________________
२८२ द्वादशारनयचक्रम्
[विधिविध्यरे तदुपायस्वभावो मोक्ष इति-सम्यग्दर्शनादिरत्नत्रयोपायसम्पन्नभव्यकर्मसन्तानात्यन्तोच्छेदस्वभावो मोक्ष इति । एवन्तावद्भव्यसंसारोच्छित्तावभव्यसंसारानुच्छित्तौ च हेतुवादे चोदिते स्वभावाश्रयेण परिहार उक्तः, एवं सर्वचोद्येष्वतिदेश्यः, यथा भव्याभव्यसंसारोच्छित्त्यनुच्छित्योर्विशेषहेतुर्वाच्य इति चोदिते स्वभावादेवेति व्यवस्थोक्ता तथा जीवाजीवरूप्यरूपिसक्रियाक्रियत्वादिविशेषाः कुत इति 5 चोदिते स्वभावादेव तस्य व्यवस्था समाश्रयणीया ।
स्वभावानभ्युपगमे तु साधनदूषणाभावाद्वादहानं ते प्राप्तम् , यथा पक्षहेतुदृष्टान्तादयः साधनं तद्दोषोद्भावनं दूषणञ्च स्वेन भावेन व्यवस्थितमन्यथा न साधनं न दूषणञ्च स्वभावापेतावयवार्थत्वात् , तस्मात् स्वभाव एव प्रभुत्वविभुत्वाभ्यां कारणं जगतः।
खभावानभ्युपगमे त्वित्यादि यावद्वादहानं ते इति, यदि स्वभावो नाभ्युपगम्यते ततः 10 साधनदूषणाभावस्ततो वादत्यागः, तद्यथा पक्षहेतुदृष्टान्तादयः खेन भावेन सम्पन्नाः साधनम् , पक्षः
साध्यत्वेनेप्सितोऽविरुद्धोऽनिराकृतः, हेतुः पक्षधर्मः सपक्षे सति विपक्षाघ्यावृत्तः, दृष्टान्तः साध्यानुगतहेतुदर्शनं, असति साध्ये हेत्वसत्त्वप्रदर्शनश्च तद्विपर्यये तदाभास इति साधनं स्वेन भावेन भवति,
तत्साधनदोषोद्भावनं दूषणं तदन्यथोक्तिर्दूषणाभास इति च वेन भावेन व्यवस्थितमभ्युपगम्य साधनं - दूषणं तदाभासञ्च विवदिषुरसि संवृत्तः, अन्यथा न साधनं न दूषणञ्च खभावापेतावयवार्थत्वादिति 15 वादत्यागस्ते प्राप्तः, तस्मात् प्रभुत्वविभुत्वाभ्यां स्वभाव एव कारणं जगत इति । एवं तावत्स्वभाववादः ।
अनया च दिशा शब्दब्रह्मतत्त्वभेदसंसर्गरूपविवर्त्तमात्रमिदं जगदित्यादिकारणवादा भिद्यन्ते संज्ञाभेदात् , ते पुनः सर्वेऽपि परमार्थद्रव्यार्थस्य विधिविधिनयस्य स्वरूपमस्पृशन्त एव प्रवर्तन्ते, संक्षेपेणायं हि सर्वोऽपि यत्तः सामान्यभिन्नस्वरूपोपादानेनैव स्वाभिमतनिराकरणाय भवति भिन्नार्थीभ्युपगमात् । 20 (अनया चेति) अनया च दिशा शब्दब्रह्मतत्त्वभेदसंसर्गरूपविवर्त्तमात्रमिदं जगदिति, यतः 'अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः' ॥ (वाक्यप०
कारः जीवस्यैवारूपित्वं निष्क्रियत्वञ्चाजीवस्यैव रूपित्वं सक्रियत्वं चेत्यादौ भावनीय इत्यतिदिशति-एवं तावदिति । स्वभावानहीकारे दोषान्तरमभिदधाति-स्वभावेति.खेन खेन भावेन व्यवस्थिताः पक्षहेतदृष्टान्तादयः साध्यसाधनसमर्था भवन्ति, नान्यथेति दर्शयति-तद्यथेति । तत्र पक्षादीनां खभावं दर्शयति-पक्ष इति, यो हि साध्यत्वेनेप्सितो न विरुद्धो न निरा25 कृतश्च सोऽयं पक्षस्वभावः साध्यत्वप्रकारकेच्छाविषयत्वं लोकप्रमाणाविरुद्धत्वं तथैवानिराकृतत्वं तदर्थः हेतोश्च पक्षधर्मत्वं
सपक्षवृत्तित्वं विपक्षव्यावृत्तत्वञ्च खभावः, दृष्टान्तस्य तु साध्यानुगतहेतुप्रदर्शनविषयत्वं साध्याभावानुगतहेत्वभावप्रदर्शनविषयस्वच खभावः, उक्तखभावानामभावे पक्षादय आभासा भवन्तीति पक्षहेत्वादिसाधनं खेन भावेनैव समर्थ भवति, दूषणमपि तत्साधने दोषोद्भावनस्वभावम् , तद्विपर्यये तु दूषणं दूषणाभासरूपमेव, एवंविधपक्षादीनामभ्युपगमे त्वया खभाववादः स्वीकृत एव, : अन्यथा साधकबाधकाभावाद्वाद एव त्वया कत्तुं न शक्यते, त्वदीयपञ्चावयववाक्यानां स्वभावरहितार्थप्रतिपादकत्वात् तथा 30च खभाव एव सर्वसाधनसमर्थत्वात् सर्वव्यापित्वाच सर्वकारणमिति तात्पर्यार्थः। एवं स्वभावकारणवादं समर्थ्य एवमेव शब्द
ब्रह्ममयं जगदिति शब्दब्रह्मवादोऽपि विज्ञेय इत्यतिदिशति मूलकारः-अनयाच दिशेति। स्वभाववादोक्तदिशेत्यर्थः । सर्वेऽपि कारणवादा एते न विधिविधिनयखरूपा इति निराकरोति-ते पुनरिति । अनादीति, यतः सर्वधर्मपरिकल्पनातीतं भेदसंसर्गसेमतिक्रमेण सर्वामिःशक्तिभिः समाविष्ट विद्याविद्याप्रविभागरूपं व्यवहारानुपातिभिर्धर्माधमैः सर्वावस्थास्वनाश्रितञ्च, अत एवाना
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org