Book Title: Tirthyak
Author(s): Diwakar
Publisher: Achyut Granthmala
Catalog link: https://jainqq.org/explore/034647/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अच्युतग्रन्थमालाया अष्टमं पुष्पम् श्री दिवाकरविरचितः तिथ्यर्कः प्रकाशनस्थानम् - अच्युतग्रन्थमालाकार्यालयः, काशी Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #2 -------------------------------------------------------------------------- ________________ प्रकाशकः श्रेष्ठप्रवरः श्रीगौरीशङ्करगोयनकाः, अच्युतग्रन्थमाला-कार्यालयः, काशी Shree Sudharmaswami Gyanbhandar-Umara, Surat मुद्रक: श्री श्रपूर्वकृष्णवसुः इंडियन प्रेस, लिमिटेड, बनारस-ब्रांच www.umaragyanbhandar.com Page #3 -------------------------------------------------------------------------- ________________ अच्युतग्रन्थमालाया अष्टमं पुष्पम् श्रीदिवाकरविरचितः तिथ्यर्कः काशिकोजोखीराममटरूमल्लगोयनका-संस्कृतमहाविद्यालय-पुस्तकालयाध्यक्षण अच्युतग्रन्थमालाध्यक्षेण च साहित्याचार्य श्रीकृष्णपन्तशास्त्रिणा सम्पादितः प्रकाशनस्थानम्अच्युतग्रन्थमालाकार्यालयः, काशी संवत् १९८६] [प्रथमावृत्ति: १५०० मूल्यं सार्द्धरूप्यकम् ___Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #4 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #5 -------------------------------------------------------------------------- ________________ श्री. भूमिका दिवाकरकृतिधर्मशास्त्रसुधानिधिर्नाम जयति धर्मशास्त्रस्य किमप्यपूर्व प्रन्यरत्नम्। तस्यैकभागरूपं तिथ्यर्कमिममच्युतप्रन्थमालायां संग्रथ्य सर्वसुलभता नयन्तो वयं भृशं मोदामहे। तिथ्यर्केऽस्मिन् प्रतिपदमारभ्य पौर्णमासीपर्यन्तं सामान्येन विशेषेण च निखिलास्तिथयो निर्णीताः । तेषु विहितं कृत्यं च संक्षेपेयोपवर्णितम् । अयमस्त्यत्र विशेषो यत्प्रतिपनिर्णये समुपक्रान्ते चैत्रशुक्लादयश्चैत्रकृष्णान्ता अब्दभवाः सकलाः प्रतिपदो विषयान्तरव्यवधानमन्तरेण निर्णीताः । एवं सर्वा द्वितीयातृतीयाचतुादयश्चेति। तिथिनिर्णयान्ते इष्टिकाल-ग्रहण-पत्त-मास-मलमास-संवत्सर-कलिवर्य-वर्षवृद्धि-दर्शश्राद्धादयो भृशमपेक्षिता विषया अपि सुस्पष्टतया निर्णीताः। तिथ्यर्केति प्रन्थस्यास्य नूनमन्वर्थ नाम । तिथीनामर्कवत्प्रकाशके केवलेऽप्यस्मिन् प्रन्थेऽवगते तिथिविषयको लेशतोऽपि नादेति सन्देहः । श्रीबालकृष्णात्मजसूनुनिर्मिता वर्षे खवेदाश्वहिमांशुसंयुते । कृतिं विलोक्याऽखिलकालनिर्णय ___ निःशङ्कमाशंसतु पण्डितो जनः ॥ इति वदता ग्रन्थकतापि निरूपितो प्रन्थस्यास्य महिमा। बहुलमर्थमादधानः संक्षिप्तोऽप्ययं प्रन्थः प्रन्थकारस्य रचनाकौशलमनुमापयति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #6 -------------------------------------------------------------------------- ________________ ( २ ) ग्रन्थहृदयं कदा कं जनपदं जन्मनाऽलभ्वकारे यत्र विशेषान्वेषस्य नास्ति आवश्यकता । यतो ग्रन्थकृता आत्मनो वंशो ग्रन्थनिर्माणकालश्च स्वयमुपवर्णितः । अयं ग्रन्थकारो धर्मशास्त्रेऽतिप्रसिद्धस्य द्वादशम् यूखानां रचयितुः श्रीनीलकण्ठभट्टपण्डितस्य दुहितरि बालादेव्या श्रीमहादेवभट्टाज्ञ्जनिमलभत । कः खलु न जानाति नीलकण्ठपण्डितस्य पाण्डित्यं वंशपरम्पराध । तद्वंश्यैर्बहुपुरुषपर्यन्त वाराणसेय विद्व मूर्धन्येषु प्रथमं स्थानमासादितमासीत् । पूर्वमीमांसायां धर्मशास्त्रे कर्मकाण्डे च तेषामासीदखण्डेोऽधिकारः । तत्पूर्वपुरुषा दाक्षिणा जनपदे गोदावरीतीरे प्रतिष्ठानपुरे ( पैथनग्रामे ) निवसन्ति स्म । ततः तत्पूर्वपुरुषां रामेश्वरभट्टो ज्येष्ठसूनुना नारायणभट्टेन मध्येमार्ग समुत्पन्नेन मध्यमसुतेन श्रीधरेण च साकं काशीमाययैौ । माधवनामा तस्य कनिष्टसूनुः काश्यां जनिमलभत । रामेश्वरभट्टस्य समासन्नस्थाविरं वयसि सन्ततिरुत्पन्ना । यदा स काशीमाप तदा वृद्ध आसीत् । भारतस्य सुदूर प्रान्तेभ्योऽनेके छात्रास्ततो ऽनवद्यविद्यामादातुं तत्वादमूलमागताः । तैर्दिशि दिशि तत्कीर्तिकौमुदी विस्तारिता । पाणीः स पूर्णमायुरुपभुज्य अमरपुरातिथिरभूत् । तज्ज्येष्ठतनयेन नारायणभट्टेन सर्वाणि शास्त्राणि तुरंवाधिगतानि । तेन शास्त्रवादेऽपूर्वा कीर्त्तिरासादिता । तदानीन्तनाः सर्वे संख्यावन्तस्तं स्वनेतारमाकलयन्ति स्म । काश्यामद्यापि दाक्षिणात्यर्पाडतानां दृश्यते या श्रेयसी स्थितिस्तस्याः स एवासीदचरमा हेतुः । तद्विष । एवमनुश्रूयतेकदाचिद् धर्मद्वेषिभिर्यवनैर्भगवतः श्रीविश्वेश्वरस्य मन्दिरमाक्रान्तं खण्डित च । ततो जातुचित् चिरं महत्याऽनावृष्ट्या कष्टमयमासीत् जगत् । यवनानां स्वामिना तत्रभवानभ्यर्थितो नारायणभट्टो भगवन्तं विश्वेश्वरं प्रसादयितुम् तेन प्रसादितो भूतभावनो दिनेनैकेन महता धारासम्पातेन लोकमासेचयामास 1 वृत्तायामस्यां घटनायां श्रीनरायणभट्टो यवन " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #7 -------------------------------------------------------------------------- ________________ म्वामिनमभिनवं मन्दरं निर्मापयितुमनुरुद्धवान् । अनुरुद्धो यवनपति गवता विश्वनाथ ग मन्दिरं पुनर्निर्मापयामास । वृत्तमिदम्-~'ये.. नाकार्यविमुक्तक र विधिना विश्वेश्वरस्थापना' इति दिवाकरभट्टस्य पद्यांशेनानुमोद्यते । साऽसाधारिण्या धर्मनिष्ठया प्राज्येन पाण्डित्येन च जगद्गुरुरिति रुिदमुपलब्धवान् । श्रीनारायणभट्ट वंश्यस्य श्रीकान्तानाथभट्टस्य कृतिः स्ववंश्यवर्णनात्मकं भट्टवंशवर्णनं नाम काव्यमस्माभिरुपलब्धं ततोऽपि जनश्रुतिरपा पुष्टिमुपैति । पुराऽतिहिं वनैरनार्यैराचारहीनै: श्रुतिबद्धवैरैः । श्रीविश्वनाथस् च विश्वभूते: प्रासादकान्ति: सहसा विदद्रे ॥ दिनंषु गच्छर वथ तत्प्रकोपादवग्रही भारतवर्षमध्यं । बभूव घोरो जनता विचेरुस्त्यक्ता स्वदेशान् विषयान्तराणि ।। श्रेयः कथं स्य न्मम राष्ट्रमध्यं कथं नु वदिह देवराजः । अन्धियतेत्थं यवनंन सार्वभौमेन लेभे द्विजसत्तमाऽयम् ।। अयं पविट : (विष्टरे हे प्रोवाच नम्रा यवनाधिकारी । कृताञ्जन्तिः क तरशब्दगी दुष्टा हि दण्डेन समेति शान्तिम् ॥ वृष्टिस्तपस्विन जनतापही भवेत् सुधांशोरिव रश्मिराजि: । भवादृशानाम कम्पयैव लोका हि दुःखोदधिमुत्तरन्ति ।। निशम्य तस्ये न गिरं गिरीशं दध्यो समाधिस्थित एव शान्त: । प्रतीतिमुत्पादयतु सुरेषु म्लेच्छान् विनेष्यन्निदमाह धीरः ।। अदभ्रमभ्रातिशतमद्य तोयं सुधोपमं प्राणभृता लभन्ताम् । वृष्टिस्तदासीर गिरिशप्रभावादमाघवाच: खलु सजना हि ।। ततोऽतिहटार यवनान् समृद्धिं लेभेऽधिका मानपुर:सरां य:। तता महार जनिदेशतोऽसौ जगद्गुरु: संप्रथिते। जगत्याम् ।। वच्या तेहृष्टं यवनं तदानीं धीर: स ऊचे वचनं महार्हम् । प्रासादभङ्गात त्रिपुरान्तकस्यानावृष्टिदुःखं बुभुजे प्रजाभिः ॥ .. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #8 -------------------------------------------------------------------------- ________________ तदस्य निर्माणविधौ भवद्भिर्भूयेत सम्प्रत्यययुक्तचित्तैः । तदाऽनुमेने वचनं स तस्य दृष्टे कथं विप्रतिपत्तिसत्त्वम् ।। ततोऽस्य साहाय्यमुपेत्य शम्भो: अचीकरच्छेष्ठनिकेतनं सः । प्रतिष्ठपन्मूर्तिमुमेश्वरस्य प्रीतिप्रदामास्तिकमानवानाम् ॥ [भट्टवंशव० का० स० ३] महापण्डितस्यास्य विषये जनश्रुतिरेषापि प्रचरति, यद् दिल्लीश्वरस्यार्कवरस्य सभाया रत्नभूतेन टोडरमल्लमहाशयेन स्वपितुः श्राद्धतिथी नानादेशेभ्योऽनेके समाहूता: पण्डितप्रवराः। तेषु गौडाः, दाक्षिणात्याः, मैथिलाः, काशोस्थाश्च निखिलवर्गीया विद्यावदातहृदया धन्या: पण्डिसमूर्धन्या आसन् । श्राद्धदिने विनयावनतष्टोडरमल्लः सप्रश्रयं तान् पण्डितपतीनुवाच-महाभागाः, सत्सु विद्यातपोमूर्तिषु अमरगुरुकल्पेषु भगवत्सु किं नाहमस्मि एतत्प्रत्यक्षमवगन्तुं समो यत् श्राद्धकर्मणानेन पितरो मे तृप्तिमुपगता इति। पृच्छामिमामाकर्ण्य मौनमुद्रामाश्रितेषु सकलेषु पण्डितेषु तत्रभवान् नारायणभट्टो वाचामविषयेण तपोबलेन विद्याबलेन च तव पितरोऽनेन श्राद्धेन तृप्ता इति तं प्रत्यक्षं दर्शितवान् । तत्र शास्त्रवादे विप्रतिपन्नान् समान् पण्डितान विजितांश्च । वेनाश्चर्यकारिकर्मणा भृशं तुतोष टोडरमल्लः। पृष्टांश्च तं पण्डितप्रवरं भवर्ता किमभीष्टमनुष्ठीयता मयेति। तदानों धर्मविद्वेषिणा केनचिद् यवनेन वाराणसी भग्नविश्वेश्वरमन्दिरा अदृश्यशिवलिङ्गा च कृतासीत् । वरिवस्याव्यसनिनो विश्वेश्वरदिदताक्षुधाकुलाश्चाहादयितुमिच्छुः पण्डिताग्रणी रायणभट्टः सन्तुष्टं टोडरमल्लं काश्यां विश्वेश्वरं स्थापयितुमनुरुद्धवान् । तेन सम्राडर्कवरः प्रार्थितः। तेन स्वीकृता तत्प्रार्थना। सम्राजा तेन यत् स्वीकृतिपत्रं टोडरमल्लसविधे प्रेषितं वत् स्वर्गीय म० म० श्रोहरप्रसादशात्रिमहोदयैरधिगतमिति श्रूयते । तैः ( Indian Antiquary for 1912 ) पत्रे नारायणभट्टस्य विषये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #9 -------------------------------------------------------------------------- ________________ ( ५ ) गवेषणापूर्णो लेख एकः: प्रकाशितः, विशेषस्ततोऽवगन्तव्यः । कान्तानाथोऽपि नाश्रयत्यत्र सर्वथा मौनमुद्राम्, स ाह दिल्लीश्वर खिलमहाकरणाधिकारि श्री टोडरस्य समिती च जिगाय सर्वान् । विद्यानिवासमुखमैथिलगौडवर्यान् श्रद्धे कली फलनिषेधविवाद एषः ।। इति । परन्तु वृत्तान्तस्यास्योत्तरार्द्धविषये स वाचंयम एव । वृत्तयोरेनयोमध्ये कस्मिन् सत्यांश स्य प्राचुर्यमिति इतिहासरसिका एव विभावयन्तु । ___आस्ताम् विस्तर: प्रकृतमनुसरामः। विद्वत्कुलधारेयम्य तस्य कुटुम्बिनम्तदानीन्तनवाराणर यपण्डितसमाजे महतीमास्थामासादयन् । तस्य महापुरुषस्य त्रयः रानवः समुत्पन्नाः श्रीरामकृष्णशङ्करगोविन्दभट्टाभिधाः। तेषु द्वितीयस्त नय: श्रीशङ्करभट्टो मीमांसायां परां प्रौढिमुपगत आसीत् । तेन शास्त्रदीपिकोपरि विवृत्तिरेका निर्मितेति श्रूयते । शङ्करभट्टस्य तावच्चत् पार; सूनवोऽभवन् । तेषु कनिष्ठतमो नीलकण्ठभट्टा दिवाकरभट्टस्य पतामहः प्रसिद्धमीमांसक आसीत् । तेन ( १) संस्कारमयूखः, ( २ • आचारमयूखः, (३) समयमयूखः, ( ४ ) श्राद्धमयूखः, (५) नीतिमयूखः, (६) व्यवहारमयूखः, (७) दानमयूखः, (८) उत्सर्गमयूखः, (६) प्रतिष्ठामयूख:, (१०) प्रायश्चित्तमयूख: ( ११ ) शुद्धिमयूखः (१२) शान्तिमयूखः, इति द्वादशमयूवा धर्मशास्त्रे विनिर्मिताः। ते च स्वाश्रयदातुर्महागजश्रीभगवन्तदेवसेंगरस्य समज्ञां सदातनी विधातुं तन्नाम्ना 'भगवन्तभास्कर' इति संज्ञां लम्भिताः । व्यवहारतत्त्वादयोऽन्येऽपि तन्निर्मिता ग्रन्धा: सन्तीति श्रूयते । अयं तावद् मातृवंशो ग्रन्द्र कारेण ग्रन्थादा श्लोकेनैकेन निर्दिष्टः श्रीरामेश्वरसरिसृनुरभवन्नारायणाख्यो महान् येनाकार्यविमुक्तके सुविधिना विश्वेश्वरस्थापना । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #10 -------------------------------------------------------------------------- ________________ तत्पुत्रो विबुधाधिपः तितितले श्रोशङ्करस्तत्सुतो जातो भास्करपूजकः पृथुयशा: श्रीनीलकण्ठो बुधः ।। ग्रन्थान्तरेष्वपि मातृवंशवर्णनं न विस्मृतं ग्रन्थकृता। तथाहिआचारार्के तावत् यद्वाक्याद् विधिवाक्यार्थ-(ना ?)-मपूर्वार्थाभिधातृता । नीलकण्ठो जयत्येष मीमांसकधुरन्धरः ॥ इति । दानहीरावलीप्रकाशे च 'जीवेन्द्रारिपुरोहितामलमतिः श्रीनीलकण्ठाभिधः' इति चतुर्थपादं परिवर्त्य तिथ्योपनिबद्ध एव श्लोकस्तेनोद्धृतः । 'तत्पुत्रीतनया दिवाकरकृती शास्त्रेष्वधीती पितुः' इति तत्सम्बद्धं पादमेकं श्लोकान्तरेऽपि नियुक्तवान्। इति मातृवंशवर्णनसंक्षेपः । ___ स्वान्ववायवर्णनेऽपि नास्ति वाचंयमो ग्रन्थकारः । तेन स्वाभिमन. दिगपि निपुणमुपदर्शितैवास्ति । यया ज्ञायते-विमले भारद्वाजकुले श्रौतस्मार्ताखिलधर्मानुष्ठानपरिपूतस्वान्तः साहित्यामृतसाहित्यसंभृतः कवितालतालवालो भूसुराणामग्रणीर्बालकृष्णभट्टो जनिमलभत । बालकृष्णभट्टोऽस्माकं चरितनायकस्यासीत् पितामहः। तत्पूर्व पुरुषाणामपि नामानि अस्माभिरधिगतानि । तैः कस्मिन् विषये के के ग्रन्था प्रारचिता इति ज्ञातुं प्रयतमानैरप्यस्माभिर्न पारितम् । बालकृष्णभट्टस्य वृद्धप्रपितामहो रामकृष्णभट्टनाम्ना प्रतीत आसीत्, तत्तनुजनु:-बालकृष्णप्रपितामहो माधवभट्टनाम्ना, तत्तनुजन्मा-बालकृष्ण पितामहो नारायणभट्टनाम्ना, तदात्मजो-बालकृष्णपिता महादेव-(प्रथम)-नाम्ना चेति । बालकृष्ण भट्टस्य र नु: महादेवभट्टो ( द्वितीय: ) न्यायनये परी प्रौढिमुपगतस्तदानीन्तननैयायिकेषु प्रथमं स्थानमासादितवान् । तेन न्याय सिद्धान्तमुक्तावल्या न्यायसिद्धान्तमुक्तावलीप्रकाशाख्या टीका-या न्यायसिद्धान्तमुक्तावलोदीपिका, मुक्तावलीप्रकाशः, मुक्तावलीदीपिका, मुक्तावलोकिरणः, दिनकरीयमिति नामभिरपि व्यवहियते-रचयितुमा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #11 -------------------------------------------------------------------------- ________________ रब्धा, दिनकरे तस्य कनिष्ठसूनुना समाप्तिं नीता। मुक्तावलोप्रकाश प्रारिप्सुरयं मत्तमाचरन् श्लोकमिममुपनिबद्धवान"लदनीपादयुगं प्रणम्य पितरं श्रीबालकृष्णाभिवं भारद्वाज कुलाम्बुधौ विधुमित्र श्रीगौरवस्याम्बुजात् । ज्ञात्वा शेषमतं मितेन वचसा सिद्धान्तमुक्तावली गूढार्थांस्तनुते यथामति महादेवः परेषां मुदे ॥" कियत्पर्यन्तं तेन विरचितेयं टोकोते जिज्ञासाया प्रकरणावसाने उपमानखण्डं यावत् सर्वत्र-'इति श्रीभारद्वाजकुलाम्बुधि पूर्णचन्द्रबालकृष्णभट्टात्नजमहादेवभट्टविरचिते मुक्तावली प्रकाशे उपमानपरिच्छेदारूप: पञ्चमः परिच्छेदः' इति लिखितमस्ति, तदनन्तरं शब्दखण्डान्ते---'इति श्रीभारद्वाज कुलाम्बुधिपूर्णचन्द्रबालकृष्णभट्टात्मजमहादेवभट्टारब्धे तत्पुत्रदिनकरभट्टप्रपूरिते मुक्तावलीप्रकाशे शब्दपरिच्छेदाख्य: षष्टः परिच्छेदः' इति विन्यस्तमस्ति । गुण निरूपणान्ते तु 'इति श्रीभारद्वाजकुलाम्बुधिपूर्ण चन्द्रबालकृष्णभट्टात्मजमहादेव. भट्टात्मजश्रीमदिनकर विरचिते न्याय सिद्धान्तमुक्तावलीप्रकाशे गुणनिरूपणम्' इन प्रतिपादितं वर्तते । तेन ज्ञायते उपमानखण्डं यावत् साकल्येन महादेवभट्टेन विरचिता, शब्दखण्डस्यापि कियानंशस्तस्यास्तेन विरचित-ततेो मृत्याऽन्येन वा प्रत्यूहव्यूहेन विहतपनो न पारितवान् पृयितुं ताम् । पितृप्रारब्धप्रबन्धस्यापू] जनताक्षतिमीक्षमाणस्तस्य कनीयान् सूनुर्दिवाकरभट्टस्यानुजो दिनकरभट्टस्तां टीकामापूरितवान् । ग्रन्थावसाने दिनकरकृतमङ्गलश्लोकश्चेत्यमस्तिभानु रणम्य परिभाव्य च शास्त्रसारं मुक्तावली किरण एष पितृप्रदिष्टः । सद्युःक्तभिर्दिनकरण करेण सोऽयं नीत: प्रकाशपदवी सुधियां मुदेऽस्तु । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #12 -------------------------------------------------------------------------- ________________ ( ८ ) न अनेनापि ज्ञायते पितृप्रदिष्ट एकांश एव दिनकरेण विरचितः खलु सम्पूर्णो ग्रन्थ इति । एतेन शर्मण्यदेशीय थोडरपण्डितस्य स्वीये बृहति सूचीपत्रे महादेवभट्टस्य ' 'दिनकर' इति उपनामासीत् तेन स्वपित्रा बालकृष्ण भट्टेन? साकमेषा टीका निर्मिता, श्रत एव दिनकरीयमभिधीयते - इति व्याहृतिर्भ्रान्तिमूलैवेति निर्विवादम् । महादेवभट्टस्य ज्येष्ठः सूनुः धर्मशास्त्रसुधानिधे रचयिता दिवाकरभट्टनाम्ना प्रथितिमुपययौ । स एव ग्रन्थस्यास्य रचयिता । तियकयं (यस्यापरं नाम तियर्क प्रकाश इति ) तावदस्ति धर्मशास्त्र सुधानिधेरे को भागः । धर्मशास्त्रसुधानिधेः सन्ति सप्त भागा :- (१) सूर्यादि - पञ्चायतनप्रतिष्ठापद्धति:, ( २ ) तिथ्यर्क:, ( ३ ) आचारार्क:, ( ४ ) श्राद्धचन्द्रिका, (५) दानहीरावली प्रकाश:, (६) प्रायश्चित्तमुक्ता वली, (७) अन्त्येष्टिप्रकाश:, इति । लिखितं चास्ति एतत् ( Catalogue of the Sanskrit Manuscript in the Library of the India Office ) नामनि सूचीपत्रे दानही रावली प्रकाशस्यान्त्यांशनिर्देशान्ते— “श्रीतिथ्यर्काचाराक श्राद्धप्रायश्चित्ते प्रतिष्ठा संस्काराशीचयुक्तो दानप्रन्थेो दिवाकराज्जातः ।। इति । ग्रन्थकारोऽयं काशीमधिवसति स्मेत्यत्र नास्ति विवाद: 'मीमांसानयकोविदः पुरभिदः क्षेत्राधिवासी सुधीः' इति प्रतिपादयता प्रन्थकृता दानही रावली प्रकाशे स्वयमेव स्पष्टीकृतोऽयं विषयः । च । १ - महादेव भट्टदिनकर Son of Balakrishna Bhatta, pupil _of_Nilakantha Bhatta, Nyaya-siddhantmuktawaliprakash or Dinakari, written jointly with his father. (T. Aufrecht Cat. Cat. Part I, page 436) २ -- बालकृष्ण Father of Mahadeva Bhatta Dinakar, father of Divakar, father of Vaidyanath, composed together with his son Mahadeva Nyaya-siddhantamuktavaliprakash (page 370 ) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #13 -------------------------------------------------------------------------- ________________ ( &) आत्मनो मातुरभिधेयन्तु बालेति ग्रन्थकृता समाम्नातम्, 'बाल तथा मातरम्' इत्यादिना । प्रस्य सहधर्मिणी उपेति नाम्ना ख्याता आसीदित्यपि वृद्धेभ्यो ऽनुश्रूयते । एतत्सर्व ग्रन्थकृता ग्रन्थादा ग्रन्थान्ते च स्वयं सह पेणावर्णितम् भारद्वाजकुलेऽमले समभवत् श्रीबालकृष्णाभिधः साहित्यामृतवारिराशिरतुलः सर्वद्विजानां गुरुः । तत्सूनुः प्रथमो मद्दामणिरिव प्रख्यातकीर्तिर्गुणैजता न्यायनये बृहस्पतिसमा नाम्ना महादेवकः ।। तत्पुत्रेण दिवाकरेण विदुषा श्रीनीलकण्ठप्रभादौहित्रेण बुधैः सुधारससमास्वाद्यः परेषां कृते । तिथ्यर्क: क्रियते प्रणम्य पितरं बालां तथा मातरं श्रीकान्तं तपनं श्रियं पशुपतिं वाचं महादेवताम् ॥ आचारार्के तावत् "महादेवतनूजन्मा भारद्वाजकुलोद्भवः । दिवाकरे। रविं नत्वा ह्याचारार्क तनोत्यसौ ॥ दानही रावली प्रकाशे ૧ “मीमांसानयकाविदः पुरभिदः क्षेत्राधिवासी सुधीः ।" इति । दिवाकर भट्टस्य द्वौ सूनू आस्ताम् । तयेोर्ज्येष्ठः श्रीरामनाम्ना' प्रतीत आसीत्, कनिष्ठस्तु बैजनाथ ( वैद्यनाथ ? ) नाम्ना | तेन तत्कृतग्रन्थेषु अनुक्रमा विरचितः । तिथ्यर्के तावदस्ति लिखितम् - "दिवाकरतनूजन बैजनाथेन ( वैद्यनाथेन ? ) धीमता । खबाणसप्तभूयुक्त १७५० वर्षे माधवसंज्ञके ॥ १ - इथं दिवाकरसुतेन कनीयसा श्रीरामानुजेन गुरुभक्तिपरायणेन । श्रीतातपादरचिते सुजनप्रियेऽस्मिन् ग्रन्थे क्रमा विलिखितः सवितुः प्रसादात् ॥ ( ति० अ० श्लो० १५२ ) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #14 -------------------------------------------------------------------------- ________________ (..) मासि तातकृतग्रन्थेऽनुक्रमः संप्रदर्श्यते । विदुषां सुखलब्भ्यर्थमनया श्लोकमालया ॥” इति । केचन दानचन्द्रिकाकर्ताऽप्ययमेवेति प्रतिपादयन्ति। परन्तु तदज्ञानमूलमेव। यतो दानचन्द्रिकाया दानसङ्क्षपचन्द्रिकाया वा कर्ता दिवाकरभट्टोऽस्ति कालोपनामकः । यद्यपि तस्य पितुरपि नाम महादेवभट्ट एवास्ति, परन्तु तस्य पितामहो रामेश्वरभट्टनामासीत् । । प्रकृतग्रन्थकारस्य तु पितामहो बालकृष्णभट्ट इति प्रतिपादितपूर्वम् । प्रणम्य मातरं गङ्गी भैरवं वनशङ्करम् । महादेवाख्यपितरं श्रौतस्मातविशारदम् ॥ दिवाकरण सुधिया सारमुद्धृत्य शास्त्रतः । शिष्टानां तन्यते तुष्टयै दानसंक्षेपचन्द्रिका ॥ इति दानसक्षेपचन्द्रिकाया मङ्गलाचरणं विलोक्य तममुच दिवाकरमेकं मन्यमानाः तिथ्यर्क निर्मातुर्दिवाकरस्य मातुर्गङ्गेति नामासीदिति च प्रलपन्ति । दिवाकरभट्टस्य मातामही नीलकण्ठभट्टसहधर्मिणी गङ्गेति' नाम्ना प्रसिद्धा आसीत् । माता गङ्गासीदि यत्र तु नास्माभिः प्रमाणमुपलब्धम् , परन्तु तस्या नाम बाला आसीदिति सप्रमाणं पूर्वमुपन्यस्तम् । इण्डियारे आफिसस्य सूचीपत्रे दानचन्द्रिकाया: परिचयदानावसरे 'दाननियमान प्रदर्शयन् लघुग्रन्थोऽयं वाराणसेयस्य कालोपनामकदिवाकरस्य कृतिः। स खलु दिवाकरो महादेवभट्टस्य नीलकण्ठदुहितुर्गङ्गादेव्याश्च सूनुः सम्भवता बालकृष्णभट्टस्य पात्र प्रासीत्' इति १-श्रीभास्कर शिवकरं शिरसा प्रणम्य श्रीनीलकण्ठपितरं जननी च गङ्गाम्। तत्पादचिन्तनबढो बुधशङ्कराख्यः संस्कारभास्करममुं वितनाति काश्याम् । २-Dana-chandrika, a manual of rules, regarding pious donations by Bhatta Dviakara, surnamed Kāle, of Benares, son of Bhatta Mahadeva (sun of Balakri. shna ?) and Ganga ( daughter of Bhatta Nilakantha, author of the Mayukhas.) [I. O. Cat. Part III p. 548] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #15 -------------------------------------------------------------------------- ________________ प्रतिपादन श्रीमत्कालोपनामकभट्टरामेश्वरात्मजभट्टमहादेवद्विजवर्यसूनु - दिवाकरविरचिता दान चन्द्रिका समाप्ता' इति ग्रन्थावसानादर्शनमूलक व्यामोह विलसितमेव । तदिदमन्यद्वेदृर्श सूचीपत्रं प्रमाणोकृत्य शर्मण्य. देशीयथोडरमहाशयोऽपि स्वीये बृहति सूचीपत्रे कालोपनामकदिवाकरभट्टरचितानपि ग्रन्थान् भारद्वाजदिवाकरकृतित्वेन यदुपन्यस्तवान्, तदपि भ्रान्तिविज म्भित मेव । ___ कालोपनामकदिवाकरस्य सन्ति तावदिमाः कृतयः- (१) दानचन्द्रिका, (२) आह्निकचन्द्रिका, (३) कालनिर्णयचन्द्रिका, ( ४ ) स्मार्तप्रायश्चित्तं द्वारः ( ५ ) स्मार्तप्रायश्चित्तपद्धति: (६) पतितत्यागविधि: (७) पुनरुपनयनप्रयोग: इति। भारद्वाजदिवाकरकृतिसंहतिस्तु पूर्व निरूपता । भारद्वाजभट्टदिवाकरमहोदयेन विरचितेषु ग्रन्थेषु मध्ये कस्यापेक्षया कस्य प्रथमं निर्मितिरभूदिति विचारे प्रस्तूयमाने यद्यपि समेपां पार्वापर्य वक्तुमतीव दु:शकं तथापि तिथ्यर्कपर्यालोचनेन यदवगम्यते तत्प्रदर्श्यते तिथ्य १३३ तम पृष्टे-'प्रतिष्ठायां विशेषस्तु मत्कृतप्रतिष्ठापद्धती द्रष्टव्यः' 'मत्कृत' इति मतकालनिर्देशात् 'मलमासे श्राद्धं कार्य न वेति विचारो विस्तरेण वक्ष्यते श्राद्धचन्द्रिका प्रकाशे' (तिः पृ० २५२ ) 'विवेचयिष्यते चैतत्स्पष्टं श्राद्धचन्द्रिका प्रकाशे' ( ति० पृ० २६०) इत्यत्र 'वक्ष्यते' 'विवेचयिष्यते' इति भविष्यनिर्देशाच्च प्र तष्ठापद्धतिस्तावदपश्चिमा कृतिस्तिथ्यापेक्षया विपश्चिदपश्चिमन्य अाचारार्क श्राद्धचन्द्रिके च चरमे इति । ___ यद्यपि-'भाजने हात्रिशासनियमस्तु मत्कृताचारार्के द्रष्टव्यः' ( ति० पृ० ४४ ) 'जप दिविधिस्तु मत्कृताचारार्के द्रष्टव्यः' ( तिः पृ० ६३ ) इति आचारार्कस्थापि वाक्यानि तिथ्यर्के समुद्धृतानि, 'मत्कृत' इति भूतकालनिर्देशश्च नमान एव, हेतुनानेन अस्यापि प्राथम्यमनुमातुं शक्यम्, परन्तु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #16 -------------------------------------------------------------------------- ________________ ( १२ ) श्रीबालकृष्णात्मजसूनुनिर्मिती वर्षे खवेदाश्व हिमांशुसंयुते । कृतिं विलोक्या खिलकालनिर्णयं निःशङ्कमाशंसतु पण्डितेो जनः ॥ श्री बालकृष्णात्मजसूनुनिर्मितं " वर्षे वेदाश्व हिमांशुसंयुते । जनाः प्रकुर्युः किल धर्मकार्यमाचारसूर्य किल संविलोक्य ॥ इति तिथ्यर्काचारार्कयेोरवसितितिथिं स्वयमुपनिबनता ग्रन्थकृता तिथ्यर्कस्य प्राथम्यं स्वमुखता निवेदितम् अता भूतकाल निर्देशमात्रेण तस्य प्राथम्यानुमानमकिश्चित्करम् । 'मत्कृताचारार्के द्रष्टव्यः' इति भूतकालनिर्देशसंगतये तु कियस्तिस्यांशस्तिथ्यर्कनिर्मितेः प्राङ निर्मितः सम्पूर्तिस्तु पश्चाज्जातेत्यूहनीयम् । दानहीरावलीप्रकाश:, अन्त्येष्टिप्रकाशः, प्रायश्चित्तमुक्तावली चैतेषां ग्रन्थानां तिथ्यर्कापेक्षया प्राथम्यमस्ति श्रानन्तर्य वा ? तेषामपि परस्परं कस्यापेक्षया कस्य प्राथम्यं कस्यानन्तर्य्यमिति निर्देष्टुं न पारितमस्माभिः । यतः तिथ्यर्के न तेभ्यो वचनानि कानिचन समुद्धृतानि, न वा ते ग्रन्थाः साकल्येन दृष्टिगोचरीभूताः । अस्ति ग्रन्थकृतोऽस्य अन्याप्येका कृतिर्वृत्तरत्नाकरटीका'वृत्तरत्नाकरादर्श इति । तस्य समाप्तौ स्वाभिजनादिकमुल्लिखता ग्रन्थकृता तत्समाप्तिकालेोऽपि निरूपित: १- भारद्वाजकुले श्रुतिस्मृतिपदुः श्रीसूर्यभक्तस्तथा विद्याराधनतत्परोऽपि च महादेवो भवत्तार्किकः । तत्पुत्रेण दिवाकरेण रचिते श्रीवृत्तरत्नाकरादर्शे भट्टमतानुसारिणि परं षष्ठः समाप्तिं गतः ॥ इति श्रीभारद्वाजबालकृष्णात्मज महादेव भट्टसूनुदिवाकरकृतेो वृत्तरत्नाकरा दर्शः सम्पूर्णतामाटीत् (I. O. Cat. Part. II, p. 304 ) " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #17 -------------------------------------------------------------------------- ________________ ( १३ ) पूर्णाब्धिसभकमिते प्रवर्षे सत्कार्तिके मासि विशुद्धपक्षे । तार्तीयपूर्णे दिवसे सुपुण्ये ह्यादर्श इत्थं घटित: समाप्तः ॥ इति । अनेन एकस्मिन्नवाब्दे ( १७४० वैक्रमाब्दे ) तिथ्यको वृत्तरत्नाकरादशश्च कविना पृर्तिमुपनीतावित्यवगम्यते । तिथ्यर्कस्य निर्माणकाले ग्रन्थकृतः पञ्चाशद्वर्षासन्नमपि क्यो यदि कल्प्येत, तदाऽस्य जनिर्विक्रमसप्तदशशतकस्यान्ते [ १६६० वि०] समभूदिति आयाति। अयमेवास्य जन्मकाल इत्यभियुक्तेभ्योऽपि श्रूयते । ___ग्रन्थकारोऽयं भगवतो भास्करस्यानन्यभक्त पासीदिति एतत्कृतग्रन्थोपक्रमोपसंहारश्लोकैरवगम्यते। तथाहि तिथ्यर्कोपक्रमे तावद् 'उत्पत्त्यादि प्रकर्तारं हर्तारं तमसः परम् । दातारं सर्वकामानां तं भजेऽहं विकर्तनम् ॥ श्रीकान्तं तपनं श्रियं पशुपति वाचं महादेवताम् ।' इति । उपसंहारे तावद्'क्काहं मन्दमतिः कायं धर्मशास्त्रसुधानिधिः । तस्माद्भर्विलासोऽयं मार्तण्डाङ्घ्रिसरोजयोः ॥' 'तेन श्री विमण्डलान्तरगतो नारायणः प्रोयताम्' । इति । दानहीरावलोमङ्गलाचरणे'पद्मिनीगणविकासकारणं पाकशासनमदिशो विभूषणम् । यज्ञकर्मच्यहेतुमन्वहं भावये द्युमणिदेवमन्वहम् ॥' 'देवं चोष्णकर प्रणम्य तनुते श्रीदानहीरावलिम् ।' इति । आचाराकोपक्रम 'दिवाकर राव नत्वा ह्याचारार्क तनोत्यसो' ॥ इति । वृत्तरत्नाकरादर्शोपक्रम'प्रातर्भूमि रुहान विभज्य पृथिवी प्राप्तांस्तु पारीक्षिका रत्नानां निचयभ्रमेण परितश्चिन्वन्ति यान सर्वदा । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #18 -------------------------------------------------------------------------- ________________ (१४) कान्तानां कुचमण्डलेषु पतिता वाहीकरूपं गतास्ताभिः पृष्ठतराश्च ते श्रमकरा: सौराः कराः पान्तु माम् ॥' इत्यादि। 'भारद्वाजकुले श्रतिस्मृतिपटुः श्रीसूर्यभक्तस्तथा' 'जातो भास्करपूजकः पृथुयशा: श्रीनीलकण्ठो बुधः' इत्यादिपद्यद्वयी ग्रन्थकृत्पितरं मातामहञ्च भास्करभक्तमानाति । न खलु एता द्वावेव किन्तु अन्येऽप्यस्य पितृपक्षीया मातृपक्षीयाश्च पूर्वजा असाधारणी सूर्यभक्तिमावहन्ति स्मेति तत्तनिर्मितग्रन्थकदम्बकेभ्योऽवगम्यते । दिवाकरसूनुवैद्यनाथोऽपि स्वपूर्वजाननुजगामेति तत्कृततिथ्यकी. नुक्रमसमाप्तिस्थात् 'ग्रन्थे क्रमो विलिखित: सवितुः प्रसादात्' इति श्लोकाशाद् ज्ञायते । तिथ्यर्केऽस्मिन् प्रमाणत्वेन येषां ग्रन्थानां वचनानि समुद्धृतानि तेषामकारादिवर्णानुक्रमेणैका सूची ग्रन्थान्तेऽस्माभिः सन्निवेशिता । ततोऽतिरिक्तमपि ग्रन्थकारेण यत्र तत्र स्वमातुलमातामहमातृपितामहमातृप्रपितामहमातृवृद्धप्रपितामहरचितग्रन्थानामपि क्वचिन्नामोल्लेखः, कचिद् वचनचयसंग्रहोऽनुष्ठितः। तथाहि-बोधिनीनिर्णयप्रसङ्ग 'अन्योऽपि विस्तरोऽत्र मातुलकृतव्रतार्के द्रष्टव्यः' (ति० पृ०१५१) सावित्रीव्रतनिर्णये-'प्रत्र सर्वव्रतेषु कथादिकं विस्तरभिया नोक्तम्, तत् श्रीमातुलकृतव्रतार्के द्रष्टव्यम्' (ति० पृ० २०६) इति मातुलकृतप्रन्यनामनिर्देशः कृतः। प्राश्विनशुलनवमीपारणाविषये-'श्रीमातामहचरणास्तु विधवाया रजोदर्शने भोजननिषेधाभावात् तस्या अपि पारणा भवत्येव । अस्तु निषेधः, स रागप्राप्तभोजननिषेधो न तु वैधः, विधिस्पृष्टे निषेधा. नवकाशात; अन्यथा व्रतहानि: स्यात्, 'पारणान्तं व्रतं ज्ञेयम्' इत्युक्तेः' (ति० पृ० १०१) इति युक्तमुत्पश्यन्तीत्यत्रास्थाप्रदर्शनपूर्वकं वचनचयः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #19 -------------------------------------------------------------------------- ________________ ( १५ ) संगृहीतः । चैत्र चतुर्दशीव्रत विपये - ' श्रीमातामहास्तु रात्रिव्यापिनीत्येतत्पूर्वविद्धाप मित्यूचुः । तत्र स्पष्टार्थत्वात् रात्रावेव पशुपतीश्वरपूजाविधानात् च पूर्वमतमेव युक्तमाभाति' ( ति० पृ० १७८) इति अत्र तन्मतानुपादेयता प्रतिपादिता । तयाहश्राद्धविनिर्णये --' माधवादयस्तु उत्तरतिथिगतावेव वृद्धिक्षया ग्राह्यौ, न ग्राह्यतिथिगतावित्याहुः । श्रीमातामहगुरवस्तु- - रमवृद्धानन्तरमाकस्मिकक्षयस्य ज्योतिःशास्त्रमर्यादया सम्भवात् पूर्वतिथ्यपेक्षया ग्राह्यतिथिगतावेव वृद्धिक्षया ग्राह्याविति तत्त्वमित्याहु: । (ति० पृ० २६४) मत्रार्थता मातामहमतस्य सिद्धान्तपक्षताऽङ्गीकृता । 'अन्न शान्तिः मातामहकृतशान्तिमयूखे द्रष्टव्या' । ( ति० पृ० ११८ ) इति ग्रन्थनामल्लिखितम् । नृसिंह जयन्तं निर्णये— अत्रान्मातुः पितामहचरणा: नृसिंहपुराणे सामान्यतः काल उत्पत्तेरुक्तः, 'विवस्वत्यरस्तंगामिनीति घटिका परिमाणानुक्तेः । तस्य स्कान्देन निर्णयः । तत्र - हि प्रदोष उपात्तः । तल्लक्षणश्च हेमाद्रावुक्तम् 'त्रि मुहूर्त्तः प्रापः स्याद् भानावस्तं गते सति ।' इति । तस्यापि सङ्कोचो भविष्यपुराणेन, तत्र सायङ्काल इत्युक्तेः । 