन हि सनिवेशितास्तन्तवः पटपदाभिधेयाः, तत्सम्बन्धाग्रहणे न पटव्यवहारः, एवं घटोऽयमिति कथनं संवृतिसत्, घटोऽस्ति जलमस्ति इत्यादावपि तथैव रूपरसादीनां विश्लेषणे व घटः क जलम् ? अन्योऽन्यसम्बन्धेनैव व्यवहारः अत एव संवृतिसत् । वस्तुविनाशे (अपोहे )ऽपि यस्य विचारो निरन्तरं प्रवर्तते तत्परमार्थसत्, यथा रूपे परमाणुत्वं प्राप्तेऽपि रूपविचारः प्रवर्तत एव, परमस्य ज्ञानस्यार्थः परमार्थः परमार्थश्च सच परमार्थसदिति व्युत्पत्तेः । तदग्रह इति, समूहो हि परस्परसम्बन्धस्तस्य चाग्रहे 30 न तद्बुद्धिः घटादिनीलादिबुद्धिर्भवतीत्यर्थः । बलाकापतिर्बलाकासमुदायात्मिका, मुष्टिरङ्गुलिकरतलसम्बन्धविशेषः, प्रन्थिस्तन्वादीनां सम्बन्धविशेषः,एषां सम्बन्धानामग्रहे न तनुद्धिर्भवतीति भावः गुणानामिति, रूपादीनां परमार्थसद्भतानां परमाणुत्वेनेन्द्रियाविषयत्वम्, नीलाकारादिथेन्द्रियविषयः समूहात्मकतया मायाकल्पितत्वादसमेवेति भावार्थः।अन्वरोति ।अन्वयः
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org