________________
२९२
द्वादशारनयचक्रम्
[विधिविध्यरे प्रविभक्तत्वादर्थानां भेदेन गृह्यमाणानां कथं भेदाभावः ? पूर्वोत्तरशब्दाभ्यां देशकालपरिमाणक्रमा अपि गृहीताः, एवं प्रत्यक्षतो ग्रहणम् , अभेदश्च न गृह्यते, प्रत्यक्षत एवेति वर्त्तते ।। __ अत्रोच्यते, नास्ति किञ्चिद्भावव्यतिरेकेण पूर्वमुत्तरं वा, ततः किं तदपूर्व यदुत्पद्यते पूर्व वा विनश्यतीति पूर्वोत्तरादिदिक्कालोत्पत्तिविनाशवस्तुप्रविभागाभावात् किं तत् प्रविभक्तं प्रविभज्यते प्रविभक्ष्यते वा ? अतो नाभावो भेदो भवति ।
अत्रोच्यत इति, पूर्वोत्तरादिभेदाभावं प्रतिपाद्य प्रत्यक्षत्वाभावश्च प्रतिपादयिष्यन् भेदाभापप्रतिपादनार्थं तावदाह-नास्ति किञ्चिदिति । भावव्यतिरेकेण किश्चित् पूर्वमुत्तरं वा नास्त्येव प्रागुक्तकारणत्वात् , ततः किं तदपूर्व यदुत्पद्यते, पूर्व वा विनश्यति ? इति, पूर्वोत्तरयोरभावादेवोत्पत्तिविनाशौ न स्तः, तत एव वस्तुप्रविभागोऽपि, तस्मात् पूर्वोत्तरादिदिकालोत्पत्तिविनाशवस्तुप्रविभागाभा10 वात् किं तत् प्रविभक्तं प्रविभज्यते प्रविभक्ष्यते वा? यत्तदेवंधर्म तदेव नास्तीति नापूर्व भावादन्यत पूर्वोत्तराद्यस्त्यतो नाभावो भेदो भवति ।
कथं तर्हि भेदप्रत्यक्षता इति चेदुच्यते___ स एव ह्युत्पाताधुदकाग्निवत्तद्विरोधिधर्मापत्त्याऽन्यथा वर्तमानोऽन्यथापि वर्तत एव । भिद्यमानं हि वस्त्वेवं भिद्यते स्वरूपादविपर्ययगत्या, यद्यभावो भावो भवेत् स तु न भिद्येत 15 कथञ्चित् । उपचितापचितभवनो वा स एव भावो न भिद्यत इति न काचिदवस्था दधिघटादिरादिनिधनविभागवती, क्षीरदध्याद्यवस्थास्वेकरूपत्वाद्भवनस्य ।
स एव ह्युत्पातायुदकाग्निवदिति, यावदन्यथापि वर्तत एव, यथोत्पाते ज्वलनमुदकस्य शीतद्रवादिगुणस्य सतोऽपि तद्विरोध्यग्निधर्मापत्त्या दृष्टो भेदोऽन्यथा वर्तमानस्यान्यथावर्त्तनम् ,
आदिग्रहणानिध्युपलब्धित्वेन भूम्यबादिवर्तनं भेदेन । तद्यथोक्तं महाकालमते 'ऊष्मा सहस्रसंख्ये 20 धूमो लक्षे ज्वलनं कोटौ' इति । तथा चित्रकर्मादी हसनरोदनस्थानसंक्रान्त्यादिभेदरूपेण स एव भावो
भवतीति तस्मान्नास्ति भेदः । भिद्यमानं हि वस्त्वेवं भिद्यते स्वरूपादविपर्ययगत्या, ययभावो भावो
नानां निर्विषयत्वप्रसङ्गः, अतः पूर्वादिप्रतिभासनमेव भेदप्रतिभासनमिति भेदस्य प्रत्यक्षग्राह्यतेति भावः । पूर्वोत्तरशब्देनोपलक्षितानाह-पूर्वोत्तरेति देशशब्देन पृथुबुनादयो घटादेरवयवा ग्राह्याः। कालभेदेन यथा मासिकोऽयं सांवत्सरिकोऽयं घट
इत्यादि,परिमाणभेदेन यथा-महानयं दीर्घोऽयं हखोऽयमित्यादि । अथ पूर्वादयो न भावव्यतिरिक्ताः सन्ति, भावव्यतिरिक्तत्वे 25 हि भवनधर्मत्वाभावाद्गगनकुसुमवदेवाभावस्तेषामतो न तैरर्थानां भेदोऽभूद्भवति भविष्यति वेति भेदस्यैवासिद्धेः कथं प्रत्यक्षप्रा
ह्यत्वमित्युत्तरयति-नास्ति किश्चिदिति । यत्तदेवमिति । यत्तदेवंप्रकारः पूर्वोत्तरादिरूपो धर्मो यस्य वस्तुनस्तदेवं. धर्म पूर्वोत्तरादिविशिष्टं घटादिवस्तु नास्तीति भावव्यतिरिक्तं पूर्वोत्तरादि न विद्यतेऽत एव नाविद्यमानाद्धटपटादिभेदो भवितुमर्हतीति भावः । ननु तर्हि भेदस्याभावे कथं पूर्वोऽयमुत्तरोऽयमूोऽयमधरोऽयमित्यादिभेदस्य प्रत्यक्षत्वमित्यत्राह-स
एवेति । यथोत्पात इति, यथा हि उत्पातसमये शीतस्पर्शद्रवत्वादिगुणविशिष्टं तोयः तद्विरोध्यमिधर्मापत्त्या ज्वलनरूपतया 30 भवति स एवान्यथा वर्तमानस्यान्यथा वर्तनलक्षणो भेदः तथा निध्यादिरहितस्य भूम्यादेर्निध्यादिविशिष्टतया वर्तनमेव भेद
इति भावः । तत्र प्रमाणभूतं श्लोकमाह-ऊष्मेति, उदके सहस्रसंख्यावदणुप्रवेशे ऊष्मा भवति लक्षसंख्याणुप्रवेशे धूमो जायते कोटिसंख्याणुप्रवेशे चोदकस्य ज्वलनं जायत इति तदर्थः । दृष्टान्तान्तरमाह-तथा चित्रेति । भेदप्रतीतिमुपपादयतिभिधमानं हीति, वस्तु खखरूपमजहदेव भिद्यते इत्यर्थः, यद्यभावोऽपि भावः स्यात्तर्हि अभावाभावयोमेंदो न स्यात्,
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org