________________
18
पदार्थविचारः] न्यायागमानुसारिणीव्याख्यासमेतम्
३०१ ज्ञत्वात् भेदाभावात् । एतमर्थमन्योऽप्यन्वाह 'शास्त्रेषु प्रक्रियाभेदैरविथैवोपवर्ण्यते । अनागमविकल्पा तु स्वयं विद्योपवर्तते ॥' (वाक्य. कां. २ श्लो० २३५) शास्त्रेषु सांख्ययोगवैशेषिकवेदशिरःप्रभृतिषु प्रकृतिपुरुषद्रव्यगुणादिमित्यानित्याद्वैतद्वैतत्रैताविपदार्थप्रक्रियाभेदैः विकल्पात्मकपदार्थप्रणयने यथाप्रक्रियमविद्यैवोपवर्ण्यते विकल्पस्यावस्तुस्वात् । विद्या तु तत्त्वज्ञानं साऽऽगमविकल्परूपा न भवितुमर्हति वाग्गोचरातिक्रान्तत्वात् तत्वज्ञानविषयानन्तात्मकैकपरमार्थस्य । यथोक्तं 'पण्णवणिज्जा भावा' (आव० । नि० ४८८) इत्यादि, आगमाभ्यासात्तु सम्यग्दर्शनज्ञानचारित्रतपोविशेषविशेषिताविद्यस्य सर्वमापविषया विद्या स्वयमेव स्वात्मनैवोपवर्त्तते, नाविद्यमाना कुतश्चिदानीयते, सा चानागमविकल्पेत्यत आह-'अनागमविकल्पा तु स्वयं विद्योपवर्त्तते' इति । तथा चान्यः 'विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः । तेषामन्योन्यसम्बन्धो नार्थ शब्दाः स्पृशन्त्यमी ॥' (न्यायमञ्जयाँ जयन्तभट्टेनोद्धृतेयम्) शब्वा इति शब्दानुमानप्रतिपत्तिहेतव इति ।
10 __ अत आह
ये त्वेते घटादिशब्दा मेघस्तनितवदेते शब्दा एव केवलाः श्रोत्रग्राह्यत्वान्नार्थस्वरूपस्य वाचकाः, नम्विदं प्रसिद्धिप्रस्तुतव्यवहारविरुद्धम्, अनोच्यते न बेमः प्रतिपादका इति, किं तर्हि ? वाचका इति ब्रूमः प्रतिपत्तृसङ्केतवशात्तदुपलक्षणत्वेन प्रतिपादकत्वं न विरुध्यते, मयूरविरुतवद्धि सकेताद्वयवहारानुपातेन । मार्थिकत्वं मतान्तरेष्वप्यभ्युपगतमिति दर्शयति-पतमर्थमिति, भेदकल्पितविकल्पस्याविद्यकत्वरूपमर्थमित्यर्थः। सांख्यमते हि भिषयोः प्रकृतिपुरुषयोरभेदज्ञाने तदन्यथाख्यापनार्थ प्रकृते दसर्जममवियाप्रयुक्तमेष, महि तादृशाविद्याभावे प्रकृतेः सर्जनं सम्भवति, पुरुषस्य अभ्यत्वज्ञापनायैव तत्सृष्ट्यभ्युपगमात् । एवं योगदर्शनेऽपि । वैशेषिकमते तु ईश्वरस्य जगत्सर्जने जीवीयादृष्टस्य निमित्तत्वात् कथञ्चिदविद्यामूलकमेव तत्सर्जनम् । वेदशिरःशास्त्रे-वेदान्तदर्शनेऽद्वैतद्वैतादिवस्तूनामेव पारमार्थिकतया भेदसर्जनमविद्यापूर्वकमेवेति विज्ञेयम् । विद्याखरूपमभिधत्ते-विद्या विति, तत्त्वज्ञानं विद्येत्युच्यते तच्च 10 म शब्दार्थः वाचामगोचरत्वात् तत्त्वज्ञानविषयीभूतस्य परमार्थस्यानन्तात्मकैकपुरुषादिवस्तुनः, अतो विद्या आगमार्थविकल्परूपा न भवतीति भावः । तत्र मानमाह-पण्णवणिज्जा भावा इति, 'प्रज्ञापनीया भावा अनन्तभागस्त्वनभिलाप्यानाम् । प्रज्ञापमीयानो पुनरनन्तभागः श्रुतनिबद्धः' इत्यावश्यकनियुक्तिगाथाछाया । आगमाभ्यासः क्वोपयोगी. स्याह-आगमाभ्यासास्विति, सम्यग्दर्शनज्ञानचारित्रतपोविशेषसमन्वितस्याविद्यावतः पुरुषस्य शास्त्राभ्यासात् खात्मनि विद्यमानैव खखरूपभूता विद्या सर्वभावविषया खात्मनैव प्रकाशतामुपयातीति भावः, अनागमेति, शास्त्रेषु प्रक्रियामेदैरविद्यैघोपवर्ण्यत इति पूर्वाधः । शब्दार्थस्य विकल्पमात्रत्वे कस्यचित् कारिकामुपन्यस्यति-विकल्पयोमय इति, शब्दा हि दुर्लभवस्तुसंपर्कविकल्पमात्राधीनजम्मानस्तिरस्कृतबाह्यार्थसमन्वयान् बिकल्पप्रायान् प्रत्ययानुत्पादयन्तो दृश्यन्ते अडल्यग्रे हस्तियूधशतमास्त इति, खमाव एव तेषामर्थासंस्पर्शित्वमित्यर्थः । योनिपदेन शब्द विकल्पयोः कार्यकारणभावः प्रकाशितः, शब्दा इत्यनेन लिङ्गोऽपि विवक्षित इत्याह-शम्दा इतीति । अथैते घटपठादिशब्दा नार्थखरूपप्रतिपादकाः, श्रोत्रप्रास्यत्वात् , मेघस्तमितवदित्याशते-खेतात. अर्थप्रतिपादनसमर्थत्वेनामिमताशब्दाः पक्षतयेष्टा न तु शब्दमा बाधितत्वादिप्रसङ्गादित्याशयेन ध्याचष्टे-घटादीति,वाचका इति मूलस्थपदस्याग्रिमशङ्कासमाधानानुसारेणार्थमाह-प्रतिपादका इति प्रतिपत्तिजमका इत्यर्थः । यद्यत्र प्रतिभाति तत्तस्य विषयः, यथाऽक्षजे संवेदने परिस्फुटं प्रतिभासमानवपुरर्थात्मा नीलादिस्तद्विषयः, शब्बजे लिपजे च संवेदने बहिरर्थस्वतत्त्वप्रतिमासरहितं खरूपमेव चकास्ति, अतः परिहृतबहिरर्थसम्बन्धः संविद्वपुरेव तस्य विषयः, न तु बहिरर्थः शब्दलियोर्विषयः, यदि विषयो भवेत् तदा सम्बन्धवेदनं विनैव ताभ्यामर्थप्रतीतिः स्यात्, न च सम्भवति शब्दलियोरथे सम्बन्धवेदनम्, सम्बन्धप्रतिपत्तिकालेऽर्थस्येन्द्रियगोचरत्वे तेनैव तस्य स्फुटमवभासाच्छन्दादिव्यापारस्य वैया प्रत्यक्षाभावेऽनुमानानवताराच । तस्माच्छन्दादिभ्यो बहिरासंस्पर्शिम्यः कल्पनाः प्रसूयन्ते
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org