________________ 304 द्वादचारजयचकम् [विधिविध्यरे सर्वाण्येकस्यैव सर्वत्वादिति / चरितार्थ एष द्रव्यार्थों विधिविधिनयः / हेतो ऽस्मात्-सङ्ग्रहदेशत्वाचास्य द्रव्यार्थतेति सङ्घहो द्रव्यार्थः। स पुनर्द्विविधः सङ्घन्हो देशसङ्ग्रहः सर्वसङ्कन्हश्चेत्येवमादिशतप्रस्ता. रोऽसौ / आर्षे शतभेदश्रुतेर्नयानाम् , यथोक्तं 'एकेको य सयविहो सत्तनयसता हवंति एमेव" इति, (आ० भा० 226 नियु० 2264) सजन्हस्यापि द्रव्यार्थता 'तित्थयरवयणसंगहविसेसपत्थारमूलB वागरणी / दवढिओ य पज्जवणओ य सेसा वियप्पासिं' // इति (संमति० को० 1 गा० 3) वचनात् द्रव्यार्थसमासश्चादिनये व्याख्याता, तस्मात् सङ्ग्रहदेशत्वात्तदवयवत्वादस्य द्रव्यार्थतेति / द्रव्यशब्दस्य कोऽर्थः ? द्रवतीति द्रव्यम् , गुणसन्द्रावो द्रव्यम् , द्रव्यं भव्यं योग्यम् , भूप्राप्तौ इति प्राप्तियोग्यमिष्टार्थप्राप्तियोग्यं दारु, क्रियावदादिलक्षणं द्रव्य मित्येवमादि यथासम्भवं लक्षणं वाच्यम् / इह तु भवतीति भावः, प्राच्यचतुष्टये पुरुषादिस्वभावान्ते, भवनं भावोऽन्त्ये पूर्वोक्तवत् पूर्वबिरुद्धत्वा10 नयानाम् / द्रवति भवति गच्छति सततमिति द्रव्यम् , गत्यात्मकत्वात् , 'द्रव्यश्च भव्ये' इति वचनात् , न विकारावयवौ विधिविधिनयायुक्तत्वाद्गतार्थम् / किमेतत् सामान्यवादिना खमनीषिकयोच्यते त्वया, आहोविदार्षेऽपि निबन्धनमस्य दर्शनस्यास्ति यत एतनिर्गतमिति ? अनास्तीत्युच्यते-निबन्धनमस्य सोमिलब्राह्मणप्रश्ने 'किं भवं ? एक्के भवमित्यादिके व्याकरणे' 'सोमिला ! एगेवि अहं दुवे वि अहं, अक्खए वि अहं, अवए वि अहं, अवट्ठिए वि अहं, अणेगभूयभावभविए वि अहं' (भग० श.१८ उ० 15 10 सू० 647) इत्यादि निबन्धनमिति / एवं द्वितीयो विधिविध्यरः सविकल्पो नयचक्रस्य समाप्तः॥ शत्वात्, शब्दस्य स्फोटलक्षणस्य विभागो नास्ति, कुतस्तद्वाच्यस्य प्रभारूपस्यार्थस्य विभागः / / मूढ एव विभागेन प्रक्रियामेदं प्रक्रियामेदे चार्थभेदमसत्यमपि प्रतिपद्यत इति भावः। तित्थयर इति, 'तीर्थकरवचनसङ्ग्रहविशेषप्रस्तारमूलव्याकरणी। द्रव्यार्थिकश्च पर्यवनयश्च शेषा विकल्पास्तयोः' इति छाया, तदर्थश्च तीर्थ द्वादशाङ्गं -तदाधारो वा सङ्घः तत्करणात् तीर्थकर20 नामकर्मोदयाद्वा तीर्थकरा ऋषभादयः, तेषां वचनमाचारादि, तस्याभिधेयभूती सङ्ग्रहविशेषौ द्रव्यपर्यायौ तयोः प्रस्तारो विस्तारः तत्र सामान्यप्रस्तारस्य सङ्ग्रहव्यवहाररूपस्य विशेषप्रस्तारस्य ऋजुसूत्रशब्दादेरनुक्रमेण मूलव्याकरणी आद्यवक्ता व्यार्थिकः पर्यवनयश्च, शेषा नैगमादयोऽनयोरेव विकल्पा मेदा इति / एतेन सङ्घहस्य द्रव्यार्थत्वं विज्ञेयम् , तदवयवः देश: पुरुषादिवादाः, अत एषामपि द्रव्यार्थत्वमिति भावः / द्रव्यार्थशब्दस्य समासस्तु विधिनयान्ते प्रदर्शित एवेत्याह-द्रव्यार्थसमासश्चेति, द्रव्यस्य लक्षणप्रदर्शनाय सामान्येन द्रव्यशब्दार्थ व्याकरोति-द्रव्यशब्दस्येति / विधिनये दुर्गतिर्यात्रा द्रोरवयवो द्रव्य मिति व्युत्पादितः तस्य व्यवहारदेशत्वात्, विधिविधिनयस्य च सङ्ग्रहदेशत्वात् कथमस्य द्रव्यार्थता व्यवहारदेशत्वाभावादित्यत्राह-इह स्विति / विधिविधिनये इत्यर्थः, तत्र पुरुष नियतिकालखभावलक्षणचतुष्टयवादेषु भवतीति भावो द्रव्यशब्दार्थः, अन्ये च भाववादे भवनं भाव इति द्रव्यशब्दार्थो विज्ञेय इति भावः। विकारोऽवयवो वा न द्रव्यशब्दार्थ इत्याह-न विकारावयवाविति / एतेषां वादानां मूलनिबन्धनं पृच्छति-किमेतदिति / सोमिला एगेइति, हे सोमिल! एकोऽयमद्रावप्यहम्, अक्षयोऽप्यहम् , अव्ययोऽप्यहम् , अवस्थितोऽप्यहम्, अनेक तभावभविकोऽप्यहमिति छाया // इति बिजयलब्धिसूरि विरचिते विषमपदविवेचने नयचकस्य 30 - द्वितीयो विधिविध्यरः समाप्तः॥ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org