________________
ર૭૮
द्वादशारनयचक्रम्
[विधिषिध्यरे .. (प्रवृत्तीति) प्रवृत्तिनिवृत्त्योरानर्थक्ये किंकृता किंफला वा प्रवृत्तिरतः स्वभावानुरूपप्रवृत्तिप्रतिज्ञाव्याघात इति चेन्न व्याघातः, तत्स्वाभाव्यादेव, यस्मात् प्रवर्त्तिव्यमित्येव प्रवर्तन्तेऽप्रतर्कतो वस्तुनि, प्रकृष्टस्तर्कः प्रतर्कः, अनेनोपायेनार्थस्य सिद्धिरिति य ऊहः स तर्कः, न प्रतर्कोऽप्रतर्कोऽप्रतर्कत एव वस्तुनि प्रवर्तितव्यमित्येव प्रवर्त्तन्ते स्वभावादेव, यथा-अक्षिनिमेषधातुकण्टकादिवत् , यथाऽक्षिनिमेषो. उन्मेषावनर्थकावबुद्धिपूर्वी च, पुरुषेणाऽऽहताहारस्य रसरुधिरमांसमेदोऽस्थिमज्जाशुक्रादित्वेन विभजनम् , कण्टकतीक्ष्णभवनश्चेत्येवमादिप्रवृत्तयस्तथा घटादिफलस्वभावानुरूपाः प्रवृत्तयोऽप्रतर्कत एवेति ।
एवञ्च लोकप्रसिद्धिवशाधदि हेतुतो यद्यहेतुतो यदस्तु तदस्तु. उभयथापि स्वभावानतिवृत्ति, तत्रानादिप्रवृत्तस्वभावकारणमात्मभवनमाविर्भावतिरोभावरूपेणैकं नित्यमिति न
तस्योत्पादो विनाशो विपरिणामो वा, ततोऽनादिप्रवृत्तस्वभावकारणव्यत्यासे हिताहितप्राप्ति10 परिहारार्थशास्त्रव्यर्थता, पुरुषस्य क्रियायाः फलस्य च तथाऽस्वभावत्वात् , ततोऽन्यथोत्पादविनाशविपरिणामेभ्यः घटार्थ प्रवृत्तेषु पट उत्पद्येत विनाशार्थं प्रवृत्तेष्वविनाशो विपरिणामार्थ प्रवृत्तेष्वविपरिणामश्चेति स्वभावानियमान्नोत्पादविनाशविपरिणामाः सन्ति ।
एवञ्चेत्यादि, एवञ्च कृत्वा लोकप्रसिद्धिवशाद्यदि हेतुतो यद्यहेतुतो यथासंख्यं घटकण्टकादि बुद्ध्यबुद्धिपूर्वनिर्वृत्ताभिमतं यदस्तु तदस्तु, उभयथाऽपि स्वभावानतिवृत्ति, एवमेतदात्मभवनमनादि16 प्रवृत्तखभावकारणं जगतः पृथिव्यब्बीजाङ्करादिषु स्थिरद्रवादिस्वभावाविर्भावतिरोभावादिरूपेणैकं नित्यञ्च नोत्पद्यते न विनश्यति न चान्यथा भवतीति प्रतिपत्तव्यम् , उत्पाद विनाशविपरिणामानामनादिप्रवृत्तस्वभावकारणविरोधित्वात् , एवञ्च तत्रानादिप्रवृत्तस्वभावेत्यादि यावद्विपरिणामो वेति, पूर्वपक्ष उत्तानार्थः, उत्तरपक्षस्तु ततोऽनादिप्रवृत्तस्वभावकारणव्यत्यासे इति प्रत्युच्चारणमात्मभवनविपयेये, दोषः हिताहितप्राप्तिपरिहारार्थशास्त्रव्यर्थता-धर्मार्थकाममोक्ष फलप्राप्त्युपायविधानार्थानि तदपाय20 परिहारार्थानि च शास्त्राणि व्यर्थानि स्युः, किं कारणं ? पुरुषस्य क्रियायाः फलस्य च तथाऽस्वभावत्वात्-कर्तृकरणकर्मादिसाधनानां तदङ्गसम्पन्नायाः क्रियाया धर्मार्थकाममोक्षाणामन्यतमस्य तत्फलस्य वाऽन्योऽन्यानुरूपेणानात्मत्वादित्यर्थः, परस्परानुरूपानभ्युपगमेऽन्यथोत्पादोऽन्यथा विनाशोऽन्यथा
वेति । तर्कशब्दार्थमाह-अनेनेति । दृष्टान्तमाकलयति-यथेति । उपसंहारमाह-एवञ्चेति, खभावस्यैव सर्वत्र नियाम• कत्वे सिद्धे लोके या बुद्धिपूर्वा दण्डचक्रादिसाधना घटादिप्रवृत्तिः या च निर्हेतुकाऽबुद्धिपूर्वा च कण्टकादि प्रवृत्तिः सा सर्वापि 25 खभावादेव भवति, एवं खरूपतो भवनमानादितः खभावादेव प्रवर्तते, अत एवाविर्भावतिरोभावेण भूम्यबादिव्रीह्यकुरादि
मृद्घटादिखभावो नित्य इति नापूर्वतया प्रयत्नादितः कोऽप्युत्पद्यते विनश्यत्यन्यथा भवति वेति भावः। उत्पादविनाशविपरिणामानामभावे हेतुमाह-उत्पाद विनाशेति. अनादित आविर्भावतिरोभावादिरूपेण प्रवृत्तः खभावहेतुकत्वात्तेन सहोत्पादा
दीनां विरोधित्वमिति भावः । पूर्वपाठ इति स्यादिति भाति, पूर्वोत्तरपक्षयोरनिर्देशात्, एवमुत्तरपाठ इत्यपि। । अनादिप्रवृत्तेति, यदि आत्मभवने कारणमनादितः प्रवृत्तं खभावरूपं न भवेत्तदा हिताहितप्राप्तिपरिहारप्रयोजनशास्त्रसा30 थक्यं दुरापास्तं भवेत् , यतो धर्मादिफलप्राप्युपायः कदाचिदधर्मादिफलप्राप्युपायोऽपि भवेत् , अतत्वभावत्वादिति भावः।
एनमेवार्थमाह-पुरुषस्येति, पुरुषपदविवक्षितमाह-कर्तृकरणेति, क्रियापदार्थमाह-तदङ्गसम्पन्नाया इति, तस्या अङ्गभूतेभ्य कर्तृकर्मादिभ्यः समधिगताया इत्यर्थः । फलपदं व्याचष्टे-धर्मार्थेति । तथाऽखभावत्वपदं व्याख्याति-अन्योऽ. न्येति. परस्परं योग्यखभावताविरहादित्यर्थः । तत्रानिष्टमाह-परस्परेति । तथाऽभावत्वादिति हेतोः समर्थनपर ततोऽन्य
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org