________________
३०२ द्वादशारनयचक्रम्
[विधिविध्यरे (ये त्वेत इति) ये त्वेते घटादिशब्दा मेघस्तनितवदेते शब्दा एव केवला नार्थस्वरूपस्य वाचकाः, घटादिप्रतिपादनसमर्थाभिमता न प्रतिपादका इत्यर्थः । नन्विदं प्रसिद्धिप्रस्तुतव्यवहारविरुद्धं त्वयोक्तम् , अर्थस्याप्रतिपादका घटादिशब्दा मेघस्तनितवत् श्रोत्रग्राह्यत्वादिति, घटादिशब्दा इति च त्वद्वचनादेव तेषां घटाद्यर्थप्रतिपादनदर्शनादिति, अत्रोच्यते न ब्रूमः प्रतिपादका इति, किं तर्हि ? । वाचका इति ब्रूमः प्रतिपत्तृसङ्केतवशात्तदुपलक्षणत्वेन प्रतिपादकत्वं विकल्पात्मनोऽर्थविषयस्य न विरु
ध्यते, यस्मात् मयूरविरुतं सङ्केताद्व्यवहारानुपातेन, यथा मयूरविरुतं त्रासमदहर्षस्थानगमनाद्यन्यतमावस्थाविशेषसहचरं श्रुतचरं तथोत्तरकाले कृतसङ्गतेः पुरुषस्य तादृग् विज्ञानमादधाति, एवं पुरुषोऽपि घटपटादिशब्दोच्चारणेन पूर्वसङ्केतवशात् पुरुषान्तराय स्वाभिप्रायमर्पयतीति न प्रसिद्धिव्यवहा
रविरोधौ, तथैवाचेतनशब्देष्वपि कालाकालमेघस्तनितादिषु सङ्केतादेव शुभाशुभादिपरिज्ञानं दृश्यते । 10 अथवा ते सर्व एव शब्दास्तस्यैव चैकस्य ब्रह्मणो लक्षणार्थाः तदेकदेशत्वात् प्रागभिहि.
तप्रत्यक्षप्रसिद्धिवत्, यथा गौर्विषाणी ककुद्मान प्रान्तेवालधिःसास्त्रावानिति, एवञ्च कृत्वाऽऽहु:-सर्वधातवो भुवोऽर्थमभिदधतीति। ____(अथ वेति) अथवा किमनेन प्रसिद्धिव्यवहारविरोधपरिहारपरिक्लेशेन ? अयमेव सुश्लिष्टः
परिहारो व्यापी च तद्यथा-ते सर्व एव शब्दास्तस्यैव चैकस्य ब्रह्मणः-पुरुषाद्यन्यतमविधिविधिनयवि15 कल्पस्य यथोपपादितस्य त्वया रुचितस्यान्यतमस्य लक्षणार्थाः, तदेकदेशत्वात्, प्रागभिहितप्रत्यक्षप्रसिद्धिवत् यथा गौर्विषाणी ककुद्मान प्रान्तेवालधिः सानावानिति, यथैते विषाण्यादिशब्दाः गोरेकदेशवाचित्वासदुपलक्षणार्थाः प्रसिद्धाः, सङ्केतवशात् गोरेव वाचकाः, तदवयवानां तस्मादभिन्नत्वात् , एवं सर्वशब्दास्तदवयवानां ततोऽपृथक्त्वात् तस्यैव ब्रह्मणो वाचका इति वाचकत्वेऽप्युपपन्नः प्रसिद्धिव्यवहारावि
ताभ्यश्च शब्दा इति कार्यकारणभावमात्रं तत्त्वं न वाच्यवाचकभाव इति भावः । ननु घटादिशब्दा इत्यनेन घटा20 द्यर्थप्रतिपादकाः शब्दा विवक्षणीयाः, अन्यथा धर्मिज्ञानमेव न स्यात्, तथा च घटाद्यर्थप्रतिपादकाः शब्दा नार्थ
प्रतिपादका इति पक्षनिर्देशो व्याहतार्थः, तथा लोके घटादिशब्दा घटाद्यर्थप्रतिपादका इति व्यवहारश्च प्रसिद्धः तद्विरोधश्च स्यादित्याशङ्कते नन्विदमिति, घटादिशब्दा नार्थस्य वाचका इति प्रतिज्ञानमित्यर्थः । भ्रान्तोऽसि, न वयं घटादिशब्दा नार्थस्य प्रतिपादका इति वदामः किन्तु नार्थस्य वाचका इति. तथा प्रतिपत्तिशब्दयोजन्यजनकभावं
न निषेधयामः, अपि तु शब्दार्थयोर्वाच्यवाचकभावमेव, तेन शब्दानां स्वाभिप्रायानुसारेण प्रतिपत्रा कृतसङ्केता25 नामर्थविषयविकल्पद्वारेणोपलक्षणतया प्रतिपादकत्वं न विरुद्धमित्याशयेनाह-न ब्रूमः प्रतिपादका इतीति । प्रदर्शितं दृष्टान्तं सजमयति-यथेति, यादृशयादृशत्रासाद्यन्यतमावस्थासहकृतं यादृशयादृशमयूरविरुतं प्रतिपत्रा श्रुतं स एव प्रतिपत्ता यदा कालान्तरे तादृशतादृशमयूरविरुतं शृणोति तदा तत्तस्य तादृशताहशत्रासाद्यवस्थापरिज्ञानं जनयति, तत्तदवस्थाविशेषेण तत्तद्विरुतस्य पूर्व तेन प्रतिपत्रा सङ्केतस्य गृहीतत्वादिति भावः । एवं दार्टान्तिकमपि सङ्गम
यित्वा विरोधमुत्सारयति-एवं पुरुषोऽपीति । एवमेव सङ्केतबला देव मेघगर्जनादयः सकाला अकालाश्च शुभाशुभ30 फलज्ञानं पुरुषस्य जनयन्तीत्याह-तथैवेति । अथ प्रसिद्धिव्यवहारविरोधपरिहारार्थ शब्दानामवाचकत्वपक्षे क्लेशस्य
महत आदरेणालम् , शब्दानां वाचकत्वेऽीकृतेऽपि न विरोधः सम्भवतीति समर्थयितुमाह-अथवेति, यथा गुणवाचका नीलादिशब्दगुणद्वारेण गुणिनं बोधयन्ति यथा चैत्रमैत्रादिशब्दाः तत्तच्छरीरद्वारेण तत्तदात्मवाचकास्तथैव घटपटादिशब्दा घटपटादिद्वारेण तदात्मनो ब्रह्मणो बोधका इत्याशयेनाह-ते सर्व एव शब्दा इति, "विषाणी
ककुमान् प्रान्तेवालधिः सानावानिति गोत्वे दृष्ट लिङ्गम्' (वैशे० अ०२ आ० १सू०८) इति सूत्रोक्ता विषाण्यादिशन्दा.. 35 विषाणायेकदेशप्रतिपादनद्वारेण गोर्वाचकाः, अवयवावयविनोरभेदात् तथा सर्वे शब्दा इत्याह-यथा गौर्विषाणीति।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org