________________
मैदस्याप्रत्यक्षता] न्यायागमानुसारिणीव्याख्यासमेतम्
२९३ भवेत् भावस्ततो न भिद्येत कथञ्चिदित्यभावो न भवति । भावादभावो हि भिन्नः, उपचितापचितभवनो वेति स एव भावो न भिद्यत इति, कथञ्चिदुपचितापचितभवनो वेति सम्बन्धः, यावद्भवितव्यं तावदेव न न्यूनो नाधिको वा भवति स भावः। इतिशब्दो हेत्वर्थे, उपचितापचितभवनाभावे दधिघटाद्यवस्थानामादिनिधनविभागाभावदर्शनादिति हेतुः, तं दर्शयितुमाह-इति न काचिदवस्था दधिघटादिरादिनिधनविभागवती-आदिः प्रागविद्यमानस्योत्पत्तिः, निधनं विद्यमानस्य विनाशः, विभागोऽन्य- 6 त्वम् , एते चादिनिधनविभागा दधिघटाद्यवस्थानां न सन्ति, पूर्वोत्तरोत्पत्तिविनाशवस्तुप्रविभागाभावस्य प्रतिपादितत्वात् ततस्तदभावात् नोपचीयते नापचीयते चासौ भावः क्षीरदध्याद्यवस्थास्वेकरूपत्वाद्भवनस्य मृत्पिण्डघटाद्यवस्थासु चेति ।
एतस्य हेतोरसिद्धिं परिहरन् परपक्षेऽनिष्टापादनेन तत् साधयति
यदि स्यात् सा खपुष्पावस्थापि तत्रयधर्मा स्यात् सर्वतो व्यावृत्तत्वात् दधिघटवत् । 10 महापृथिवीवियदवस्थे सादिनिधनविभागे स्याताम् , इतरेतरासत्त्वात् घटवत्, घटोऽपि वाऽनादिः अत एव, आकाशमहापृथिवीवदिति ।
यदि स्यादित्यादि, आदिनिधन विभागवती यदि स्यात् सा दधिघटाद्यवस्था खपुष्पावस्थापि तत्रयधर्मा स्यात् , सर्वतो व्यावृत्तत्वात् , दधिघटवत् । सर्वतो व्यावृत्तत्वं च सिद्धं घटस्य, दधिघटाधवस्थानाश्च भेदाभ्युपगमात् । तथानिच्छतस्तद्विपर्ययेण खपुष्पधर्मापादनं घटस्य, गतार्थ साधनद्वयम् 15 महापृथिवीवियदवस्थे सादिनिधनविभागे स्यातामितरेतरासत्त्वात् , घटवत्, घटोऽपि वाऽनादिःअनाविरनिधनो निर्विभागश्च स्यादत एव-इतरेतरासत्त्वादेव आकाशमहापृथिवीवदिति, घटभेदाभ्युपगमेनैवैतत्साधनमनिष्टापादनमिति । एवं तावदुपचितापचितभेदाभावः ।
यदप्युक्तं प्रत्यक्षत एव भेदो गृह्यत इति
तहणमपि नैव भेदस्याभावादेव, अभावः कल्पनात्मकत्वात् , कल्पनात्मकश्चासन् , 30 बस्तुनोऽन्यथात्वात् , सा च कल्पना देशतः कालतो वा स्वरूपत एव भिन्नेष्वर्थेष्वभेदकल्पना
भवनस्य खरूपस्यात्यागेनोभयोर्भावत्वप्रसङ्गात् ; भावाद्भिनो ह्यभावः, तस्मान्नाभावो भवतीति भावः । न न्यून इति, मापचयभाव इत्यर्थः, नाधिको वेति न वोपचयभाव इत्यर्थः, न हि भावस्योपचयापचयभावो भवतीति भावः । अत्रार्थे हेतुमाह-उपचितापचितेति । कुत आदिनिधनविभागा दध्यादीनां न सन्तीत्यत्राचष्टे-पूर्वोत्तरेति । तदभावादिति, पूर्वोत्तरोत्पत्तिविनाशवस्तुप्रविभागाभावादित्यर्थः । उपचयाद्यभावे साधनमाह क्षीरदध्यादीति, तत्रयधर्मेति आदिनि- 25 धनविभागवतीत्यर्थः, तत्र हेतुमाह-सर्वतो व्यावृत्तत्वादिति, सर्वस्माद्भिनत्वादित्यर्थः । तत्रासिद्धिं वारयति-सर्वत इति । यदि तथापि खपुष्पावस्थायाः तत्रयधर्मत्वं नाङ्गीक्रियते तर्हि तद्वद्धटाद्यवस्थानामपि तत्रयधर्मता न स्यादित्याहतथानिच्छत इति । आदिनिधनविभागाभावे भवनस्यैकरूपत्वं सर्वतो व्यावृत्तत्वञ्च हेतुद्वयं स्फुटार्थमित्याह-गतार्थमिति । सर्वतो व्यावृत्तत्वाभ्युपगमे दोषान्तरमाह-महापृथिवीति, एतयोर्नित्यत्वाभ्युपगमादनिष्टप्रसञ्जनं बोध्यम् तथाप्येतयोरनादिनिधनविभागात्मकत्वे घटादिरपि तथा स्यादित्याह-घटोऽपि घेति । इतरेतरासत्त्वं-भेदस्तस्य घटा-30 दावभ्युपगम्यैवायमनिष्ट आपाद्यत इत्याह-घटमेदेति । भेदस्य प्रत्यक्षेण यद्हणं पूर्वमभिहितं तदपि न युक्तं भेद स्यैव प्रत्यक्षविषयतयाऽभिमतस्य खपुष्पवदभावात्, अन्यथा तस्यापि प्रत्यक्षतो ग्रहणं भवेदित्याह-तब्रहणमपीति । कथं मेदस्याभावः प्रत्यक्षतो गृह्यमाणस्य, अन्यथा भावस्थापि अभावप्रसङ्गादित्याशङ्कायामाह-अभाव इति । भावस्यै.
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org