'नक्षत्रदर्शनात् सन्ध्या सायं तत्परतः स्थितम्' । इति । अत्र यद्यपि सायं वदेन परोऽवधिर्न लभ्यते, तथापि प्रदोषशब्देन परावधिलाभात् स यंशब्देन च पूर्वावधिलाभात् त्रिघटिकात्मकसायंसन्ध्योर्ध्वघटिकात्रयं प्रदोपसायंशब्दाभ्यां परस्परं विशेषणाल्लभ्यते जन्मकालत्वेनेति तत्कालव्यापिनी नृसिंहचतुर्दश्युपोष्येति राद्धान्तमाहुः । ( ति० पृ० १८० । इति वचनचयसंग्रहः । अत्रैव मतस्यास्य स्वाह्लादहतुत्वं परमश्लाघ्यत्व चाह ग्रन्थकारः अयं प्रकामं प्रियदर्शनत्वाद् विनिर्णयो मे रुचये बभूव । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #20 -------------------------------------------------------------------------- ________________ ( १६ ) निशीथिनीनाथ इवोदितो ऽसौ प्रभाकर: पूर्णकलो नलिन्याः ॥ इति । प्रयागस्नानप्राशस्त्यप्रतिपादनप्रसङ्गे–भत्र विशेषस्त्वस्मन्मातृप्रयाग सेतोरवगन्तव्य प्रपितामहभट्ट श्रीनारायण पदपाथेोजलिखितात् इति प्रचुरास्थाप्रदर्शनपूर्वकं ग्रन्थनामनिर्देशः कृतः । इति । स्वमातामहस्य भ्रातुः ( पितृव्यसूना: ) श्रीकमलाकर भट्टस्यापि 'सिन्धुकारज्येष्ठपदेन निर्देशः कृतः । यथा रामनवमीव्रतनिर्णयप्रसङ्गे– यत् सिन्धुकारज्येष्ठैर्नित्यत्वमङ्गीकृत्य 'वस्मात् सर्वात्मना सर्वैः कार्यम्' इत्युपक्रम्य अत्र केवलशैवस्य केवलकृष्णभक्तस्यापि नाधिकार इत्युक्तम्, तदुपक्रमेोपसंहार विरोधात् प्रमाणाभावाच्चोपेक्ष्यम् । ( ति० पृ० १८२ ) यत सिन्धुकारैर्वचनमलेखि “भास्करोदयमारभ्य यावत्तु दश माडिकाः । प्रातः काल इति प्रोक्तः स्थापनारोपणाविधौ ॥" इति विष्णुधर्मोतम, तन्महानिबन्धेष्वसत्त्वाद् भ्रान्तिमूलकमेव । ( ति० पृ० १२) दशहराप्रसङ्गे यत्त्वत्र उक्तयोगेभ्यो न्यूनयोगे न स्नानमित्युक्तं सिन्धुकार ज्येष्ठैस्तत्प्रमाणाभावादुपेच्यम् ( ति० पृ० १०८ ) । इत्यादि । सर्वत्र खण्डनदर्शनात्खण्डनायैवापात्तवान् तद्वाक्यानि न प्रमाणत्वेनेापन्यासायेति विज्ञापते । खण्डनमिदं विलेाक्य केचनामनन्ति ग्रन्थकृतोऽस्य सिन्धुकारे नासीदास्येति । श्रलमप्रस्तुतेन । ग्रन्थान्वे स्वाहङ्कारं परिहरन्नभिहितवान् ग्रन्थकारःउक्तं नात्र मया स्वयं स्वरचितं यद्भट्ट पादादिभिः प्रोक्तं कालविनिर्णये तदखिलं स्पष्टं परज्ञप्तये । सन्दिष्टं गुरुदत्तमन्त्रकृपया शार्दूलविक्रीडित Shree Sudharmaswami Gyanbhandar-Umara, Surat - www.umaragyanbhandar.com Page #21 -------------------------------------------------------------------------- ________________ ( १७ ) तेन श्रीरविमण्डलान्तरगतो नारायणः प्रीयताम् । इति । के सन्ति ते भट्टपा दादयो याननुसृत्य कृतोऽयं ग्रन्थ इति जिज्ञासायाम् 'विभाव्य मातामहसम्प्रदायं जन्माष्टमीनिर्णयमातनामि ।' इति जन्माष्ट नीनिर्णयारम्भपद्य संदर्शनात्, 'श्रीमातुलकृतव्रतार्क' द्रष्टव्य : ' ' श्रीमात महकृतशान्तिमयूखे द्रष्टव्यः' इत्यादिवाक्य कदम्बदर्शनात्, अन्यस्य तादृशातिप्रसिद्धस्य भट्टस्य प्रकृतग्रन्थे समुल्लेखाभावाच्च स्वमातृपतीयाः श्रीनीलकण्ठभट्टादय एव भट्टपादादिपदेन ग्रन्थकारण निर्दि इति स्पष्टम् । ग्रन्थस्यास्य सशोधनाधारभूता एकैव मातृका । सा च सरस्वती - भवनग्रन्थागारात् श्रीकाशिकराजकीय संस्कृत पाठशालाप्रधानाध्यक्षाणां तत्रभवतां पण्डित प्रवरगोपीनाथ कविराज एम० ए० महोदयानामनुकम्पयाऽधिगता । तैरनुकम्पयाऽनया भृशमनुगृहीताः कृतज्ञतापूर्वकं सप्रश्रयं साधुवादशतैस्तान् संयोजयामः । मातृकायास्तन्या: क्वचित् कचिदस्पष्टाक्षरतया अशुद्धप्रायतया च पदे पदे लेशतः क्लेशमावहन्तो वयं निर्णय सिन्धुकालमाधव हेमाद्रिष्वपि समुद्धृतानि तान्ये । वचनानि दर्श दर्श मूलपाटं शोधयितुं प्रायतिमहि । कचित्तु मूलग्रन्यैक्येऽपि निर्णयसिन्धुसमुद्धृतवचनापेक्षया तिथ्यर्कसमुद्धृतवचनेषु वैलक्षण्यं नयनगोचरीभूतम्, परन्तु सत्र लेखकप्रमादमङ्गीकृत्य विभिन्नसकल संस्करणसंवादी निर्णयसिन्धुपाठ एव प्रामाणिकत्वे कृताऽस्माभिः । इत्थं सपरिश्रमं परिशोधितेऽप्यस्मिन् ग्रन्थे सर्वथा नास्ति स्खलितानामभावः । अताऽभ्यर्थ्यन्ते गुणैकपक्षपातिनो मनीषिणो यदत्र मदीयदृष्टिदोषेण आयनाक्षर संयोजकानामनवधानतया अनभिनवतया चायसाक्षराणां जातानि स्खलितानि संक्षम्य अनुगृह्णन्तु जनमिममिति शम् । काशी } अक्षयतृतीया स० १९८६ Shree Sudharmaswami Gyanbhandar-Umara, Surat सतामाश्रवः श्रीकृष्णपन्तः www.umaragyanbhandar.com Page #22 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #23 -------------------------------------------------------------------------- ________________ तिथ्यर्कविषयसूची विषयाः पृ० पं० १---५ २ -५ ~ arror 2 - मङ्गलाचरणम् मातृवंश्यानुवर्णनपूर्वकं स्ववंश्यानुवर्णनम् विधिनिरूपणम् तिथीना लक्षणम् , तद्वविध्यञ्च... निर्णयस्य लक्षणम् प्रतिपन्निर्णयः प्रतिपन्नामनिरुक्तिः एकभक्तादिनिर्णयः तिथिदेवपूजनम् नन्दादिसंज्ञाकथनम् प्रतिपदादितिथिषु वानि चैत्रशुक्लप्रतिपनिर्णयः शकादिश्रवणम् निम्बप्राशनम् वासन्तनवरात्रप्रतिपादनम् प्रपादानम, प्रभावे घटदानम् ज्येष्ठप्रतिपत्कृत्यम् भाद्रशुक्लप्रतिपत्कृत्यम् आश्विनकृष्णप्रतिपत्कृत्यम् आश्विनशुलप्रतिपदि नवरात्रानुवर्णनम् 9000 ५ ८-११ १०-११ ११---२ ११--८ ११-१६ ११-२० . ... Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #24 -------------------------------------------------------------------------- ________________ विषयाः वेदिकानिर्मितिः कलशद्रव्यकीर्तनम् देवीप्रतिमाद्रव्यकथनम् , तदाकारनिर्णयश्च नवरात्रे वेदिकापरिमाणम्, पूजकनियमाश्च देवीपूजाप्रयोगः कुमारीपूजनम् कुमारिकावयोनिरूपणम् पूजनानहकन्यका: कन्याभावे प्रतिनिधिः चण्डीपाठजपविधिः सूतके देवीपूजनम् मलमासे देवीपूजननिषेधः देवीपूजायां चतुर्णा वर्णानामधिकार: नवरात्रे अश्वपूजा तद्विधानक्रमश्च ... नवरात्रे प्रायुधपूजामन्त्रा: कार्तिकप्रतिपन्निर्णय: कार्तिकशुक्लप्रतिपदि तैलाभ्यङ्गः कार्तिकशुक्लप्रतिपदि द्यूतक्रीडा ... कार्तिकशुक्लप्रतिपदि गोवर्धनादिपूजनम् चैत्रकृष्णप्रतिपत्कृत्यम् विभूतिवन्दनमन्त्रः चूतकुसुमप्राशनमन्त्रः द्वितीयानिर्णयः चैत्रशुक्लद्वितीयायामुमापूजाग्निपूजा च :: :: :: :: :: :: :: :: :: :: :: :: पृ० पं० १४-१० १४-१२ १४-१६ १५---१ १५---४ १७---३ १७-१६ १८---३ १८--८ १८-१६ १८-१६ १६-११ २०-६ २०-१४ २२-६ २७-१३ .. २८--७ २६-८ २६-१८ ३१--७ ३१-१३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #25 -------------------------------------------------------------------------- ________________ विषयाः ज्येष्ठशुक्लद्वितीयाया: सोपपदात्वम् तत्राध्ययनवर्जनम् आषाढशुक्लद्वितीयायां रामयात्रोत्सवः श्रावणकृष्णद्वितीयायां बृहत्तपाव्रतम् अशून्याख्यव्रतम् यमद्वितीयानिर्णयः, तत्र कृत्यञ्च चैत्रकृष्णद्वितीयायामनङ्गोत्सव: अनङ्गोत्सवनिर्णयः योगिनीनिर्णय: ... तृतीयानिर्णयः चैत्रशुक्लतृतीयायां दोलोत्सवः ... चैत्रशुक्लतृतीयायां गौरीपूजनकालनिर्णय: चैत्रशुक्लतृतीयायां सौभाग्यवतम् ... मत्स्यजयन्तीतृतीया अक्षयतृतीयानिर्णयः, तत्कृत्यञ्च परशुरामजयन्ती तत्कालनिर्णयश्च ज्येष्ठशुक्लतृतीयायां रम्भाव्रतम् भाद्रकृष्णतृतीयायां विशालाक्ष्यर्चनविधि: कज्जलीनिर्णयः भाद्रशुक्लतृतीयायां हरितालिकाव्रतम् आश्विनशुक्लतृतीयायां ललिताविधि: चतुर्थीनिर्णय: .... चैत्रशुक्लचतुर्थ्या' गणेशार्चनम् ... ज्येष्ठशुक्लचतुर्थ्या पार्वतीपूजनम् : :: :: :: :: :: :: :: :: :: :: : : : पृ० पं० ३१-२० ३२--३ ३२--६ ३२-१२ ३२-१६ ३३-----१ ३४--८ ३४-१३ ३४-१६ ३४-१७ ३५---६ ३५--१४ ३६--५ ३६-१० ३८--१ ३८-१८ ३६--५ ३६--६ ३६-१४ ४०--६ ४०-१३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #26 -------------------------------------------------------------------------- ________________ विषया: संकष्ट चतुर्थीनिर्णय: बहुला चतुर्थीनिर्णय: भाद्रशुक्लचतुर्थीनिर्णय: भाद्रशुक्लचतुर्थ्यां चन्द्रदर्शनदोषः भाद्रशुक्लचतुर्थ्याः भैौमादियोगेन प्राशस्त्यम् मार्गशुष्ठचतुर्थ्या वरचतुर्थीव्रतम् वरचतुर्थ्यामेकभक्तादिनिर्णय: नक्तस्वरूपम्, तत्कालश्च सन्ध्याशब्दार्थनिर्णयः ( ४ ) नक्तम् उपाङ्गललितादेवी पूजाकालनिर्णय: मार्गशुपञ्चमीनिर्णय: ... ⠀⠀⠀ 100 ... ... सौरनक्तं, विधवायाश्च नक्तत्रविनोऽयाचितत्वादिनिर्णयः माघकृष्णचतुर्थ्यां संकष्टाख्यद्र तम् तिल चतुर्थीनिर्णय: कुन्दचतुर्थीनिर्णयः फाल्गुनादिषु चतुर्षु मासेषु चतुर्थीत्रतम पञ्चमीनिर्णय: चैत्रशुक्लपञ्चम्यां श्रीपूजनम् नागपच्चम्यां नागपूजन निर्णय: ऋषिपञ्चमीनिर्णयस्तत्कृत्यभ्व ... ... ... माघशुपचम्यां वसन्तोत्सव निर्णयः षष्ठीनिर्णयः Shree Sudharmaswami Gyanbhandar-Umara, Surat ... ... ... ... ... : ... पृ० पं० ४०-१७ ४१--३ ४१-७ ४२-३ ४२-१७ ४३-५ ४३—१६ ४४-१४ ४५- .१ ४६-१२ ४७--१ ४७---८ ४७–१६ ४८-४ ४८- -११ ४८ - १४ ४८—१२ ५०- १६ ५१-८ ५२-१३ ५३- -३ ५४--१ ५४१० ५४ - १७ www.umaragyanbhandar.com Page #27 -------------------------------------------------------------------------- ________________ ( ५ ) विषया: षष्ठयां रवियुक्तायां लोलार्क यात्रा... स्कन्द षष्ठोनिर्णयः कपिलाषष्ठी तत्कृत्य भ्व हलषष्ठी भाद्रशुक्ला सूर्य षष्ठी आश्विनशुकुष्ठ विल्वाभिमन्त्रणम् चम्पाषष्ठी निर्णयः सप्तमी निर्णय: चैत्रशुक्लसप्तम्यां भास्करपूजनम् गङ्गासप्तमी, तत्पूजनञ्च आषाढशुक्लसप्तम्यां सूर्य पूजनम् आश्विन शुक्लसप्तम्यां देवीपूजनम् दुर्गापूजायां त्रिरात्रादिकालकथनम् आश्विनशुक्ल सप्तम्यां विल्वशाखार्चनम् मूल देवीपूजनम्, तत्र चाध्ययन निषेधः मार्गशीर्षादिचतुर्मासेषु सप्तमी श्राद्धकथनम् मित्रसप्तमी, तत्प्रयागश्च रथसप्तमी, तत्कृत्यञ्च विजयासप्तमीनिर्णय: भानु सप्तमी, कल्याणसप्तमी च अष्टमी निर्णय: भवान्यष्टमीनिर्णय: अशोकाष्टमी निर्णयस्तत्कृत्यच वैशाख शुक्लाष्टमीकृत्यम् ... 30. ... ... ... ... ... 100 Shree Sudharmaswami Gyanbhandar-Umara, Surat ... ... : : : : ... : : : पृ० पं० ५५- १४ ५५ – १८ ५६ --४ ५७- ५७-४ ५७–१४ ५८- १५ ५८-१३ ५६ - १६ ५६—२० ६० -- - ११ ६० - १६ ६१ – १४ ६२–६ ६२—१४ ६३--१ C ६४ ६६- -६ ६६ - १५ -१ ६७ - १३ ६८ - १५ ६६–१७ www.umaragyanbhandar.com Page #28 -------------------------------------------------------------------------- ________________ पृ० पं० ७०--७ ७०-११ ७०-१५ ७१---३ ७१-१२ ७८-८ ८१--१ ८२-१४ ८३-२० ८४--- ८५-२० विषयाः ज्येष्ठकृष्णाष्टमीकृत्यम् ... ज्येष्ठशुक्लपक्षेऽष्टम्यां देवीपूजनम् ... प्राषाढशुक्लाष्टम्यां महिषघ्नीपूजनम् कृष्णजन्माष्टमीनिर्णय: श्रीकृष्णजन्माष्टमीग्रहणप्रकारः तत्पारणाकालनिर्णयश्च दूर्वाष्टमी, तत्कृत्यञ्च भाद्रशुक्लाष्टम्या ज्येष्ठापूजनम् । महालक्ष्मीव्रतकथनम् प्रष्टकानिर्णयः महाष्टमीनिर्णयः गोपाष्टमीनिर्णयः भैरवाष्टमीनिर्णयः अष्टकाश्राद्धकालनिर्णयः ... महाभद्रास्वरूपम् भीष्मतर्पणसंग्रहः बहुलाष्टमी, तत्कृत्यञ्च ... सामान्यतो बुधाष्टम्यामेकभक्तवतं कार्यमिति निर्देशः... रामनवमीनिर्णयः रामव्रतविधिः, रामनवमीव्रते प्रतिमादानम् मलमासे रामनवमीव्रतनिषेधः चैत्रशुक्लनवम्यां भद्रकाल्यर्चनम् ... वैशाखस्योभयोरपि पक्षयोः नवम्यां भद्रकाल्यर्चनविधिः ज्येष्ठशुक्लनवम्यां पार्वतीपूजनम् ... ८८-८ ८८-१४ ८६-६ ६० -१ ६२-१७ ६५-१८ ६६--३ ६६-- Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #29 -------------------------------------------------------------------------- ________________ पृ० पं० ६६-१६ ६७-१५ ६७-१८ ६८-१३ ०११०२--५ ०६--७ विषयाः आषाढकृष्णशुक्लनवम्योरेन्द्रीपूजनम् श्रावणकृष्णशुक्लनवम्यो: कौमारीपूजा भाद्रशुक्लनवम्यां दुर्गार्चनम् आश्विनकृष्णनवम्यामन्वष्टकाश्राद्धनिर्णय: महानवमीनिर्णय: महानवम्या बलिप्रदानम् , बलिद्रव्यानुकीर्तनञ्च बलिप्रदानमन्त्र: कार्तिकशुक्लनवम्यां तुलसीविवाहः तुलसीविवाहविधि: युगादियुगान्तकथनम् , तत्कृत्यञ्च... मार्गशुक्लनवमीनिर्णयः महानन्दानवमीनिर्णयः दशमीनिर्णयः .. चैत्रशुक्लदशम्यां यमपूजनम् ज्येष्ठशुक्लदशम्यां दशहरानिर्णय: दशविधपापकथनम् योगदशकम् ... मलमासेऽपि दशहराकृत्यस्य कर्तव्यत्वम् दशहरास्तोत्रम् ... आषाढशुक्लदशम्यां मन्वादिकथनम् संक्रान्तिनिर्णयस्तदभेदप्रदर्शनञ्च ... मेषादिसंक्रमणे दानविशेषः पुण्यकालनिर्णयश्च अयनद्वैविध्यम् , तत्कृत्यञ्च :: :: :: :: :: :: :: :: : : : :: ... १०६-१४ ०६-२० १०७--७ १०७-२० १०८--३ १०८--७ १०८-१४ १११-१८ ११२---४ ११४-१६ ११६--६ ११७ --१६ ११८-१० १२२--३ :: : Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #30 -------------------------------------------------------------------------- ________________ ( ५ ) विषया: आश्विनशुदशमी निर्णयः आश्विनशुक्रुदशम्यां राजकृत्यम् अभिषेक निर्णयः दशादित्यव्रतम् एकादशी निर्णय: एकादशीमाहात्म्यम् एकदशीव्रताधिकारिणः एकादशीव्रतासमर्थस्य प्रतिनिधि: ... ... एकादशीव्रते स्त्रीणां विशेष: सूतकेऽपि एकादशीव्रतानुष्ठानम् रजसि दृष्टेऽपि नारीणामेकादशीव्रत विधानम् उपवासनियमेषु नित्यकाम्याद्युपवासभेदः वैष्णवैकादशी द्वैविध्यम् शुद्धाया एकादश्यास्त्रैविध्यम् ... ... अरुणोदयलक्षणम् वैष्णवलचणम् स्मार्तैकादशीनिर्ययः, तद्वैविध्यश्च शुद्धायाः चातुर्वियम् विद्धाया अप्येकादश्याश्चतुर्विधत्वम् नित्यकाम्यभेदेन एकादशीव्रतस्य द्वैविध्यम् काम्यैकादशीव्रतासमापने दोषः दिनक्षये पुत्रवद्गृहस्थस्यैकादश्युपवासनिषेधः उपवासनिषेधे भक्ष्यनिर्णयः हविष्यद्रव्यकथनम् ... ... Shree Sudharmaswami Gyanbhandar-Umara, Surat ... ... ... ... ... ... ... ... ... ... ... ... पृ० पं० १२३-५ १२४–१६ १२६ – १७ १२७-८ १२७-२० १२७-२० १२८ – १४ १२८–६ १३०-३ १३० - १३ १३०-२० १३१–१४ १३२-१५ १३३–१३ १३३ – १६ १३४–६ १३४ - १२ १३५–१६ १३६-१३ १३६–१६ १३७-५ १३७–१४ १३८--१ www.umaragyanbhandar.com Page #31 -------------------------------------------------------------------------- ________________ पृ० पं० १३६-५ १४०--५ १४१-६ १४१-१७ १४१-~-२० १४२ -१७ १४३---३ १४३-६ ४३-१४ १४३-१८ विषयाः चैत्रशुक्लैकादशीकृत्यम् वैशाखस्नानकालः निर्जलैकादशी, तत्र कृत्यञ्च हरिशयनी एकादशी मलमासे शयनीव्रतनिषेधः चातुर्मास्यव्रतारम्भकालः चातुर्मास्यव्रतेऽस्तादिदोषाभाव: चातुर्मास्ये व्रतसंख्याकीर्तनम् शाकभेदकथनम् द्विदलाना संख्यानम् चातुर्मास्ये वय॑वस्तूनि काम्यव्रतानां कथनम् व्रतसमाप्तौ दानम् श्रावणशुक्लकादशीकृत्यम् भाद्रशुक्लकादशीकृत्यम् आश्विनशुक्लैकादशीकृत्यम् हरिबोधिनीनिर्णयः कार्तिकशुक्लकादश्यां भीष्मपञ्चकम् पौषशुक्लकादशीकृत्यम् माघस्नानारम्भ: प्रयागस्नानमाहात्म्यम् फाल्गुनशुक्लकादशीकृत्यम् द्वादशीनिर्णयः द्वादश्यां पारणानिर्णयः : :: :: :: :: :: :: :: :: :: :: :: : १४४-१८ १४६--५ १४७--३ १४८---१ १४८-१६ १५०--८ १५०-१८ १५१-८ १५१-१६ १५३---४ १५३-१७ १५४--३ १५४--७ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #32 -------------------------------------------------------------------------- ________________ . . विषयाः चैत्रशुलद्वादशीकृत्यम् चैत्रशुक्लद्वादश्यामेव वामनार्चनम् ... वैशाखशुक्लद्वादश्यां व्यतीपातयोग: ज्येष्ठ शुक्लद्वादश्यां वटसावित्रीब्रतारम्भः रामद्वादशी तप्तमुद्राधारणम् श्रावणशुद्वादश्यां पवित्रारोपणम् पवित्रारोपणे सर्वेषामप्यधिकार: वामनजयन्तीनिर्णयः श्रवणयुक्तायाः भाद्रशुलद्वादश्याः विष्णुशृङ्खलात्वम् बुधयोगेन भाद्रशुक्लद्वादश्या: प्राशस्त्यम् इतरमहाद्वादशीनामानि प्राश्विनकृष्णद्वादशोकृत्यम् प्राश्विनशुलद्वादश्यां पद्मनाभपूजा । कार्तिककृष्णद्वादश्यां गोवत्सद्वादशीव्रतम् गोवत्सद्वादशीव्रतविधिः वय॑वस्तूनि च कार्तिक शुक्लद्वादश्यां देवोत्थापनम् तिलद्वादशीनिर्णयः सर्वासु द्वादशीषु व्रतार्पणविधिः ... द्वादश्यां वय॑वस्तूनि प्रामिषकथनम् ... ताम्रपात्रस्थैक्षवभक्षणनिषेधः त्रयोदशीनिर्णयः पक्षप्रदोषनिर्णयः वारभेदेनैतत्फलञ्च पृ० पं० १५५-१४ १५६-१७ १५६-२० १५७-४ १५७-६ १५७-१३ १५८--६ १५८-१६ १६०--६ १६१-१८ १६३-२० १६४-११ १६४-१६ १६४-२० १६५----३ १६५--७ १६७-११ १६६-४ १६६-१४ १७०-१७ १७१-५ १७१-१६ १७२---१ . .. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #33 -------------------------------------------------------------------------- ________________ ( ११ ) विषयाः अध्यापनाध्ययनयोः प्रदोषनिर्णय: चैत्रशुक्लत्रयोदश्यामनङ्गपूजनम् ... वैशाखशुक्लत्रयोदशीकृत्यम् ... भाद्रशुक्लत्रयोदश्यां गोत्रिरात्रव्रतम् कार्तिककृष्णत्रयोदश्यां यमदीपदानम् चैत्रकृष्णत्रयोदश्यां वारुणीयोगः वारुण्यां वरुणप्रतिमादानम् चतुर्दशीनिर्णयः चैत्रशुक्लचतुर्दशीनिर्णयः नृसिंहजयन्तीनिर्णयः नृसिंहजयन्यां कर्तृनिर्णयः नृसिंहजयन्तीव्रतप्रकार: अनन्तव्रतनिर्णयः कार्तिककृष्णचतुर्दश्यामभ्यङ्गस्नानम् यमतर्पणम् ... यमदीपदानम् ... वैकुण्ठचतुर्दशीनिर्णयः पिशाचमोचिनी चतुर्दशी माघकृष्णचतुर्दशीकृत्यम् रटन्तीचतुर्दशी महाशिवरात्रिनिर्णयः महाशिवरात्रौ सर्वेषामधिकारः महाशिवरात्रिव्रते पारणानिर्णयः ... चैत्रकृष्णचतुर्दशीनिर्णयः : :: :: :: :: :: :: :: :: :: :: :: : पृ० पं० १७३–१३ १७४--१ १७४-११ १७४-१६ --२ १७६--२ १७६-११ १७७--५ १७८--२ १७८-१६ १८० १६ १८०-१६ १८१-२० १८२-१६ १८५--६ १८६--६ १८७--४ १५-१६ १८८-५ १८८-८ १८८-१० १६६-१३ १६७-१७ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #34 -------------------------------------------------------------------------- ________________ विषया: श्रमावास्यानिर्णयः ( १२ ) सोमवत्या प्रमावास्यायाः प्राशस्त्यम् ज्येष्ठामायां वटसावित्रीव्रतकथनम् ... भाद्रामायां दर्भसंग्रहः कार्तिकामावास्याव्रतम् श्रद्धादयविधिः : योगविशेषैरमायाः व्यतीपात संज्ञा पौर्णमासीनिर्णय: व्यासपूजा च श्रावण पौर्णमासी निर्णय: श्रावण्यामुपाकर्मादि निर्णयः चैत्रस्य पूर्णिमा वैशाख पूर्णिमाया वैशाखोद्यापनम् ज्येष्ठपौर्णमास्यां सावित्रीत्रतम् आषाढपूर्णिमाया कोकिलाव्रतम् ... ... .... ... ... ... रक्षाबन्धनम् भद्रायां रक्षाबन्धन निषेधः श्रावण्यां पूर्णिमायां हयग्रीवयात्रा भाद्रपौर्णमास्यां नान्दीमुखश्राद्धम् आश्विन पूर्णिमाकृत्यम् कार्तिक पूर्णिमायां कार्तिकेयदर्शनम् a ... कार्तिकव्रतिन उद्यापनम् मार्गशीर्ष पूर्णिमायां प्रत्यवरोहणम् पौष पूर्णिमाकृत्यम् ... ... ... Shree Sudharmaswami Gyanbhandar-Umara, Surat ... ... ... ... ... ... ... ... ... :: :: : : ... ... पृ० पं० १८८३ १६८-६ १८८-३ १६६-६ १६६-१५ २०२-२ २०३–२० २०४६ २०५–२० २०६६ २०८--४ २०६८ २११-१ २१२–६ २१८-१ २१८-२० २२०-३ २२०७ २२०-१५ २२१२२२–१७ २२४६ २२४-१४ € www.umaragyanbhandar.com Page #35 -------------------------------------------------------------------------- ________________ ( १३ ) विषयाः माघपूर्णिमाकृत्यम् माघस्नानोद्यापनम् फाल्गुनपर्णिमायां होलिकानिर्णयः भद्रापुच्छम होलिकाकृत्यम् मलमासे होलिकायाः शुद्धमासे विधानम् होलोत्सवः इष्टिकालनिर्णयः विकृतिकाल: आग्रयणकाल: ग्रहणनिर्णय: दानश्राद्धादिकालः स्नानतीर्थविनिर्णयः मासनिर्णयः, तद्भेदकथनश्च मासदेवाः ... मलमासनिर्णय: ... चान्द्रादिभेदेन संवत्सरस्य त्रैविध्यम् कलिवानि पर्ववानि ... तैलवर्जनकालः ... पुष्पतैलनिषेधः अष्टम्यादिषु वानि जन्मदिनकृत्यम् जन्मदिने वानि पितृयज्ञनिर्णयः ... : :: :: :: :: :: :: :: :: :: :: :: :: प० पं० २२५-१० २२५-२० २२६-२ २२७-१ २२८--४ २२८-१० २२८-१३ २२६--१ २३४-१६ २३५-१२ २३५-१८ २३७-१८ २४०-१२ २४४२४६--६ २४६-१४ २५३-४ २५५--४ २५७---१ २५७-१८ २५८-१ २५८-६ २५८-१६ २५६-१४ २६३-१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #36 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #37 -------------------------------------------------------------------------- ________________ श्रीः श्रीगणेशाय नमः। श्रीदिवाकररचितः तिथ्यर्कः . जानकीनयनयुग्मगोचरं मानिनां नयनयोरगोचरम् । नीलमेघरुचिरच्छवि सदा भावये मनसि राघवं मुदा ॥१॥ उत्पत्त्यादिप्रकर्तारं हर्तारं तमसः परम् । दातारं सर्वकामानां तं भजेऽहं विकर्त्तनम् ॥ २॥ श्रीरामेश्वरमूरिसूनुरभवन्नारायणाख्यो महान् येनाकार्यविमुक्तके सुविधिना विश्वेश्वरस्थापना । तत्पुत्रो विबुधाधिपः क्षितितले श्रीशङ्करस्तत्सुतो जातो भास्करपूजकः पृथुयशाः श्रीनीलकण्ठो बुधः ॥ ३ ॥ भारद्वाजकुलेऽमले समभवत् श्रीबालकृष्णाभिधः साहित्यामृतवारिराशिरतुलः सर्वद्विजाना गुरुः । तत्सूनुः प्रथमो महामणिरिव प्रख्यातकीर्तिगुणैर्जातो न्यायनये बृहस्पतिसमो नाम्ना महादेवकः ॥ ४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #38 -------------------------------------------------------------------------- ________________ तिथ्यर्कः तत्पुत्रेण दिवाकरेण विदुषा श्रीनीलकण्ठपभोदौहित्रण बुधैः सुधारससमास्वाद्यः परेषां कृते । तिथ्यर्कः क्रियते प्रणम्य पितरं बालां तथा मातरं श्रीकान्तं तपनं श्रियं पशुपतिं वाचं महादेवताम् ॥ ५ ॥ अत्र विध्युक्तकर्मानुष्ठानफललब्ध्यर्थ तदङ्गत्वेन षोडशतिथीनां निर्णयः कृत्यश्चोच्यते । अत्यन्ताप्राप्तपापण हि विधिः । तदुक्तं वार्तिककारैः "विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते" ॥ इति । अस्यार्थः—यस्य यदर्थत्वं प्रमाणान्तरेणाप्राप्तं तस्य तदर्थत्वेन यो विधिः सेोऽपूर्वविधिः । यथा-'ज्योतिष्टोमेन स्वर्गकामो यजेते'त्यादिः । ज्योतिष्टोमस्य हि स्वर्गार्थत्वं न प्रमाणान्तरेण सिद्धं किन्त्वनेनैव विधिना, तस्मादयमपूर्वो विधिः । पक्षेऽप्राप्तस्य तु यो विधिः स नियमविधिः । यथा-'नीहीनवहन्यादि'त्यादिः । नियमो नामाप्राप्तांशपूरणम् । अयं विधिर्नावघातस्य वैतुष्यार्थत्वबोधकः, किन्तु नियमबोधकः । वैतुष्यस्य हि नानोपायसाध्यत्वाद् यदाऽवघातं परित्यज्योपायान्तरं ग्रहीतुमारभते, तदाऽवघातस्यामाप्तत्वेनावघातविधानात्मकमप्राप्तांशपूरणमेव करोत्ययं विधिः। पक्षेप्राप्ततादशायामवघातविधानमित्यर्थः। उभयस्या युगपत्माप्तावितरव्यावृत्तिपरो विधिः परिसंख्याविधिः। यथा-'पञ्च पश्चनखा भक्ष्याः' इत्यादिः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #39 -------------------------------------------------------------------------- ________________ तिथ्यर्क : स च इदं हि वचनं न भक्षणविधिपरम्, पञ्चनखापञ्चनखभक्षणस्य युगपत्प्राप्तेः पक्षमाप्त्यभावात् । त इदमपञ्चनखभक्षणनिवृत्तिपरमित्ययं परिसंख्याविधिरित्याचय्यैः स्पष्टीकृतत्वात् । विधिराम्नायवाक्यम् | तस्य च प्रामाण्यं स्वतः सिद्धमेव । तन्मूलकत्वात् स्मृत्यादीनामपि विधित्वेन प्रामाण्यम् । स च विधिद्विविधः प्रवर्त्तका निवर्त्तकश्चेति । तत्र प्रवर्त्तको यथा "एकादश्यामुपवसेत्पक्षयोरुभयोरपि " इति । निवर्तको यथा "एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि" इति । एवमुभयविध विध्युक्तकर्मणामधिकरणत्वेन तिथयेोऽङ्गम् । तदुक्तं निर्णयामृत "काले हि कर्म चोद्यते न कर्मणि कालः " । इति । तच विव्यङ्गत्वेन तिथयो निर्णेतव्याः । तनोति विस्तारयति चन्द्रकलां यः कालविशेषः सा तिथिः । यथेोक्तकलया तन्यत इति वा तिथिः । उक्तश्च "तन्यन्ते कलया यस्मात्तस्मात्तास्तिथयः स्मृताः" इति । सातिथिद्विविधा सम्पूर्णा खण्डा च । सम्पूर्णाक्ता स्कन्दपुराणे- ――――――― “प्रतिपत्प्रभृतयः सर्वा उदद्यादुदयाद्रवेः । सम्पूर्णा इति विख्याता हरिवासरवर्जिताः" ।। इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #40 -------------------------------------------------------------------------- ________________ तिथ्यर्कः हरिवासर एकादशी । तत्र सम्पूर्णत्वमग्रे वक्ष्यामः । तदन्या खण्डा। तत्र सन्दिग्धत्वात्खण्डैब निर्णतव्या, न तु सम्पूर्णापि प्रयोजनाभावात् । निर्णयलक्षणमुक्तं निर्णयामृते "तत्त्वे विप्रतिपन्नानां वाक्यानामितरेतरम् । विरोधपरिहारोत्र निर्णयस्तत्त्वदर्शनम् ॥” इति । सर्वतिथिषु स्मृत्यायुक्तमनुष्ठान कृत्यम् । अथ तिथिनिर्णयः । तत्रादौ. संवत्सरारम्भे प्रथमोपस्थितत्वात् प्रतिपन्निणीयते । अस्याश्च नामनिरुक्तिरुक्ता भविष्ये "तिथीनां प्रवरा यस्माद् ब्रह्मणा समुदाहृता । प्रतिपाद्या पदे पूर्व प्रतिपत्तेन सोच्यते" ॥ इति । यद्वा, प्रतिपद्यते-उपक्रम्यते मासादिरनयेति प्रतिपत् । सा शुक्लपक्षे प्रतिपत् पूर्वविद्धा ग्राह्या, प्रतिपदप्यमावास्येति युग्मवाक्यात् । सापि यदा पञ्चधा विभक्तस्याश्चतुर्थनागव्यापिनी तदैव पूर्वविद्धा ग्राह्या । अपराह्नोत्तरकाले तु प्रवृत्ता उत्तरविद्धव ग्राह्या, "प्रतिपत्संमुखी कार्या या भवेदपरालकी" इति मदनरत्ने स्कान्दात् । ____संमुखी पूर्वविद्धा कृष्णपक्षे परा, 'प्रतिपत् सद्वितीया स्यादि'त्यापस्तम्बीययुग्मवाक्यात् । उपवासे तु शुक्ला कृष्णापि प्रतिपत्पूर्वैव ग्राह्या, "प्रतिपत्पञ्चमी चैव उपोष्या पूर्वसंयुता" इति जाबालिवचनात् । अयं सामान्यतो निर्णयः, विशेषत Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #41 -------------------------------------------------------------------------- ________________ तिथ्यर्कः स्तत्र तत्र वक्ष्यते। ननु पूर्वविद्धायां प्रतिपदि विहिता यः पापक्षयार्थमुपवासस्तस्य सङ्कल्पः कि प्रातः कार्यः ? उत प्रतिपत्प्रवेशे ? इति । नायः, “यो यस्य वहितः कालः कर्मणस्तदुपक्रमे । विद्यमाना भवेदङ्ग नोज्झितापक्रमेण तु ॥" इति स्कान्दाद् अमावास्याकाले प्रतिपदुपवाससङ्कल्पायोगात्। न द्वितीयः पक्षः,--प्रातः सङ्कल्पयेद्विद्वानुपवासवतादिकम्' इति वचनात्प्रातः कालस्यैव सङ्कल्पाङ्गत्वयोगात् । सिद्धान्तस्तु "प्रातरारभ्य मतिमान् कुर्यान्नक्तवतादिकम् ।। नापाराले न मध्याह्न पित्र्यकालो हि तो स्मृती ॥" इत्यादिवाक्य : प्रातरेव सङ्कल्पः कार्यः, यद्यपि तदानीं ज्योतिःशास्त्रसिद्धयतिपदभावोऽस्ति तथापि स्मृतिभिरापादितप्रतिपत्साकल्यसनावात् । “यां तिथि समनुप्राप्य अस्त याति दिवाकरः । तिथिः सा सकला ज्ञेया दानाध्ययनकर्मसु ।।" कर्मसु-उपवासनक्तादिपु । अत्रास्तमया -पूर्व त्रिमुहूर्त्ता तिथिवि ज्ञेया न न्यूना । "यां प्राप्यास्तमुपैत्यर्कः सा चेत्स्यात्रिमुहूर्ति का । धर्मकत्येषु सर्वेषु सम्पूर्णा तां विदुर्बुधाः ॥" इति सौरपुराणात् । तदेवं प्रतिपदुपवासोत्तर परेयुः पारणं प्रातर्विधेयम्, उत Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #42 -------------------------------------------------------------------------- ________________ तिथ्यर्कः तिथ्यन्ते-इति सन्देहे तिथ्यन्त एवेति प्रतीमः, "तिथिनक्षत्रनियमे तिथिभान्ते च पारणम् । अतोऽन्यथा पारणे तु व्रतभङ्गमवामुयात् ॥" इति सुमन्तुवचनात् । अस्य चापवादो माधवीये-- "तिथ्यन्ते चैव भान्ते च पारणं यत्र चोद्यते । यामत्रयोद्धर्ववर्तिन्यां प्रातरेव हि पारणम् ॥” इति । यत्तु देवलवचनम् "उपवासेषु सर्वेषु पूर्वाह्न पारणं भवेत् । अन्यथा तु फलस्याई धर्ममेवोपसर्पति ॥” इति, ततपरविद्धोपवासविषयम्। "पूर्वविद्धासु तिथिषु भेषु च श्रवणं विना । उपोष्य विधिवत् कुर्यात्तत्तदन्ते च पारणम् ॥" इति नैगमात् । धर्म यमम् । अत्र माधवस्तु"तिथीनामेव सर्वासामुपवासव्रतादिषु । तिथ्यन्ते पारणं कुर्याद्विना शिवचतुर्दशीम् ॥" इति स्कन्दपुराणवचनगतादिशब्दगृहीतान्येकभक्त नक्तायाचितान्यपि यां तिथिमुद्दिश्यैतानि पूर्वेयुर्विहितानि परेधुस्तत्तिथिभागेऽतीते पश्चादोजनं कार्यम्, अन्यथा पूर्वदिनानुष्ठितैकभक्तादि व्रतानां वैकल्यं स्यादित्यभिप्रायः-इत्याह । ननु योऽयमुपवासः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #43 -------------------------------------------------------------------------- ________________ तिथ्यर्क : पूर्वविप्रतिपदि विहितः स केनापि निमित्तेन तत्र कर्तुं न शक्यते चेत्, तदोत्तरविद्धा गौणकालत्वेन ग्राद्या, किंवा मुख्यकालातिक्रमाद् व्रतत्याग एव काले हि कर्म चोद्यत इत्युक्तत्वात् । तत्र केचित परित्यागमेवाङ्गीचक्रुः, मुख्यकालातिक्रमेणाप्यनुष्टाने यदा कदाप्यनुष्ठानप्रसङ्गात, नायं दोषः, प्रतिपद्दर्शनाभावेन यदा कदाचिदनुष्ठानप्रसङ्गप्रसक्त्यभावात, विशेष्याaratयैव विशेषणस्याभ्यर्हितत्वात । अतएव माधवः - ७ कदाचित्तदसम्भवे मानान्तरेणाप्यनुष्ठानमेव श्रेयो न तु तल्लोपी युक्त इत्याह । तत्र सामान्यतः सर्वतिथिषु तिथिपतित्वेनाग्न्यादिपूजनं कार्यमित्युक्तं निर्णयामृते वह्निपुराणे "प्रतिपद्यजा स्याद् द्वितीयायां च वेधसः । दशम्यामन्तकस्यापि षष्ठयां पूजा गुहस्य च ॥ चतुर्थ्यां गणनाथस्य गौर्यास्तत्पूर्ववासरे। सरस्वत्या नवम्यां च सप्तम्यां भास्करस्य च ॥ अष्टम्यां च चतुर्दश्यामेकादश्यां शिवस्य च । द्वादश्याञ्च त्रयोदश्यां हरेश्व मदनस्य च ॥ शेषादीनां फणीशानां पञ्चम्यां पूजनं भवेत् । पर्वणीन्दोस्तिथिष्वासु पक्षद्वयगतास्वपि ॥ इति" । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #44 -------------------------------------------------------------------------- ________________ तिथ्यर्क: पूजनमित्यस्य सर्वत्रान्वयः । प्रतिपदातिथीनां त्रिरावृत्त्या नन्दादिसंज्ञोक्ता रत्नमालायाम् - " नन्दा च भद्रा च जया च रिक्ता । पूर्णेति सर्वास्तिथयः क्रमात्स्युः ॥” इति । क्रमात प्रतिपदादितिथिषु वर्ज्यानि उक्तानि पद्मपुराणे - " क्रमात्कूष्माण्डबृहती तरुणीमूलकं तथा । श्रीफलञ्च कलिङ्गञ्च फलं धात्रीभवं तथा ॥ नारिकेलमला बुं च पटोल वदरीफलम् । चर्मवृत्तावली च शाक तुलसिजं तथा ॥ शाकान्येतानि वर्ज्यानि क्रमात्प्रतिपदादिषु ||" इति । अथ चैत्र शुक्लप्रतिपन्निर्णीयते । संवत्सरारम्भे उदय व्यापिनी ग्राह्या, “चैत्रे मासि जगद् ब्रह्मा ससर्ज प्रथमेऽहनि । शुक्लपक्षे समग्रे तु तदा सूर्योदये सति ||" इति माधवीयब्राह्म वाक्यात् | दिनद्वये तद्वयाप्तौ पूर्वा, सम्पूर्णत्वात । श्रव्याप्तावपि वृद्धवशिष्ठवचनात् पूर्वैव । वचन' त्वग्रे वक्ष्यते । अत्र ब्रह्मपूजोक्ता मदनरत्ने ब्रह्मपुराणे चैत्रशुक्लप्रतिपत्कृत्योपक्रमे -- " तस्यामादौ च सम्पूज्या ब्रह्मा कमलसम्भवः ||" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #45 -------------------------------------------------------------------------- ________________ तिथ्यर्कः हेमाद्री विष्णुधर्मोत्तरे च "चैत्रमासस्य या शुक्ला प्रथमा प्रतिपद्भवेत् । तदह्नि ब्रह्मणः कृत्वा सेोपवासन्तु पूजनम् ॥ संवत्सरमवाप्नोति सौख्यानि भृगुनन्दन ! ।" इति । प्रथमा सर्वतिथीनामाया। अत्रैव शकादिश्रवणमुक्तं ज्योतिःशास्त्रे भविष्ये"चैत्रे मारित महावाहा पुण्या या प्रतिपत्परा । अस्यां वै निम्बपत्राणि प्राश्य संशृणुयात्तिथिम् । शकवत्सरभूपमन्त्रिां रसधान्येश्वरमेघपतीनाम् । श्रवणात्पठनाच्च वै नृणां शुभतां यात्यशुभं सह श्रिया॥” इति इदं मलमासे न कार्यम्, "पष्टया तु दिवसैर्मासः कथितो वादरायणैः । पूर्वमर्द्ध परित्यज्य कर्तव्या चोत्तरे क्रिया ॥" इति ज्योतिःशास्त्रं पितामहवचनात् । सिन्धुकारास्तु मल एव वत्सरारम्भः कार्य इति निष्कर्षमाहुः, स त्वनिष्कर्ष एव, वाचनिकनिषेधात् । इह च वार्षिकनवरात्रारम्भ उक्तो मार्कण्डेयपुराणे "शरत्काले महापूजा क्रियते या च वापिकी। वसन्तकाले सा नोक्ता कार्या सर्वः शुभार्थिभिः ॥” इति । नवरात्रकृत्रं शारदनवरात्रे वक्ष्यते । प्रपादानं चात्रैवोक्त भविष्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #46 -------------------------------------------------------------------------- ________________ विथ्यर्कः "अतीते फालगुने मासि प्राप्ते चैत्रमहोत्सवे । पुण्येऽह्नि विपकथिते प्रपादानं समारभेत् ॥” इति । दानशब्दात्र उत्सर्गपरः, "ततश्चोत्सर्जयेद्विद्वान् मन्त्रेणानेन,मानवः।" इति तत्रैवोक्तः। मन्त्रश्च "प्रपेयं सर्वसामान्या भूतेभ्यः प्रतिपादिता । अस्याः प्रदानात् पितरस्तृप्यन्तु हि पितामहाः ॥ अनिवार्य जलं देयं ततो मासचतुष्टयम् । त्रिपक्षं वा महाराज ! जीवानां जीवनं परम् ।। प्रत्यहं कारयेत्तस्यां भोजनं शक्तितो द्विजान् ।" इति । अशक्तेन घटो देय इति तत्रैवोक्तम् "प्रपां दातुमशक्तेन विशेषाद्धर्ममीप्सुना। प्रत्यहं धर्मघटको वस्त्रसंवेष्टिताननः ॥ ब्राह्मणस्य गृहे देयः शीतामलजलः शुचिः।" इति । घटदाने च मन्त्रः "एष धर्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः । अस्य प्रदानात्सकला मम सन्तु मनोरथाः ॥ अनेन विधिना यस्तु धर्मकुम्भं प्रयच्छति । प्रपादानफलं सोऽपि प्राप्नोतीह न संशयः ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #47 -------------------------------------------------------------------------- ________________ तिथ्यर्कः अस्यां तैलाभ्यङ्गा नित्यः। वचनं त्वग्रे वक्ष्यते । ज्येष्ठशुक्लप्रतिपत्प्रभृति दशम्यन्त दशाश्वमेधस्नानेन पापनिवृत्तिरुक्ता काशीखण्डे "ज्येष्ठे मासि सिते पक्षे प्राप्य प्रतिपदं तिथिम् । दशाश्वमेधिके स्नात्वा मुच्यते सर्वपातकैः ॥ एवं सर्वासु तिथिषु क्रमात्स्नायी नरोत्तमः । आ शुक्लपक्षदशमी प्रतिजन्माधमुत्सृजेत् ॥” इति । भाद्रशुक्लप्रतिपदि महत्तमाख्यं शिवव्रतमुक्तं स्कन्दपुराणे "मासि भादपदे शुक्ल पक्षे च प्रतिपत्तिथा । नैवेद्यन्तु पचेन्मानात् पोडश त्रिगुणानि च । फलानि पिष्टपक्वानि दद्याद् विप्राय षोडश । देवाय षोडश तथा दातव्यानि प्रयत्नतः ॥ भुज्यन्ते षोडशैतानि व्रतस्य नियमाश्रयात् ।" इति । रुद्रव्रतत्वादिदं विद्धायामेव कार्यम् । तदुक्तं ब्रह्मवैवर्ते "रुद्रव्रतेषु सर्वेषु कर्तव्या संमुखी तिथिः ।" इति । संमुखी सायाह्नव्यापिनी, "संमुखी नाम सायाह्नव्यापिनी दृश्यते यदा ।" इति माधवीयस्कान्दात् । आश्विनकृष्णप्रतिपदि महालयश्राद्धारम्भः कार्यः। आश्विनशुक्लपतिपदि शरनवरात्रारम्भ उक्तो हेमाद्रौ धौम्येन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #48 -------------------------------------------------------------------------- ________________ तिथ्यर्कः "आश्विने मासि शुक्ले तु कर्तव्यं नवरात्रकम् । प्रतिपदाक्रमेणैव यावच्च नवमी भवेत् ॥” इति । अत्र पूर्वाह्वव्यापिनी ग्राह्या, "आश्विनस्य सिते पक्षे नवरात्रमुपोषकः । सुस्नातस्तिलतैलेन पूर्वाह्ने पूजयेच्छिवाम् ॥" इति देवीपुराणे तस्य कर्मकालतोक्तः । ___ अह्नः पूर्वी भागः पूर्वाह्नः । स च दिवसस्य पञ्चधा विभागेन त्रिमुहूर्तात्मको ज्ञेयः, "मुहूर्तत्रितयं प्रातस्तावानेव तु संगवः । मध्याह्नस्त्रिमुहूर्तस्यादपरातोऽपि तादृशः ॥ सायाह्नस्त्रिमुहूर्तस्तु सर्वकर्मबहिष्कृतः ॥" इति माधवीयव्यासेोक्तः। देवीपुराणेऽपि"प्रातरावाहयेद्देवीं प्रातरेव प्रवेशयेत् । प्रातः प्रातश्च सम्पूज्य प्रातरेव विसर्जयेत् ॥” इति । यत्तु सिन्धुकारैर्वचनमलेखि "भास्करोदयमारभ्य यावत्तु दशनाडिकाः । प्रातःकाल इति प्रोक्तः स्थापनारोपणाविधौ ॥" इति विष्णुधर्मोक्तं तन्महानिबन्धेष्वसत्वाद् भ्रान्तिमूलकमेव । अत्र यानि द्वितीयाऽमावास्यायोगनिषेधकानि वाक्यानि तानि हेमाव्यादिष्वसत्वान्निर्मूलानि, परस्परं सत्मतिपक्षत्वादनिर्णायकानि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #49 -------------------------------------------------------------------------- ________________ तिथ्यर्कः चेत्युपेक्ष्याणि । दिनद्वये पूर्वाह्न काले सत्त्वेऽसत्त्वे वा निर्विवादमाधव । अत्राधनाडीषोडशकं त्यक्तवा कलशं स्थापयेत्, "प्राद्याः पे डशनाड्यस्तु लब्ध्वा यः कुरुते नरः। कलशस्थापः तत्र ह्यरिष्ट जायते ध्रुवम् ॥" इति देवीपुराणे नष्टश्रुतेरिति निर्णयामृतकारः । तदिदं सति सम्भारे ज्ञैयम् । केचित्त___"प्राधास्तु नाडिकास्त्यक्त्वा पोडश द्वादशापि वा !" इति तत्रैवोक्तत्वात् पोडश द्वादश वा नाज्यस्त्याज्या इत्यैच्छिक विकल्पमाहुः । इदं च कलशस्थापनं दिवैव कार्यम् , न रात्री स्थापन कार्यम्; न च कुम्भाभिषेचनम्" इति मात्स्यनिषेधात् । स्थापने वैधृत्यादिकागनिषेधकानि वाक्यानि तान्यपि निर्मूलानि । अत्राशक्तस्य बिर बेकराने उक्त देवीपुराणे "नवरात्रवते शक्तस्त्रिरात्रं चैकरात्रकम् । व्रत चरति यो भक्तस्तस्मै दास्यामि चाञ्छितम् ॥” इति । तच्च त्रिरात्रं सप्त-यादिदिनत्रये कार्य्यम् । तदुक्तं हेमाद्र धौम्येन “त्रिरात्रं वा पे कर्त्तव्यं सप्तम्यादि यथाक्रमम् ।” इति । एकरात्रं तु अष्टम्यां कार्यम् । तच पुत्रवद्गृहस्थभिन्नपरमुक्त कालिकापुराणे "उपवासं महाष्टम्यां पुत्रवान्न समाचरेत् ।” इति । महाष्टमी-आश्विन शुक्लाष्टमी चैत्रशुक्लाष्टमी च । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #50 -------------------------------------------------------------------------- ________________ १४ तिथ्यर्कः ____ अथ संक्षेपेण नवरात्रकृत्यम् । तत्रादी कई नियमा देवीपुराणे "कन्यासंस्थे रवौ शक्र ! शुक्लामारभ्य नन्दिकाम् । अयाची त्वथ चैकाशी नक्ताशी वाथ वाय्वदः ।। प्रातःस्नायी जितद्वन्द्वस्त्रिकालं शिवपूजकः । जपहोमसमायुक्तः कन्यकां भाजयेन्मुदा ॥" नन्दिको प्रतिपदम् । ननु नन्दिकापदेन पष्ठ्येव गृह्यतामिति चेत्, न; तद्ग्रहणे सति नवरात्रत्वव्याघातापत्तेः। शिवा च शिवश्व शिवा तयोः पूजकः शिवपूजकः। कलशस्थापनप्रकारो यामले "शुभाभिमृत्तिकाभिश्च पूर्वे कृत्वा तु वेदिकाम् । यवान्नं वापयेत्तत्र गोधूमैश्चापि संयुतम् ॥ तत्र संस्थापयेत्कुम्भं विधिना मन्त्रपूर्वकम् । सौवर्ण राजत वापि ताम्र मृण्मयजं तु वा ॥" इति । इदं च कुम्भस्थापनं देवीप्रतिमापूजार्थम्, 'पूज्या मण्डलकुम्भस्था' इति देवीपुराणात् । प्रतिमा च हेमादिमयी। तदुक्तं देवीपुराणे-- . "हेमराजतमृद्धातु शैलचित्राप्तिापि वा । खड्ग शूलेऽर्चिता देवी सर्वकामफलप्रदा ॥इति । प्रतिमालक्षणश्च-'चतुर्भुजा महिषारूढा' इत्यादिकं समयमयूखे द्रष्टव्यम् । वेदिकापरिमाणं भविष्ये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #51 -------------------------------------------------------------------------- ________________ तिथ्यर्क : "दुर्गागृहं प्रकर्तव्यं चतुरस्र सुशोभनम् । रहस्यं स्वस्तिकाद्यैव चर्चित वस्त्रमण्डितम् ॥ तन्मध्ये वेदिका कार्या चतुरस्रा समा शुभा ।" इति । अथ पूजाप्रयोगः प्रतिपदि पूर्वाद्ध तिलतैलेनाभ्यक्तो यजमानः स्नात्वा देशकालो सङ्कीर्त्य नवरात्रपर्यन्तमुपवासाद्यन्यतमनियमापेतोऽहं दुर्गाप्रीतिद्वारा सर्वापच्छान्तिपूर्वकं दीर्घायुर्विपुल धनपुत्र पौत्राद्यनवच्छिन्नसन्तति वृद्धिस्थिर लक्ष्मीकीर्त्तिलाभशत्रु पराजयसर्वाभीप्रसिद्धयर्थं शारद नवरात्र प्रतिपदि विहितकलशस्थापनदुर्गापूजाकुमारीपूजादि करिष्य इति सङ्कल्प्य तदादौ निर्विघ्नता सिद्धयर्थं गण पूजनं करिष्ये । प्रथमारम्भे पुण्याहवाचनमपि कार्यम् । तत्कृत्वा महद्यौरिति भूमिं स्पृष्ट्वा, ओषधयः संवदन्तेति यवान् निक्षिप्य, आकलशेष्विति कुम्भ संस्थाप्य इमं गङ्गे इति जलेन पूर्य, गन्धद्वारामिति गन्धम्, या औषधीरिति सर्वोषधीः, काण्ड दिति दूर्वा, अश्वत्थेव इति पञ्च पल्लवान, स्योना पृथिवीति समृदः, याः फलिनीरिति फलम्, सं हि रत्नानीति पञ्चरत्नानि हिरण्यरूप इति हिरण्यम्, युवं वस्त्राणीति वस्त्रेणावेष्टय पूर्ण दवति कलशोपरि पूर्णपात्रं निधाय वरुणं सम्पूज्य, हेमादिप्रतिमायां दुर्गा षोडशोपचारैः पूजयेत् । पूजामन्त्रस्तु देवीपुराणे- 9 १५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #52 -------------------------------------------------------------------------- ________________ तिथ्यर्कः "जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥ अनेनैव तु मन्त्रेण जपहोमादि कारयेत् ।। इति । तत्रादौ महाकाल्यै नमः, महालक्ष्म्यै नमः, महासरस्वत्यै नमः, प्रभायै नमः, मायायै नमः, जयायैः नमः, विशुद्धायै नमः, नन्दिन्यै नमः, सप्रभायै नमः, विजयायै नमः, सर्वसिद्धिप्रदायै नमः, वज्रनखदंष्ट्रायै नमः। एभित्रयोदशनामभिः पीठपूजां कृत्वा देवीं ध्यायेत् । ध्यानमुक्तं शारदायाम् "सिंहस्था शशिशेखरा मरकतपख्या चतुर्भिभुजैः शङ्ख चक्रधनुःशरांश्च दधती नेत्रस्त्रिभिः शोभिता । आमुक्ताङ्गदहारकङ्कणरणत्काञ्ची कणन्नूपुरा दुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला ॥" इति ध्यात्वा, पूर्वोक्तमन्त्रेण दुर्गायै नमः-अनेनैवावाहनादि पुष्पसमर्पणान्तं कृत्वा अङ्गपूजां कुर्यात् । दुर्गायै नमः पादौ पूजयामि, कात्यायन्यै नमो गुल्फो पूजयामि, सावित्र्यै नमो जानुनी पूजयामि, सरस्वत्यै नमो जङ्घ पूजयामि, भद्रकाल्यै नमः कटिं पूजयामि, मङ्गलायै नमो नाभिं पूजयामि, शिवायै नम उदरं पूजयामि, क्षमायै नमो हृदयं पूजयामि, धात्र्यै नमा हस्तौ पूजयामि, स्वधायै नमः कण्ठं पूजया में, महिषमर्दिन्यै नमो मुखं पूजयामि, नारायण्यै नमो नासिकां पूजयामि, रौद्रायै नमः श्रोत्रे पूजयामि, सिंहवाहिन्यै नमो नेत्रे पूजयामि, कालरात्र्यै Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #53 -------------------------------------------------------------------------- ________________ तिथ्यर्कः नमो ललाटं पूजयामि, कुमार्यै नमः शिरः पूजयामि, महादेव्यै नमः सर्वाङ्ग पूजयामि । ततो धूपादिपूजां समाप्य, कूष्माण्डादिवलिं निवेद्य, कुमारीपूजा कार्या। तदुक्तं नवरात्रप्रकरणे देवीपुराणे “न तथा तुष्यते शक्र ! जपहोमसमाधिना । कुमारीपूजनेनात्र यथा देवी प्रसीदति ॥” इति । स्कान्देऽपि "आयुष्यबलद्धयर्थ कुमारी पूजयेन्नरः ।" इति । कुमारीपूजामन्त्रस्तु स्कान्दे “मन्त्राक्षरमयीं लक्ष्मी मातणां रूपधारिणीम् । नवदुर्गात्मिकां साक्षात्कन्यामावाहयाम्यहम् ॥ जगत्पूज्ये ! जगद्वन्ध ! सर्वशक्तिस्वरूपिणि ! पूजां गृहाण कामारि ! जगन्मातर्नमोऽस्तु ते ॥ कञ्चुकैश्चापि वस्त्रैश्च गन्धपुष्पाक्षतादिभिः । नानाविधैर्भक्ष्यभोज्योजयेत्पायसादिभिः ।।" इति । कुमारीवयाप्रमाणं पदनरत्ने स्कान्दे "एकवर्षा तु या कन्या पूजार्थे तां विवर्जयेत् । गन्धपुष्पफलादीनां प्रीतिस्तस्या न विद्यते ॥ द्विवर्षकन्यामारभ्य दशवर्षावधि क्रमात् । पूजयेत्सर्वकार्येषु यथाविध्युक्तमार्गतः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #54 -------------------------------------------------------------------------- ________________ १८ तिथ्यर्कः ब्रह्माणी सर्वकार्येषु अर्थार्थे नृपवंशजाम् । लाभार्थे वैश्यवंशोत्यां सुतार्थे शूद्रवंशजाम ॥" इति । अपूज्यकन्या उक्तास्तत्रैव "हीनाधिकाङ्गी कुष्ठीं च विनाशिकुलसम्भवाम् । ग्रन्थिस्फुरितशीर्णाङ्गी रक्तपूयत्रणाङ्किताम् ॥ जात्यन्धा केकरां काणी कुरूपां तनुरोमशाम् । सन्त्यजेद्रोगिणीं कन्यां दासीगर्भसमुद्भवाम् ॥” इति । ययोक्तकन्यालाभे तु देवीपुराणे "विवाहानन्तरं कन्यां कन्यात्वमुपजायते । तावत्संपूजयेत्कन्यां यावत्पुष्पं न दृश्यते ॥” इति । ततो देवी प्रार्थयेत् "महिषन्नि ! महामाये ! चामुण्डे ! मुण्डमालिनि ! । द्रव्यमारोग्यविजयं देहि देवि ! नमः सदा ॥" ततश्च दुर्गाग्रतो मन्त्र जपेत् । तदुक्तं देवीपुराणे "दुर्गाग्रतो जपेन्मन्त्रमेकचित्तः समाहितः ।" इति । जपोत्तरं चण्डीपाठोऽपि तत्रैवोक्तः "एकोत्तराभिटक्या तु नवमीं यावदेव हि । चण्डीपाठं यजेच्चैव याजयेद्वा विधानतः ॥” इति । नवरात्रारम्भोत्तर सूतके प्राप्ते विशेषो विश्वरूपनिबन्धे "आश्विने शुक्लपक्षे तु प्रारब्धे नवरात्रके। शावे सूते समुत्पन्ने क्रिया कार्या कथं बुधैः ।" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #55 -------------------------------------------------------------------------- ________________ तिथ्यर्कः इति प्रश्ने कृतमुत्तरम् "मूतकं वर्तमाने च तत्रोत्पन्नं यदा भवेत् । देवीपूजा प्रकर्तव्या पशुयज्ञविधानतः ।। मूतक पूजनं मोक्तं दानं चैव विशेषतः । देवीमुद्दिश्य कर्त्तव्यं तत्र दापा न विद्यते । मूतके पारणं कुर्यान्नवम्यां होमपूर्वकम् । तदन्ते भाजये द्वेषान् दानं दद्याच्च शक्तितः ।।" इति । तदन्ते मूतकान्ते । अत्र प्रारब्धे नवरात्र सूतकपाते स्वयमेव पूजादि कुर्यादिति विधानादनारब्धे त्वन्येनासगोत्रेण नित्याग्निहोत्रहामवत् का। यतव्यमिति गम्यते । अपूर्वारम्भस्तु अन्येनापि न भवति, अनारब्धत्वादेव । इदं च देवीपूजनं शुक्रास्तादावपि कार्यमिति तत्रैवोक्तम् "अस्तं गते गुरौ शुक्र सिंहस्थे विबुधाधिप । देवीपूजनमुहिष्ट स्थविरे वालके तथा ।।" देवीपूजनमुद्दिष्ट कर्तव्यत्वेनादिष्टमित्यर्थः । तथा च धर्मप्रदीप "नष्टे शुक्रे तथा जावे सिंहस्थे च बृहस्पता। कार्या चैव हि देव्यर्चा प्रत्यब्दं कुलधर्मतः ॥” इति । इदं च द्वितीयारम्भपरम् । आधारम्भस्तु शुक्रास्तादा न भवत्यव, "आद्यारम्भे विरामः स्याद् द्वितीयादो न चिन्तयेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #56 -------------------------------------------------------------------------- ________________ २० तिथ्यर्कः इति समयमयूखे विश्वरूपनिबन्धेनोदाहृतत्वात् । मलमासे तु द्वितीयनवरात्रारम्भोऽपि न भवति । तथा चोक्तं विश्वरूपनिबन्धे “ मलमासे न कर्त्तव्यं नवदुर्गोत्सवव्रतम् ।" इति । न च नवदुर्गोत्सवत्रतमित्यनेन नूतनदुर्गोत्सवत्रतं मलमासे न कर्तव्यमिति वाच्यम् , नव च ता दुर्गाश्चति व्युत्पत्त्या नवशब्दस्य संख्यावाचित्वात् । ___" नवदुर्गात्मिकां साक्षात् कन्यामावाहयाम्यहम् ।" इति स्कान्दात् संख्यावाचित्वमेव न नूतनवाचित्वम् । अत्र चाधिकारः सर्वेषाम् । तदुक्तं मदनरत्ने भविष्योत्तरे"पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे । शस्तैः प्रमुदितैर्हष्टैाह्मणैः क्षत्रियैर्विशैः ॥ शूद्वैभक्तियुतैर्लेच्छैरन्यैश्च भुवि मानवैः। स्त्रीभिश्च कुरुशार्दूल ! ............ ॥” इति । अत्र साश्वपुरुषाणामश्वपूजोक्ता तत्रैव देवीपुराणे आश्वयुक शुक्लपतिपत्स्वातियोगे शुभे दिने । पूर्वमुच्चैःश्रवा नाम प्रथमं श्रियमावहत् ।। तस्मात्साश्वैर्नरैस्तत्र पूज्योऽसौ श्रद्धया सदा । पूजनीयाच तुरगा नवमी यावदेव हि । शान्तिः वस्त्ययनं कार्य तदा तेषां दिने दिने ॥” इति । अस्यामेव अष्टम्यवधि राज्ञां लोहाभिसारिकं कर्म प्रोक्तं मदनरत्ने भविष्ये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #57 -------------------------------------------------------------------------- ________________ तिथ्यर्कः "जयाभिलापी नृपतिः पतिपत्प्रभृति क्रमात् । लोहाभिसा के कर्म कारयेद् यावदष्टमीम् ॥" तद्विधानं च तत्रैव "प्रागुदक प्रवणे देशे पताकाभिरलङकृते । मण्डपं कारयेदिव्य नवसप्तकरं परम् ।।" नवसप्तकरं षोडश हस्तमित्यर्थः ।। "आग्न्येय्या कारयेत्कुण्डं हस्तमात्रं सुशोभनम् । मेखलात्रयसंयुक्तं योन्याऽश्वत्थदलाभया ।। राजचिह्नानि सर्वाणि शस्त्राण्यस्त्राणि यानि च । आनीय मण्डपे तानि सर्वाण्येवाधिवासयेत् ॥ ततस्तु ब्राह्मणः स्नातः शुक्लाम्बरधरः शुचिः । ॐकारपूर्वकर्मन्त्रैस्तल्लिङ्गजुहुयाद् घृतम् ॥ शस्त्रास्त्रमन्त्रोतव्य पायसं घृतसंयुतम् । हुतशेष तुरङ्गाणां राजानमुपहारयेत् ।। लोहाभिसा रेक कर्म तेनैतदृषिभिः स्मृतम् । धृतपल्ययन नश्वानाजांश्च समलङ्कृतान् ॥ भ्रामयेन्नग नित्यं नन्दिघोषपुरःसरम् । प्रत्यहं नृपतिः स्नात्वा सम्पूज्य पितृदेवताः ।। पूजयेद्राज्याचेहानि फलमायविभूषणैः ।" राजचिह्नानि शस्त्राश्वादीनि । "लोहनामाऽभवत्पूर्वमसुरः सुमहाबलः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #58 -------------------------------------------------------------------------- ________________ तिथ्यर्क: स देवैः समरे क्रुद्धैर्बहुधा शकलीकृतः ॥ तदङ्गसम्भवं सर्व लोह' यद् दृश्यते क्षितौ । तस्याभिसरणाद्राज्ञो विजयः समुदाहृतः ॥" अभिसरणादर्चनात् । इदं च कर्म काम्यम्, जयाभिलाषीतिफलश्रवणात् । अत्र शस्त्रपूजैव प्रधानम्, फलसम्बन्धात् । अथाऽऽयुधादिपूजामन्त्रा मदनरत्ने विष्णुधर्मोत्तरे तत्रादौ छत्रस्य“यथाम्बुदश्छादयति शिवायेमां वसुन्धराम् । तथा छादय राजानं विजयारोग्यवृद्धये ॥" २२ अथ चामरस्य “शशाङ्कक र संकाश तीक्ष्णडिण्डिरपाण्डुर ! | प्रोत्सारयाशु दुरितं चामरामरदुर्लभ ! ॥" अथाश्वस्य "गन्धर्व कुलजातस्त्व' मा भूयाः कुलदूषकः । ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ॥ प्रभावाच्च हुताशस्य वर्द्धय त्वं तुरङ्गमान् । तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ।। रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च । स्मरत्व ं राजपुत्रत्वं कौस्तुभं च मणिं स्मर || यां गतिं ब्रह्महा गच्छेन्मातृहा पितृहा तथा । भूमिहाऽनृतवादी च क्षत्रियश्च पराङ्मुखः ॥ सूर्याचन्द्रमसौ वायुर्यावत्पश्यन्ति दुष्कृतम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #59 -------------------------------------------------------------------------- ________________ तिथ्यर्क : वजाश्व ! तां गतिं क्षिप्रं तच्च पापं भवेत्तव ॥ विकृतिं यदि गच्छेथा युद्धाध्वनि तुरङ्गम ! | रिपून् विजित्य समरे सह भर्त्रा सुखी भव ॥" अथ ध्वजस्य “शक्रकेता ! महावीर्य्य ! श्यामवर्णार्चयाम्यहम् । पत्रिराज ! नमस्तेस्तु तथा नारायणध्वज ! ॥ काश्यपेयारुणभ्रातर्नागारे ! विष्णुवाहन ! | अमेय ! दुराधर्ष ! रणे देवारिसूदन ! ॥ गमन्मारुतगतिस्त्वयि सन्निहितो यतः । साश्ववर्माऽऽयुधान् योधान रक्ष त्वं च रिपून् दह ||" अथ पताकाया: ――――― "हुतभुग्वस रुद्रा वायुः सोमो महर्षयः । नाग किन्नर गन्धर्वयक्षभूतगणग्रहाः ॥ प्रथमस्तु सहादित्यैभूतेशो मातृभिः सह । शक्रः सेनापतिः स्कन्दो वरुणश्चाश्रितस्त्वयि || प्रदहन्तु रिपून् सर्वान् राजा विजयमृच्छतु । यानि प्रयुक्तान्यरिभिरायुधानि समन्ततः ॥ पतन्तूपरि शत्रणां हतानि तव तेजसा । हिरण्यकशिपोयुद्धे युद्धे देवासुरे तथा ॥ कालनेमिवधे यद् यद्वत् त्रिपुरघातने । शोभितोऽसि तथैवाद्य शोभयामांश्च संस्मर ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat २३ www.umaragyanbhandar.com Page #60 -------------------------------------------------------------------------- ________________ २४ तिथ्यर्क : नीलश्वेतानिमान् दृष्ट्वा नश्यन्त्वाशु नृपारयः । व्याधिभिर्विविधैर्घोरैः शस्त्रैश्च युधि निर्जिताः || पूतना रेवती नाम्ना कालरात्रिश्च या मृता । दह चाशु रिपून् सर्वान् पताके! त्वमथार्चिता ||" अथ हस्तिन: “कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः । सुप्रतीकोऽञ्जना नील एतेऽष्टौ देवयोनयः ।। तेषां पुत्राथ पौत्राव वनान्यष्टौ समाश्रिताः । मन्दो भद्रो मृगश्चैव गजः संकीर्ण एव च ॥ वने वने प्रसूतास्ते स्मर योनि महागज ! पान्तु त्वां वसवो रुद्रा आदित्या समरुद्गणाः ।। भर्तारं रक्ष नागेन्द्र ! स्वामिवत्प्रतिपाल्यताम् । जयं युद्धे गमने स्वस्तिनेा व्रज ॥ श्रीस्ते सामाद् बलं विष्णेस्तेजः सूर्याज्जयेोऽनिलात् । स्थैर्य मेरोर्जयं रुद्राद्यशो देवात्पुरन्दरात् || युद्धे रक्षन्तु नागास्त्वां दिशश्च सह दैवतैः । अश्विनौ सह गन्धर्वैः पान्तु त्वां सर्वतः सदा ॥" अथ खड्जस्य — “असिर्विशनसः खङ्गस्तीक्ष्णधारो दुरासदः । श्रीगर्भो विजयश्चैव धर्मधारस्तथैव च ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #61 -------------------------------------------------------------------------- ________________ तिथ्यर्कः २५ एतानि नव नामानि स्वयमुक्तानि वेधसा । नक्षत्रं कृत्तिका ते तु गुरुर्देवो महेश्वरः ॥ रोहिण्यश्च शरीरं ते दैवतं च जनार्दनः । पिता पितामहो देवस्त्वं मां पालय सर्वदा ।। नीलजीमूतसंकाशस्तीक्ष्णदंष्ट्रः कृशोदरः । भावशुद्धोऽमर्षणश्च अतितेजास्तथैव च ॥ इयं येन धृता शोणी हतश्च महिषासुरः । तीक्ष्णधाराय शुद्धाय तस्मै खड्गाय ते नमः ॥" अथ क्षुरिकायाः "सर्वायुधानां प्रथमं निर्मितासि पिनाकिना। शुलायुधाद्विनिष्कृष्य कृत्वा मुष्टिग्रहं शुभम् ॥ चण्डिकायाः प्रदत्तासि सर्वदुष्टनिवर्हिणी । तया विस्तारिना चादिदेवानां प्रतिपादिता ॥ सर्वसत्त्वाङ्गभूतानि सर्वाऽशभनिवर्हिणी । क्षुरिके ! रक्ष पां नित्यं शान्ति यच्छ नमोऽस्तु ते ॥" अथ कटारिकायाः-- "रक्षाङ्गानि गजान् रक्ष रक्ष वाजिधनानि च । मम देहं सदा रक्ष कटारक ! नमोऽस्तु ते ॥" अथ धनुषः "सर्वायुधमहामात्र ! सर्वदेवारिसूदन ! चाप ! मां समरे रक्ष साकं शरवरैरिह । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #62 -------------------------------------------------------------------------- ________________ २६ तिथ्यर्क: धृतः कृष्णेन रक्षार्थ संहाराय हरेण च । त्रयीमूर्तिगतं देव ! धनुरस्त्रं नमाम्यहम् ॥” अथ कुन्तस्य "प्रास ! पातय शत्रूंस्त्वमनया नाकमायया । गृहाण जीवितं तेषां मम सैन्यश्च रक्ष्यताम् ॥” अथ वर्म्मण: -- " शर्मप्रदस्त्वं समरे वर्म ! सैन्ये यशोद्यमे । रक्ष मां रक्षणीयोsहं तापनेय ! नमोऽस्तु ते ॥” अथ सुवर्णदण्डस्य– "प्रोत्सारणाय दुष्टानां साधुसंरक्षणाय च । ब्रह्मणा निर्मितश्चासि व्यवहारप्रसिद्धये ॥ यशो देहि सुखं देहि जयदा भव भूपतेः । ताडयस्व रिपून् सर्वान् हेमदण्ड ! नमोऽस्तु ते ॥| " अथ दुन्दुभेः “दुन्दुभे ! त्वं सपत्नानां घेोषैर्हृदयकर्षणः । भव भूमिपसैन्यानां तथा विजयवर्द्धनः ॥ यथा जीमूतघेोषेण प्रहृष्यन्ति च वर्हिणः । तथास्तु तव शब्देन हर्षोऽस्माकं मुदावहः || यथा जीमृतशब्देन खीणां त्रासेोऽभिजायते । तथा तव च शब्देन त्रस्यन्त्वस्मद्विषो रणे ।।” Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #63 -------------------------------------------------------------------------- ________________ तिथ्यर्कः २७ अथ शङ्खस्य "पुण्यस्त्वं शङ्ख ! पुण्यानां मङ्गलानाञ्च मङ्गलम् । विष्णुना विश्रुतो नित्यमतः शान्तिप्रदो भव ॥" अथ सिंहासनस्य-- "विजयो जयदो जेता रिपुघाती भयङ्करः । दुःसहा धर्मदः शान्तः सर्वारिष्टविनाशनः । नमस्ते सर्वतोभद्र ! भद्रदो भव भूपतेः । त्रैलोक्यजयसर्वस्व ! सिंहासन ! नमोस्तु ते ॥" इति पूजामन्त्राः । इयमेव दौहित्रप्रतिपद् । अस्यां मातामहश्राद्धं कार्यम् । तदुक्तं हेमाद्रौ__"जातमात्रोऽपि दौहित्रो विद्यमानेऽपि मातुले । कुर्यान्मातामहश्राद्ध प्रतिपद्याश्विने सिते ॥” इति । अथ कार्तिक शुक्ल प्रतिपत् पूर्वविद्धा ग्राह्या "पूर्वविद्धा प्रकर्तव्या शिवरात्रिर्वलेर्दिनम् ।” इति बृहद्यमोक्तः। अत्रापि तैलाभ्यङ्ग आवश्यक इत्युक्तं दृद्धवसिष्ठेन "वत्सरादा बसन्तादो वलिराज्ये तथैव च । तैलाभ्यङ्गमकुर्वाणो नरकं प्रतिपद्यते ॥” इति । इयं चाभ्यङ्गे सूर्योदयव्यापिनी ग्राह्या । तदुक्तं ज्योतिर्निवन्धे "नन्दायामुदयेऽभ्यङ्गं कृत्वा नीराजनं ततः । सुवेशः सन कथागीतैर्दानैश्च दिवसं नयेत् ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #64 -------------------------------------------------------------------------- ________________ तिथ्यर्क: २८ हेमाद्रौ बलिप्रतिपदुपक्रमे --- " तस्माद् द्यूतं प्रकर्त्तव्यं प्रभाते तत्र मानवः । तस्मिन् द्यूते जयेो यस्य तस्य संवत्सरं जयः ॥ पराजया विवृद्धश्चेल्लाभनाशकरो भवेत् । दयिताभिश्च सहितैर्नेया सा च भवेन्निशा ||" इति । अत्र कृत्यान्तरं हेमाद्री भविष्ये— "प्रातर्गोवर्द्धनः पूज्यो द्यूतं चापि समाचरेत् । पूजनीयास्तथा गावस्त्याज्ये वाहनदेहिने ॥ | " पर्वतगवाः पूजामन्त्रौ तत्रैव "गोवर्द्धन ! धराधार ! गोकुलत्रारणकारक ! | बहुबाहुकृतच्छाय ! गवां कोटिप्रदा भव ॥" “लक्ष्मीर्या लोकपालानां धेनुरूपेण संस्थिता । घृतं वहति यज्ञार्थे मम पापं व्यपोहतु ||" रात्रौ बलिपूजा कार्य्येत्युक्तं हेमांद्री भविष्ये— "कृत्वैतत्सर्वमेवेह रात्रौ दैत्यपति' बलिम् | गृहस्य मध्ये शालायां विशालायां ततोऽचयेत् ॥ लोकश्चापि गृहस्यान्तः शय्यायां शुक्लतण्डुलै: । संस्थाप्य बलिराजं तु फलैः पुष्पैश्च पूजयेत् ॥” पूजामन्त्रः पादमे— "बलिराज ! नमस्तुभ्यं दैत्यदानववन्दित ! ईशशत्रे ऽमराराते ! विष्णुसान्निध्यदेो भव ||" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #65 -------------------------------------------------------------------------- ________________ २४ तिथ्यकः चैत्रकृष्णप्रतिपदि श्वपचस्पर्शो होलिकाविभूतिवन्दनं चूतकुसुमप्राशनं च कार्यमित्युक्तं भविष्योत्तरे "चैत्रे मासि महाबाहो ! पुण्या प्रतिपदा परा। यस्तस्यां श्वपचं स्पृष्ट्वा स्नानं कुर्याद् द्विजोत्तमः ।। न तस्य दुरितं किञ्चिन्नाधयो व्याधयो नृप ! ॥" तथा-"प्रवृत्ते मधुमासे तु प्रतिपत्सु विभूतये ॥ कृत्वा चावश्यकार्याणि सन्तर्प्य पितृदेवताः । वन्दयेद्धोलिकाभूति सर्वदुःखोपशान्तये ॥" विभूतिवन्दने मन्त्रः "वन्दितासि सुरेन्द्रेण वन्दिता शङ्करेण च । अतस्त्वं पाहि नो देवि ! विभूते ! भूतिदा भव ॥” इति । पुराणसमुच्चये-- "वृत्ते तुषारसमये सितपञ्चदश्यां प्रातर्वसन्तसमये समुपस्थिते च । संपाश्य चतकुसुमं सह चन्दनेन सत्यं हि पार्थ ! पुरुषोऽथ समां सुखी स्यात्" ॥ समामिति “कालाध्वनारत्यन्तसंयोगे" इति द्वितीया । कुसुमपाशने मन्त्रः "दूतमयं वसन्तस्य माकन्द ! कुसुमं तव । सचन्दनं पिबाम्यद्य सर्वकार्यार्थसिद्धये ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #66 -------------------------------------------------------------------------- ________________ तिथ्यर्कः इदं च पूर्वविद्धायामेव कार्यम् "वत्सरादौ वसन्तादौ बलिराज्ये तथैव च । पूर्वविद्वैव कर्तव्या प्रतिपत्सर्वदा बुधैः ॥" इति वृद्धवसिष्ठवाक्यात् । अत्र वेधमाह पैठीनसिः "पक्षद्वयेऽपि तिथयस्तिथिं पूर्वा तथोत्तराम् । त्रिभिर्मुहू विध्यन्ति सामान्योऽयं विधिः स्मृतः ।" इति । उदयानन्तरं स्थिता त्रिमुहूर्ता पूर्वतिथिरुचरतिथिं विध्यति । . अस्तमयात् प्राक्स्थिता त्रिमुहूर्वोत्तरतिथिः पूर्वतिथिं विध्यतीति सामान्यतो वेध इत्यर्थः । हेमाद्रयादिषु तु "उदिते दैवतं भानौ पित्र्यं चास्तमिते रवी । द्विमुहूर्त त्रिरहश्च सा तिथिहव्यकव्ययोः॥" इति विष्णुधर्मोत्तराद् द्विमुहूर्तोऽप्युक्तो वेधः । अस्यार्थः___ भानावुदिते सति यद् द्विमुहूर्त मुहूर्तद्वयं तद् दैवतं देवकर्मयोग्यम्, एवं रवावस्तमितेऽस्तासन्ने सति अस्तमयात्पूर्वं यदह्नः सम्बन्धि त्रिमुहूर्त मुहूर्तत्रयं तत् पित्र्यं पितृकर्मयोग्यम्, तस्मात् तद्वर्तिनी तिथिहव्यकव्ययाग्राह्येत्यर्थः। वस्तुतस्तु "द्विमुहूर्ता न कर्तव्या या तिथिः क्षयगामिनी । द्विमुहुर्तापि कर्तव्या या तिथिद्धिगामिनी ॥" इति दक्षवचनेऽपिकारपाठाद् द्विमुहूर्तत्वमनुकल्पः । ____ अयं वेधः प्रातरेव । सायं तु त्रिमुहूर्ताया एव तिथेः सर्वत्र ग्राह्यत्वाभिधानात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #67 -------------------------------------------------------------------------- ________________ तिथ्यर्क: तदुक्तं स्कान्दे "यां तिथिं समनुप्राप्य यात्यस्तं पद्मिनीपतिः । सातिथिस्तद्दिने प्रोक्ता त्रिमुहूर्त्तेव या भवेत् ॥” इति । अस्यां चाभ्यङ्गो नित्यः, पूर्वोक्तवाक्यात् । प्रतिपच्छुक्रेण सिद्धा, बुधभौमाभ्यां विरुद्धा | योगिन्यस्यां पूर्वस्याम् । इति प्रतिपन्निर्णीता अथ द्वितीया नियते । सा शुक्ला परविद्धा ग्राद्या, युग्मानीति वचनात् । कृष्णा पूर्वविद्धा ग्राद्या, “द्वितीया प्रतिपद्युता" । इत्यापस्तम्बवचनात् । उपवासे तु सर्वापि द्वितीया परैव । तदुक्तं विष्णुधर्मोत्तरे ३१ "एकादश्यमी पष्ठी द्वितीया च चतुर्दशी । त्रयोदशी अमावास्या उपोष्याः स्युः परान्विताः ||" इति । चैत्रशुक्ल द्वितीयायामुमापूजाग्निपूजा च कार्येत्युक्तं भविष्ये“चैत्र शुक्ला द्वितीयायामुमापूजा फलार्थिभिः । शिवपूजाऽग्निपूजा च कर्तव्या मुनिसत्तम ॥” इति । देवीपुराणेऽपि - “उमां शिवं हुताशं च द्वितीयायां प्रपूजयेत् । हविष्यमन्नं नैवेद्यं देयं गन्धार्चनान्वितम् ॥ फलमाप्नोति विप्रेन्द्र ! सर्वऋतुसमुद्भवम् ॥” इति । ज्येष्ठ शुक्ल द्वितीया सेोपपदा । तदुक्तं कालिकादर्शे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #68 -------------------------------------------------------------------------- ________________ ३२ तिथ्यर्कः "सिता ज्येष्ठद्वितीया च आश्विने दशमी सिता । चतुर्थी द्वादशी माघे एताः सेोपपदाः स्मृताः ।। " वेदाध्ययनादिनिषिद्धमुक्तं नारदीये "युगादिषु च सर्वासु तथा मन्वन्तरादिषु । अनध्यायं प्रकुर्वीत तथा सेोपपदा तिथौ ॥” इति ॥ श्राषाढशुक्ल द्वितीयायां रामयात्रोत्सवः कार्यः । तथा च स्कान्दे " आषाढस्य सिते पक्ष द्वितीया पुष्यसंयुता । तस्यां रथे समारोप्य रामं वै भद्रया सह || यात्रोत्सवं प्रवर्त्याथ प्रीणयेत द्विजान् बहून् । ऋक्षाभावे तिथौ कार्या यात्रा सा प्रीतये मम ॥” इति । श्रावणकृष्णद्वितीया बृहत्तल्पोच्यते । सा पूर्वविद्धा ग्राह्या । तदाह संवर्तः– "कृष्णाष्टमी बृहत्तल्पा सावित्री वटपैत्रिकी । कामत्रयोदशी रम्भा उपोष्या पूर्वसंयुता ॥” इति । चातुर्मास्यकृष्णद्वितीयासु चतसृष्वप्यशून्याख्य ं व्रत ं कुर्यादित्युक्तं निर्णयामृते पुराणसमुच्चये - "चतुर्ध्वपि पक्षेषु मासेषु श्रावणादिषु । अशून्याख्यं व्रतं कुर्याज्जयया तु फलाधिकम् ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #69 -------------------------------------------------------------------------- ________________ तिथ्यर्कः जया तृतीया। कार्तिक शुक्ल द्वितीया यमद्वितीयोच्यते । साऽपराह्णव्यापिनी ग्राह्या, कर्मकालवाक्यात् । तदुक्तं हेमाद्रौ स्कान्दे "ऊर्जे शुक्ल द्वितीयायामपराह्नेऽर्चयेद्यमम् । स्नानं कृत्वा भानुजायां यमलोकं न पश्यति ।। ऊर्जे शुक्लद्वितीयायां पूजितस्तर्पितो यमः । वेष्टितः किन्नरैर्दृष्टैस्तस्मै यच्छति वाञ्छितम् ॥” इति । दिनद्वये कभकालव्याप्तावव्याप्ती वा सामान्यनिर्णयोऽवसेयः । गौडास्तु विशेषमाहुः "यमं च चित्रगुप्तं च यमदूतांश्च पूजयेत् । चित्रगुप्तस्य पूजां च कुर्याद् ज्ञानस्य वृद्धये ॥ मसीपात्रं लेखनी च पूजयेच्च प्रयत्नतः । सर्वान् कामानवाप्नोति यमलोकं न पश्यति ॥” इति । अस्यां भगिनीगृहे भोक्तव्यमित्युक्तं भविष्ये "कार्तिके शुरूपक्षस्य द्वितीयायां युधिष्ठिर ! । यमो यमुनया पूर्व भोजितः स्वगृहेऽर्चितः ॥ अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता । अस्यां निजर हे विप्र ! न भोक्तव्यं ततो नरैः ॥ स्नेहेन भगिनीहस्ताभोक्तव्यं पुष्टिवर्धनम् । दानानि च प्रदेयानि भगिनीभ्यो विशेषतः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #70 -------------------------------------------------------------------------- ________________ तिथ्यर्क : स्वर्णालङ्कारवस्त्रान्नपूजासत्कार भोजनैः । सर्व भगिन्यः सम्पूज्या अभावे प्रतिपन्नका ॥” इति । प्रतिपन्नका मता भगिन्य इति हेमाद्रिरूचे । ब्रह्माण्डेऽपि -- ३४ " या तु भोजयते नारी भ्रातरं युग्मके तिथौ । अर्चयेच्चापि ताम्बूलैर्न सा वैधव्यमाप्नुयात् ॥ भ्रातुरायुः क्षयेो राजन् न भवेत्तस्य कर्हिचित् ।” चैत्र कृष्ण द्वितीयायां काममहोत्सव उक्तो भविष्ये - " ततः प्रातर्द्वितीयायां पुत्रमित्रादिसंयुतः । नृपतिर्वितते देशे वितानवरशोभिते || नृत्यगीतविनादैश्च कुर्यात्काममहोत्सवम् । एवं कुर्वन्नवाप्नोति यावत्संवत्सरं सुखम् ||" इति । ततः प्रतिपद्युत्सवानन्तरमित्यर्थः । श्रयं चोत्सवः पूर्वविद्धायामेव, " प्रतिपत्सद्वितीया स्याद् द्वितीया प्रतिपद्युता" इति वक्ष्यमाणयुग्मवाक्यात् । द्वितीया बुधेन सिद्धा । शुक्रेण विरुद्धा | अत्र योगिन्युत्तरस्याम् । इति द्वितीया निर्णीता । अथ तृतीया निर्णीयते । सा तु परैव । तदुक्तं ब्रह्मवैवर्ते"रम्भाख्यां वर्जयित्वैकां तृतीयां द्विजसत्तम । श्रन्येषु शुभकार्येषु गणयुक्ता प्रशस्यते ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #71 -------------------------------------------------------------------------- ________________ तिथ्यर्कः 'गण' चतुर्थी। युग्मवाक्यन्तु रम्भाविषयं सर्वविषयत्वे तूदाहृतवचनविरोधस्तरभाद्रम्भाव्रत एव पूर्वा, अन्या सर्वाप्युत्तरैव । उपवासेऽप्ययमेव निर्णयः। तदुक्तं विष्णुधर्मोत्तरे "एकादश्यष्टमी षष्ठी पौर्णमासी चतुर्दशी । अमावास्या लुतीया च ता उपोष्या परान्विता ॥" इति । चैत्र शुक्लतृतीयायां दोलोत्सव उक्तो रामार्चनचन्द्रिकायां गारुडे "चैत्रे मासि सिते पक्षे तृतीयायां रमापतिम् । दोलारूढं सनभ्यर्च्य मासमान्दोलयेत्कलौ ॥” इति । गौरीतृतीया इयमेव । अस्यां गौरीमीश्वरयुतां सम्पूज्य दालोत्सवं कुर्यात् । तदुक्तं देवीपुराणे "तृतीयायां पजेदेवीं शङ्करण समन्विताम् । आन्दोलयेत्तता वत्स ! शिवया सहितं शिवम् ॥” इति । अस्यामेव मदनरल कालोत्तरे गौरीव्रतमुक्तम " चैत्र शुक्लतृतीयायां व्रतं गौर्याः समाचरेत् ॥” इति । अत्र मुहूर्तमात्रापि परा ग्राह्या । तदाह माधवः "मुहूर्तमात्रसत्त्वेऽपि दिने गौरीव्रतं परे । शुद्धाधिकायामप्येवं गणयोगप्रशंसनात् ॥” इति । स्कान्देऽपि "कला काष्टापि वा चैव द्वितीया संप्रदृश्यते । सा तृतीया न कर्तव्या कर्तव्या गणसंयुता ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #72 -------------------------------------------------------------------------- ________________ तिथ्यर्कः यदा तूत्तरदिने स्वल्पापि तृतीया न लभ्यते, तदा द्वितीयाविदैव कार्या "एकादशी तृतीया च षष्ठी चैव त्रयोदशी। पूर्वविद्धैव कर्तव्या यदि न स्यात्परेऽहनि ॥" इति वृद्धवसिष्ठोक्तः। अत्र सौभाग्यवतमुक्तं मात्स्ये "वसन्तमासमासाद्य तृतीयायां जनमिये !। सौभाग्याय सदा स्त्रीभिः कार्य पुत्रसुखेप्सुभिः ॥” इति । मत्स्यजयन्त्यपीयमेव, “मत्स्योऽभूद्धतभुग्दिने मधुसिते" इति वाक्यात् । वैशाखशुक्लतृतीयाऽक्षयतृतीयोच्यते । तदुक्तं भविष्ये "या त्वेषा कुरुशार्दूल ! वैशाखे तु महातिथिः । तृतीया साक्षया लोके गीर्वाणैरभिवन्दिता ।। यत्किश्चिद्दीयते दानं स्वल्पं वा यदि वा बहु । तत्सर्वमक्षयं यस्मात्तेनेयमक्षया स्मृता ॥” इति । इयं युगादिः। सा पूर्वाह्नव्यापिनी ग्राह्या । तदुक्तं नारदीये "द्वे शुक्ले द्वे तथा कृष्णे युगादी कवयो विदुः । शुक्ले पौर्वाह्निके ग्राह्ये कृष्णे चैवापराह्निके ॥” इति । वैशाखशक्लतृतीया कार्तिक शुक्लनवमीति शुक्लयुगादी, भाद्रकृष्णत्रयोदशी माघमासस्यामेति द्वे. कृष्णयुगादी। प्रमाणवचनं तु नवमीप्रकरणे वक्ष्यते । अत्र पूर्वाहापराह्मशब्दाभ्यां द्वेधा विभागः प्रतीयते । स च स्कान्दे दर्शितः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #73 -------------------------------------------------------------------------- ________________ तिथ्यर्कः "आवर्तनाच पूर्वाह्नो ह्यपराह्नस्ततः परः ॥” इति । दिनद्वये तत्त्वे परैव । 'युगाद्या वर्षद्धिश्च' इति वक्ष्यमाणवचनात्, श्राद्धेऽपि शुक्ला पूर्वाह्नव्यापिनी ग्राह्या, “पूर्वाह्ने तु सदा ग्राह्याः शुक्ला मनुयुगादयः । देवे कर्माणि पित्र्ये च कृष्णे चैवापरालिकाः ॥" इति गारुडात् । युगादिमन्वादिश्राद्धेषु शुक्लपक्ष उदयव्यापिनी तिथिह्या, कृष्णपक्षेऽपराह्णव्यापिनीति स्मृत्यर्थसाराच्च । अत्र पितृप्रीत्यर्थ यम्भदानमुक्त समयमयूखे देवीपुराणे "तृतीयायां ९ वैशाखे रोहिण्यः प्रपूज्य तु । उदकुम्भप्रदानन शिवलोके महीयते ॥" कुम्भदाने मन्त्रः-- "एष धर्मघट: दत्तो ब्रह्मविष्णुशिवात्मकः । अस्य प्रदाना इ तृप्यन्तु पितरो हि पितामहाः ॥ गन्धोदकतिलैर्मिश्रं सान्नं कुम्भं सदक्षिणम् । पितृभ्यः सम्भदास्यामि अक्षय्यमुपतिष्ठतु ।।” इति । एतदसम्भवे गोविन्दार्णवे विष्णुपुराणे "पानीयमप्यत्र तिलैविमिश्रं दद्यात् पितृभ्यः प्रयतो मनुष्यः । श्राद्धं कृतं तेन समाः सहस्र रहस्यमेतन्मुन यो वदन्ति ॥” इति । अस्यां त्रिलोचनयात्रोक्ता काशीखण्डे "राघशुक्लतृतीयायां स्नात्वा पैलिप्पिले ह्रदे।। सन्तर्पयेत् पितन देवान् त्रिलोचनमथार्चयेत् ॥” इति । www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat Page #74 -------------------------------------------------------------------------- ________________ तिथ्यर्कः इयमेव परशुरामजयन्ती। सा प्रदोषव्यापिनी ग्राह्या । तदुक्तं स्कान्दे "वैशाखस्य सिते पक्षे तृतीयायां पुनर्वसौ । निशायां प्रथमे यामे रामाख्यः स महाहरिः ॥ स्वोच्चगैः सद्ग्रहैर्युक्ते मिथुने राहुसंयुते । रेणुकायास्तु यो गर्भादवतीर्णो हरिः स्वयम् ॥” इति । दिनद्वये तद्व्याप्ती तूत्तरा। अन्यथा पूर्वेव । तदुक्तं भविष्ये "शुक्ला तृतीया वैशाखे शुद्धोपोष्या दिनद्वये । निशायां पूर्वयामे चेदुत्तराऽन्यत्र पूर्विका ॥” इति । दिनद्वये निशायामित्यन्वयः। यदा वैशाखे मलमासस्तदा युगादिप्रयुक्त कार्य मल एव कर्त्तव्यम्, "दशहरासु नोत्कर्षश्चतुर्वपि युगादिषु ।" इति ऋष्यशृङ्गवचनादिति हेमाद्रयादयो वदन्ति । स्मृतिचन्द्रिकायां विशेषः "योगादिकं मासिकं च श्राद्धं चापरपक्षिकम् । मन्वादिकं तैर्थिकं च कुर्यान्मासद्वयेऽपि च ॥ इति । आपरपक्षिक कृष्णपक्षसम्भवं न तु महालयश्राद्धम्, 'न कुर्याद्भानुलखितः' इत्यादिना तनिषेधात् । ज्येष्ठशुक्लतृतीयायां रम्भाव्रतमुक्तं माधवीये भविष्ये"भद्रे ! कुरुष्व यत्नेन रम्भाख्यं व्रतमुत्तमम् । ज्येष्ठशुक्लतृतीयायां स्नाता नियमतत्परा ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #75 -------------------------------------------------------------------------- ________________ तिथ्यर्क : ३८ सा तत्र पूर्वविद्धा बाह्या, "बृहत्तल्पा तथा रम्भा सावित्री वटपैत्रिकी । कृष्णाष्टमी च भूता च कर्तव्या संमुखी तिथिः || ” इति स्कान्दात् । संमुखी सायाहव्यापिनी पूर्वविद्धेति यावत् । भाद्रकृष्ण तृतीयायां विशालाक्षी यात्रा कार्या । रात्रौ जागरणविधानादियं रात्रिव्यापिनी ग्राह्या । तदुक्तं काशीखण्डे "मातृतीयायामुपवासपरैनृभिः । कृत्वा जागरण रात्रौ विशालाक्षीसमीपतः ॥” इति । इयमेव कज्जली, "स्वकज्जली कृष्णा शुक्ला च हरितालिका ॥” इति दिवेदासेोदाहृतवचनात् । भाद्रशुक्ल तृतीया हरितालिका, पूर्वोक्तवचनात् । इयं मुहूर्तमात्रापि गौरी व्रतत्वात् परयुता ग्राह्या, " मुहूर्तमात्रत्वsपि दिने गौरीवतं परे ||" इति माधववचनात् । इयं मन्वादि, वक्ष्यमाणवचनात् । आश्विन कष्णतृतीयायां ललितादेच्या यात्रोक्ता काशीखण्डे "ईशकृपण तृतीयायां ललितां प्रतिपूज्य वै । नारी वा पुरुषो वापि लभते वाञ्छितं फलम् ॥” इति । अत्र गणयुक्ता यावा, 'रम्भाख्यां वर्जयित्वैकाम्' इति पूर्वमुक्तत्वात् । तृतीया भॉमेन सिद्धा, बुधेन विरुद्धा । अस्यां योगिन्याग्नेव्याम् । इति तृतीया निर्णीता । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #76 -------------------------------------------------------------------------- ________________ विथ्यर्कः अथ चतुर्थी निणीयते । सा परविद्धा ग्राद्या, युग्मवाक्यात् । उपवासेऽपि परैव, "एकादशी तथा षष्ठी अमावास्या चतुर्थिका । उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः।।" इति माधवीयवृद्धवसिष्ठवाक्यात् । विनायकवते तु तृतीयायुतैव । तदुक्तं मदनरत्ने ब्रह्मवैवर्ते "चतुर्थी तु तृतीयायां महापुण्यफलप्रदा । कर्तव्या व्रतिभिर्वत्स ! गणनाथसुतोषिणी ॥" इति । चैत्रशुक्लचतुर्थी विघ्ननाशिनी। तत्र लड्डकैर्गणेशं पूजयेदित्युक्तं निर्णयामृते देवीपुराणे चतुर्थीप्रकरणे "गणेशं कारयेत्पूजां लड्डुकादिभिरादरान । चतुर्थी विघ्ननाशाय सर्वकामार्थसिद्धये ॥” इति । गणेशमिति षष्ठ्यर्थे द्वितीया। ज्येष्ठशक्लचतुथ्यों स्त्रीभिः सौभाग्यदृद्धये उमा पूज्येत्युक्तं भविष्ये "ज्येष्ठशुक्लचतुझं तु जाता पूर्वमुमा सती । तस्मात्सा तत्र सम्पूज्या स्त्रीभिः सौभाग्यवृद्धये ॥” इति । अत्र सामान्यनिर्णयः । श्रावणकष्णचतुर्थी सङ्कष्टचतुर्थीत्युच्यते । तदुक्तं स्कान्दे "श्रावणे बहुले पक्षे चतुर्थी च विधूदये । तस्मिन् दिने व्रतं कार्य संकष्टाख्यं सुरेश्वरि ! ॥” इति । श्रावणावामान्तो ज्ञेयः, चान्द्रमासस्य मुख्यत्वात् । विधुश्चन्द्रः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #77 -------------------------------------------------------------------------- ________________ तिथ्यर्क: ४१ एतस्मादेव वचनादियं चन्द्रोदयव्यापिनी ग्राह्या । “दिनद्वये चन्द्रोदये सत्त्वेऽसत्त्वे वा मातृविद्धा प्रशस्यते" इति वाक्यशेषात् पूर्वव । भाद्रकृष्णचतुर्थी बहुलात्रते पूर्वैव पञ्चमीयुक्तानिषेधात् । तदुक्त ं मदनरत्ने पुराणसमुच्चये " "गौय्यश्चतुथी वटधेनुपूजा दुर्गार्चनं दुर्भरहोलिका च । वत्सस्य पूजा शिवरात्रिरेताः परान्त्रिता घ्नत्ति नृपं सराष्ट्रम् ॥” इति । यत्र धेनुपूजेति बहुला चतुर्थी गृह्यते । इयं मध्यदेशे प्रसिद्धा । भाद्रशुक्लचतुर्थी सिद्धिविनायकत्रते "प्रातः शुक्कृति : स्नात्वा मध्याह्न पूजयेन्नृप" इति वचनात् । मध्याह्नस्य पूजाकालत्वात् मध्याह्नव्यापिन्येव ग्राह्या । बृहस्पतिरपि - "चतुर्थी गणनाथस्य मातृविद्धा प्रशस्यते । मध्याह्रव्यापिनः चेत्स्यात्परतश्चेत्परेऽहनि ||" इति । “दिनद्वये तद्वयाप्त वव्याप्तौ वा मातृविद्धा प्रशस्यते" इति वाक्यात् पूर्वव पंद्युरेव यदा मध्यादव्यापिनी, तदा मातृविद्धगुणाभावेऽपि प्रधानप्रयोजकानुसारेण परैव ग्राह्या, "मातृविद्धा प्रशस्ता स्याच्चतुर्थी गणनायके | मध्याह्नात्परतः वेत्स्यान्नागविद्धा प्रशस्यते ॥ " इति माधवीयस्मृत्यन्तरात् । यदेोभयदिनेऽपि वैषम्येण मध्याह्नैकदेशव्यापिनी, तदा पूर्व देने - तन्महत्त्वं चेत्, सैव ग्राह्या । उत्तरदिने ६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #78 -------------------------------------------------------------------------- ________________ विथ्यर्कः तन्महत्त्वे किं महत्त्वगुणोपेतोपादेया ? किं वा मातृविद्धत्वगुणोपेता पूर्वापादेया ? इति संशये पूर्वेवेति प्रतीमः, न्यायाद्वाचनिकस्य माविद्धत्वगुणस्य वलीयस्त्वात् । अत्र चन्द्रदर्शननिषेधमाह पराशरः "कन्यादित्ये चतुझं तु शुक्ले चन्द्रस्य दर्शनम् । मिथ्याभिदूषणं कुर्याद्रात्रौ पश्येन तं सदा ॥ तदोषशान्तये सिंहः प्रसेनमिति वै पठेत् ।" इति । अत्र रात्रिग्रहणाद् दिवा चन्द्रदर्शने न दोष इति निर्णयामृतकारादयः। युक्तं तु "भाद्रे मासि सिते पक्षे चतुर्थी खातियोगिनी। मिथ्याभिशापं कुरुते दृष्टचन्द्रा न संशयः ॥" इति मार्कण्डेयादिवचनान्तरेषु चतुर्थीमात्रग्रहणाद दिवापि चन्द्रो न द्रष्टव्य इति प्रतिभाति । प्रमादाचन्द्रदर्शने तद्दोषशान्त्यर्थ प्राङ्मुख उदङमुखो वा पौराणं वाक्यं पठेत् । तच्च "सिंहः प्रसेनमवधीत् सिहो जाम्बवता हतः । सुकुमारकमारोदीस्तव ह्येष स्यमन्तकः ॥” इति । इयं भौमेनार्केण वा युक्ताऽतिप्रशस्तेत्युक्तं गोविन्दार्णवे वाराहे "भाद्रशुक्लचतुर्थी या भामेनार्केण वा युता । महती साऽत्र विघ्नेशमर्चित्वेष्टं लभेन्नरः ॥” इति । इयमेव शिवाख्येत्युक्तं भविष्ये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #79 -------------------------------------------------------------------------- ________________ तिथ्यर्कः ४३ "शिवा शान्ता सुखा राजन् ! चतुर्थी त्रिविधा स्मृता । मासि भाद्रपदे शुक्ला शिवलोकप्रपूजिता ॥ तस्यां स्नानं तथा दानमुपवासा जपस्तथा । क्रियमाणं तिगुणं प्रसादादन्तिनो नृप ! ॥” इति । मार्गशुक्लचतुर्थी परचतुर्थी । तस्यां सर्वार्थसाधकमब्दचतुष्टयसाध्यं व्रतमुक्तं स्कन्दपुराणे "चतुर्थ्या पार्गशीर्षे तु शुक्लपक्षे नृपोत्तम ! । प्रारभ्य प्रतिमासं च चतुझं गणनायकम् ।। सम्पूज्य विधिना कुर्यादेकभक्तं समाहितः । अक्षारलवण त्वेवं पूणे संवत्सरे ततः ॥ द्वितीये वत्सरे चाऽथ नक्तं प्रति चतुर्थिकाम् । कुर्याद् गणेशमभ्यर्च्य तृतीयेऽयाचितं तथा ॥ एवमेव प्रकुनोत चतुर्थे स्यादुपोषणम् । ततश्चतुर्थे सम्पूर्णे तदुद्यापनमाचरेत् ॥ इदं वरचतुर्थ्याख्यं व्रतं सर्वार्थसाधकम् ॥” इति । अत्र प्रथमवर्षे एकभक्तमुक्तं तत्स्वरूपमाह देवलः "दिनार्द्धसमयेऽतीते भुज्यते नियमेन यत् । एकभक्तमिति प्रोक्तं न्यूनं ग्रासत्रयेण तु ॥” इति । ननु भोजनं ग्रासत्रयेण न्यूनं कथं ज्ञातव्यमिति चेत्, शृणु "भोजनं तु विधिप्राप्तं द्वात्रिंशद्माससंमितम् ।" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #80 -------------------------------------------------------------------------- ________________ ४४ तिथ्यर्क: ' तद् ग्रासत्रयेण न्यूनम् ' -- इत्यन्त्यपादेनोच्यते । तेनैकभक्ते एकोनत्रिंशद् ग्रासा इति फलितार्थ: । भोजने द्वात्रिंशद्ग्रासादिनियमस्तु मत्कृताचारा द्रष्टव्यः । पद्मपुराणे " मध्याह्वव्यापिनी ग्राह्या एकभक्तवते तिथिः” । इति । बौधायनोऽपि - "उदये तूपवासस्य नक्तस्यास्तमये तिथिः । मध्याह्नाव्यापिनी ग्राह्या एकभक्तवते तिथिः ॥” इति । अत्र त्रेधा विभक्तस्याहो मध्यमभागो मध्याह्नः, “पूर्वाह्न देवा अशनमभिहरन्ति मध्यन्दिने मनुष्या अपराह्न पितरः" इति श्रुतेः । तत्रापि दिनार्डोत्तरमवशिष्टं मध्यादभागे कार्यम्, 'दिनार्द्धसमयेऽतीते' इति देवलेाक्तः | दिनद्वयेऽपि मध्याह्न - व्याप्त वेकदेशसमव्याप्तौ वा युग्मवाक्यान्निर्णयः । श्रयञ्च निर्णयः स्वतन्त्रैकभक्तविषयः । अन्यत्रताङ्गभूतमेकभक्तं तत्तिथावेव भवति । द्वितीये नक्तमुक्तम्, तच्चाहरशनं वर्जयित्वा रात्रौ भोक्तव्यमिति नियमस्वरूपम् । तत्कालमाह व्यास: " त्रिमुहूर्तमदेोषः स्याद भानावस्तं गते सति । नक्तं तत्र प्रकुर्वीत इति शास्त्रस्य निश्वयः ॥” इति । नक्तशब्दा भोजनपरः । अत्र केचित् - " चत्वारीमानि कर्माणि सन्ध्यायां परिवर्जयेत् । आहार मैथुनं निद्रां स्वाध्यायं च चतुर्थकम् ॥” Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #81 -------------------------------------------------------------------------- ________________ तिथ्यर्कः ४५ इति वचनात् - "सायं सन्ध्या त्रिघटिका ह्यस्तादुपरि भास्वतः” । इति स्कान्दोक्त सन्ध्यायां भोज निषिद्ध मित्याहुः, तदशुद्धम्, सूर्य नक्षत्र वर्जित कालरूप मुख्यसंध्याकालत्यागे तदाह योगियाज्ञवल्क्यः मानाभावात् । "अहोरात्रस्य यः सन्धिः सूर्यनक्षत्रवर्जितः । सा तु सन्ध्य सामाख्याता ऋषिभिस्तत्त्वदर्शिभिः।।" इति । हेमा स्मृत्यन्तरेऽपि - " नक्षत्रदर्शना सन्ध्या सायं ततत्परतः स्थितम् । तत्परा रजनी या तत्र धर्मान् विवर्जयेत् ॥” इति । अस्तु वा घटिका सन्ध्यापदवाच्यम् । तथापि तत्र रागप्राप्तं भोज निषिद्धम् ननु वैधम्, विधिस्पृष्टे निषेधानवकाशात् । एतेन पर्वादिरात्रिभोजन निषेधो ऽपि प्रत्युक्तः । वत्स: "प्रदपव्यापिनी ग्राह्या सदा नक्तत्रते तिथिः । एकादशी व सर्वाशुक्ले कृष्णे विशेषतः ॥” इति । हरिक्त तूदयव्यापिनी ग्राह्या । तदुक्तं माधवीये स्कान्दे" प्रदेोषव्यापिनी ग्राह्या सदा नक्तत्रते तिथिः । उदयस्था सदा पूज्या हरिनक्तत्रते तिथिः ॥” इति । यदा नक्ततिथिः पूर्वापरयोरोः प्रदेोषं व्याप्नोति, तदा परा ग्राह्या, “यदि स्यादुभये। स्तिथ्योः" इति वक्ष्यमाणजावालिवच Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #82 -------------------------------------------------------------------------- ________________ ४६ तिथ्यर्कः नात् । यदेोभयत्रापि न प्रदोषव्यापिनी, तदापि परैव ग्राह्या । परन्तु दिवैव आत्मच्छायाद्वैगुण्यकाले नक्तं कार्यं न रात्रौ । तदुक्तं स्कान्दे "प्रदोषव्यापिनी न स्याद् दिवा नक्तं विधीयते । आत्मना द्विगुणच्छायामतिक्रामति भास्करे || नक्तं नक्तमित्याहुन नक्तं निशि भोजनम् । एवं ज्ञात्वा ततो विद्वान् सायाह्न े तु भुजि क्रियाम् ॥ कुर्यान्नक्तव्रती नक्तफलं भवति निश्चितम् ॥” इति । यदा नक्ततिथिः पूर्वदिने प्रदोषे सम्पूर्ण, परदिने तत्र स्वल्पा, तदापि परैव ग्राह्याः नक्तस्य दिवारात्रि व्रतत्वेन दिवारात्रिस्पृशि तत्तत्तिथैौ कर्त्तव्यत्वात् । सप्तमी भानुवारादौ सौरनक्तव्रते तु सुमन्तुः“त्रिमुहूर्तस्पृगेवाह्नि निशि चैतावती तिथिः । तस्यां सारं भवेन्नक्तमहन्येव तु भोजनम् ॥” इति । भोजनकालः कैौमें ――――― - " नरस्य द्विगुच्छायामतिक्रामेद यदा रविः । तदा सौरं चरेन्नक्तं न नक्तं निशि भोजनम् ॥” इति । सौरनक्तं भविष्यत्पुराणे दर्शितम् - “ये चादित्यदिने ब्रह्मन् ! नक्तं कुर्वन्ति मानवाः । दिनान्ते तेsपि भुञ्जीरन निषेधा रात्रिभोजने ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #83 -------------------------------------------------------------------------- ________________ ४७ तिथ्यर्कः यतेविधवायाश्च दिवैव नक्तमुक्तं स्मृत्यन्तरे "नक्त निशायां कुर्वति गृहस्थो विधिसंयुतः । यतिश्च विधवा चैव कुर्यात्तु सदिवाकरम् ।। सदिवाकरं तु तत्प्रोक्तमन्तिमे घटिकाद्वये ।" इति । व्यासः-- "हविष्यभोजन स्नानं सत्यमाहारलाघवम् । अग्निकार्यमधामय्यां नक्तभाजी षडाचरेत् ॥" तृतीयेऽयाचितम् । तच्चास्मिन्नहोरात्रेयाचितमन्न न भोक्ष्येइति सङ्कल्परूपम्। अयाचितान्नभोजनफलमुक्त माधवीये स्मृत्यन्तरे'अयाचिताशीमितभुक् परां सिद्धिमवामुयाद ।' इति । अत्र तिथिनिर्णयमाह नारदः "एकभक्तायाचितयोर्या त्रिंशद्धटिकावधिः । सा तिथिः सर्वदा ज्ञेया नक्ते सायाह्नसंयुता ॥" इति । सर्वदा सकलेत्यर्थः। चतुर्थे तूपवासः । एवं कृते यथोक्तफलसिद्धिर्भवति । माघकृष्णचतुर्थ्यां सङ्कष्टचतुर्थीव्रतारम्भ उक्तो भविष्योत्तरे "माघे मासे कृष्णपक्षे चतुर्थ्यां व्रतमुत्तमम् । प्रतिमासं प्रकुर्वीत व्रतं सङ्कष्टनाशनम् ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #84 -------------------------------------------------------------------------- ________________ ४९ तिथ्यर्कः माघकृष्णचतुर्थी व्रतारम्भं कृत्वा प्रतिमासं कार्यमित्यर्थः । इयं चन्द्रोदयव्यापिनी ग्राह्या, "पूजा विधूदये कार्या सिन्दूरेण प्रपूजयेत् ।" इति तत्रैवोक्तः। माघः पूर्वोक्तरीत्या चान्द्रो बाध्यः । माघशुक्लचतुर्थी तिलचतुर्थी । तदुक्तं काशीखण्डे 'माघशुक्लचतुर्थ्यान्तु नक्तव्रतपरायणः । ये त्वां धुण्डेऽर्चयिष्यन्ति तेऽाः स्युरसुरद्रुहाम् । विधाय वार्षिकी यात्रां चतुर्थी प्राप्य तापसीम् ॥ शुक्लान तिलान् गुडैद्ध्वा प्राश्नीयालड्डु कान् व्रती ।" इयं प्रदोषव्यापिनी ग्राह्या, नक्तग्रहणात् । तापसीं माघीम् । इयमेव कुन्दचतुर्थीत्युक्तं देवीपुराणे "माघमासे तु सम्पाप्ते चतुर्थीकुन्दसंज्ञिता। सा तूपोष्या सुरश्रेष्ठ ! ततो राज्यं भविष्यति ॥” इति । अथ फाल्गुनादिचतुर्यु मासेषु चतुर्थीव्रतमुक्तं वाराहपुराणे "अथ विघ्नव्रतं राजन् ! कथयामि शृणुष्व तत् । चतुर्थी फाल्गुने मासि गृहीतव्यं व्रतं त्विदम् ।। नक्ताहारेण राजेन्द्र ! तिलान्न पारण स्मृतम् । तदैवानौ च होतव्यं तद्देयं ब्राह्मणेषु च । चातुर्मास्यव्रतं चैव कृत्वैवं पञ्चमे तथा । सौवर्ण गजवक्रं तु कृत्वा विप्राय दापयेत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #85 -------------------------------------------------------------------------- ________________ तिथ्यर्क : एवं कृत्वा तचैव सर्वविघ्न र्विमुच्यते ।" पूजादिमन्त्रस्तत्रैव -- "दिव्याय शूराय गजाननाय लम्बोदरायैकरदाभिधाय । नागात्मजादेहसमुद्भवाय कुठारहस्ताय नमो वराय || " अनेन मन्त्रेण पूजां कृत्वा, स्वाहान्तेन तिलान् हुत्वा, ब्राह्मणेभ्योऽपि दत्वा यमपि तदेव नक्कालेऽश्नीयात् । अन्ते Hair प्रतिमांस पूज्य ब्राह्मणाय दद्यात् । अत्राविशेषाद् तारम्भे शुक्लचतुर्थ ग्राह्या । एतानि व्रतान्यप्यविशेषात् 'चतुर्थी तु तृतीयायाम्' इति सामान्यवाक्यात् तृतीयायुक्त चतुर्थ्यां कार्याणि । चतुर्थ शनिवारेण सिद्धा । गुरुवारेण विरुद्धा | योगिन्यत्र नैऋत्यम् । इति चतुर्थी निर्णीता | अथ पञ्चमी नि ते । सा तु चतुर्थीयुतैव ग्राह्या, 'युग्मानीति' वचनात्; ४६ “पञ्चमी तुथा कार्या चतुर्थीसंयुता विभो !" इति माधवी का दवाक्याच्च । अत्र हेमाद्रिमते कृष्णा पञ्चमी पूर्वा, सिता परा, "कृष्णा पूर्वयुता सिता परयुता स्यात् पञ्चमी " इति दीपिकाक्तः । तदिदं हेमाद्रिमतं शिथिलम्, "चतुर्थीसंयुक्त कार्या पञ्चमी परवा न तु । दैवे कर्मणि पेये च शुक्लपक्षे तथाऽसितं ॥" इति माधवमदन रत्नादिसर्वनिबन्धकार लिखितहारीतवचनात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #86 -------------------------------------------------------------------------- ________________ तिथ्यर्कः “पञ्चमी तु प्रकर्त्तव्या षष्ठया युक्ता तु नारद ।" इति ब्रह्मवैवर्तवचनं तत् "स्कन्दोपवासे स्वीकार्या पञ्चमी परसंयुता। त्रिमुहूर्ता तु षष्ठ्यां स्यात् परा पूर्वयुताऽन्यथा ॥" इति तत्रैवक्तित्वात्स्कन्दोपवासविषयम् ।। न च युग्मवचनं 'पञ्चमी तु तथा' इति स्कान्दवचनं कृष्णपञ्चमीविषयम्, 'पञ्चमी तु प्रकर्तव्या' इति तु शुक्लपञ्चमीविषयम्, “शुक्लपक्षे तिथिाह्या यस्मामभ्युदितो रविः । कृष्णपक्षे तिथिह्या यस्यामस्तमितो रविः ॥" इति मार्कण्डेयवचनादेवं व्यवस्थाकर्तव्येति वाच्यम् ; हारीतेन पक्षद्वयेऽपि चतुर्थीविद्धाया एव पञ्चम्याः समादिष्टत्वात् । उपवासे तु स्कन्दोपवासपञ्चमी व्यतिरिक्ता सर्वापि पञ्चमी पूर्वविद्धैव ग्राह्या, "प्रतिपत्पश्चमी चैव उपोष्याः पूर्वसंयुता ।" इति जाबालिवचनात् । उपवासस्तु सर्वतिथिषु माधवीये नारदीये दर्शितः । "शुक्लान् वा यदि वा कृष्णान् प्रतिपत्मभूतांस्तिथीन् । उपाण्यैव बलिं दत्वा विधिनेत्यपरे दिने । ब्राह्मणान् भोजयित्वा तु सर्वपापैः प्रमुच्यते ।" इति । चैत्रशुक्लपञ्चम्यां श्रीपूजोक्ता हेमाद्रौ मात्स्ये"शुक्लायामथ पञ्चम्यां चैत्रे मासि शुभानना । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #87 -------------------------------------------------------------------------- ________________ तिथ्यर्कः श्रीब्रह्मलोकान्मानुष्यं सम्माता केशवाज्ञया ॥ ततस्तां पूजयेत्र यस्त' लक्ष्मीर्न मुञ्चति ।" इति । इयं कल्पादिरपि । कल्पादयस्तु हेमाद्री मात्स्ये -- ५१ “वैशाखस्य तृतीया या कृष्णा या फाल्गुनस्य च । पञ्चमी चैत्रमासस्य तस्यैवान्त्या तथा परा ॥ शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी । नवमी मार्गशीर्षस्य सप्तैता: संस्मराम्यहम् || कल्पानामादये ह्येता दत्तस्याक्षयकारकाः : " अत्राविशेषाद युगादेिवन्निर्णयो ज्ञेयः । श्रावण शुक्लपञ्चमी नागपञ्चमी । सा परविद्धेत्युक्तं चमत्कारचिन्तामणी “पञ्चमी नागपूजायां कार्य्या पष्ठीसमन्विता । तस्यां तु तुपिता नागा इतरा सचतुर्थिका ।" इति । प्रतापमार्तण्डे स्मृत्यन्तरेऽपि - "श्रावणे पत्र मी शुक्ला सम्प्रोक्ता नागपञ्चमी । तां परित्यज्य पञ्चम्यश्चतुर्थीसहिता विभो ! ॥” इति । तां परित्यज्य चतुर्थीयुक्ता ग्राह्येत्युक्त्या नागपञ्चम्याश्चतुर्थीविद्राया निषेधावर मात् त्रिमुहूर्तचतुर्थोयुक्ता नागपञ्चमीव्यति - रिक्ता सर्वा पञ्चमी पूर्वा, परेद्युखिमुहूर्ता नागपञ्चमी परा, अन्यथा पूर्वव । अत्र नागपूजनमुक्तं गोविन्दार्णवे भविष्ये"श्रावणे मानि पञ्चम्यां शुक्लपक्षे नराधिप ! | द्वारस्योभयते लेख्या गोमयेन विपोल्वणाः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #88 -------------------------------------------------------------------------- ________________ विथ्यर्कः पूजयेद्विधिवद् वीर ! दधिर्वाङ्करैः कुशैः । गन्धपुष्पोपहारैश्च ब्राह्मणानां च तर्पणैः ।। ये तस्यां पूजयन्तीह नागान् भक्ति पुरस्सराः । न तेषां सर्पता वीर ! भयं भवति कुत्रचित् ॥” इति । अस्यां नागकुण्डे स्लानमुक्तं काशीखण्डे "यः स्नातो नागपञ्चम्यां कुण्डे वासुकिसंज्ञके । न तस्य विषसंसर्गो भवेत्सर्पसमुद्भवः ॥ कर्तव्या नागपञ्चम्यां यात्रा वर्षासु तत्र । नागाः प्रसन्ना जायन्ते कुले तस्यापि सर्वदा ॥” इति । भाद्रशुक्लपञ्चमी ऋषिपञ्चमी । इयं त्वविशेषात् "पूजाव्रतेषु सर्वेषु मध्याह्नव्यापिनी तिथिः" इति माधवीये हारीतोक्तर्मध्याह्नव्यापिनी ग्राह्या । दिनद्वये मध्याह्नव्याप्तिसत्त्वेऽसत्त्वे वा सामान्यनिर्णयात् पूर्वा । अत्र ऋषिपूजनमुक्तं ब्राह्म "नभस्य शुक्लपक्षे तु यदा भवति पञ्चमी । नद्यादिके तदा स्नात्वा कृत्वा नियममेव च ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वापि वरानने ! । कत्वा नैमित्तिकं कर्म गत्वा निजगृहं पुनः ।। वेदि सम्यक् प्रकुर्वीत गोमयेनोपलिप्य ताम् । तत्र सप्त ऋषीन् दिव्यान् भक्तियुक्तान् (क्तः?) प्रपूजयेत् ॥" ऋषयश्च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #89 -------------------------------------------------------------------------- ________________ तिथ्यर्कः "कश्यपाऽति भरद्वाजो विश्वामित्राऽथ गौतमः । जमदग्निर्वरिष्ठश्च सप्तते ऋपयः स्मृताः ॥” इति । आश्विनशक पञ्चभ्यामुपाङ्गललितायतम् । तन्मध्याह्नव्यापिन्यां कार्यम्, 'पूजावतेषु सर्व पु’ इति पूर्ण लिखितहारीतवचनात् । दिनद्वये तद्व्याप्त वव्याप्तौ वा युग्मवाक्यात् पूर्वा । अस्मिन् व्रते पजैव प्रधानम् । 'मत्पूजनक ण्डस्य प्रार्थयस्व पिधाकनम् । तत्पूजयनि गृहे परामृद्धिमवाप्स्यसि ॥" इति कथान्तर्गतव उनात् । पूजायाः फलसम्बन्धावगमाद जागरणादीनां "फल त्सन्निधावफलं तदङ्गम्" इति न्यायेन तदङ्गर बोध्यम् । ये तु-. "भुक्तवा ज गरणे नक्तचन्द्रायव्रते तथा । तारावतेषु सर्वेषु रात्रियोगा विशिष्यते ।।" इति हेमाद्रिलिखि विचनाद् अत्र रात्रिव्यापिनी ग्राह्यत्याहुः, तन्न मनाहरम्, अस्य नस्योक्तजागरणादिवतेभ्योऽतिरिक्तत्वाद्, अङ्गानुराधेन प्रधानक लनिर्णयस्य कायदृष्टत्वाच्च । 'अभुक्तवा' इति तु वचनं जागरण अधाने कानागरादिवते सावकाशमिति । अत्रैवेन्द्राण्या सह कुश यं नागं प्रपूजयदित्युक्त निर्णयामृते भविष्ये "तथा चा युजे मासि पञ्चभ्यां कुरुनन्दन !। कृत्वा कुशम् यं नागमिन्द्राण्या सह पूजयेत् ।।" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #90 -------------------------------------------------------------------------- ________________ तिथ्यर्क: मार्गशुक्ला पञ्चम्यपि नागपञ्चमी । तदुक्तं हेमाद्रौ स्कान्दे " शुक्ले मार्गशिरे पुण्या श्रावणे या च पञ्चमी । स्नानदानैर्बहुफला नागलेोकप्रदायिनी ॥” इति । इयं च 'पञ्चमी नागपूजायां कार्या षष्ठीसमन्विता' इति पूर्वोक्तचमत्कार चिन्तामणिचनात् परयुता ग्राह्या । माघशुक्लपञ्चमी श्रीपञ्चमी । तत्र श्रीपूजा कार्या । तदुक्तं हेमाद्रौ वाराहे १४ "माघशुक्लचतुर्थ्यां तु वरमाराध्य च श्रियः । पञ्चम्यां कुन्दकुसुमैः पूजां कुर्यात्समृद्धये ॥” इति । अत्र मदनं सम्पूज्य वसन्तोत्सवः कार्यः । तदुक्तं निर्णयामृते पुराणसमुच्चये " माघमासे नृपश्रेष्ठ ! शुक्लायां पञ्चमीतिथौ । रतिकामा तु सम्पूज्य कर्तव्यः सुमहोत्सवः || दानानि च प्रदेयानि तेन तुष्यति माधवः ।" पञ्चमी गुरुवारेण सिद्धा । शनिवारेण विरुद्धा | योगिन्यत्र दक्षिणस्याम् । इति पञ्चमी निर्माता 1 अथ षष्ठी निर्णीयते । सा स्कन्दवतातिरिक्ता सप्तमीयुता कार्या । तदुक्तं स्कान्दे "नागविद्धा न कर्तव्या षष्ठी चैव कदाचन । सप्तमीसंयुता कार्या षष्ठी धर्मार्थचिन्तकैः ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #91 -------------------------------------------------------------------------- ________________ तिथ्यर्कः पञ्चम्यादिवेधस्तत्रैव "नागो द्वादशनाडीभिर्दिकपञ्चदशभिस्तथा । भूतोऽष्टादशनाडीभिषयत्युत्तरां तिथिम् ॥” इति। नागः पञ्चमी। भृतश्चतुर्दशी। दिग दशमी । नाड्यो घटिकाः । अयं विशेषवेध उत्तरतिथिविषयः । सामान्यविहितस्तु त्रिमुहुर्तवेधः पूर्वतिथिविषयः । तदुक्तं कार्म "चतुर्दशी पञ्चमी च तथा च दशमी तिथिः । पूर्वी तिथिं दूषयन्ति त्रिभिरेव मुहूर्त्तकैः ॥” इति । यदा तिथिक्षयवसादुत्तरविद्धा न लभ्यते, तदा स्कन्दव्रतवद् व्रतान्तरमपि नागविद्धायां कार्यम् । तदाह माधवीये वसिष्ठः "एकादशी तृतीया च षष्ठी चैव त्रयोदशी । पूर्वविद्धा तु कर्तव्या यदि न स्यात्परेऽहनि ॥" इति । उपवासेऽपि परैव, 'एकादशाष्टमी' इति पूर्वादाहृतवचनात् । सामान्यतः सर्वष ठ्यां रविवारयोगे लोलार्कयात्रा कार्या । "कृतानि यानि पापानि नरैः संवत्सरादपि । नश्यन्ति क्ष गतस्तानि षष्ठ्यर्के लोलदर्शनात् ॥" इति काशीखण्डे उक्तत्वात् । लाला लोलार्कः । आपाढशुक्लषष्ठी स्कन्दपष्ठी । सा पञ्चमीयुता कार्या, "कृष्णाष्टम। स्कन्दषष्ठी शिवरात्रिश्चतुर्दशी । एताः पूर्वयुताः कार्यास्तिथ्यन्ते पारणं भवेत् ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #92 -------------------------------------------------------------------------- ________________ तिथ्यर्कः इति स्कान्दात् । अस्यां स्कन्दपूजोक्ता वराहपुराणे "आषाढशुक्लषष्ठी तु तिथिः कौमारिका स्मता । कुमारमर्चयेत्तत्र पूर्वत्रोपोष्य वै दिने ।" इति । भाद्रकष्णषष्ठी रोहिणीव्यतीपातभौमवारैर्युक्ता कपिलेत्युच्यते । तदुक्तं समयमयूखे वराहपुराणे "नभस्ये कृष्णपक्षे या रोहिणीपातभूसुतैः । युक्ता षष्ठी पुराणज्ञैः कपिला सा प्रकीर्तिता ।। व्रतोपवासनियमैर्भास्करं तत्र पूजयेत् । कपिलां च द्विजाग्याय दत्वा या क्रतुफलं लभेत् ॥” इति । पुराणसमुच्चयेऽपि "भाद्रे मास्यसिते पक्षे भानौ चैव करे स्थित । पाते कुजे च रोहिण्यां सा पष्ठी कपिला भवेत् ।। संयोगे तु चतुर्णा तु निर्दिष्टा परमेष्ठिना।" इति । भाद्रोत्र अमातो बोध्यः, चान्द्रमासस्य सर्वकार्येषु मुख्यत्वात्, पूर्णिमान्तभाद्रकृष्णषष्ठयां व्यतीपातपातासम्भवाच्च । अत्र सूर्यस्य हस्तस्थितत्व' सति सम्भवे ज्ञेयम्, चतुण्णां मित्युपादानात् । अन्यथा वचने पञ्चानामित्युक्तं स्यात् । चतुर्वप्येकन्यूनत्वे कपिलषष्ठी न भवति, चतुर्णा संयोग इत्यक्तेः । इयमेव चन्द्रषष्ठीत्युक्तं भविष्ये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #93 -------------------------------------------------------------------------- ________________ तिथ्यर्कः "तद्वद्भाद्रपदे मासि पष्ठी पक्षे सितेतरे । चन्द्रषष्ठीव्रतं कुर्यात् पूर्ववेधः प्रशस्यते ॥” इति । इयं चन्द्रोदयव्यापिनी ग्राह्या । हलषष्ठ्यपीयम् । सा सप्तमीयुता ग्राह्येति ग्रन्थान्तरे। भाद्रशुक्लपष्ठी सूर्यषष्ठी। अस्यां भास्करपूजनं महाफलम् । तदुक्तं निर्णयामृते भविष्योत्तरे "शुक्ले भाद्रपदे षष्ठ्यां स्नानं भास्करपूजनम् । प्राशनं पञ्चगव्यस्य अश्वमेधफलप्रदम् ॥” इति । अस्यामेव दक्षिणापथस्थकार्तिकेयदर्शनफलमुक्तं तत्रैव "येयं भाद्रपदे मासि षष्ठी स्याद्भरतर्षभ ! । यं पापहरा पुण्या शिवा शान्ता शुभा नृप !॥ स्नानदानादिकं सर्वमस्यामक्षय्यमुच्यते । अस्यां पश्यन्ति गाङ्गेय दक्षिणापथमाश्रितम् ।। ब्रह्महत्यादिपापैस्तु मुच्यन्ते नात्र संशयः ।" इति । आश्विनशुक्लषष्ठयां दिवसत्रयसाध्यं पूजाङ्गत्वेन विल्वाभिमन्त्रणं कुर्यात् । तदुक्तं देवीपुराणे "ज्येष्ठानक्षत्रयुक्तायां षष्ठयां विल्वाभिमन्त्रणम् । सप्तम्यां मूलयुक्तायां पत्रिकायाः प्रवेशनम् ॥ पूर्वाषाढयुताष्टभ्यां पूजाहोमाधुपोषणम् । उत्तरेण नवम्यां तु बलिभिः पूजयेच्छिवाम् ॥ श्रवणेन दशम्यां तु प्रणिपत्य विसर्जयेत् ।" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #94 -------------------------------------------------------------------------- ________________ तिथ्यर्कः अथाऽऽमन्त्रणप्रकारः-विल्वाभ्यासं गत्वा, विल्वं सम्पूज्य, नाममन्त्रेण विल्ववृक्षे दुर्गा च सम्पूज्य प्रार्थयेत् । तत्र मन्त्रः "रावणस्य वधार्थाय रामस्यानुग्रहाय च । अकाले ब्रह्मणा बोधो देव्यास्तव कृतः पुरा ॥ अहमप्याश्रितः षष्ठ्यां सायाह्ने बोधयाम्यतः ।" अथाऽऽमन्त्रणमन्त्रः"श्रीशैलशिखरे जातः श्रीफल ! श्रीनिकेतनः । नेतव्योऽसि मया वृक्ष ! पूज्यो दुर्गाखरूपतः ॥” इति । आनयनप्रकारः सप्तम्या वक्ष्यते । कार्तिक शुक्लषष्ठयां वह्निपूजोक्ता कालादर्श मत्स्यपुराणे "वृश्चिकार्के शुक्लषष्ठी भौमवारेऽप्युपस्थिते । महाषष्ठीति सा प्रोक्ता सर्वपापहरा तिथिः ॥ तस्यां स्वपिति वै वह्निः पूर्वत्रोपोष्य वै दिने । षष्ठयां वह्नि समभ्यर्च्य कुर्याद्वह्निमहोत्सवम् ॥” इति । वृश्चिकार्के कार्तिक इति तत्रैव व्याख्यातम् । मार्गशुक्लषष्ठी योगविशेषेण चम्पाषष्ठी। तदुक्तं मल्लारिमाहात्म्ये मार्गे भाद्रपद शुक्ला षष्ठी वैधृतिसंयुता । रविवारेण संयुक्ता सा चम्पेतीह कीर्तिता ॥ वैधृतियोगकथनं तु भाद्रशुक्लषष्ठ्यभिप्रायेण, अस्यां वैधृतियोगस्य सर्वथासम्भवात् । अस्यां विश्वेश्वरदर्शनमुक्तं तत्रैव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #95 -------------------------------------------------------------------------- ________________ तिथ्यः "मार्गशीर्षेऽमले पक्ष षष्ठ्यां वारेऽशुमालिनः । शततारागते चन्द्र लिङ्ग स्याद् दृष्टिगोचरम् ॥” इति । स्यादित्यनेन दृष्टिगोचरं कर्त्तव्यमित्युच्यते । इयमुक्तयोगयुता पूर्व, योगाभावे सनमीयुता ग्राह्याविशेषात् । इयमपि स्कन्दषष्ठी। तदुक्तं निर्णयामृते भविष्योत्तरे "येयं मार्गशिरे मासि षष्ठी भरतसत्तम ! । पुण्या पापहरा धन्या शिवा शान्ता गुहप्रिया । निहत्य तारक षष्ठ्यां गुहस्तारकराजवत् । रराज तेन दयिता कार्तिके तस्य सा तिथिः ।। स्नानदानादिकं कर्म तस्यामक्षय्यमुच्यते ।" इति दिक । षष्ठी शुक्रण भीमेन वा सिद्धा। शनिवारेण विरुद्धा । योगिन्यत्र पश्चिमायाम् । इति पष्ठी निर्णीता । अथ सप्तमी निर्णोयते । सा पूर्वा उक्ता स्कान्दे "पष्ठ्या युता सप्तमी च कर्त्तव्या तात! सर्वदा ।" इति । उपवासेऽपि पूर्वा, एकादशी तथा षष्ठी' इति पूर्वादाहृतवचनात् । चैत्र शुक्लसप्तम्यां श्रीभास्करं दमनकादिभिः सम्पूज्य भोगानामोतीत्युक्त निर्णयामृते देवीपुराणे "भास्करस्य तु सप्तम्यां पूजां दमनकादिभिः । कृत्वा प्राप्नोति भोगादीन् विगतारिर्महातपाः ॥” इति । वैशाखशुक्लसप्तमी गङ्गासप्तमी। अस्यां गङ्गापूजनं कार्यमित्युक्तं ब्राह्म Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #96 -------------------------------------------------------------------------- ________________ तिथ्यर्कः "वैशाख शुक्लसप्तम्यां जमुना जाह्नवी स्वयम् । क्रोधात्पीता पुनस्त्यक्ता कर्णरन्ध्रात्तु दक्षिणात् ॥ तां तत्र पूजयेद्देवीं गङ्गां गगनमेखलाम् ।" इति । विशेषवचनाभावादियं पूर्वाह्नव्यापिनी ग्राह्या। दिनद्वये तद्व्याप्तावव्याप्ती वा सामान्यनिर्णयात्पूर्वैव । आषाढशुक्लसप्तम्यां सूर्यपूजोक्ता निर्णयामृते ब्रह्मपुराणे"आषाढशुक्लसप्तम्यां विवस्वान्नाम भास्करः । जातः पूर्वासु तस्मात्तं तत्रोपाष्य यजेत्सदा ॥ रथचक्राकृता रम्ये मण्डलं सर्वकामदम् । भक्ष्य ज्यैस्तथा पेयः पुष्पै पैविलेपनैः ॥” इति । आश्विनशुक्लसप्तमी देवीपूजने श्रीसूर्योदययुता ग्राह्या । तदुक्तं प्रतापमार्तण्डे भविष्ये "युगाद्या वर्षद्धिश्च सप्तमी पार्वतीप्रिया । रवेख्दयमीक्षन्ते न तासु तिथियुग्मता ॥” इति । वर्षद्धिर्जन्मतिथिः । दिनद्वये उदयव्याप्तिसत्त्वे सम्पूर्णत्वात्पूर्वा । दिनद्वयेऽपि तादृशकालेऽसत्त्वे षष्ठीयुक्तैव ग्राह्या। अस्यामेव त्रिरात्रारम्भः कार्यः, ___ "त्रिरात्रं वापि कर्त्तव्यं सप्तम्यादि यथाक्रमम् ।" इति धौम्योक्तः। अत्र सावित्रीव्रतवन्नवम्यनुरोधेन त्रिरात्रं कार्यमिति केचित् । युक्तं तु प्रतिपन्नवरात्रारम्भवत् सप्तम्यामेवारम्भणीयमिदम् । तदुक्तं भविष्योत्तरे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #97 -------------------------------------------------------------------------- ________________ तिथ्यर्क : " व्रती च पूजयेद्देवीं सप्तम्यादिदिनत्रये । द्वाभ्यां चतुर होभिर्वा ह्रासवृद्धिवशात्तथेः ॥ भवानीतुष्टये पार्थ ! संवत्सरसुखाय च । भूतप्रेतपिशाचानां नाशार्थं चोत्सवाय च ।। " इति । इदं त्रिरात्रानुष्ठानं काम्यम्, फलश्रवणात् । अत्र दारुसदनस्थापितां दुर्गा पूजयेदित्युक्तं निर्णयामृते भविष्ये "सप्तम्यां नव गेहानि दारुजानि नवानि च । एकं वा वित्तभावेन कारयेत्सुसमाहितः || दुर्गागृहं प्रकर्त्तव्यं चतुरस्रं सुशोभनम् । तन्मध्ये वैदिकां कुर्याच्चतुर्हस्तां शुभां समाम् ॥ तस्यां सिंहासनं क्षौमं कम्बलाजिनसंयुतम् । तत्र दुर्गा प्रतिष्ठाप्य सर्वलक्षणसंयुताम् ॥ पूजयेत्मयता देवीं नरो नियममास्थितः ।" इति । ६१ वेदिकायाश्चतुर्हस्तत्वं क्षेत्रफलता ज्ञेयम् । अस्यां षष्ठ्यामामन्त्रितां विल्वशाखामानीय पूजयेदित्युक्तं ज्योतिःशास्त्रे "आश्विनस्य सिते पक्षे सुमुहूर्त्तेन सप्तमी । तस्यां च पत्रिकापूजा कर्त्तव्या नवनायकैः || प्रशस्तां सफलां विल्वशाखामाहृत्य पूजयेत् ।" इति । आनयनप्रकारस्तु विल्ववृक्षं दुर्गा च सम्पूज्य प्रार्थयेत् । तत्र मन्त्र: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #98 -------------------------------------------------------------------------- ________________ तिथ्यर्कः "विल्ववृक्ष ! महाभाग ! सर्वदा शङ्करप्रिय !। गृहीत्वा तव शाखां तु दुर्गापूजां करोम्यहम् ॥ शाखाच्छेदोद्भवं दुःखं न च कार्यं त्वया प्रभो !" इति । ततः फलयुतां वानस्पत्येन मन्त्रेण शाखां छित्वा, गृहमानीय, सम्पूज्य स्थापयेत् । विल्वामन्त्रणप्रकारस्तु आश्विन शुक्लषष्ठयामुक्तः । अत्रैव मूलनक्षत्रे पुस्तकस्थापन कार्यम् "मूलऋक्षे सुराधीश ! पूजनीया सरस्वती । पूजयेत्प्रत्यहं देवीं यावद्वष्णवमुक्षकम् ।। नाध्यापयेन्न च लिखेन्नाधीयीत कदाचन । पुस्तके स्थापिते देव ! विद्याकामो द्विजोत्तमः ॥" इति रुद्रयामलात् । वैष्णवमुक्षकं श्रवणनक्षत्रम् । संग्रहेऽपि "आश्विनस्य सिते पक्ष मेधाकामः सरस्वतीम् । मलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् ॥” इति । मार्गशीर्षादिचतुर्मासेषु कृष्णपक्षे सप्तम्यां पूर्वेयुः श्राद्ध कार्यम्। तदुक्तं कालादर्शे "मार्गशीर्षे च पौषे च माघे प्रौष्ठे च फाल्गुने । कृष्णपक्षेषु पूर्वेधुरान्वष्टक्यं तथाष्टकाः ॥” इति । अष्टकाश्राद्धात्पूर्वेधुरित्यर्थः। अष्टकास्त्वष्टमीनिर्णये वक्ष्यन्ते । अत्राष्टमीश्राद्धानुरोधेन पूर्वेयुः श्राद्धं कार्य नापराह्लादिव्याप्त्या। तत्र निर्णयः । मार्गशीर्षादयश्चामान्ता ग्राह्याः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #99 -------------------------------------------------------------------------- ________________ तिथ्यर्कः मार्गशीर्ष शुक्लसप्तमी मित्रसप्तमी । तत्र मित्रपूजायुक्त निर्णयामृते ब्रह्मपुराणे सप्तमीप्रकरणे "यद्विष्णोदक्षिणं नेत्रं तदेवाकृतिमत्पुनः । अदितेः कश्यपाज्जज्ञ मित्रो नाम दिवाकरः ।। सप्तम्यां तेन सा ख्याता लोकेऽस्मिन् मित्रसप्तमी । षष्ठयां च लपनं कार्यं ततः स्नात्वा यजेद्रविम् ।। तत्रोपवासः कर्त्तव्यो भक्ष्याण्यथ फलानि च । सप्तम्यां राध' कार्य तस्मै मित्राय भानवे ॥ नानाकुसुमसंभारैर्भक्ष्यः पिष्टमयैः शुभैः । मधुना च प्रभूतेन होमजाप्यसमाधिभिः ॥ ब्राह्मणान् भोजयेत्पश्चादीनानाथांश्च मानवान् । रात्रौ जागरणं कार्य नृत्यगीतपुरःसरम् ।। अष्टम्यां संविभाज्याथ तथा च नटनर्त्तकाः । दिनद्वये च भोक्तव्यं मिष्टमन्नं मधुप्लुतम् ।।" इति । अत्र पूर्व दिने कृतवपनः स्नात्वा, रवि सम्पूज्य, फलादिभक्षणेनोपवास संपाद्य, ततः सप्तम्यां कुसुमैर्नानाभक्ष्यैर्मधुप्लुतपिष्टयुक्तैराराधनं कृत्वा, यथोक्तविधिना यथाशक्ति सूर्यमन्त्रां जपेत् । जपादिविधिस्तु मत्कृताचारादर्श द्रष्टव्यः । जपदशांशेन हामं कृत्वा, ब्राह्मणादीन् सम्भोज्य, रात्री जागरणं कुर्यात् । ततोऽष्टम्यां श्रीसूर्य सम्पूज्य, गायकादीन् सम्भाज्य, स्वयं दिनद्वयेऽपि मधु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #100 -------------------------------------------------------------------------- ________________ ६४ तिथ्यर्क : प्लुतं पिष्टं भुञ्जीत | दिनद्वये सप्तम्यामष्टम्यां च । इति प्रयोगः । माघशुक्ल सप्तमी रथसप्तमी । सा स्नानादावरुणोदयव्यापिनी ग्राह्या । तदुक्तं विष्णुना " सूर्यग्रहणतुल्या तु शुक्ला माघस्य सप्तमी । अरुणोदयवेलायां तस्यां स्नानं महाफलम् ||" इति । श्रयञ्च स्नानकालो येsरुणोदये माघे स्नान्ति तान्प्रत्येव, अन्यान प्रति तु श्रीसूर्योदयः; माघमासस्य सप्तम्यामुदयत्येव भास्करे । विधिवत्तत्र च स्नानं महापातकनाशनम् ॥ इत्यपरार्के विष्णुक्तः । विधिवद् दीपदानादि कृत्वेत्यर्थः । दीपदानविधिर्हेमाद्रौ भविष्ये— "सौवर्णे राजते ताम्र' भक्त्या लाबूमयेऽथवा । तैलेन वर्त्तिर्दातव्या महारजनरञ्जिता || समाहितमना भूत्वा दत्वा शिरसि दीपकम् । भास्करं हृदये ध्यात्वा इमं मन्त्रमुदीरयेत् ॥ नमस्ते रुद्ररूपाय रसानां पतये नमः । वरुणाय नमस्तेऽस्तु हरिवास ! नमोऽस्तु ते ॥ जले परिहरेद्दीपं ध्यात्वा सन्तर्प्य देवताः ।" इति । परिहरेत् स्थापयेत् । महारजनं कुसुम्भम्, “महारजनमुद्दिष्टं शातकुम्भकुसुम्भयोः ।" इति महेश्वरको षात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #101 -------------------------------------------------------------------------- ________________ स्नानमन्त्रश्च - “पृथग्जन्मकतं पापं मया सप्तसु जन्मसु । तन्मे रोगं च शोकं च माकरी हन्तु सप्तमी ||" इति । तिथ्यर्क : स्नानोत्तरमर्घस्तूक्तः सौरागमे -- “अर्कपत्रैः सबदरैर्दूर्वाक्षतसचन्दनैः । अष्टाङ्गविधिना चाये दद्यादादित्यतुष्टये ॥" अर्धदानमन्त्री मदनरत्ने -- "सप्तसप्ते ! भव प्रीतः सप्तलोकमदीपन ! | सप्तमीसहित देव ! गृहाणा दिवाकर |||" अस्यां रथदानमु भविष्योत्तरे -- "एवंविधं रथवरं रथवाजियुक्तं हैमं च हैमशतदीधितिना समेतम् । दद्याच्च मासितसप्तमवासरे यः सोऽसङ्गचक्रगतिरेव महीं भुनक्ति ॥" निर्णयामृते सप्तमीकरणे- ६५ " रविवारेण युक्तायां सप्तम्यामुत्तरायणे । पुन्नामनि च नक्षत्रे पूजयेच्च दिवाकरम् ||" उत्तरायणे माघे -- इति तत्रैव व्याख्यातम् । पुन्नामनक्षत्राणि ज्योतिःशास्त्र प्रोक्तानि - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #102 -------------------------------------------------------------------------- ________________ तिथ्यर्कः "हस्तो मैत्रस्तथा पुष्यो मृगशीर्ष पुनर्वसुः । पुन्नामधेयनक्षत्राण्येतान्याहुर्मनीषिणः ॥” इति । अस्यामेव लोलार्कस्नानात्पापमुक्तिरुक्ता काशीखण्डे--- "लोलार्के रथसप्तम्यां स्नात्वा गङ्गासिसङ्गमे । सप्तजन्मकृतैः पापैर्मुक्तो भवति तत्क्षणात् ॥" अथ रविवारयुक्ता या काचिच्छुक्लसप्तमी सा विजयासप्तमीत्युक्तं मदनरत्ने भविष्यपुराणे "शुक्लपक्षस्य सप्तम्यां सूर्यवारो भवेद्यदि । सप्तमी विजया नाम तत्र दत्तं महाफलम् ॥ स्नानं दानं जपो होम उपवासस्तथैव च । सर्व विजयसप्तम्यां महापातकनाशनम् ॥” इति । तत्रैव "करवीराणि रक्तानि कुकुमश्च विलेपनम् । विजयं धूपमस्यां तु भानोस्तुष्टिकराणि वै ॥" एषैव भानुसप्तमी कल्याणसप्तमी च । अस्यां योगविशेषमाह स्मृतिचन्द्रोदये गर्गः “षष्ठी च सप्तमीयोगे वारश्चेदंशुमालिनः । यागोऽयं पद्मको नाम सहस्रार्कग्रहैः समः ॥” इति । सप्तरी बुधवारेण सिद्धा। रविवारेण संवर्तयोगाख्या विरुद्धा। योगिन्यस्यां वायव्याम् । इति सप्तमी निर्णीता । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #103 -------------------------------------------------------------------------- ________________ तिथ्यकः अथाष्टमी निर्णीयते । सा शुक्ला परा, इतरा पूर्वा । तदुक्तं निगमे "शुक्लपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी। पूर्वविद्धैव कर्त्तव्या परविद्धा न कुत्रचित् ।।" इति । उपवासेष्वेवायं नियमो न तु सर्वत्र, "उपवासेषु राजेन्द्र ! एष धर्मः सनातनः ।" इति तत्रैवोक्तत्वात् । तत्र सर्वाष्टमीषु दुर्गापूजोक्ता काशीखण्डे "अष्टम्यां च चतुर्दश्यां भौमवारे विशेषतः । सम्पूज्या सततं काश्यां दुर्गा दुर्गातिनाशिनी ॥” इति । तथा "अष्टम्यां च चतुर्दश्यां रविभूमिजवासरे । यात्रां च भैरवीं कृत्वा नरः पापैः प्रमुच्यते ॥” इति । चैत्र शुक्लाष्टमी भवान्यष्टमी। अत्र भवानीयात्रोक्ता काशीखण्डे "चैत्राष्टम्यां महायात्रां भवान्याः कारयेत् सुधीः । अष्टाधिकाः प्रकर्त्तव्याः शतकृत्वः प्रदक्षिणाः ॥ भवानी यस्तु पश्येत शुक्लाष्टम्यां मधौ नरः । न जातु शोकं लभते सदानन्दमयो भवेत् ॥” इति । सा परयुता ग्राह्या । तदुक्तं निगमे "युग्माग्नियुगभूतानां षण्मुन्योर्वसुरन्ध्रयोः । रुद्रेण द्वादशीयुक्ता चतुर्दश्या च पूर्णिमा ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #104 -------------------------------------------------------------------------- ________________ ६६ तिथ्यर्कः प्रतिपदप्यमावास्या तिथ्यायुग्मं महाफलम् । एतद् व्यस्तं महादोषं हन्ति पुण्यं पुराकृतम् ॥” इति । अस्यार्थः-युग्मं द्वितीया, अग्निस्तृतीया, युगं चतुर्थी, भूतं पञ्चमी, षट् षष्ठी, मुनिः सप्तमी, वसुरष्टमी, रन्ध्र नवमी, रुद्र एकादशी। तिथ्यायुग्मम्-द्वितीया तृतीयायुक्ता ग्राह्या, तृतीया द्वितीयायुक्ता, चतुर्थी पञ्चमीयुक्ता, पञ्चमी चतुर्थीयुक्ता, षष्ठी सप्तमीयुक्ता, सप्तमी षष्ठीयुक्ता, अष्टमी नवमीयुक्तेत्यादीनि युग्मानि ज्ञेयानि । एतानि चतुर्दशीपूर्णिमायुग्मसाहचर्यात् प्रतिपदप्यमावास्या साहचर्याच्च शुक्लपक्षयुग्मानि ज्ञातव्यानि । तस्माद् वसुरन्ध्रयोरस्माद्वाक्यांशादियं परैव। यत्तु “षष्ठ्यष्टम्यप्यमावास्या कृष्णपक्षे त्रयोदशी । एताः परयुताः पूज्याः पराः पूर्वेण संयुताः ॥" इति युग्मवचस्तदेतदर्थकमेव । अपरन्तु “प्रतिपत् सद्वितीया स्याद् द्वितीया प्रतिपद्युता ।" इति तत्कृष्णपक्षयुग्मनिर्णायकम् । इयमेवाशोकाष्टमी। अस्यामशोककलिकापाशनं कार्यम् । तदुक्तं लिङ्गपुराणे "अशोककलिका अष्टौ ये पिबन्ति पुनर्वसौ । चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ॥” इति । प्राशनमन्त्रस्तत्रैव "त्वामशाकं शिवाभीष्टं मधुमाससमुद्भवम् । पिबामि शोकसन्तप्तो मामशोकं सदा कुरु ॥" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #105 -------------------------------------------------------------------------- ________________ तिथ्यर्क: ६-८ अशोक कलिकाप्राशनं त्वियं नक्षत्रवशात्पूर्वा परा वा ग्राह्या । नक्षत्रायेोगेऽपि केवलाष्टम्यां कार्यम्, " तिथिः शरीरं तिथिरेव कारण तिथिः प्रमाणं तिथिरेव साधनम् ॥” इति लल्लोक्तः । एतेन नक्षत्रायोगे कर्मलोप इत्युक्तं सिन्धु कारज्येष्ठैस्तदपास्तम् । विशेषस्तिथितत्त्वे कालिकापुराणे "चैत्रे मासि सिताष्टम्यां यो नरो नियतेन्द्रियः । स्नायाहित्यायेषु स याति ब्रह्मणः पदम् ॥” इति । लौहित्यो ब्रह्मणः पुत्रः । स्नानमन्त्रस्तत्रैव "ब्रह्मपुत्र ! महाभाग ! शन्तनोः कुलसम्भव ! । अमोघगर्भसम्भूत! पापं लौहित्य ! मे हर ॥” इति । युक्तेयं प्रशस्तेत्युक्तं पृथ्वीचन्द्रोदये पुनर्वसुबुधवाराभ्यः विष्णुना " पुनर्वसुधाता चैत्रे मासि सिताष्टमी । प्रातस्तु विधिवत्स्नात्वा वाजपेयफलं लभेत् ॥” इति । वैशाखशुकाष्टम्याभाम्ररसेन स्नानमुक्तं निर्णयामृते देवीपुराणे"सहकार फलैः स्नानं वैशाखे ह्यष्टमीदिने । आत्मना देवतां स्नाप्य मांसीवालकवारिभिः ॥" * ब्रह्मपुत्र इति प्रसिद्धो नदविशेषः । तस्य ब्रह्मपुत्रत्वं तु कालिकापुराणात् ( श्र० ८४, ८५ ) अवगन्तव्यम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #106 -------------------------------------------------------------------------- ________________ तिथ्यर्कः मांसी जटामांसी। बालकमुशीरम् । तत्रैव संवत्सरमदीपे "देव्याः पूजां चं कुर्वीत केतक्या चम्पकेन च । शर्कराक्षीरनैवेद्यं कन्याविप्रेषु भोजनम् ॥ आत्मनः पारणं तद्वद् दक्षिणां शक्तितो ददेत् । सर्वतीर्थाभिषेकन्तु अनेनामोति भार्गव ! ॥" इति । अथ ज्येष्ठकृष्णाष्टम्यां त्रिलोचनपूजनमीशलोकप्रदमुक्तं भविज्योत्तरे "ज्येष्ठे मासि द्विजश्रेष्ठ ! कृष्णाष्टम्यां त्रिलोचनम् । यः पूजयति देवेशमीशलोकं ब्रजेन्नरः ॥ इति । ज्येष्ठशुक्लाष्टम्यां शुक्लां देवीं पूजयेदित्युक्त निर्णयामृते ब्रह्मपुराणे "शुक्लाष्टम्यां पुरा जाता शुक्ला देवी महानिशि । वधाय दानवेन्द्राणां शुक्लपक्षे ततो यजेत् ॥” इति । आषाढशुक्लाष्टम्यां महिषघ्नी देवीं पूजयेदित्युक्तं देवीपुराणे "अष्टम्यां च तथाऽऽषाढे निशातायेन स्नापयेत् । स्वयं स्नात्वा च कपूरैश्चन्दनैस्तां विलेपयेत् ।। भक्ष्यान शर्करया पूर्णान्पानकानि शुभानि च । शक्तितो दक्षिणां दद्यान्महिषघ्नीं च कीर्तयेत् ॥” इति । निशा हरिद्रा । अत्र सामान्यनिर्णये। ज्ञेयः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #107 -------------------------------------------------------------------------- ________________ तिथ्यर्कः ७१ "अहर्निशं योगिगणैकवन्यं कृष्णाङघ्रियुग्मं विमलं प्रणम्य । विभाव्य मात महसम्प्रदाय कष्णाष्टमीनिर्णयमातनोमि ॥" श्रावणकपणाष्टमी कप्णजन्माष्टमीत्युच्यते । तदुक्तं स्कान्दे "अष्टमी श्रावणे मासि कष्णपक्षे यदा भवेत् । कृष्णजन्माष्टमी ज्ञेया महापातकनाशिनी ॥” इति । इयमद्ररात्रव्यापिनी ग्राह्या । तदुक्तं भविष्योत्तरे 'मासि भाद्रपदेऽष्टम्यां कष्णपक्षेऽर्द्धरात्रके । शशाङ्क पराशिस्थे ऋक्ष रोहिणिसंज्ञिते ।। योगेऽस्मिन् नसुदेवाद्धि देवकी मामजीजनत् । तस्मान्मा पूजयेत्तत्र शुचिः सम्यगुपोपितः ॥” इति । पुराणसमुच्चयेऽपि "श्रावणे बा ले पक्षे कष्णजन्माष्टमीव्रतम् । रात्रियुक्तां प्रकुर्वीत विशेषेणेन्दुसंयुताम् ॥” इति । श्रावणपदमत्रामात्मासपरम् । अत्र दिनद्वयसत्त्वेऽसत्त्वे वा "किं पुनर्नवमीयुक्ता कुलकोट्यास्तु मुक्तिदा" इति नवमीयोगप्राशस्त्यात् : "वर्जनीया प्रयत्नेन सप्तमीसंयुताष्टमी" इति सप्तमीयोगनिषेधाच्च पर युतैव ग्राह्या । इयमेव रोहिणीयुक्ता जयन्तीत्युच्यते । तदुक्तं वह्निपुराणे "कृष्णाष्टम्मां भवेद्यत्र कलैका रोहिणी यदि । जयन्ती नाम सा प्रोक्ता उपोष्या सा प्रयत्नतः ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #108 -------------------------------------------------------------------------- ________________ तिथ्यर्कः स्कान्देऽपि "प्राजापत्येन संयुक्ता अष्टमी तु यदा भवेत् । श्रावणे बहुले सा तु सर्वपापप्रणाशिनी ॥ जयं पुण्यं च कुरुते जयन्तीं तां विदुर्बुधाः" इति । अयं च रोहिणीयोगो अर्द्धरात्र एव मुख्यः। तदुक्तं वसिष्ठेन "अष्टमी रोहिणीयुक्ता निश्यः दृश्यते यदि । मुख्यकालः स विज्ञेयस्तत्र जातः स्वयं हरिः ॥" इति । भविष्येऽपि "रोहिण्यामर्द्धरात्रे च यदा कष्णाष्टमी भवेत् । तस्यामभ्यर्चनं शारेहन्ति पापं त्रिजन्मजम् ॥" विष्णुधर्मोत्तरे च "प्राजापत्यसंसंयुक्ता कृष्णा नभसि चाष्टमी । सोपवासो हरेः पूजां कृत्वा तत्र न सीदति ॥ अर्द्धरात्रे तु योगोऽयं तारापत्युदये सति ।" इति । तथा तत्रैव "समं योगे तु रोहिण्या निशीथे राजसत्तम !। समजायत गोविन्दो बालरूपी चतुर्भुजः ॥ तस्मात्तं पूजयेत्तत्र निशीथे राजसत्तम ! ।" इति । यदा कदाचिदीषद्योगस्त्वनुकल्पः । स च वसिष्ठसंहितायां प्रदर्शितः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #109 -------------------------------------------------------------------------- ________________ तिथ्यर्कः "अहोरात्रं तयोोगो ह्यसम्पूर्णा भवेद्यदि । मुहूर्तमप्यहोरात्रे योगश्चेत् तामुपोषयेत् ॥” इति । पुराणान्तरेऽपि "रोहिणी च यदा कष्णपक्षेऽष्टम्यां द्विजोत्तम ! । जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिः ॥ वासरे वा निशायां वा यत्र स्वल्पापि रोहिणी । विशेषेण नभोमासे सैवोपोष्या मनीषिभिः ॥” इति । इयमपि चतुर्दा भिद्यते । पूर्वेधुरेव निशीथयोगवती । परेधुरेव तादृशी। उभयत्रापि तादृशी । उभयनिशीथायोगवती चेति । तत्र या पूर्वेधुरेव निशीथयोगवती सैवोपोष्या । तदुक्तं वह्निपुराणे "सप्तमीसंयुताष्टम्यां निशीथे रोहिणी यदि । भविता साऽष्टमी पुण्या यावच्चन्द्रदिवाकरौ ॥” इति । गारुडेऽपि "जयन्त्यां पूर्वविद्धायामुपवासं समाचरेत् ।" इति । अवशिष्टेषु विष्वपि पक्षेषु परदिन एवोपवासः । दिनद्वये निशीथयोगमुपलक्ष्य उक्तं ब्रह्मवैवर्ते-- "वर्जनीया प्रयत्नेन सप्तमीसहिताऽष्टमी । सऋक्षापि न कर्त्तव्या सप्तमीसंयुताऽष्टमी ॥" इति । "अविद्धायां तु सञ्जयां जातो देवकिनन्दनः ।" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #110 -------------------------------------------------------------------------- ________________ ७४ तिथ्यर्क : अपरे रोहिणीयुक्ताप्यष्टमी नार्द्धरात्रगा तदा पूर्वेद्यू रोहिणी - रहितापि निशीथगैव ग्राह्या जन्माष्टमी व्रते । a " समं योगे तु रोहिण्या निशीथे राजसत्तम ! । समजायत गोविन्दो बालरूपी चतुर्भुजः ॥ तस्मात्तं पूजयेत्तत्र यथावित्तानुरूपतः ।” इति वह्निपुराणे निशीथस्यैव विशेष्यत्वेन कर्मकालत्वावगमात् । "कर्मणे यस्य यः कालस्तत्कालव्यापिनी तिथिः । तया कर्माणि कुर्वीत हासवृद्धी न कारणम् ||" इति वचनात् कर्मका लगाया एव तिथेर्ग्राह्यत्वाभिधानात् । जयन्तीते तु परा । परदिने जयन्तीयोगस्य सत्त्वात् । यस्मिन् वत्सरे जयन्तीयोगो नास्ति, तस्मिन्वत्सरे जन्माष्टमीव्रतमेकमेव प्रवर्त्तते । यदा पूर्वदिने जन्माष्टमीत्रते परदिने जयन्ती योगाज्जयन्तीव्रतं प्राप्नोति तदोपवासद्वयसमर्थन व्रतद्वयं कार्यम् । पारणा च द्वादश्युपवासपारणावत् । असमर्थेन जन्माष्टमीव्रतमेव कार्यम् । जयन्तीव्रतं तु प्रतिनिधिना भक्ष्यादिना वा सम्पादनीयम् । अत्र माधवस्त्वेतादृशविषये परेऽह्नि जयन्ती - योगस्य सत्वाज्जन्माष्टमीव्रतं न पृथक कार्यमित्याह- "यस्मिन्वर्षे जयन्त्याख्ययोगो जन्माष्टमी तदा । अन्तर्भूता जयन्त्यां स्यादृक्षयोगप्रशस्तितः ॥” इति । हेमाद्रिनिर्णयामृतादयः सर्वनिबन्धकारा अपि - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #111 -------------------------------------------------------------------------- ________________ तिथ्यर्कः "दिवा वा यदि वा रात्रौ नास्ति चेद्रोहिणीकला । रात्रियुक्तां प्रकुर्वीत विशेषेणेन्दुसंयुताम् ॥ उदये चाष्टमीकिश्चिन्नवमी सकला यदि । भवेत्तु बुधसंयुक्ता प्राजापत्यसंसंयुता ।। अपि वर्षशतेनापि लभ्यते यदि वा न वा ॥" इत्यादिवचनैः परेऽह्नि रोहिणीसहिता निशीथास्पृगपि जन्माष्टमी व्रतेऽपि परैव कार्येत्याहुः। विस्तरस्तु प्रतिज्ञाभङ्गभीत्या न प्रदशितः । इदं व्रतं नित्यम् । "ये न कुर्वन्ति जानन्तः कृष्णजन्माष्टमीव्रतम् । ते भवन्ति नराः प्राज्ञ ! व्याला व्याघ्राश्च कानने ॥" इति स्कान्देऽनिष्ट श्रुतेः। जयन्तीव्रतं नित्यं काम्यश्च, प्रत्यवायफलविशेषयोः श्रवणात् । अकरणे प्रत्यवायः स्कान्दे स्मर्यते "क्रियाहीनस्य मूर्खस्य परान्नं भुञ्जतोऽपि वा। न कृतघ्नस्य लोकोऽस्ति जयन्तीविमुखस्य च ॥” इति । फलबोधक वाक्यं तु विष्णुधर्मोत्तरे जयन्ती प्रकृत्य श्रूयते-- "यहाल्ये यच्च कौमारे यौवने वार्धके तथा । बहुजन्मकृतं पापं हन्ति सोपोषिता तिथिः ॥” इति दिक । अथ व्रतग्रहणपकारो विष्णुधर्मोत्तरे "वासुदेवं समुद्दिश्य सर्वपापप्रशान्तये । उपवासं करिष्यामि कृष्णाष्टम्यां नभस्यहम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #112 -------------------------------------------------------------------------- ________________ तिथ्यर्क : कृष्णाष्टमीं देवीं नभश्चन्द्रसरोहिणीम् । श्रर्चयित्वापवासेन भोक्ष्येऽहमपरेऽहनि || एनसे मोक्षकामोऽस्मि यद् गोविन्द । त्रियोनिजम् । तन्मे मुञ्चति पाशं हिपतितं शोकसागरे ( ? ) ॥ जन्म मरणं यावद् यन्मया दुष्कृतं कृतम् । तत्प्रणाशय गोविन्द ! प्रसीद पुरुषोत्तम ! ।। " इति प्रातः श्लोकान् पठित्वा सङ्कल्पं कुर्यात् । ततोऽर्द्धरात्रे श्रीकृष्णं व्रतविधिना सम्पूज्य, जागरणं कृत्वा, अपरदिने पुनः सम्पूज्य, ब्राह्मणान् संभाज्य, पारणं कुर्यात् । तत्कालस्तु ब्रह्मवैवर्त्त - “अष्टम्यामथ रोहिण्यां न कुर्यात्पारणं कचित् । हन्यात् पुराकृतं कर्म उपवासार्जितं फलम् ॥ तिथिरष्टगुणं हन्ति नक्षत्रञ्च चतुर्गुणम् । तस्मात्प्रयत्नतः कुर्यात् तिथिभान्ते च पारणम् ॥” इति । अन्यतरान्ते कार्यमित्यपि नारदीये " तिथिनक्षत्रसंयोगे उपवासेो यदा भवेत् । पारणं तु न कर्तव्यं यावन्नैकस्य संक्षयः ॥ सांयोग प्राप्ते कोऽपि वियुज्यते । तत्रैव पारणं कुर्यादेवं वेदविदो विदुः ||" इति । यदा तिथेर्नक्षत्रस्य वा रात्रावन्तो भवति, तदा रात्रौ पारणनिषेधाद् दिवैवाक्तं ब्रह्मवैवर्ते— Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #113 -------------------------------------------------------------------------- ________________ तिथ्यर्क : "सर्वेष्वेवोपवासेषु दिवा पारणमिष्यते ।" इति । नारायणीयधर्मप्रवृत्तौ - "तिथ्यर्थे रात्रिपर्यन्तं स्यातां चेत्पारणं दिवा । यामत्रयेादर्ध्वगामिन्यां प्रातरेव हि पारणा || तिथियामत्रयादर्वाक् तिथिभान्ते च पारणम् ।” इति । इदं महानिबन्धेष्वसत्त्वान्निर्मूलमिति केचित् । कालादर्शे उत्सवान्तोऽप्युक्तः कालः “तिथ्यन्ते चात्सवान्ते वा व्रती कुर्यात्तु पारणम् ।" इति । उत्सवान्ते ब्राह्मणभोजनाद्युत्सवान्ते । अयं चेोत्सवान्तः पारणकालस्त्वशक्तान् प्रति ज्ञेयः । प्राचां माधवादीनां मते तु - "तिथ्यर्क्षयेोर्यदा छेदा नक्षत्रान्तमवाप्य वा । अर्द्धरात्रेऽथवा कुर्यात् पारणं त्वपरेऽहनि ॥ ७७ न रात्रौ पारणं कुर्यादृते वै रोहिणीवतात् । तत्र निश्यपि कुर्वीत वर्जयित्वा महानिशाम् ॥” इति वचनाभ्यां पारणं रात्रावेव कुर्यादिति । महानिशा स्वरूपमाह वृद्धशातातप: "महानिशा द्व े घटिके रात्रेर्मध्यमयामयेोः ।" इति । इदं च जयन्तीव्रतं कामनायां प्रतिमासं कार्यमित्युक्तं मदनरत्ने ऽग्निपुराणे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #114 -------------------------------------------------------------------------- ________________ ७८ तिथ्यर्क: “प्रतिमासं च ते पूजामष्टम्यां यः करिष्यति । मम चैवाखिलान् कामान् स संप्राप्नोत्यसंशयम् ॥” इति । तथा "अनेन विधिना यस्तु प्रतिमासं नरेश्वर ! | करोति वत्सरं पूर्ण यावदागमनं हरेः || दद्याच्छय्यां स सम्पूर्णा गोभिरत्नैरलङ्कृताम् ।” इति | अत्र विशेषं ज्ञातुमिच्छता समयमयूखादये। द्रष्टव्याः । भाद्रशुक्लाष्टमी दूर्वाष्टमी । तत्र महेशदूर्वापूजा कार्या । तदुक्तं भविष्ये— "ब्रह्मन् ! भाद्रपदे मासि शुक्लाष्टम्यामुपोषितः । महेशं पूजयेद्यस्तु दुर्वया सहितं मुने ! ||" इति । इयं पूर्वा, " श्रावणी दुर्गनवमी दूर्वा चैव हुताशनी । पूर्वविद्धा प्रकर्त्तव्या शिवरात्रि र्बलेर्दिनम् ॥” इति बृहदयमेनेाक्तत्वात् । "शुक्लाष्टमी तिथिर्या तु मासि भाद्रपदे भवेत् । दुर्वाष्टमी तु सा ज्ञेया नेोत्तरा सा विधीयते ॥” इति भविष्य निषेधाच्च । यदा तु ज्येष्ठामूलयुक्ता, तदा परा; " मुहूते रौहिणेऽष्टम्यां पूर्वा वा यदि वा परा । दुर्वाष्टमी सदा त्याज्या ज्येष्ठामूलर्क्षसंयुता ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #115 -------------------------------------------------------------------------- ________________ तिथ्यर्कः ऐन्द्रः पूजिता दूर्वा इन्त्यपत्यानि नान्यथा । भर्तुरायुहरा मूले तस्मात्तां परिवर्जयेत् ॥" इति पुराणसमुच्चयात् । 'यदि वा परा' इत्युक्तं तत्पूर्वस्यां ज्येष्ठादियोगविषयम् । रोहिणे नवमो मुहूर्तः । दिनद्वये ज्येष्ठामूलयोगे पूर्वैव "कर्त्तव्या चैकभक्तेन ज्येष्ठामूलं यदा भवेत् । दूर्वामभ्यर्चयेद्भक्त्या न वन्ध्यं दिवसं नयेत् ॥" इति वचनात् । तदा भक्ष्यनियमोऽप्युक्तो भविष्ये "अनग्निपक्वमश्नीयादन्नं दधिफलं तथा । अक्षारलवर्ण ब्रह्मनश्नीयान्मधुनान्वितम् ॥” इति । अत्र विधिः मदनरत्ने "शुचौ देशे प्रजातायां दूर्वायां ब्राह्मणेत्तमः । स्थाप्य लिङ्ग ततो गन्धैः पुष्पैर्धपैः समर्चयेत् ॥ दध्यक्षतैर्द्विजश्रेष्ठ ! अर्घ्य दद्यात् त्रिलोचने । दूर्वाशमीभ्यां विधिवत्पूनयेच्छूद्धयान्वितः ॥" तत्र दूर्वापार्थना "त्वं दुर्नेऽमृतजन्मासि वन्दितासि सुरासुरैः । सौभाग्यं सन्तति देहि सर्वकार्यकरी भव ॥ यथा शाखापशाखाभिर्विस्तृतासि महीतले । तथा ममापि सन्तानं देहि त्वमजरामरम् ॥" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #116 -------------------------------------------------------------------------- ________________ ८० तिथ्यर्कः इदमगस्त्योदयकन्या च सति भाद्रकृष्णाष्टम्यां कार्य तत्र तन्निषेधात् । तदुक्तं समयमयूखे स्कन्दपुराणे "शुक्ले भाद्रपदे मासि दुर्वासंज्ञा तथाऽष्टमी । सिंहार्क एव कर्तव्या न कन्यार्के कदाचन ।। सिंहस्थे चोत्तमा सूर्येऽनुदिते मुनिसत्तमे ।" इति । प्रतापमार्तण्डेऽपि "अगस्त्यस्योदये या तु पूजयेदमृतोद्भवाम् । वैधव्यं पुत्रशोक च दश जन्मानि पञ्च च ॥ इति । अगस्त्युदयकालश्च दिवोदासीये उक्तः -- "उदेति याम्यां हरिसंक्रमाद्रवेरेकाधिके विंशतिमे ह्यगस्त्यः । स सप्तमेऽस्तं वृषसङ्क्रमाच प्रयाति गर्गादिभिरभ्यभाणि ॥" अस्यार्थ:-सिंहसङ्क्रान्तेविंशतितमेंऽशेऽतीते मुनिरुदेति, वृषसङ्क्रान्ते षष्ठंऽशेऽतीतेऽस्तं प्रयातीति। यदा भाद्रपदाधिकस्तदा तत्रैव कार्य नोत्कर्षः। तदुक्तं निर्णयदीपे स्कान्दे "अधिमासे तु सम्प्राप्ते नभस्य उदये मुनेः । अर्वाग् दूर्वाव्रतं कार्य परतो नैव कुत्रचित् ॥” इति । इदं व्रतं स्त्रीणां नित्यम् । "या न पूजयते दूर्वा मोहादिह यथाविधि । जन्मानि त्रीणि वैधव्यं लभते नात्र संशयः ॥ तस्मात्सम्पूजनीया सा प्रतिवर्ष वधूजनैः ।" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #117 -------------------------------------------------------------------------- ________________ तिथ्यर्कः ८१ इति चन्द्रप्रकाशे पुराणसमुच्चयेऽनिष्टश्रुतेः । अस्यामेव ज्येष्ठापूजनमुक्तं कालादर्श "भाद्र शुक्लाष्टमी ज्येष्ठानक्षत्रेण समन्विता। महती कीर्तिता तस्यां ज्येष्ठां देवीं प्रपूजयेत् ॥” इति । इयं नक्षत्रवशेन पूर्वा परा वा ग्राह्या, "अष्टम्यां वा नवम्यां वा ज्येष्ठा ऋक्षं यदा भवेत् । मध्याह्नादधिकं यत्र तत्र ज्येष्ठां प्रपूजयेत् ॥ मासि भाद्रपदे शुक्ल पक्षे ज्येष्ठःसंयुते । यस्मिन्कस्मिन् दिने कुर्याज्ज्येष्ठायाः परिपूजनम् ।।" इति स्कान्दात् । तत्रापि मध्याह्नोर्ध्व ज्येष्ठायामेव पूजनम्, मध्याह्नादधिकमित्युक्तत्वात "यस्मिन् दिने भवेज्ज्येष्ठा मध्याह्रादूर्ध्वमण्वपि । तस्मिन् हविष्यं पूजा च न्यूना चेत्पूर्ववासरे ॥" इति वचनाच्च । दिनद्वये मध्याह्नो ज्येष्ठायोगेऽयोगे वा पूर्वा, "मैत्रेण संयुतां ज्येष्ठां यः करोति सदा गृही। धनधान्यसमृद्धिः स्यात् पुत्रस्त्रीसौख्यमेव च ॥ मूलेन संयुतां ज्येष्ठां ये कुर्वन्ति नराधिप !। प्राप्तशोका भवेयुस्ते स्त्रीणां वैधव्यमेव च ॥" . इति स्कान्दात् । "मासि भाद्रपदे शुक्लपक्षे ज्येष्ठसंसंयुता । रात्रिर्यस्मिन् दिने कुर्याज्ज्येष्ठायाः परिपूजनम् ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #118 -------------------------------------------------------------------------- ________________ तिथ्यर्कः इति वचनाच्च । पूजामन्त्री भविष्योत्तरे "पुत्रदारसमृद्ध्यर्थ लक्ष्याश्चैव विवृद्धये । अलक्ष्म्याश्च विनाशाय ज्येष्ठे ! त्वामर्चयाम्यहम् ॥" इति षोडशोपचारैः सम्पूज्य, प्रार्थनां कृत्वा नमस्कार कुर्यात् । तत्र मन्त्र: "ज्येष्ठाय ते नमस्तुभ्यं श्रेष्ठायै ते नमो नमः । शर्वाय ते नमस्तुभ्यं शाङ्क ते नमो नमः ॥" त्रिदिनसाध्यमिदं व्रतमित्युक्तं पृथ्वीचन्द्रोदये स्मृतिसंग्रहे-- "मैत्रेणावाहयेद्देवी ज्येष्ठायां तु प्रपूजयेत् । मूले विसर्जयेद् देवीं त्रिदिनं व्रतमुत्तमम् ॥" इति । अत्र योगविशेषेणाभिधा स्कान्दे "तत्राष्टम्यां यदा वारो भानोज्येष्ठलमेव च । नीलज्येष्ठेति सा प्रोक्ता दुर्लभा बहुकालिकी ॥" इति । अस्यामेव महालक्ष्मीव्रतारम्भः कार्यः। तदुक्तं मदनरत्ने स्कान्दे "मासि भाद्रपदे शुक्ल पक्षे ज्येष्ठायुताष्टमी । प्रारब्धव्यं व्रतं तत्र महालक्षया यतात्मभिः ॥" इति । :: पुराणसमुच्चयेऽपि "श्रियोर्चनं भाद्रपदे सिताष्टमीमारभ्य कन्यामगते च सूर्ये । समापयेत्तत्र तिथौ च यावत् सूर्यस्तु पूर्वार्द्धगतोऽयुवत्याः ॥” इति। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #119 -------------------------------------------------------------------------- ________________ तिथ्यर्कः सिंहसंक्रान्ती भाद्रपदसिताष्टमीमारभ्य लक्ष्म्यर्चनमारम्भणीयं तत्कन्यासंक्रान्तिपूर्वाः समापनीयमित्यर्थः । प्रथमारम्भोद्यापनयोरेवायं नियमः । इयं चाष्टमी निशीथोत्तरवर्तिनी ग्राह्या। तदुक्तं चन्द्रप्रकाशे स्मृत्यन्तरे "अर्द्धरात्रमतिक्रम्य वर्तते योत्तरा तिथिः । तदा तस्यां तिथौ कार्य महालक्ष्मीव्रतं सदा ॥” इति । अत्र महालक्ष्मीयात्रोक्ता काशीखण्डे "महालक्ष्म्यष्टमीं प्राप्य तत्र यात्राकृतां नृणाम् । सम्पूजितेह विधिवत् पद्मा सम न मुञ्चति ॥” इति । आश्विनकृष्णाष्टम्यां महालक्ष्मीव्रतसमाप्तिस्तु चन्द्रोदयव्यापिन्यां कार्या, "ततो निशीथे सम्प्राप्तेऽभ्युदितेऽमृतदीधितौ । कृत्वा तु स्थण्डिले पद्मं सषडङ्ग प्रपूजयेत् ॥" इति स्कान्दोक्तः । दिवसद्वये चन्द्रोदयकालसत्त्वेऽसत्त्वे वा सप्तमीयोगप्रशस्त्यात पूर्वैव, "पूर्वा वा परविद्धा वा ग्राह्या चन्द्रोदये सदा । त्रिमुहूर्तापि सा पूज्या परतश्चोर्ध्वगामिनी ॥" इति मदनरत्ने पुराणसमुच्चयवचनात् । अपरदिने चन्द्रोदयोत्तरं त्रिमुहर्ता चेत् परैव । इयमष्टकापि । तदुक्तं पाने Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #120 -------------------------------------------------------------------------- ________________ तिथ्यर्कः "वसुनामा पिता कन्यां शशापानुग्रहाय च । पौष्टपद्यष्टकाभूयः पितृलोके भविष्यसि ॥ आयुरारोग्यमैश्वर्य सर्वकामफलपदा ।" इति । एतस्याः पद्मसंज्ञोक्ता जातुकर्येन "शङ्ख प्राहुरमावास्यां क्षीणसोमां द्विजोत्तमाः। अष्टका च भवेत्पद्म तत्र दत्तं तथाक्षयम् ॥” इति । आश्विनशुक्लाष्टमी महाष्टमी। तत्र भद्रकालीपूजा कार्या। तदुक्तं ब्रह्मपुराणे "तत्राऽष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी । प्रादुर्भूता महाघोरा योगिनीकोटिभिता ॥" तत्र-आश्विनशुक्ले । . "अतोत्र पूजनीया सा तस्मिन्नहनि मानवैः ॥" इति । इयं दुर्गापवासपूजादौ नवमीयुक्ता ग्राह्या, "शरन्महाष्टमी पूज्या नवमीसंयुता सदा। सप्तमीसंयुता नित्यं शोकसन्तापकारिणी ॥" इति मदनरत्ने स्मृतिसंग्रहे उक्तत्वात् । अत्र त्रिमुहूर्त्तन्यूनापि सप्तमीवेधहेतुः, "सप्तमीशल्यसंयुक्ता वर्जनीया सदाऽष्टमी । स्तोकापि सा महापुण्या यस्यां सूर्योदयो भवेत् ॥" इति मदनरत्नोद्धृतपुराणात् । स्तोका खल्पा । साऽष्टमी । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #121 -------------------------------------------------------------------------- ________________ तिथ्यर्क: "मूलेनापि हि संयुक्ता सदा त्याज्याऽष्टमी बुधैः । लेशमात्रेण सप्तम्या अपि स्याद्यदि दूषिता || " इति निर्णयामृताच्च । यानि च- ८५ "महाष्टम्याश्विने मासि शुक्ला कल्याणकारिणी । सप्तम्या तु युता कार्या मूलेन तु विशेषतः ॥ " एवमादीनि सप्तमीविद्धाविधायकानि तानि वचनानि परदिने - ष्टम्यभावविषयाणि । यानि च "सप्तम्यामुदिते सूर्ये परतश्चाष्टमी भवेत् । तत्र दुर्गोत्सवं कुर्यात् न कुर्यादपरेऽहनि || दुर्भिक्षं तत्र जानीयान्नवम्यां यत्र पूज्यते ।” इत्यादीनि परदिनेऽष्टमीलाभेऽपि सप्तमीविद्धाविधायकानि तानि सूर्योदयकाले नवम्यभावविषयाणि, “यदा सूर्योदये न स्यान्नवमी चापरेऽहनि । तदाऽष्टमीं प्रकुर्वीत सप्तम्या सहितां नृप ।।" इति स्मृतिसंग्रहादिति मदनरत्नः । इयं भौमयुक्ता प्रशस्तेत्युक्तं मदनरत्ने स्मृत्यन्तरे "अष्टम्यामुदिते सूर्ये दिनान्ते नवमी भवेत । कुजवारो भवेत्तत्र पूजनीया प्रयत्नतः ।। " इति । अथ कार्तिकशुक्लाष्टमी गोष्ठाष्टमी । तस्यां गोपूजनाद्युक्तं निर्ण Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #122 -------------------------------------------------------------------------- ________________ तिथ्यर्कः यामृते कूर्मपुराणे "शुक्लाष्टमी कार्तिके तु स्मृता गोष्ठाष्टमी बुधैः । तत्र कुर्याद् गवां पूजां गोग्रास गोप्रदक्षिणाम् ॥ गवानुगमनं कार्य सर्वान् कामानभीप्सता ।" इति । मार्गकृष्णाष्टमी भैरवाष्टमी । अस्यां भैरवं सम्पज्य विघ्न निवारयेदित्युक्तं काशीखण्डे "तीर्थे कालोदके स्नात्वा कृत्वा तर्पणमत्वरः । विलोक्य कालराजानं निरयादुद्धरेत् पितृन् । कृत्वा च विविधां पूजां महासम्भारविस्तरैः। नरो मार्गासिताष्टम्यां वार्षिकं विघ्नमुत्सृजेत् ॥” इति । उपोषणं जागरणं चोक्तं तत्रैव-- "मार्गशीर्षासिताष्टम्यां कालभैरवसन्निधौ । उपोष्य जागरं कुर्वन्सर्वपापैः प्रमुच्यते ॥" इति । उपोषणाङ्गत्वेन नार्घ्यदानं कार्यमित्युक्तं शिवरहस्ये "उपोषणस्याङ्गभूतमर्घ्यदानमिह स्मृतम् ।" इति । अत्रोपवासी जागरणश्चेति विशिष्टं प्रधानं तस्याहोरात्रसाध्यत्वेनेयमष्टम्यहोरात्रव्यापिनी ग्राह्या, "अहोरात्रव्रतं यच्च एकमेकतिथा गतम् । तस्यामुभययोगिन्यामाचरेत्तद् व्रतं व्रती ॥" इति स्मतेः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #123 -------------------------------------------------------------------------- ________________ तिथ्यर्कः यदा तु दिनेद्वये सायाह्न तदा पूर्वैव । तदुक्तं समयमयूखे ब्रह्मवैवर्ते "रुद्रव्रतेषु सर्वेषु कर्तव्या सम्मुखी तिथिः ।” इति । इदमपि रुद्रव्रतम्, कालभैरवस्य रुद्रावतारत्वात् । यत्तु सिन्धुकारज्येष्ठेरुक्तम्- भैरवसन्निधावित्युक्तर्जागरणोपवासादिक काश्यामेव कर्तव्यं तत्प्रमाणाभावादुपेक्ष्यम् । पारणं तु प्रातरेव, ___“यामत्रयोर्ध्वगामिन्यां प्रातरेव हि पारणा ।" इति माधवलिखितस्मृतेः। अत्र पूर्णिमान्तो मासो ग्राह्यः, ___"कार्तिके कृष्णपक्षे तु अष्टम्यां भैरवोऽभवत् ।" इति शिवरहस्ये कार्तिकग्रहणात् । पूर्णिमान्तपोषकष्णाष्टम्यष्टकेत्युक्तमाश्वलायनेन । हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका इति । हेमन्तः शिशिर इति ऋतुसंज्ञा । सा चोक्ता श्रुतौ___ "वसन्ता ग्रीष्मो वर्षा शरद्धेमन्तः शिशिर इति षड् वा ऋतवः" इति । तत्र वसन्ततुश्चैत्रवैशाखात्मकः, "मधुश्च माधवश्च वासन्तिकावृतू" इति श्रुतेः । एवं वसन्तादिऋतुक्रमेण मार्गशीर्षपोषात्मको हेमन्ततः । माघफाल्गुनात्मकः शिशिरर्तुः । स द्वधा सौरचान्द्रश्चेति । तत्र सौरो विष्णुधर्मोत्तरे दर्शितः "सौरमासहये राम ! ऋतुरित्यभिधीयते ।" इति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #124 -------------------------------------------------------------------------- ________________ तिथ्यर्कः चान्द्रस्तु बहवृचः श्रुत्या दर्शितः-- "सूर्याचन्द्रमसौ प्रकृत्य विश्वान्यन्यो भुवनाभिचष्ट ऋतूनन्यो विदधज्जायते पुनः ।" इति । अत्र पुनर्जायत इति लिङ्गादनुकल्पकत्वं चन्द्रस्य प्रतीयते । अनयोर्विनियोगस्त्रिकाण्डमण्डने दर्शित:__ "श्रौतस्मार्तक्रियाः सर्वाः कुर्याच्चान्द्रमसर्तुषु । तदलाभे तु सौरर्तुष्विति ज्योतिर्विदां मतम् ॥” इति । तथा च हेमन्तशिशिरयोश्चर्तुष्वसितपक्षेष्वष्टम्यश्चतस्रोऽप्यष्टकाः । आसु श्राद्धमुक्तं याज्ञवल्क्येन "अमावास्याष्टकाद्धिः कृष्णपक्षोऽयनद्वयम् । द्रव्य ब्राह्मणसम्पत्तिर्विषुवत्सूर्यसंक्रमः ॥ व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः । श्राद्धं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्तिताः॥" इति दिक्। पौषशुक्लाष्टमी बुधवारयुक्ता महाभद्रेत्युक्तं निर्णयामते भविष्योत्तरे-- "पुष्ये मासि यदा देवि ! शुक्लाष्टम्यां बुधो भवेत् । तदा तु सा महापुण्या महाभद्रेति कीर्त्तिता ॥ तस्यां स्नानं जपो होमस्तपणं विषभोजनम् ।" कार्यमिति शेषः । इयमेव भरणीयुक्ता जयन्तीत्युक्तं तत्रैव "पौषे मासि यदा देवि ! अष्टम्यां शुक्लपक्षके । नक्षत्रं जायते पुण्य यल्लोके रौद्रमुच्यते ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #125 -------------------------------------------------------------------------- ________________ तिथ्यर्क : तदा तु सा महापुण्या जयन्ती अष्टमी शुभा । तस्यां स्नान तथा दानं जपो होमश्च तर्पणम् । सर्वं कोटिगुणं देवि ! कृतं भवति कृत्स्नशः ।” इति । रौद्रम् - भरणी । तदुक्तं वराहमिहिरे" रौद्राणि पूर्वाभरणी पित्र्याणीति । " माघशुक्लाष्टम्यां भीष्मतर्पणं श्राद्धं चोर हेमाद्रौ पाद्म ८६ "माघे मासि सिताष्टम्यां सतिलं भीष्मतर्पणम् । श्राद्धं च ये नराः कुर्युस्ते स्युः सन्ततिभागिनः ॥” इति । मन्त्रस्तु भारते -- “भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः । ग्राभिरद्भिग्वामोतु पुत्रपौत्रोचितां क्रियाम् ॥ वैयाघ्रपाद गोत्राय साङ्कृत्यप्रवराय च । पुत्राय ददाम्येतज्जलं भीष्माय वर्मणे || वसुनामावताराय शन्तनेारात्मजाय च । अर्घ्यं ददामि भीष्माय श्रावाल्यब्रह्मचारिणे ॥ ब्राह्मणाद्याश्च ये वर्णा दद्युर्भोष्माय नो जलम् । संवत्सरं तं तेषां पुण्यं नश्यति तत्क्षणात् ॥” इति पद्मवचनात् तर्पणं नित्यम् । श्राद्धं तु "ते स्युः सन्ततिभागिनः" इति पूर्वोक्तवाक्यशेषात् काम्यम् । अत्र तर्पणे सपितृकारणामप्यधिकारः, "जीवत्पितापि कुवत तर्पणं यमभीष्मयाः ।" इति समयमयूखे पाद्मात् । फाल्गु १२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #126 -------------------------------------------------------------------------- ________________ तिथ्यर्कः नशुक्लाष्टमी बहुलाष्टमी। तस्यां लक्ष्मीपूजा सीतापूजा च कार्या । तदुक्तं निर्णयामते ब्रह्मपुराणे 'फाल्गुने बहुलाष्टम्यां सुस्नातैश्च स्वलङ्कतैः । लक्ष्मीः सीता च सम्पूज्या गन्धमाल्यादिभिः सदा॥ ततः प्रदोषसमये दीपा देयाः सहस्रशः। दत्तशिष्टं तदा भोज्यं भक्षितव्यञ्च बन्धुभिः ॥" इति । इयं प्रदोषव्यापिनी ग्राह्या, तत्रैव दीपदानायुक्तत्वात् । दिनद्वये तद्व्याप्तावव्याप्तौ वा परैव, "शुक्लपक्षेऽष्टमी चैव शुक्लपक्षे चतुर्दशी । पूर्वविद्धा न कर्त्तव्या कर्त्तव्या परसंयुता ॥" इति नैगमात् । अथ सामान्यतः शुक्लाष्टम्यां बुधवारयोगा भवति तदैकभक्तवतं कार्यमित्युक्त निर्णयामृते भविष्योत्तरे "यदा यदा सिताष्टम्यां बुधवारो भवेद् यदि । तदा तदा हि सा ग्राह्या एकभक्ताशने नृप ! ॥ बुधाष्टमी तु सम्पूर्णा यथोक्तफलदायिनी ।" इति । अष्टमी भामेन सिद्धा, गुरुवारेण विरुद्धा । योगिन्यस्यामीशान्याम् । इत्यष्टमी निर्णीता। अथ नवमी निर्णीयतेसा तु पूर्वा, 'वसुरन्ध्रयोः' इति युग्मवाक्यात्, अष्टमी नवमीविद्धा कर्त्तव्या फलकातिभिः । न कुर्यात्रवमीं तात ! दशम्यां तु कदाचन । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #127 -------------------------------------------------------------------------- ________________ विय्यर्कः इति ब्रह्मवैवर्ताच्च । अथ चैत्रशुक्लनवमी श्रीरामनवमी । अस्यां रामोत्पत्तिरुक्ता हेमाद्रावगस्त्यसंहितायाम् "चैत्रे नवम्यां प्राक्पक्षे दिवा पुण्ये पुनर्वसी । उदये गुरुगारांश्वोः सेोच्चस्थे ग्रहपञ्चके । मेपे पूपणि सम्पाप्ते लग्ने कर्कटकाहये । आविरासीत्सकलया कौशल्यायां परः पुमान् । तस्मिन् दिने तु कर्त्तव्यमुपवासव्रतं सदा । रात्रौ जागरणं कुर्याद्रघुनाथपुरो भुवि ॥" इति । तथा तत्रैव "चैत्रे मासे नवम्यां तु जातो रामः स्वयं हरिः । पुनर्वस्तृक्षसंयुक्ता सा तिथिः सर्वकामदा । श्रीरामनवमी प्रोक्ता कोटिसूर्यग्रहाधिका ।" इति । इयं मध्याह्नव्यापिनी ग्राह्या, "चैत्रशुद्धा तु नवमी पुनर्वसुयुता यदि। सैव मध्याह्नयोगेन महापुण्यतमा भवेत् ॥" इति तत्रैवोक्तः । इयं पूर्वेद्यरेव मध्याह्नव्यापिनी चेत्पूर्वा, कर्मकालव्याप्तः । दिनद्वये तद्व्याप्तावव्याप्तावेकदेशसमव्याप्तौ वोत्तरैव । तदुक्तं माधवीयेगस्त्यसंहितायाम्-- "नवमी चाष्टमी विद्धा त्याज्या विष्णुपरायणैः । उपोषणं नवम्यां च दशम्यां पारणा भवेत् ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #128 -------------------------------------------------------------------------- ________________ तिथ्यर्कः यदा तु पूर्वदिने मध्याह्ने सऋक्षोत्तरदिने मध्याह्न केवला, तदा पूर्वैव, ऋक्षयोगप्राशस्त्यात् । एतेन दिनद्वये मध्याह्नव्याप्तौ नवमी चाष्टमी विद्धा त्याज्येतिवाक्यबलात् पूर्वदिने पुनर्वस्वृक्षयुतामपि त्यक्त्वा परैव कार्येति ब्रुवन्तो माधवानुयायिनो निरस्ताः । ऋक्षाभावेऽपि नवम्युपोष्या। तदुक्तं समयमयूखेऽगस्त्यसंहितायाम् "केवलापि सदापोष्या नवमीशब्दसंग्रहात् । तस्मात्सर्वात्मना सर्वैः कार्य वै नवमीव्रते ॥ उपोषणं जागरणं पितनुद्दिश्य तर्पणम् । तस्मिन् दिने तु कर्त्तव्यं ब्रह्मपाप्तिमभीप्सुभिः ॥" इति ब्रह्मादिफलश्रुतेरिदं काम्यम् । तत्रैव “यस्तु रामनवम्यां तु भुङ्क्त मोहाद्विमूढधीः । कुम्भीपाकेषु घोरेषु पच्यते नात्र संशयः ॥" इत्यनिष्टश्रुतेनित्यमपीदम् । यत्तु सिन्धुकारज्येष्ठैनित्यत्वमङ्गीकृत्य, "तस्मात्सर्वात्मना सर्वैः कार्यम्" इत्युपक्रम्य अत्र केवलशैवस्य केवलकृष्णादिभक्तस्यापि नाधिकार इत्युक्तं तदुपक्रमोपसंहारविरोधात्ममाणाभावाच्चापेक्ष्यम् । अथ व्रतविधिरुक्तो हेमाद्रावगस्त्यसंहितायाम् "अष्टम्यां चैत्रमासस्य शुक्लपक्षे जितेन्द्रियः । द्विजमाहूय सम्पूज्य वृणुयात्मार्थयन्निति ॥ श्रीरामप्रतिमादानं करिष्येऽ द्विजोत्तम ! । भक्तथाचार्यो भव प्रीतः श्रीरामोसि त्वमेव च ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #129 -------------------------------------------------------------------------- ________________ तिथ्यर्कः आचार्य भोजयेत्पश्चात्सात्त्विकान्नैः सुविस्तरम् । भुञ्जीत स्वयमप्येवं हृदि राममनुस्मरन् ॥ शृण्वन् रामकथां दिव्यामहःशेष नयन्मुनिः । ततः प्रातः समुत्थाय स्नात्वा सन्ध्यां विधाय च ॥ स्वगृहस्योत्तरे देशे दानस्योज्ज्वलमण्डपम् । शङ्खचक्रहनूमद्भिः प्राग्द्वारे समलङ्कृतम् ॥ गरुत्मच्छाङ्गबाणैश्च दक्षिणे समलङ्कृतम् । गदाखड्गाङ्गदैश्चैव पश्चिमे सुविभूषितम् ।। पद्मस्वस्तिक नीलैश्च कौवेरे समलङ्कृतम् । मध्ये हस्तचतुष्केण वेदिकायुक्तमायतम् ।। ततः सङ्कल्पयेद्देवं राममेव स्मरन्मुने ! । अस्यां रामनवम्यां च रामाराधनतत्परः ॥ उपाध्याष्टसु यामेषु पूजयित्वा यथाविधि । इमां स्वर्णमयीं रामप्रतिमां च प्रयत्नतः ॥ श्रीरामप्रीतये दास्ये रामभक्ताय धीमते । प्रीतो रामो हरत्वाशु पापानि सुबहूनि मे ॥ अनेकजन्मसं सिद्धान्यभ्यस्तानि महान्ति च । ततः स्वर्णमयीं रामप्रतिमा पलमानतः ।। निर्मितां द्विभुजां दिव्यां वामाङ्कस्थितजानकीम् । विभ्रती दक्षिणकरे ज्ञानमुद्रां महामुने ! ॥ वामेनाधः करेणाराद् देवीमालिङ्गय संस्थिताम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #130 -------------------------------------------------------------------------- ________________ ६४ तिथ्यर्क: सिंहासने राजतेऽत्र पलद्वयविनिर्मिते || अशक्तो यो महाभाग ! स तु वित्तानुसारतः । पलेन वा तदर्द्धार्द्धतदर्द्धार्जन वा मुने ! ॥ सैौवर्णं राजतं वापि कारयेद्रघुनन्दनम् । पार्श्वे भरत शत्रुघ्नौ धृतच्छत्र करावुभैौ ॥ चापद्वयसमायुक्तं लक्ष्मणं चापि कारयेत् । दक्षिणाङ्गे दशरथं पुत्रावेक्ष एतत्परम् ॥ मातुरङ्कगतं रामं मूलमन्त्रेण चार्चयेत् । पञ्चामृतस्नानपूर्वं पित्तरोचनतोऽर्चयेत् ॥ रामस्य जननी चासि रामरूपमिदं जगत् । अतस्त्वां पूजयिष्यामि लोकमातर्नमोऽस्तु ते ॥ नमो दशरथायेति पूजयेत्पितरं ततः । अशोककुसुमैर्युक्तमर्ध्यं दद्याद् विचक्षणः ॥ दशाननवधार्थाय धर्मसंस्थापनाय च । राक्षसानां विनाशाय दैत्यानां निधनाय च ॥ परित्राणाय साधूनां जाता रामः स्वयं हरिः । गृहाणार्घ्यं मया दत्तं भ्रातृभिः सहितोऽनघ ! ॥ पुष्पाञ्जलिं पुनर्दत्त्वा यामे यामे प्रपूजयेत् । दिवैवं विधिवत्कृत्वा रात्रौ जागरणं ततः ॥ ततः प्रातः समुत्थाय स्नानं सन्ध्यादिकाः क्रियाः । समाप्य विधिवद्रामं पूजयेद् विधिवन्मुने ! | Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #131 -------------------------------------------------------------------------- ________________ तिथ्यर्कः ततो हामं प्रकुर्वीत मूलमन्त्रेण मन्त्रवित् । पूर्वोक्तपद्मकुण्डे वा स्थण्डिले वा समाहितः ।। लौकिकानौ विधानेन शतमष्टोत्तरं ततः । साज्येन पायसेनैव स्मरन् राममनन्यधीः । ततो भक्त्या च सन्तोष्य आचार्य पूजयेन्मुने ! । ततो रामं स्मरन् दद्यादेवं मन्त्रमुदीरयेत् ।। इमां स्वर्णमयीं रामप्रतिमां समलताम् । चित्रवस्त्रयुगच्छन्नां रामोऽहं राघवाय ते ।। श्रीरामप्रीतये दास्ये तुष्टो भवतु राघवः । इति दत्त्वा विधानेन दद्याद्वै दक्षिणां भुवम् ॥ ब्रह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः । तुलापुरुषदानादिफलं पामोति सुव्रत ! ॥” इति । इदं च श्रीरामनवमीव्रतं "स्पष्टमासविशेषाख्याविहितं वर्जयेन्मले।" इति वचनान्मलमासे न कार्यम् । "सुजप्तमप्यजप्तं स्यानोपवासः कृता भवेत् । न कुर्यान्मलमासे तु महादानं व्रतानि च ॥" इति माधवीये संग्रहवचनाच्च । अस्यां भद्रकालीपूजनमुक्तं कल्पतरौ ब्राह्मे "चैत्रे नवम्यां शुक्लायां भद्रकाली महाबला । योगिनीनां तु सर्वासामाधिपत्येऽभिषेचिता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #132 -------------------------------------------------------------------------- ________________ तिथ्यर्क : तस्मात्तां पूजयेत्तत्र सोपवासेो जितेन्द्रियः । विचित्रैर्बलिभिर्भक्त्या सर्वासु नवमीषु च ॥” इति । वैशाखकृष्णशुक्ल नवम्ये|श्चण्डिकां पूजयेत् । तदुक्तं निर्णयामृते भविष्योत्तरे ६ “वैशाखे मासि राजेन्द्र ! नवम्यां पक्षयोर्द्वयोः । उपवासपरे। भक्त्या पूजमानस्तु चण्डिकाम् || विमानवरमारूढो देवलेोके महीयते ।” इति । ज्येष्ठ शुक्ल नवम्यामुमापूजनमुक्तं भविष्ये “ज्येष्ठे मासि नृपश्रेष्ठ ! कृत्वा नक्तस्य वै विधिम् । उपवासपरो भक्त्या नवम्यां पूजयेदुमाम् || कुमारीभोजयेच्चापि स्वशक्त्या ब्राह्मणांस्तथा । शाल्यन्नं पयसेोपेतं स्वयं भुञ्जीत वाग्यतः ||" इति । आषाढ कृष्ण शुक्ल नवम्यारैन्द्रीं पूजयेदित्युक्तं तत्रैव - "उपवासपरो भक्त्या नवम्यां पक्षयोर्द्वयाः । आषाढे मासि राजेन्द्र ! यः कुर्यान्नक्तभोजनम् ॥ पूजयेच्छ्रद्धया दुर्गामैन्द्रीनाम्नां तु नामतः । ऐरावतगतां शुभ्रां स्वेन रूपेण रूपिणीम् || स ऐरावतमारुह्य इन्द्रस्यानुचरो भवेत् । इति । श्रावणकृष्ण शुक्ल नवम्याः कैौमारीपूजा कार्या । तदुक्तं निर्णयामृते भविष्योत्तरे— श्रावणे मासि राजेन्द्र ! यः कुर्यान्नक्तभोजनम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #133 -------------------------------------------------------------------------- ________________ ६७ तिथ्यर्कः क्षीरषष्टिकभक्तन सर्वभूतहिते रतः ।। कौमारीमिति वै नाम्ना चण्डिकां पूजयेत्सदा । कृत्वा रौप्यमयीं भक्तया घोरां वै पापनाशिनीम् ।। करवीरस्य पुष्पैस्तु गन्धैश्चागुरुचन्दनैः । धूपेन च दशाङ्गेन मोदकैश्चापि पूजयेत् ।। कुमारी जयेच्छक्त्या स्त्रियो विमान स्वशक्तितः । भुञ्जीत वाग्यतः पश्चाद्विल्वपत्रकृताशनः ॥ एवं सम्पूजयेदार्यान् श्रद्धया परयान्वितः । स याति परमं स्थानं यत्र देवो गुहः स्थितः ॥” इति । भाद्रपदशुक्लनवमी नन्दा । तस्यां दुर्गापूजनमुक्तं भविष्योत्तरे-- "मासि भाद्रपदे या स्यानवमी बहुलेतरा । सा तु नन्दा महापुण्या कीर्त्तिता पापनाशिनी ।। तस्यां यः पूजयेद् दुर्गा विधिवत्कुरुनन्दन !! सेोऽश्वमेधफलं प्राप्य विष्णुलोके महीयते ।।" इति । अथाश्विनकृष्णनवम्यामन्वष्टकाश्राद्धम् । तच्चाष्टकाद्युक्त्वाऽऽहाश्वलायन:___ "अपरेधुरन्वष्टक्यम् ।" इति । अथाश्विनशुक्लनवमी महानवमी। सा पूर्वविद्धा। तदुक्तं बृहद्यमेन "श्रावणी दुर्गनवमी दूर्वा चैव हुताशनी । पूर्वविद्धा प्रकर्तव्या शिवरात्रिर्बलेर्दिनम् ॥” इति । बलिदानादि नवम्यामेव कार्यम् , Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #134 -------------------------------------------------------------------------- ________________ तिथ्यर्कः ___"नवम्यां च जपं होमं समाप्य विधिवद् बलिम् ॥" इति राजमार्तण्डे उक्तत्वात् । न च समाप्यैतद्वलाद् अष्टम्यामारम्भा नवम्यां समाप्तिरिति वाच्यम् , "बलिदाने कृतेऽष्टम्यां पुत्रभङ्गो भवेन्नृप !" इति देवीपुराणेनिष्टश्रुतेः । "नवम्यां बलिदानं तु कर्त्तव्यं वै यथाविधि । जपं हामं च विधिवत्कुर्यात्तत्र विभूतये ॥" इति कालिकापुराणे नवम्यामेवोक्तत्वान्नवम्यामुपक्रम्य नवम्यामेव समापयेत् । ब्राह्मणानां बलिद्रव्याणि रुद्रयामले "ब्राह्मणेन सदा देयं कूष्माण्डं बलिकर्मणि । श्रीफलं वा सुराधीश ! छेदं नैव तु कारयेत् ॥ माषान्नेन बलिर्देयो ब्राह्मणेन विजानता ।" इति । बलिदानमन्त्रः "बलि गृह्णन्त्विमे देवा आदित्या वसवस्तथा । मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥ असुरा यातुधान्यश्च ये च विघ्नविनायकाः । जगतां शान्तिकारो ब्रह्माद्याश्च महर्षयः ॥ मा विघ्नमा च मे पापं मा सन्तु परिपन्थिनः । सौम्या भवन्तु तृप्ताश्च भूतप्रेताः सुखावहाः ॥” इति । होमद्रव्याण्युक्तानि रुद्रयामले _Shree Sudharmaswami Gyanbhandar-Umara, Surat . www.umaragyanbhandar.com Page #135 -------------------------------------------------------------------------- ________________ तिथ्यर्कः "प्रधानद्रव्यमुद्दिष्टं पायसान्न तिलास्तथा । किंशुकैः सपपैः पूपैः लाजदूर्वीकुरैरपि । यवैर्वा श्रीफलैर्दिव्यैर्नानाविधफलैस्तथा । रक्तचन्दनखण्डैश्च गुग्गुलैश्च मनोहरैः ॥ प्रतिश्लोकं च जुहुयात्सर्वद्रव्याणि च क्रमात् ।" इति । अत्र यद्यपि तृतीयया प्रतीतां किंशुकादीनां परस्परं निरपेक्षसाधनतां बाधित्वा 'सर्वद्रव्याणि च क्रमात्' इति वाक्यशेषस्तेषां प्रत्येकं पृथकसाधनतां विदधाति, तथापि-.. "पायसं सर्पिषा युक्तं तिलैः शुक्लेवि मिश्रितम् । होमयेद्विधिवद् भक्तया दशांशेन नृपोत्तम ! ॥" इति डामरतन्त्रादिवचनैमिश्रितानामेव पायसादीनां साधनता बोध्या । श्लोकाः* सप्तशत्याः । दशमीकृत्यं रुद्रयामले दशम्यामभिषेकं च कृत्वा मूर्ति विसर्जयेत् ।। इति । विसर्जनमन्त्रस्तत्रैव__"इमां पूजां मया देवि ! यथाशक्तिनिवेदिताम् । रक्षणार्थं समादाय ब्रज स्थानमनुत्तमम् ॥” इति । पारणा दशम्यां कार्या, "आश्विने मासि शुक्ले तु कर्त्तव्यं नवरात्रकम् । प्रतिपत्संक्रमेणैव यावच्च नवमी भवेत् ॥" * प्रतिश्लोकं च जुहुयादित्यत्र पठितस्य श्लोकशब्दस्य निरुक्तिः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #136 -------------------------------------------------------------------------- ________________ १०० तिथ्यर्कः : इत्यभिव्याप्त्यर्थ कयावत्पदघटितदेवी पुराणवचनेन नवम्यन्तं नवरात्रविधानात् । तथाहि, पूजात्मके प्रधाने देवीपुराणे कालविधिः श्रूयते - " श्रश्विने प्रतिपन्मुख्याः पुण्यास्तु तिथयो नव । देविकापूजने प्रोक्ताः सर्वकामफलप्रदाः || ” अतिथिनवकविधानात् पूजायां तावत्संख्यापूरकन त्रमी विधि: सिद्ध: । ततश्च फलिसंस्कारकतया तदङ्गभूतेषूपवासेषु वैकल्पिकतया तत्स्थानापन्नेषु नक्तादिष्वपि तावन्नवसंख्यात्रीहिधर्म इव यवेषु प्रामोति । यानि तु, " तस्मात्त पारयेद्देव ! नवम्यां भक्तितत्परः । नवम्यां पारिता देवी कुलवृद्धिं प्रयच्छति । दशम्यां पारिता देवी कुलनाशं करोति हि ।" इत्यादीनि नवमीपारणाविधायकानि दशमीपारणानिषेधकानि वाक्यानि तानि सम्पूर्ण नवम्युत्तरमवशिष्टनवम्यां पारणा पराणि द्रष्टव्यानि । एवं च "सर्वेषामुपवासानां प्रातरेव हि पारणा" इति वचोऽप्यनुसृतं भवति । यदा तु, "नवम्यां पारणं कुर्याद्दशमीसहिता न चेत् । दशमीसहिता यत्र पारणे नवमी भवेत् ||" "सप्तजन्मकृतं पुण्यं तत्क्षणादेव नश्यति । " इत्यादीन्यपि वचनानि सप्रमाणकानि । तदा नवमीपारणाविषयकाणि वाक्यानि कुलधर्मानवेक्ष्य योज्यानि, इति दिक् । सूत Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #137 -------------------------------------------------------------------------- ________________ तिथ्यर्कः केऽपीदं पारणं कार्यमेव, “सूतके पारणं कुर्यात्" इति पूर्वमुक्तत्वात् । माधवीये कोर्मेऽपि "काम्योपवान प्रक्रान्ते त्वन्तरा मृतस्तके । तत्र काम्यं व्रतं कुर्यादानार्चनविवर्जितम् ।।" इति । "वतयज्ञविवाहेषु श्राद्धे होमेर्चने जपे । प्रारब्धे मूतकं न स्यादनारब्धे तु मूतकम् ।।" इति विष्णुवचनाच्च । प्रारम्भस्तु तेनैवाक्तः "प्रारम्भी वरणं यज्ञे सङ्कल्पी व्रतसत्रयोः । नान्दीमुख विवाहादा श्राद्धं पाकपरिक्रिया ॥” इति । स्त्रीभिरपि रजोदो कार्यम् , "प्रारब्धदीघतपसां नारीणां यद्रजो भवेत् । न तत्रापि व्रतस्य स्यादुपरोधः कदाचन ॥" इति सत्यव्रतवचनात् । इद सधवापरमिति केचित् । विधवायास्तु रजोदर्शने भोजननिषेधात् । श्रीमातामहचरणास्तु विधवाया रजोदर्शने भाजननिषेधाभावात्तस्या अपि पारणा भवत्येव । अस्तु निषेधः, स रागमाप्तभोजननिषेधो न तु वैधः, विधिस्पृष्टे निषेधानवकाशात्ः अन्यथा व्रतहानिः स्यात्, “पारणान्तं व्रतं ज्ञेयम्", इत्युक्ते रिनि युक्तमुत्पश्यन्ति । इयं मन्वादिरपि, “अश्वयुक शुक्लनवमी" इाते वक्ष्यमाणवाक्यात् । कार्तिक शुक्लनवम्यां त्रिरात्रव्रतारम्भं कृत्वा तुलसीविवाहः कार्य इत्युक्तं हेमाद्रौ पाझे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #138 -------------------------------------------------------------------------- ________________ तिथ्यर्क : "कार्त्तिके शुक्ल नवमीमवाप्य विजितेन्द्रियः । हरि विधाय सैौवर्ण तुलस्या सहितं शुभम् || पूजयेद्विधिवद्भक्तया व्रती तत्र दिनत्रयम् । एवं यथेोक्तविधिना कुर्याद्वैवाहिकं विधिम् ॥” इति । अथ वैवाहिक विधिरुक्तः श्रीविष्णुयामले - १०२ वसिष्ठ उवाच - " विवाहं संप्रवक्ष्यामि तुलस्यास्तु यथाविधि । यथेोक्तं पञ्चरात्रे वै ब्रह्मणा भाषितं पुरा || दावेव वने वाथ तुलसीं स्वगृहेऽपि वा । मासत्र येण पूर्णेन ततो यजनमारभेत् ॥ सौम्यायने प्रकर्त्तव्यं गुरुशुक्रोदये तथा । अथवा कार्त्तिके मासि भीष्मपञ्चदिनेषु च ॥ वैवाहिकेषु ऋक्षेषु पूर्णिमार्या विशेषतः । मण्डपं कारयेत्तत्र कुण्डं वेदीं तथा पुनः ॥ शान्तिकं च प्रकर्त्तव्यं मातृणां स्थापनं तथा । मातृश्राद्धादिकं सर्वं विवाहवत् समाचरेत् || ब्राह्मणांश्च शुचीन स्नातान वेदवेदाङ्गपारगान् । ब्रह्माणं दैशिकं चैव चतुरश्च तथर्त्विजः ॥" चतुरो ब्राह्मणानिति सम्बन्धः । "वैष्णवेन विधानेन वर्द्धनीकलशे यजेत् । मण्डलं कारयेत्तत्र लक्ष्मीनारायणं शुभम् || Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #139 -------------------------------------------------------------------------- ________________ तिथ्यर्क : ग्रहयज्ञं पुरा कृत्वा मातॄणां यज ं तथा । कवा नान्दीमुखश्राद्धं सौवर्ण स्थापयेद्धरिम् ॥ कृत्वा रूप्येण तुलसीं लग्ने स्वस्तमिते रवौ । वासः शतेन मन्त्रेण वस्त्रयुग्मेन वेष्टयेत् ॥! यदा वध्नेन मन्त्रेण कङ्कणं पाणिपल्लवे । कोदादिति मन्त्रेण करग्राहो विधीयते ॥ ततः कुण्डे समागत्य आचार्यै: सह सद्विजैः । आचार्या वेदिकाकुण्डे जुहुयाच्च नवाहुतीः ॥ विवाहकर्मवत्सर्वं वैष्णवं दैशिकेोत्तमैः । " अत्र नवाहुतीरित्युक्तेर्बह वृचगृह्योक्ता नवाहुतयो बोध्याः । "कर्त्तव्यश्च ततो होमो विशेषाद् विधिपूर्वकम् ॥” ॐ नमो भगवते केशवाय स्वाहा, नारायणाय स्वाहा, माधवाय स्वाहा, गोविन्दाय ०, १०३ विष्णवे०, मधुसूदनाय०, त्रिविक्रमाय ०, वामनाय०, श्रीधराय०, हृषीकेशाय ०, पद्मनाभाय०, दामोदराय०, सङ्कर्षणाय०, उपेन्द्राय ०, वासुदेवाय, अनिरुद्धाय०, अच्युताय०, अनन्ताय ०, गढ़िने०, चक्रिणे०, विष्वकमेनाय०, वैकुण्ठाय०, जनार्दनाय०, मुकुन्दाय ०, अधोक्षजाय स्वाहेति । अत्र पञ्चविंशतिनाममन्त्र होमेऽनादिष्टद्रव्यकत्वादाज्यहोमः | “प्रदक्षिणाश्च कर्तव्याश्चतस्रो विष्णुना सह । तुलस्याः पाणिग्रहणे वेदिकाया विभावसोः || Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #140 -------------------------------------------------------------------------- ________________ तिथ्यर्क: शतकुम्भं जपेत्सृक्तं पावमानी विशेषतः । तथैव शान्तिकाध्यायान्नवसूक्तं तथैव च ।। जीवसूक्तं पुनर्जप्त्वा तथा वैष्णवसंहिताम् । शङ्खझल्लरिनिर्घोषैर्भेरीतूर्यस्य निखनैः ॥ गायन्ते मङ्गलं नार्यो माङ्गल्यविधिमाचरेत् । दद्यात्पूर्णाहुतिं पश्चादभिषेकविधिं ततः ॥ ब्रह्मणे वृषभं दद्यादाचार्य्यं परिधाप्य च । गां पदं च तथा शय्यामाचार्याय प्रदापयेत् || ऋत्विग्भ्यो दापयेद् वस्त्राण्येषां दद्याच्च दक्षिणाम् । एवं प्रतिष्ठितां देवीं विष्णुना तु समर्चयेत || जन्मोपार्जित पापं दर्शनेन प्रणश्यति । वापयेत्तुलसीं यस्तु सेवयेच्च प्रयत्नतः ॥ प्रतिष्ठाप्य यथेोक्तेन विष्णुना सह मानवः । स मोक्षं लभते जन्तुर्विष्णुलोकं तथाऽक्षयम् ॥ प्राप्नोति विपुलान् भोगान् विष्णुना सह मोदते । प्रतिष्ठा श्रोतुलस्यास्तु इत्युक्ता विष्णुयामले ||" वर्द्धनी कलशलक्षणं सिद्धान्तशेखरे - १०४ "सप्तांगुलसमोत्सेधा विस्तृता स्यान्नवांगुलाः । अंगुलं वक्तविस्तारः कण्ठेात्सेधश्चतुर्यवम् ॥ श्रष्ठन्तु द्वङ्गलं कुर्यात् निर्गमं चैकमङ्गलम् । नाल' सार्द्धगुलं कुर्यादुत्पलाकृतिवच्छुभम् ॥” า Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #141 -------------------------------------------------------------------------- ________________ १०५ तिथ्यर्कः इति इयं युगादिः । तदुक्तं विष्णुपुराणे "वैशाखमासस्य तु या तृतीया नवम्यसौ कार्तिक शुक्लपक्षे । नभस्यमासस्य तमिस्रपक्षे त्रयोदशी पञ्चदशी च माघे ॥" पञ्चदश्यमा । रत्नमालायामपि-- "माघे पञ्चदशी कृष्णा नभस्ये च त्रयोदशी । तृतीया माधव शुक्ला नवम्यूर्ने युगादयः ॥” इति । अस्यां गोदानादिकमुक्तं विष्णुपुराणे "अस्मिंश्च गोभूमिहिरण्यवस्त्रदानेन सर्व प्रविहाय पापम् । शूरत्वमिन्द्रस्य सुहृत्त्वमेति माधिपत्यं लभते मनुष्यः ॥” इति । अत्र श्राद्धमप्युक्तं ब्रह्माण्डे "आषाढ्यामथ कार्तिक्यां माध्यां मन्वन्तरादिषु । युगादिषु च दुःस्वप्ने जन्मझे ग्रहपीडिते ।। प्रौष्ठपद्यसिते पक्षे श्राद्धं कुर्वीत यत्नतः ।" इत्यनेनास्य नित्यत्वमुक्तम् । "न यस्य द्यावा मन्त्रश्च शतवारं तदा जपेत् । युगादयो यदा शून्याः कुरुते सैव चाप्रियः ॥” इति । ऋग्विधाने प्रायश्चित्तश्रवणाच्च । अत्र चतसृष्वपि युगादिषु श्राद्धमपराह्न कार्यम् । दानं तु शुक्ल पूर्वाह्न , कृष्णेऽपराह्न । ___ "द्वे शुक्ल द्वे तथा कृष्णे युगादि कवयो विदुः ।" इति पूर्वोक्तनारदीयवचनात् । अत्र रात्रिभोजने प्रायश्चित्तमुग्विधाने Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #142 -------------------------------------------------------------------------- ________________ १०६ तिथ्यर्कः "रात्रौ भुङ्क्ते वत्सरे तु मन्वादिषु युगादिषु । अभिस्वदृष्टिं मन्त्रश्च जपेदशनपातके ॥” इति । भत्र समुद्रस्नानमप्युक्तं पृथ्वीचन्द्रोदये सौरपुराणे "युगादा तु नरः स्नात्वा विधिवल्लवणोदधौ । गोसहस्रपदानस्य कुरुक्षेत्रे फलं हि यत् ॥ तत्फलं लभते मर्यो भूमिदानस्य च ध्रुवम् ।" इति । अयमेव विधिः सर्वयुगादिषु ज्ञेयः। अथात्र प्रसङ्गाद् युगान्ताः पदयन्ते । हेमाद्रौ ब्रह्मपुराणे "मूर्यस्य सिंहसंक्रान्त्यामन्तः कृतयुगस्य तु । अथ वृश्चिकसंक्रान्त्यामन्तस्त्रेता युगस्य तु ॥ यस्तु वृषसंक्रान्त्यां द्वापरान्तस्तु संज्ञया । तथा कुम्भस्य संक्रान्त्यामन्तः कलियुगस्य तु ॥ युगादिषु युगान्तेषु श्राद्धमक्षय्यमुच्यते ।" इति । मार्गशुक्लनवमी नन्दिनी। तस्यां त्रिरात्रोपोषित इष्टदेवतां पूजयेत् । तदुक्तं निर्णयामृते भविष्योत्तरे "मासि मार्गशिरे वीर ! शुक्लपक्षे तु या भवेत् । सा नन्दिनी महापुण्या नवमी परिकीर्तिता ॥ यस्तस्यां पूजयेद्देवीं त्रिरात्रोपोषितो नरः । सोऽश्वमेधमवाप्येह विष्णुलोके महीयत ॥” इति । माघशुक्लनवमी महानन्दा प्रोक्ता तत्रैव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #143 -------------------------------------------------------------------------- ________________ तिथ्यर्क: "माघमासे तु या शुक्ला नवमी लोकपूजिता । महानन्दा तु सा प्रोक्ता सदानन्दकरी नृणाम् || तस्यां स्नानं तथा दा ं जपहोमाभिषेचनम् । सर्वं तदक्षयं प्रोक्तं तदस्यां क्रियते नरैः ॥” इति । नवमी मन्देन सेोमेन सिद्धा । बुधेन विरुद्धा | योगिन्यत्र पूर्व - स्यामिति नवमी निर्णीता । थ दशमी निर्णीयते । सा तु शुक्लोत्तरा, कृष्णा पूर्वा । एतदेवाभिप्रेत्याहाङ्गिराः - " सम्पूर्णा दशमी कार्या परया पूर्वयाऽथवा । युक्ता न दूषिता यस्मातिथिः सा सर्वतामुखी ॥” इति । हेमाद्रिस्त्वयमैच्छिको विकल्प इत्याह तत्र शास्त्रता व्यवस्थासम्भवात् । तथा च मार्कण्डेय:" शुक्लपक्षे तिथिग्रया यस्यामभ्युदिता रविः ।" इति । उपवासे तु पक्षद्वयेऽपि सर्वनिबन्धकारसम्मता पूर्वेव कार्या " दशमी चैव कर्त्तव्या सदुर्गा सा द्विजोत्तम ! ।” इति स्कान्दात् । "नागविद्धा तु या षष्ठी शिवविद्धा च सप्तमी । दशम्येकादशीविद्धानोपाध्या सा कथंचन ।। " देवीपुराणे - १०७ - इति शिवरहस्ये एकादशीविद्धनिषेधाच्च । अथ चैत्रशुकदशम्यां यमपूजनं कार्यमित्युक्तं निर्णयामृते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #144 -------------------------------------------------------------------------- ________________ १०८ तिथ्यर्कः "धर्मराज दशम्यां च पूजयित्वा सुगन्धकैः । विगतारिनिरातङ्क इह चान्ते परं पदम् ॥” इति । प्रामोतीति शेषः। ज्येष्ठशुक्लदशमी दशहरा। तदुक्तं हेमाद्रौ ब्राह्म "ज्येष्ठे मासि सिते पक्षे दशमी हस्तसंयुता । हरते दशपापानि तस्माद्दशहरा स्मृता ॥” इति । दशपापान्याह मनुः "अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च कायिकं त्रिविधं स्मृतम् ।। पारुष्यमन्तञ्चैव पैशुन्यं चापि सर्वशः । असम्बद्धमलापश्च वाङ्मयं स्याच्चतुर्विधम् ।। परवित्तेष्वभिध्यानं मनसानिष्टचिन्तनम् । वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् ।।" अस्यां दश योगा उक्ताः स्कान्दे "ज्येष्ठे मासि सिते पक्षे दशम्यां बुधहस्तयोः । व्यतीपाते गरानन्दे कन्याचन्द्रे वृषे रवौ ॥ दशयोगे नरः स्नात्वा सर्वपापैः प्रमुच्यते ।" इति । गरः करणम् । आनन्दो योगविशेषः । वाराहपुराणे तु पञ्चयोगा उक्ताः "दशम्यां शुक्लपक्षे तु ज्येष्ठे मासि कुजेऽहनि । अवतीर्णा ह्यतः स्वर्गाद्धस्तः च सरिद्वरा ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #145 -------------------------------------------------------------------------- ________________ तिथ्यर्क: हरते दश पापानि तस्माद्दशहरा स्मृता ।" इति । योगविशेषेण पूर्वा परा वा ग्राह्या । यत्त्वत्र उक्तयेोगेभ्यो न्यूनयोगेन स्नानमित्युक्तं सिन्धुकारज्येष्ठैस्तत्प्रमाणाभावादुपेक्ष्यम् । वस्तुतस्तु ज्येष्ठ शुक्ल दशम्याः प्राधान्याद्धस्तादियोगाभावेऽपि केवलदशम्यां यथेोक्तस्नानं कार्यमेव । अस्यां कृत्यमुक्तं भविष्ये " तस्यां दशम्यामेतच्च स्तोत्रं गङ्गाजले स्थितः । यः पठेदशकृत्वस्तु दरिद्रो वापि चाक्षमः ॥ सोऽपि तत्फलमाप्नोति गङ्गां सम्पूज्य यत्नतः । " इति । स्कान्देऽपि यां काञ्चित्सरितं प्राप्य दद्यादर्घ्यं तिलोदकम् । मुच्यते दशभिः पापैः स महापातकोपमैः ॥” इति । अत्र विशेष: काशीखण्डे “ज्येष्ठमास सिते पक्ष दशम्यां हस्तसंयुते । गङ्गातीरे तु पुरुषो नारी वा भक्तिभावतः ॥ निशायां जागरं कुर्याद् गङ्गां दशविधैर्हरे ! | पुष्पैः सुगन्धैनैवेद्यद्यैः फलैर्दशदशन्मितैः ॥ प्रदीपैर्दशभिर्ध पैर्दशाङ्गैर्गरुडध्वज ! | पूजयेच्छ्रद्धया धीमान् दशकृत्वा विधानतः ॥ साज्यान् तिलान् क्षिपेत्तोये गङ्गायाः प्रसृतीर्दश । गुडसक्तुमयान् पिण्डान् दद्याच्च दशमन्त्रतः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat १०-६ ---- www.umaragyanbhandar.com Page #146 -------------------------------------------------------------------------- ________________ ११० तिथ्यर्कः नमः शिवायै प्रथमं नारायण्यै पदं ततः । दशहरायै पदमिति गङ्गायै मन्त्र एव वै ॥ स्वाहान्तः प्रणवादिश्च भवेदिशाक्षरो मनुः । पूजा दानं जपो होमोऽनेनैव मनुना स्मृतः ॥ हेम्ना रूप्येण वा शक्तया गङ्गामूर्ति विधाय च । वस्त्राच्छादितवक्त्रस्य पूर्णकुम्भस्य चोपरि ॥ प्रतिष्ठाप्यार्चयेद्देवीं पञ्चामृतविशोधिताम् । चतुर्भुजां त्रिनेत्रां च नदीनदनिषेविताम् ॥ लावण्यामृतनिष्पन्दसंशीलगात्रयष्टिकाम् । पूर्णकुम्भसिताम्भोजवरदाभयसत्कराम् ॥ ततो ध्यायेत्सुसौम्याश्च चन्द्रायुतसमप्रभाम् । चामरैर्वीज्यमानाञ्च श्वेतच्छत्रोपशोभिताम् ।। सुधाप्लावितभूपृष्ठां दिव्यगन्धानुलेपनाम् । त्रैलोक्यपूजितपदां देवर्षिभिरभिष्टुताम् ॥ ध्यात्वा समर्थ्य मन्त्रेण धूपदीपोपहारतः । माञ्च तां च विधि वनं हिमवन्तं भगीरथम् ॥ प्रतिमाग्रे समभ्यर्च्य चन्दनाक्षतनिर्मितान् । दशप्रस्थतिलान दद्यादशविप्रेभ्य आदरात् ।। पलं च कुडवप्रस्थ आढको द्रोण एव च । * मन्त्रेण Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #147 -------------------------------------------------------------------------- ________________ तिथ्यर्क : धान्यमानेषु बोद्धव्या क्रमशोऽमी चतुर्गुणाः ॥ मत्स्य कच्छपमण्डूकमकरादिजलेचरान् । हंसकारण्डववकचक्रसारसटिट्टिभान् ॥ यथाशक्ति स्वर्णरूप्यताम्रपिष्टविनिर्मितान् । अभ्यर्च्य गन्धकुसुमैर्गङ्गायां प्रक्षिपेद् व्रती ॥ एवं कृत्वा विधानेन वित्तशाठ्यविवर्जितः । उपवासी वक्ष्यमाणैर्दशपापैः प्रमुच्यते || अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च कायिकं त्रिविधं स्मृतम् || पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः । असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥ परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम् । वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् ॥ एतैर्दशविधैः पापैर्दशजन्म समुद्भवैः । मुच्यते नात्र सन्देहः सत्यं सत्यं गदाधर ! | उद्धरेन्नरकाद् घोरादश पूर्वान् दशावरान् । वक्ष्यमाणमिदं स्तोत्रं गङ्गाग्रे श्रद्धया जपेत् ॥” इति । १११ इदं दशहरा कृत्यं मलमासेऽपि कार्य्यमित्याह हेमाद्रानृष्यशृङ्गः"दशहरा नोत्कर्षश्चतुर्ष्वपि युगादिषु ” इति । दशहरास्थिति बहुवचनं प्रतिपदादितिथ्यभिप्रायेण । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #148 -------------------------------------------------------------------------- ________________ तिथ्यर्क: अथात्र प्रसङ्गादशहरा स्तोत्रं लिख्यते । तच्च काशीखण्डे यावदुपलभ्यमान' तावदेव लिरूयते । तत्रादैा सङ्कल्पपूर्वकं गङ्गां सम्पूज्य पठेत् । ११२ " ओं नमः शिवायै गङ्गायै शिवदायै नमो नमः | नमस्ते विष्णुरूपिण्यै ब्रह्मभूत्यै नमोऽस्तु ते ॥ नमस्ते रुद्ररूपिण्यै शाङ्कर्यै ते नमो नमः । सर्वदेवस्वरूपिण्यै नमो भेषजमूर्त्तये ॥ सर्वस्य सर्वव्याधीनां भिषक श्रेष्ठ्यै नमोऽस्तु ते । स्थाणुजङ्गमसम्भूतविषहन्त्र्यै नमो नमः || संसारविषनाशिन्यै जीवनायै नमोऽस्तु ते । तापत्रितयसंहयै प्राणेश्वर्यै नमो नमः ॥ शान्तिसन्तानकारिण्यै नमस्ते शुद्धमूर्तये । सर्वसंशुद्धिकारिण्यै नमः पापारिमूर्त्तये ॥ भुक्तिमुक्तिप्रदायिन्यै भद्रायै नमो नमः । भोगोपभोगदायिन्यै भोगवत्यै नमो नमः ॥ मन्दाकिन्यै नमस्तेऽस्तु स्वर्गदायै नमो नमः । नमस्त्रैलेाक्यभूषायै त्रिपथायै नमो नमः || नमस्ते शुक्लसंस्थायै क्षमावत्यै नमो नमः । त्रिहुताशनसंस्थायै तेजोवत्यै नमो नमः || नन्दायै लिङ्गधारिण्यै नारायण्यै नमो नमः । नमस्ते विश्वमुख्यायै रेवत्यै ते नमो नमः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #149 -------------------------------------------------------------------------- ________________ ११३ तिथ्यर्कः बृहत्यै ते नमस्तेऽस्तु लोकधात्र्यै नमो नमः ॥ नमस्ते विश्वमित्रायै नन्दिन्यै ते नमो नमः । पृथ्व्य शिवामृताय च सुदृषायै नमो नमः ।। पराशरशताद्यायै तारायै ते नमो नमः । पाशजालनिकृन्तिन्यै अभिन्नायै नमो नमः ॥ शान्तायै च वरिष्ठायै वरदायै नमो नमः । उस्रायै सुखनग्ध्यै च संजीविन्यै नमो नमः ।। ब्रमिष्ठायै ब्रह्मदायै दुरितम्न्यै नमो नमः । प्रणतार्तिप्रभञ्जिन्यै जगन्मात्रे नमो नमः ॥ सर्वापत्पतिपक्षायै मङ्गलायै नमो नमः । शरणागतदीनार्तपरित्राणपरायणे ! ॥ सर्वस्याति हरे ! देवि ! नारायणि ! नमोऽस्तु ते । निर्लेपायै दुःग्वहन्त्र्यै दक्षायै ते नमो नमः ॥ परापरपरे ! तुभ्य नमस्ते मोक्षदे ! सदा । गङ्गे ! ममाग्रता भूया गङ्ग ! मे देवि ! पृष्ठतः ॥ गङ्गे ! मे पार्श्वयोरेधि त्वयि गङ्गेऽस्तु मे स्थितिः । आदा त्वमन्ते मध्ये च सर्व त्वं गां गते ! शुभे ! त्वमेव मूलप्रकृतिस्त्वं हि नारायणः परः ।। गङ्ग ! त्वं परमात्मा च शिवस्तुभ्यं नमः शिवे ! । य इदं पठते स्तोत्रं भक्त्या नित्यं नरोऽपि यः ॥ शृणोति श्रद्धया युक्तः कायवाञ्चित्तसम्भवैः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #150 -------------------------------------------------------------------------- ________________ ११४ तिथ्यर्कः दशधा संस्थितैर्दोषैः सर्वैरेव प्रमुच्यते ॥ रोगस्थो मुच्यते रोगादापद्भ्यश्च प्रमुच्यते । द्विषदभ्यो बन्धनाद्यैश्च भयेभ्यश्च प्रमुच्यते ।। सर्वान् कामानवाप्नोति प्रेत्य ब्रह्मणि लीयते । इमं स्तवं गृहे यस्तु लेखयित्वा विनिक्षिपेत् ॥ नाग्निचौरभयं तत्र पापेभ्योऽपि भयं नहि । ज्येष्ठे मासि सिते पक्षे दशमी हस्तसंयुता । संहरेत्रिविधं पापं बुधवारेण संयुता ॥ तस्यां दशम्यामेतच्च स्तोत्रं गङ्गाजले स्थितः । यः पठेद्दशकृत्वस्तु दरिद्रो वापि चाक्षमः ॥ सेोऽपि तत्फलमानोति गङ्गां सम्पूज्य यत्नतः । पूर्वोक्तेन विधानेन यत्फलं सम्प्रकीर्तितम् ।। यथा गौरी तथा गङ्गा तस्माद् गौर्यास्तु पूजने । विधिों विहितः सम्यक् सोऽपि गङ्गाप्रपूजने । यथा शिवस्तथा विष्णुर्यथा विष्णुस्तथा ह्युमा । उमा यथा तथा गङ्गा चतूरूपं न भिद्यते ॥ विष्णुरुद्रान्तरं यच्च श्रीगौोरन्तरं तथा । गङ्गागार्य्यन्तरं चैव यो ब्रूते मूढधीस्तु सः ॥" इति काशीखण्डे दशहरास्तोत्रं सम्पूर्णम् ॥ आषाढशुक्लदशमी मन्वादिः। मन्वादयस्तूक्ता मात्स्ये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #151 -------------------------------------------------------------------------- ________________ तिथ्यर्क: "श्वयुकशुक्ल नवमीकार्त्तिके द्वादशी तथा । तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ फाल्गुनस्य त्वमावास्या पुष्यस्यैकादशी सिता । आषाढस्यापि दशमी माघमासस्य सप्तमी । श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा ॥ कार्त्तिकी फाल्गुनी चैत्री ज्येष्ठी पञ्चदशी सिता । मन्वन्तरादयश्चैता दत्तस्याऽक्षयकारकाः ||" इति । ११५ अत्र तथाशब्दाच्छुक्कपदं द्वादशीतृतीययोरन्येति, अपिशब्दात् सितेति पदस्य दशम्यामप्यन्वयः । मण्डूकप्लुतिन्यायेन माघसप्तम्यामपि तस्यान्वयः कार्यः । एता मन्वादयः शुक्लपक्षे पौर्वा ह्निक्यः, कृष्णपक्षे आपराह्निक्यो ग्राह्याः, " " पूर्वाह्न तु सदा ग्राह्याः शुक्ला मनुयुगादयः । दैवे कर्मणि पित्र्ये च कृष्णे चैवापराह्निकाः ॥” इति गारुडात् । स्कान्दे " मन्वादौ च युगादौ च ग्रहणे चन्द्रसूर्ययोः । व्यतीपाते वैतौ च तत्कालव्यापिनी क्रिया ॥” इति । क्रिया स्नानदानादि कर्म । अत्रापि श्राद्धमुक्तं तत्रैव" कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु । हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत् ॥” इति । तच्च श्राद्धं मलमासे सति मासद्वयेऽपि कार्यम् । तदुक्तं स्मृतिचन्द्रिकायाम् - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #152 -------------------------------------------------------------------------- ________________ ११६ तिथ्यर्कः "मन्वादिकं तैर्थिकञ्च कुर्यान्मासद्वयेऽपि च ।" इति । इदं श्राद्धं पिण्डरहितं कार्यमित्युक्तं कालादर्श"विषुवायनसङक्रान्तिमन्वादिषु युगादिषु । विहाय पिण्डनिर्वापं सर्वं श्राद्धं समाचरेत् ।।" इति । विषुवसंक्रान्तिश्राद्धमयनसंक्रान्तिश्राद्धश्च । विषुवसंक्रान्ती द्वे । अयनसंक्रान्ती च द्वे। अत्र प्रसङ्गाल्लब्धावसरेण सक्रान्तयो निर्णीयन्ते। नागरखण्डे "रवेः संक्रमणं राशा संक्रान्तिरिति कथ्यते । स्नानदानजपश्राद्धहोमादिषु महाफलम् ॥” इति । संक्रान्तिसंज्ञा उक्ता वसिष्ठेन "अयने द्वे विषुवे द्वे चतस्रः षडशीतयः । चतस्रो विष्णुपद्यश्च संक्रान्त्यो द्वादश स्मृताः ।। झषकर्कटसंक्रान्ती द्वे तूदग्दक्षिणायने । विषुवती तुलामेषौ तयोर्मध्ये ततोऽपराः ॥" तयोर्मध्येऽयनविषुवतोर्मध्ये । तथा "कन्यायां मिथुने मीने धनुष्यपि रवेर्गतिः । षडशीतिमुखी प्रोक्ता षडशीतिगुणा फले । वृषवृश्चिककुम्भेषु सिंहे चैव यदा रविः । एतद्विषुपदं नाम विषुवादधिक फलम्"।। इति । ऋक्षभेदेनासां नामान्तराण्युक्तानि ज्योति शास्त्रे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #153 -------------------------------------------------------------------------- ________________ तिथ्यर्कः ११७ "मन्दा ध्रुवेषु विज्ञेया मृदा मन्दाकिनी तथा । क्षिप्रे ध्वाक्षीं विजानीयादुने घोरा प्रकीतिता ॥ चरैर्महादरी ज्ञेया करैऋ क्षेश्च राक्षसी । मिश्रिता चैव निर्दिष्टा मिश्रितज्ञैश्च संक्रमे" ॥ इति । ध्रुवाणि रोहिण्युत्तरात्रयम् । मृदूनि रेवतीचित्रानुराधामृगाः । क्षिप्राण्यश्विनीहस्तपुष्याः । उग्राणि पूर्वात्रयं भरणी मघा च । चराणि धनिष्ठापुनर्वसुश्रवणस्वातिशततारकाः । राणि ज्येष्ठाद्रामूलानि । मिश्रितानि विशाखाकृत्तिकाः । वारभेदेऽपि तान्येव देवीपुराणे "सूर्ये घोरा विधौ ध्वाङ्क्षी भौमवारे महोदरी । बुधे मन्दाकिनी नाम मन्दा सुरपुरोहिते ॥ मिश्रिता शुक्रवारे स्याद् राक्षसी स्याच्छनैश्चरे" । इति । अत्र स्नानं नित्यम्, "संक्रान्तौ यानि दानानि हव्यकव्यानि दातृभिः । तानि नित्यं ददात्यर्कः पुनर्जन्मनि जन्मनि ।। रविसंक्रमण प्राप्ते न स्नायाद् यस्तु मानवः । सप्त जन्मानि रोगी स्याद् निर्धनश्चैव जायते ॥" इति शातातपीयऽनिष्टश्रुतेः ।। मेषादिसंक्रमणे दानविशेषमाह विश्वामित्रः "मेषसंक्रमणे भानोर्मेषदानं महाफलम् । वृषसंक्रमणे दानं गवां प्रोक्तं तथैव च ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #154 -------------------------------------------------------------------------- ________________ ११८ तिथ्यर्कः वस्त्रानपानदानानि मिथुने विहितानि तु । घृतधेनुपदानं तु कर्कटे परिशस्यते ॥ ससुवर्ण पात्रदानं सिंहे च विहितं सदा । कन्याप्रवेशे वस्त्राणां सुरभीणां तथैव च ॥ तुलाप्रवेशे धान्यानां बीजानामेव चोत्तमम् । कीटप्रवेशे वस्त्राणां वेश्मनां दानमेव च" ॥ कीटप्रवेशे वृश्चिकमवेशे । "धनुःप्रवेशे वस्त्राणां पानानां च महाफलम् । झषप्रवेशे दारूणां दानमग्नेस्तथैव चे । कुम्भप्रवेशे दानं तु गवां मृदुतृणस्य च । मीनप्रवेशे ह्यम्लानमाल्यानामपि चोत्तमम्" ॥ दानान्यथैतानि मया द्विजेन्द्राः ! प्रोक्तानि काले तु नरः प्रदत्वा । प्राप्नोति कामं मनसस्त्वभीष्टं तस्मात्प्रशंसन्ति हि कालदानम् ।। अयने विषुवे च विशेष उक्तो बृहद्वसिष्ठेन "अयने विषुवे चैव त्रिरात्रोपोषितः पुमान् । स्नात्वाऽयोर्चयते भानुं सर्वकामफलं लभेत्" ॥ सिंहसंक्रान्तौ विशेषोद्भुतसारे नारदेनोक्तः "भानौ सिंहगते चैव यस्य गौः सम्प्रसूयते । मरणं तस्य निर्दिष्टं षडभिर्मासैन संशयः ॥ ततः शान्तिं प्रवक्ष्यामि येन सम्पद्यते शुभम् । प्रसूतां तत्क्षणादेव तां गां विप्राय दापयेत्" ॥ इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #155 -------------------------------------------------------------------------- ________________ तिथ्यर्क: ११-६ अत्र शान्तिः श्रीमातामहकृतशान्तिमयूखे द्रष्टव्या । मकरसंक्रांती विशेषो विष्णुधर्मोत्तरे "उत्तरे त्वयने विमा वस्त्रदानं महाफलम् । तिलपूर्वमनट्वाहं दत्वा रोगैः प्रमुच्यते ||" इति । विष्णुरहस्येऽपि - " तस्यां कृष्णतिलैः स्नानं कार्यं चोद्वर्तनं तिलै: । तिला देयाश्च विप्रेभ्यः सर्वदेवात्तरायणे || तिलांश्च भक्षयेत्पुण्यान् हातव्याश्च तथा तिलाः । तिलतैलेन दीपाश्च देयाः शिवगृहे शुभाः ||" इति । इदं च दानादिकं पुण्यकाले कार्यम् । पुण्यकालस्तु सामान्यत उक्तो देवलेन "संक्रान्तिसमयः सूक्ष्मो दुर्ज्ञेयः पिशितेक्षणैः । तदयोगादप्यधश्चादर्ध्वं त्रिंशन्नाड्यः पवित्रिताः ॥” इति । अत्रास्त्रिंशद्धव त्रिंशदिति केचित् । तत्त्वं तूर्द्धा वमधश्चेति मिलित्वात्रिंशदिति । तदुक्तं देवीपुराणे “अतीतानागतो भोगो नाड्यः पञ्चदश स्मृताः ।" इति । भोगो विहितस्नानाद्यनुष्ठानम् । शातातपः "या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः ।" इति अथ विशेष: स्कान्दे "कुलीरे विशदेवाद्या मकरे विंशदुत्तराः ।" इति । कुलीरः कर्कटः । बौधायनः ―― Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #156 -------------------------------------------------------------------------- ________________ १२० तिथ्यर्क: "पुण्यं विषुवति प्रोक्तं दशपूर्वा दशापराः । " इति । स्कान्दे " षडशीतिमुखेऽतीते नाड्यः पञ्चदश स्मृताः ।" इति । वसिष्ठः- “ पुण्यकालो विष्णुपद्याः प्राक पश्चादपि षोडशः ।" इति । यदा पूर्व भगिनी संक्रान्तिः सूर्योदयेोत्तरमुत्तरयोगिनी सूर्यास्तादव्यवधानेन द्वित्रिपलव्यवधानेन वा पूर्वं भवति तदा पुण्यकालमाह वृद्धवसिष्ठः “ह्नि संक्रमणे कृत्स्नमहः पुण्यं प्रकीर्तितम्" । इति । रात्रौ संक्रमणे विशेषमाह स एव - “रात्रौ संक्रमणे भानोर्दिनार्द्ध स्नानदानयो: " । इति । गोभिलोsपि - “रात्रौ संक्रमणे भानोर्दिवा कुर्यात्तु तत्क्रियाम् । पूर्वस्मात् परता वापि प्रत्यासत्तेश्च तत्फलम् ॥ अर्द्धरात्रादधस्तस्मिन् मध्याह्नस्योपरि क्रिया । ऊर्ध्वं संक्रमणे चोर्ध्वमुदयात् प्रहरद्वयम् ।। पूर्णे चेदर्द्धरात्रे तु यदा संक्रमते रविः । प्राहुर्दिनद्वयं पुण्यं मुक्त्वा मकरकर्कटी ॥” इति । रात्रावयने विशेषो भविष्योत्तरे " मिथुनात् कर्क संक्रान्तिर्यदि स्यादंशुमालिनः । प्रभाते वा निशीथे वा कुर्यादहनि पूर्वतः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #157 -------------------------------------------------------------------------- ________________ तिथ्यर्कः १२१ कामुकं तु परित्यज्य झर्ष संक्रमते रविः । प्रदोषे वाऽर्द्धरात्रं वा स्नानं दानं परेऽहनि ॥ अलि बौधायनोऽपि "अर्द्धरात्रे तवं वा संक्रान्तौ दक्षिणायने । पूर्वमेव दिन ग्राह्य यावनोदयते रविः ॥ अस्तं गते सवितरि मकरं याति भास्करः । प्रदोषे वार्द्धरात्रे वा स्नानं दानं परेऽहनि ॥” इति । वृद्धगाग्र्यापि "यद्यस्तमयवेलायां मकरं याति भास्करः। प्रदोषे वार्द्धरात्रे वा स्नानं दानं परेऽहनि ॥” इति । यस्तु-"राहुदर्शनसंक्रान्तिविवाहात्ययद्धिषु । स्नानदानादिकं कार्य निशि काम्यव्रतेषु च ॥" इति योगिवचनाद् रात्रिसंक्रमणे निश्यपि स्नानदानादिविधिः-तस्य देशाचारेण व्यवस्था बोध्या । हेमाद्रौ ब्रह्मपुराणे "शुक्लपक्षे तु सप्तम्यां यदा संक्रमते रविः । महाजया तदा सा वै सप्तमी भास्करप्रिया ॥ स्नानं दानं तपो होमः पितृदेवादिपूजने । सर्वं कोटिगुणं प्रोक्तं तपनेन महोजसा ।। यस्त्वस्यां मानवो भक्तया घृतेन स्नापयेद्रविम् । सेोऽश्वमेधफलं प्राप्य ततः सूर्यपुरं व्रजेत् ॥ १६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #158 -------------------------------------------------------------------------- ________________ १२२ तिथ्यर्कः पयसा स्नापयेद् यस्तु भास्करं भक्तिमान्नरः । विमुक्तः सर्वपापेभ्यो याति सूर्यसलोकताम् ॥” इति । अत्र मकरसंक्रान्तेरुत्तरमृतुत्रयात्मकमुत्तरायणम् । कर्कसंक्रान्तेरुत्तरमृतुत्रयात्मकं दक्षिणायनं चोक्त रत्नमालायाम् "शिशिरपूर्वमृतुत्रयमुत्तरं ह्ययनमाहुरहश्च तदामरम् । भवति दक्षिणमन्यदृतुत्रयं निगदिता रजनी मरुतां च सा ॥" इति । ऋतुरत्र सौरात्मको ज्ञेयः, "सौरतु त्रितयं प्रदिष्टमयनं च" इति दीपिकायामुक्तः । सौरतु स्तूक्तो रत्नमालायाम्"मृगादिराशिद्वयभानुभोगात् षडर्तवः स्युः शिशरो वसन्तः । ग्रीष्मश्च वर्षा च शरच्च तद्वद्धेमन्तनामा कथितोऽत्र षष्ठः इति । मृगो मकरः । उत्तरायणे गृहप्रवेशादिकर्म प्रशस्तमुक्तं ज्योतिःशास्त्रे "गृहप्रवेशत्रिदशप्रतिष्ठाविवाहचौलव्रतबन्धदैवम् । सौम्यायने कर्म शुभं विधेयं यद्गर्हितं तत्खलु दक्षिणे च ॥ तथैव सत्यवतः "देवतारामवाप्यादिप्रतिष्ठोदङमुखे रवी । दक्षिणाशामुखे कुर्वन्न तत्फलमवाप्नुयात् ॥” इति । नारसिंहाधुग्रदेवतानां दक्षिणायनेऽपि प्रतिष्ठा कार्या । तदुक्तं वैखानससंहितायाम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #159 -------------------------------------------------------------------------- ________________ १२३ तिथ्यर्कः "मातृभैरववाराहनारसिंहत्रिविक्रमाः । महिषासुरहन्धी च स्थाप्या वै दक्षिणायने ॥” इति । प्रतिष्ठायां विशेषस्तु मनीषिभिर्मत्कृतप्रतिष्ठापद्धता द्रष्टव्य इति दिक् । अथाश्विनशुक्लदशमी विजयदशमी । अस्यामपराह्णव्यापिन्यामपराजितां देवीं सम्पूज्य सीमोल्लङ्घनं कार्यम् । आश्विनशुक्लपक्षं प्रक्रम्योक्तं स्कान्दे "दशम्यां तु नरैः सम्यक पूजनीयाऽपराजिता । ऐशानी दिशमाश्रित्य अपराह्न प्रयत्नतः ॥” इति । तत्रैव "आश्विनस्य सिते पक्षे दशमी नवमीयुता । सीमानं क्रमयेत्तस्यां मुहूर्ते विजयाभिधे ॥ दशम्येकादशीयुक्ता न कार्या जयकाक्षिभिः ।" इति । विजयकाल उक्तो धर्मचिन्तामणी "आश्विनस्य सिते पक्ष दशम्यां तारकोदये । स कालो विजया ज्ञेयः सर्वकार्यार्थसिद्धये ॥” इति । रत्नकोशेऽपि "ईषत्सन्ध्यामतिक्रान्तः किञ्चिदुद्भिन्नतारकः । विजयो नाम कालोऽयं सर्वकार्यार्थसाधकः ॥” इति । इयं तिथिद्वैधे यद्युत्तरैव श्रवणयुक्ता तदाऽपराजितापूजनसीमोल्लखनादा सैव कार्या, श्रवणयोगस्याधिक्यात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #160 -------------------------------------------------------------------------- ________________ १२४ तिथ्यर्कः तदुक्तं व्रतहेमाद्रौ कश्यपेन "उदये दशमी किञ्चित् सम्पूर्णैकादशी यदि । श्रवणसं यदा काले सा तिथिर्विजयाभिधा ।। श्रवणीं तु पूर्णायां काकुत्स्थः प्रस्थितो यतः । उल्लङ्घयेयुः सीमानं तदिनबै ततो नराः ॥” इति । अन्येषु सर्वपक्षेषु नवमीयुक्ता ग्राह्या, "या पूर्णा नवमीयुक्ता तस्यां पूज्याऽपराजिता । क्षेमार्थ विजयार्थ च पूर्वोक्तविधिना नरैः ॥ नवमीशेषयुक्तायां दशम्यामपराजिता । ददाति विजयं देवी पूजिता जयवर्धिनी ॥ आश्विने शुक्लपक्षे तु दशम्यां पूजयेन्नरः । एकादश्यां न कुर्वीत पूजन चाऽऽपराजितम् ॥" इति स्कान्दोक्तः। अत्र यथौदयिकस्वल्पदशम्या एव श्रवणयोगे 'यां तिथिम्' इत्यादिना साकल्यमादायापराह्नेऽपराजितापूजन भवति । नैवं पक्षान्तरेषूचितमिति ज्ञापनार्थमुक्तम् “एकादश्यां न कुर्वीत" इति। अस्यामेव दशम्यां सायंकाले देशान्तरयात्रिभिर्नरैः देशान्तरे यात्रा कार्या, "आश्विनस्य सिते पक्षे दशम्यां सर्वराशिषु । सायंकाले शुभा यात्रा दिवा वा विजयक्षणे ॥ एकादशमुहूर्तो यो विजयः परिकीर्तितः । तस्मिन् सर्वैविधातव्या यात्रा विजयकातिभिः ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #161 -------------------------------------------------------------------------- ________________ तिथ्यर्कः १२५ इति भृगूक्तः। अत्र सर्वराशिष्विनि कथनाचन्द्रानुकूल्य नापेक्ष्यमित्याशयः। ननु सायंकाले यात्रा विहिता पुनरपि तस्मिन्नेव वाक्ये दिवा विजयलक्षणे काले च विहिता। तथा च विरोध इति चेन्नैवं; यदा दिनद्वयेऽपि सायंकालावच्छेदेन दशमी न तदा द्वितीयदिन एकादशमुहूर्ते यात्रा विधातव्येत्येतदर्थमेकादश्यां यात्रानिषेधात् । तथा च स्कान्दे स्मयते "दशमी यः समुल्लङ्घय प्रस्थानं कुरुते नरः । तस्य संवत्सरं राज्ये न कापि विजयो भवेत् ॥” इति अस्यां कृत्यमुक्तं भविष्ये शमी सलक्षणोपेतामीशानाशाप्रतिष्ठिताम् । सम्प्रार्थ्य तां च सम्पूज्य ईशानीसन्मुखो भवेत् ॥ प्रार्थनामन्त्रौ तत्रैव "शमी शमयनं पापं शमी लोहितकण्टका । *धारयव्यर्जुनास्त्राणां रामसंवाददायिनी ।। करिष्यमाणयात्रायां यथाकालं सुखं मम । तत्र निर्विघ्नकर्वी त्वं भव रामप्रपूजिता ॥" इति । "गृहीत्वा साक्षतामार्दा शमीमूलगतां मृदम् । गीतवादिवनिर्घोषैरानयेत्स्वगृहं प्रति ॥ * 'धारिण्यर्जुनवाणानां रामस्य प्रियवादिनी' इत्यपि पाठः स्मयते । www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat Page #162 -------------------------------------------------------------------------- ________________ १२६ तिथ्यर्कः ततो भूषणवस्त्रादि धारयेत्स्वजनैः सह ।” इति । राज्ञां विशेषोऽत्र हेमाद्रौ“मन्त्रैर्वै दिकपैौराणैः पूजयेच्च शमीतरूम् । श्रमङ्गलानां शमनीं शमनीं दुष्कृतस्य च ॥ दुःखप्नशमनीं धन्यां प्रपद्येऽहं शमीं शुभाम् । रिपोः प्रतिकृतिं कृत्वा ध्यात्वा वा मनसाऽथ तं ॥ शरेण स्वर्णपुङ्गेन विद्धेय हृदयमर्मणि । पूज्यान द्विजांश्व सम्पूज्य वस्त्राद्यश्च पुरोहितान् ॥ गजवाजिपदातीनां प्रेक्षाकैातुकमाचरेत् । जयमङ्गलशब्देन ततः स्वभवनं विशेत् ।। नीराज्यमानः पुण्याभिर्गणिकाभिः सुमङ्गलम् । य एवं कुरुते राजा वर्षे वर्षे महोत्सवम् || आरोग्यमैश्वर्य विजयं च स गच्छति ।" इति । परार्के पुराणसमुच्चये " कृत्वा नीराज राजा बलवृद्ध्यै यथाक्रमम् । शोभनं स्वजनं पश्येज्जलगाष्ठादिसन्निधौ ॥" इयं पट्टाभिषेके परा ग्राह्या, "ईशस्य दशमीं शुक्लां पूर्वविद्धां न कारयेत् । श्रवणेनापि संयुक्तां राज्ञां पट्टाभिषेचने ।” " इति ज्योतिर्निबन्धे नारदेोक्तः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #163 -------------------------------------------------------------------------- ________________ अस्यां तैलाभ्यङ्गं कुर्यात्, तिथ्यर्क: "श्रावण्यां बलिराज्ये च वसन्ते वत्सरे तथा । उत्सवेषु च सर्वेषु दमने च पवित्रके ।। तैलाभ्यङ्गं प्रकुर्वीत न शुद्धं स्नानमाचरेत् । बलिराज्ये वसन्ते च विजये श्रावणी दिने || तैलाभ्यङ्गो न दुष्येत सङ्क्रान्त्यर्ककुजादिभिः ।” १२७ इति वचनात् । अथ दशादित्यव्रतम् । यदा शुक्लदशम्यां भानुवारस्तदा कार्यम् । तदुक्तं भविष्ये - “वक्ष्ये सारवतं पुण्यं दुर्दशानाशकारकम् । भानुवारे सिते पक्ष दशम्यां चैव नारद ! ||" इति । अथ दशमीनियमा हेमाद्रौ कौर्मे - "कांस्यं मांस मसूरं च चणकान् कोरदूषकान् । शाकं मधु परान्न च त्यजेदुपवसन स्त्रियः || ” उपवसन उपवासं करिष्यन्नित्यर्थः । स्कान्दे "कांस्यं मासं मसूरं च क्षौरं चाऽनृतभाषणम् । पुनर्भोजनमभ्यासं दशम्यां परिवर्जयेत् ॥” इति । दशमी गुरुवारेण सिद्धा । भौमेन क्रकचाख्या विरुद्धा | योगिन्यस्यामुत्तरस्याम् । इति दशमी निर्णीता । अथैकादशी निर्णीयते । तत्रादावेकादशीमहिमा हेमाद्रौ गारुडे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #164 -------------------------------------------------------------------------- ________________ १२८ तिथ्यर्कः "एकादशीव्रतं भक्तया यः करोति सदा नरः । स विष्णुलोकं व्रजति याति विष्णोः सरूपताम् ॥” इति । नारदीयपुराणे "यानि कानि च पापानि ब्रह्महत्यासमानि च । अन्नमाश्रित्य तिष्ठन्ति सम्पाप्ते इरिवासरे ।। तानि पापान्यवानोति भुञ्जाना हरिवासरे ।" तथा--"वैष्णवो वाथ शैवो वा कुर्यादेकादशीव्रतम् ।" अग्निपुराणे__"एकादश्यां न भुञ्जीत व्रतमेतद्धि वैष्णवम् ।" इति । अत्र केषुचिद् वाक्येषु श्रयमाणो 'न भुञ्जीत' इति नत्र न भोजनप्रतिषेधार्थः, किन्तु व्रतशब्दसमानाधिकरण्यात् 'नेक्षेतोद्यन्तमादित्यम्' इतिवत् पयुदासवृत्त्या भोजनप्रतियोग्यभोजनसङ्कल्पप्रतिपादकः तेन हेतुना तैर्वचनैरभोजनसङ्कल्परूपमुपवासाख्यं व्रतं विधीयते । अत्राधिकारिण आह कात्यायन: "अष्टवर्षाधिको मर्यो अपूर्णाशीतिवत्सरः । एकादश्यामुपवसेत् पक्षयोरुभयोरपि ॥" इदं गृहिव्यतिरिक्तपरम् , "एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । वानप्रस्थो यतिश्चैव शुक्लामेव सदा गृही ॥" इति कूर्मपुराणात् । इदं च व्रतं शक्तिमता कार्यम् । तथा च ब्रह्मवैवर्ते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #165 -------------------------------------------------------------------------- ________________ तिथ्यर्कः १२६ "एकादशी विना विप्र ! न संसाराद्विमोक्षणम् । तत्राऽप्ययं विशेषोऽस्ति कार्या शक्तिमता च सा ।। न तु देहं विदुः माज्ञाः पीडनीयमिहाग्रहात् । शरीरं पीड्यते येन सुशुभेनापि कर्मणा । अत्यन्तं तन्न कुर्वीत अनायासः स उच्यते ॥” इति । असामर्थे प्रकारो वाराहे "असामर्थ्य शरीरस्य व्रते तु समुपस्थिते । कारयेद्धर्मपत्री वा पुत्रं वा विनयान्वितम् ।। भगिनीं भ्रातरं वापि व्रतमस्य न लुप्यते । शृणु यश्चान्यमुद्दिश्य एकादश्यामुपोषितः ।। यमुद्दिश्य कृतो विप्रास्तस्य पूर्ण फलं भवेत् । कर्ता दशगुणं पुण्यं प्राप्नोत्यत्र न संशयः ॥” इति । प्रकारान्तरमाह बौधायन: "उपवासे त्वशक्तानामशीरूद्धर्वजीविनाम् ।। एकभक्तादिकं कार्यमाह बौधायनो मुनिः ॥” इति । आदिपदेन नक्तायाचिते गृह्यते । नक्तभोजिनो विशेषमाह व्यासः "हविष्यभोजनं स्नानं सत्यमाहारलाघवम् । अग्निकार्यमधःशय्यां नक्तभोजी षडाचरेत् ।।" इति । तृतीयप्रकारो हेमाद्रौ पुराणे "उपवासासमर्थश्चेदेकं विप्रं तु भोजयेत् । तावद्धनादिकं दद्याद् यद्भक्ताद् द्विगुण भवेत् ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #166 -------------------------------------------------------------------------- ________________ तिथ्यर्क: सहस्रसंमितां देवीं जपेद्वा प्राणसंयमान् । कुर्याद् द्वादशसंख्याकान् यथाशक्ति च सेो (१) नरः ॥” इति नारी तु भर्त्राद्यनुज्ञयैव व्रतं कुर्यात्, "नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन च । निष्फलं तु भवेत्तस्या यत्करोति व्रतादिकम् ॥” इति मार्कण्डेयपुराणात् । १३० यत्तु मनुविष्णुभ्यामुक्तम् - "नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपेोपणम् । पत्या जीवति या नारी उपवासव्रतं चरेत् ॥ आयुः संहरते भतुर्नरकं चैव गच्छति ।" इति, तद्भर्त्राद्यननुमतेापवासविषयमिति हेमाद्रिः । शुद्धोपवासविषय मिति सारम् । अथैकादशीव्रतं सूतकेऽपि कार्यमित्युक्तं हेमाद्यपरार्कये। वराहपुराणे" सूतके तु नरः स्नात्वा प्ररणम्य मनसा हरिम् । एकादश्यां न भुञ्जीत व्रतमेतन्न लुप्यते ॥ एकादश्यां ततोऽभुक्त्वा सूतकान्ते जनार्दनम् । पूजयित्वा विधानेन पूजयेच्च द्विजोत्तमान् ॥ मृतके तु न भुञ्जीत एकादश्यां सदा नरः । द्वादश्यां तु समश्नीयात् स्नात्वा विष्णुं प्रणम्य च ॥” इति । पुलस्त्य: Code "एकादश्यां न भुञ्जीत नारी दृष्टे रजस्यपि ।" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #167 -------------------------------------------------------------------------- ________________ तिथ्यर्कः १३१ उपवासदिने वर्जनीयमाह सुमन्तुः"विहितस्याननुष्ठानमिन्द्रियाणामनिग्रहम् । निषिद्धसेवनं नित्यं वर्जनीय प्रयत्नतः ॥” इति । देवल: "ब्रह्मचर्यमहिंसा च सत्यमामिषवर्जनम् ।। व्रतेष्वेतानि चत्वारि चरितव्यानि नित्यशः ॥" इति । ब्रह्मचर्ये भेदकान्याह स एव "स्त्रीणां तु प्रेक्षणात् स्पर्शात् ताभिः संकथनादपि । भिद्यते ब्रह्मचर्यन्तु न दारेष्टतुसङ्गमात् ॥" अत्र प्रेक्षणादिकं सरागमेव ग्राह्यम् । तेन मातृतत्तुल्यादिदर्शने न दोषः । उपवासदूषकाण्यपि स एवाह "असकृज्जलपानाच सकृत्ताम्बूलभक्षणात् । उपवासः प्रदुष्येत दिवास्वापाच मैथुनात् ॥” इति । अथोपवासनियमेषु नित्यकाम्योपवासभेदाद्विशेषः कथ्यते । तत्र देवल: "दशम्यामेकभुक्तस्तु मांसमैथुनवर्जितः । एकादश्यामुपवसेत्पक्षयोरुभयोरपि ॥” इति । अयश्चैकभक्तादिनियमः काम्योपवासे न तु नित्योपवासे, "सायमायं तयोरहोः सायं प्रातश्च मध्यमे । उपवासफलपेप्सुर्जह्याद्भक्तचतुष्टयम् ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #168 -------------------------------------------------------------------------- ________________ १३२ तिथ्यर्क : नित्योपवासी यो मर्त्यः सायं प्रातर्भु जिक्रियाम् । संत्यजेन्मतिमान् विप्रः सम्प्राप्ते हरिवासरे ||" इति विष्णुवचनात् । विप्र इत्युपवास्युपलक्षणम् । कांस्यमांसनिषेधा अपि पूर्वोक्ताः व्यवतिष्ठन्ते, काम्योपवासविषये एव "कांस्य मांसं मसूरञ्च पुनर्भेाजनमैथुने । द्यूतं मद्याम्बुपानं च फलप्रेप्सुर्विवर्जयेत् ॥” इति विष्णुधर्मोत्तरात् । मांसमद्ययेायेषां प्राप्तिस्तेषामेव निषेधः । अम्बुपानमसकृत् । उक्त नियमोपेतः कर्त्ता स्नानोत्तरमुपवासं सङ्कल्पयेत् । तत्र मन्त्रमाह देवल: " एकादश्यां निराहारो भूत्वाऽहमपरेऽहनि । भोक्ष्यामि पुण्डरीकाक्ष ! गतिर्भव ममाच्युत ! ॥” इति । फलाहारपक्षे फलाहारो भूत्वेति कल्प्यम् । कचित्तु स्थित्वा - मित्यपि पाठः । अथैकादशी निर्णयः । सा द्वेधा, शुद्धा दशमीविद्धा च । तत्र शुद्धा त्रिविधा, द्वादश्यधिक भयाधिकानुभयाधिकभेदात् । यत्तु माधवाचार्यादिभिः शुद्धायाश्रातुर्विध्यमुक्तम्, तन्न मनोहरम्, आद्यभेदस्यैवासम्भवात् तथाहि । एकादश्याधिक्ये नारदवाक्यं लिखितम् " सम्पूकादशी यत्र द्वादश्या वृद्धिगामिनी । द्वादश्यां लङ्घनं कार्यं त्रयोदश्यां तु पारणम् ||" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #169 -------------------------------------------------------------------------- ________________ तिथ्यर्कः १३३ तत्रैतादृशतिथिद्धयनन्तरमुत्तरतिथेराकस्मिको ह्येतादृशो हासो दुर्लभः । वचन तु वक्ष्यमाणस्मातॆकादशीनिर्णायकस्कान्दवचनार्थेन समानं बोध्यम् । तत्रादौ वैष्णवान् प्रति शुद्धोक्ता गारुडे "उदयात्माग्यदा विप्र ! मुहूर्तद्वयसंयुता । सम्पूर्णैकादशी ज्ञेया तत्रैवोपवसेद् गृही ॥" सम्पूर्णा शुद्धेत्यर्थः। गृही वैष्णवः । भविष्यपुराणे "अरुणोदयकाले तु दशमी यदि दृश्यते । सा विद्वैकादशी तत्र पापमूलमुपोषणम् ॥ दशमीशेषसंयुक्तो यदि स्यादरुणोदयः । नैवोपोष्यं वैष्णवेन तदिनैकादशीव्रतम् ॥" अरुणोदयस्वरूपं हेमाद्रौ स्मृत्यन्तरे "निशि प्रान्ते तु यामार्दै देववादित्रवादने । सारस्वतानध्ययने चारुणोदय उच्यते ॥" वैष्णवलक्षणन्तु स्कान्दे "परमापदमापनो हर्षे वा समुपस्थिते । नैकादशीं त्यजेद् यस्तु यस्य दीक्षा तु वैष्णवी ॥ समात्मा सर्वभूतेषु निजाचारादविप्लुतः । विष्ण्वर्पिताखिलाचारः स हि वैष्णव उच्यते ॥” इति । द्वादश्याधिक्ये स्कान्दे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #170 -------------------------------------------------------------------------- ________________ १३४ तिथ्यर्कः "पूर्णाप्येकादशी त्याज्या वर्द्धते द्वादशी यदि । द्वादश्यां लङ्घन कार्य द्वादश्यामेव पारणा ॥" इति । उभयाधिक्ये भृगुः "सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा । तत्रोपोष्या द्वितीया तु परतो द्वादशी यदि ॥" इति वैष्णवान प्रति एकादशीनिर्णयः। अथ पञ्चरात्राद्यागमदीक्षाहीनाः स्मार्ता इति व्यवह्रियन्ते, तेषामेकादशी निर्णीयते । सापि द्वेधा, शुद्धा सूर्योदयकाले दशमीसत्त्वेन विद्धा च, "सूर्योदयस्पृशा ह्येषा दशम्या गर्हिता सदा।" इति स्मृतेः; "अतिवेधादयः पूर्वे ये वेधास्तिथिषु स्मृताः। सर्वेऽप्यवेधा विज्ञेया वेधः सूर्योदये स्मृतः ॥" इति स्मृत्यन्तरवचनाच्च । तत्र शुद्धा चतुर्दा-केवलैकादश्यधिका, केवलद्वादश्यधिका, उभयाधिका, अनुभयाधिका चेति । तत्रैकादश्याधिक्ये स्कान्दे "प्रथमेऽहनि सम्पूर्णा व्याप्याहोरात्रसंयुता । द्वादश्यां तु तथा तात ! दृश्यते पुनरेव सा । पूर्वा कार्या गृहस्थैश्च यतिभिश्चोत्तरा विभो !" इति । एतच्च परे द्युादश्यभावे विज्ञेयम् । तथा च स्मृत्यन्तरे "पुनः प्रभातसमये घटिकैका यदा भवेत् ।” Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #171 -------------------------------------------------------------------------- ________________ एकादशीत्यर्थः । तिथ्यर्क : "अत्रोपवासेा विहितञ्चतुर्थाश्रमवर्णिनाम् । विधवायाश्च तत्रैव परता द्वादशी न चेत् ॥” इति । गृहस्थयतिपदे सकामनिष्कामपरे ज्ञेये, " सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा । पूर्वामुपवसेत्कामी निष्कामस्तूत्तरां वसेत् ॥” इति मार्कण्डेयवचनात् । द्वादश्याधिक्ये नारदः— १३५ " न चेदेकादशी विष्णैौ द्वादशी परतः स्थिता । उपोष्यैकादशी तत्र यदीच्छेत्परमं पदम् ॥” इति । उभयाधिक्ये तु सर्वैः परा कार्या । तदुक्तं गारुडे" सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा । सर्वैरेवोत्तरा कार्य परतो द्वादशी यदि ॥" पद्मपि "विद्धापि च विद्धा स्यात्परता द्वादशी यदि । " अनुभयाधिक्ये तूत्तरायापक प्रमाणाभावात् पूर्वैव । अथ विद्धापि चतुर्विधा । तत्र विद्धैकादशी मात्राधिक्ये गृहिण विद्धायामेवेापवासः । तदुक्तं प्रचेतसा "एकादशी विवृद्धा चेच्छुक्ले कृष्णे विशेषतः । उत्तरां तु यतिः कुर्यात्पूर्वामुपवसेद् गृही ||" इति । विद्धायां द्वादशीमात्राधिक्ये तु परेद्युरुपवासः । तदुक्तं ब्रह्मवैवर्ते व्यासेन— Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #172 -------------------------------------------------------------------------- ________________ तिथ्यर्क: एकादशी यदा लुप्ता परतो द्वादशी भवेत् । उपोष्या द्वादशी तत्र यदीच्छेत्परमां गतिम् ॥ इति । पूर्वदिने दशमीसंयेोगात्परदिने वृद्धयभावाच्च लुप्तेति निर्देश: । विद्धायामुभयाधिक्ये तु परैव । १३६ शुद्धायामुभयाधिक्ये परा चेत् क्रियते, तदा विद्धायां किमु वक्तव्यम्, इति कैमुतिकन्यायात् । विद्धायामनुभयाधिक्ये तु विद्धामेवोपोषयेत्, “यदि दैवात्तु संसिद्ध्येदेकादश्यां तिथित्रयम् । तत्र क्रतुशतं पुण्यं पारणे द्वादशी भवेत् ॥” इति नारदीयात् । इदं व्रतम्, " न करोतीह या मूढ एकादश्यामुपोषणम् । स नरो नरकं याति रौरवं तमसावृतम् ॥” इति सनत्कुमारवचनान्नित्यम् । काम्यञ्चोक्तं कर्मे -- “यदीच्छेद् विष्णुसायुज्यं श्रियं सन्ततिमात्मनः । एकादश्यां न भुञ्जीत पक्षयेोरुभयोरपि ॥” इति । काम्यस्यास्यासमापने दोष उक्तो परार्के “परिगृह्य व्रतं सम्यगेकादश्यामुपोषणम् । न समापयते यस्तु स याति नरकं नरः ||" इति । नैमित्तिककाम्यावुपवासैौ तु कृष्णायामपि विधेयैौ । तत्र नैमित्तिकं माधवीये स्मृत्यन्तरे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #173 -------------------------------------------------------------------------- ________________ तिथ्यर्कः १३७ "शयनीबोधिनीमध्ये या कृष्णैकादशी भवेत् । सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचन ॥” इति । काम्यन्तु तत्रैव स्कन्दपुराणे "पितणां गतिमन्विच्छन् कृष्णायां समुपोषयेत् ।" इति । दिनक्षये पुत्रवद्गृहस्थेनोपवासो न कार्यः। तदाह पितामह : "एकादश्यां दिनक्षये उपवास करोति यः । तस्य पुत्रा विनश्यन्ति मघायां पिण्डतो यथा ॥" इति । दिनक्षय उक्तः पाझे___"द्वौ तिथ्यन्तावेकवारे यस्मिन् सः स्यादिनक्षयः ।" इति । वसिष्ठः "एकस्मिन् सावने त्वह्नि तिथीनां त्रितयं यदा । तदा दिनक्षयः प्रोक्तस्तत्र साहसिकं फलम् ॥" उपवासनिषेधेऽनुकल्प उक्तो वायवीये "उपवासनिषेधे तु भक्ष्यं किञ्चित्प्रकल्पयेत् । न दुष्यत्युपवासेनोपवासफलं लभेत." भक्ष्याण्यपि तत्रैव "नक्तं हविग्यानमनोदनं वा फलं तिलाः क्षीरमथाम्बु चाज्यम् । यत्पञ्चगव्यं यदि वापि वायुः प्रशस्तमत्रोत्तरमुत्तरञ्च।।" इति । अत्रोपस्थितत्वाद् हविष्याण्युच्यन्ते परिशिष्टे १८ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #174 -------------------------------------------------------------------------- ________________ १३८ तिथ्यर्कः "हविष्येषु यवा मुख्यास्तदनु ब्रीहयः स्मृताः । माषकोद्रवगौरादीन् सर्वाभावेऽपि वर्जयेत् ॥” इति । भविष्योत्तरेऽपि "हैमन्तिकं सितास्विन्नं धान्यमुद्रा यवास्तिलाः । कलायक गुनीवारा वास्तूकं हिलमोचिका । पष्टिका कालशाकं च मूलक केमुकेतरत् । कन्दः सैन्धवसामुद्रे लवणे मधुसर्पिषी ॥ पयोऽनुधृतसारं च पनसाम्र हरीतकी । पिप्पली जीरकञ्चैव नागरङ्गश्च तिन्तिणी ॥ कदली लवली धात्री फलान्यगुडमैक्षवम् । अतैलपकं मुनयो हविष्याणि प्रचक्षते ॥" हेमन्ते भवं हैमन्तिक वस्तु । तदप्यनिषिद्धं ग्राह्यम् । सितास्विन्नं सितया वालुकया स्विन्नं भर्जितम् । धान्यं तण्डुलाः । कलाया: सतीनकाः । “कलायस्तु सतीनकः" इत्यमरः । लोके मटरधान्यमुच्यते । वास्तूक वथुवेति प्रसिद्धः शाकः । हिलमोचिका हिलसा। कालशाकः कालकम्, मरिचेति हिन्दीभाषायां प्रसिद्धम् । केमुक केमुन्ना मूलकविशेषः। नागरङ्गं नारिङ्गम्, 'ऐरावतो नागरगो नारिङ्गो भूमिजम्बुके' इत्यमरात् । यत्तु नारङ्ग शुङ्गीति व्याख्यातं सिन्धौ तत्र मूलं मृग्यम् । लवली हर्पोरेवडीति लोके प्रसिद्धा । अतैलपकमित्युक्तद्रव्याणां विशेषणम् । अत्र पयःसर्पिषी गव्ये इत्यस्तु प्रसङ्गागतम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #175 -------------------------------------------------------------------------- ________________ तिथ्यर्कः अथ प्रकृतमनुसंधीयते । एकादश्यां भोजने प्रायश्चित्त स्मृत्यन्तरे"अर्के पर्वद्वये रात्रौ चतुर्दश्यष्टमी दिवा ।। एकादश्यामहोरात्रं भुक्तवा चान्द्रायणं चरेत् ॥” इति । अथ चैत्रशुक्लैकादश्यां दमनेनार्चयित्वा विष्णुरान्दोलनीयः । तदुक्तं निर्णयामृते ब्रह्मपुराणे "चैत्रमासस्य शुक्लायामेकादश्यान्तु वैष्णवैः । आन्दोलनीयो देवेशः सलक्ष्मीको महोत्सवे ॥ दमनेनार्चयित्वाऽथ रात्री जागरणं चरेत् ।" इति । अथ दमनकानयनप्रकार उक्तोऽगस्त्यसंहितायाम् "प्रातः स्नात्वा समभ्यर्च्य देवेशं विधिवन्नरः । उपवासेन देव ! त्वां तोषयामि जगत्पते ! ॥ कामक्रोधादयो ह्यते न मे स्युतघातकाः । एवं विज्ञाप्य देवेशं गुरुपादौ प्रणम्य च ॥ गच्छेदमनकाराममेकादश्यां सुशोभितम् । क्रमेणाऽऽगत्य तत्रैव पूजयेच्चन्दनादिना ॥ नेष्यामि रामपूजार्थमिति सम्पार्थ्य तन्नमेत् । उत्पाट्य पञ्चगव्येन प्रोक्ष्य प्रक्षाल्य वारिणा ॥ धौतेन वाससाऽऽच्छाद्य निधाय पटले नवे । पटले वंशादिपात्रे । घण्टापुरुषसूक्तादिस्वनैः स्वगृहमानयेत् ॥" www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat Page #176 -------------------------------------------------------------------------- ________________ तिथ्यर्कः १४० इत्यानीय, किञ्चिद्देवाय दत्वा प्रार्थयेत् । "आमन्त्रितोऽसि देवेश ! पुराणपुरुषोत्तम ! । अतस्त्वां पूजयिष्यामि सानिध्यं कुरु केशव ! ॥" इत्थमामन्त्र्य, पुष्पाञ्जलिं दत्वा, उर्वरितं दमनकं सम्पूज्य प्रातः पूजार्थं स्थापयेत् । अस्यां वैशाखस्नानारम्भ उक्तः पाझे "मधुमासस्य शुक्लायामेकादश्यामुपोषितः । पञ्चदश्यां च भो वीर ! मेषसङ्क्रमणेऽपि वा । वैशाखे स्नाननियमं ब्राह्मणानामनुज्ञया । मधुसूदनमभ्यर्च्य कुर्यात्सङ्कल्पपूर्वकम् ॥” इति । सङ्कल्पमन्त्रस्तत्रैव "वैशाखं सक मास मेषसङ्कमणे रवः । प्रातः सनियमं स्नास्ये प्रीयतां मधुसूदनः ।। मधुहन्तुः प्रसादेन ब्राह्मणानामनुग्रहात् । निर्विघ्नमस्तु मे पुण्यं वैशाखस्नानमन्वहम् ।। माधवे मेषगे भानौ मुरारे ! मधुसूदन ! । प्रातःस्नानेन मे नाथ ! फलदो भव पापहन् ! ॥” इति । स्नानार्थं तीर्थान्युक्तानि तत्रैव "मेषसङ्क्रमणे भानौ माधवे मासि यत्नतः । महानद्यां नदीतीर्थे नदे सरसि निझरे ॥ देवखातेऽथवा स्नायाद्यथाप्राप्ते जलाशये । दीपिकाकूपवापीषु नियतात्मा हरिं स्मरन् ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #177 -------------------------------------------------------------------------- ________________ अत्र नियमा अपि तत्रैव " तुलसी कृष्णगौराख्या तयाऽभ्यर्च्य मधुद्विषम् । विशेषेण तु वैशाखे नरो नारायणेो भवेत् ॥” इति । मदनरत्ने स्कन्दपुराणे तिथ्यर्क: प्रपा कार्या च वैशाखे देवे देया गलन्तिका । उपानद्व्यजनच्छत्रसूक्ष्मवासांसि चन्दनम् ॥ जलपात्राणि देयानि तथा पुष्पगृहाणि च ।। " दानमुक्तं स्कान्दे इत्यादीनि दानान्यपीति संक्षेपः । ज्येष्ठशुक्लैकादशी निर्जलेत्युच्यते । अस्यां कुम्भादि "ज्येष्ठे मासि नृपश्रेष्ठ ! या शुक्लैकादशी भवेत् । निर्जलं समुपायात्र जलकुम्भान् सशर्करान् ॥ प्रदाय विप्रमुख्येभ्यो मोदते विष्णुसन्निधौ । " इति । हेमाद्री व्यासः - “स्नाने चाचमनं चैव वर्जयित्वोदकं बुधः । उपयुञ्जीत नैवान्यद् व्रतभङ्गोऽन्यथा भवेत् ॥” इति । श्राषाढशुक्लैकादशी शयनी, "एकादश्यां तु शुक्कायामाषाढे भगवान् हरिः । भुजङ्गशयने शेते क्षीरार्णवजले सदा ||" इति हेमाद्रौ ब्राह्मात् । इदं च शयनमधिमा से न कार्यम्, १४१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #178 -------------------------------------------------------------------------- ________________ तिथ्यर्कः १४२ "मिथुनस्थो यदा भानुरमावास्याद्वयं स्पृशेत् । द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे ॥" इति मोहचूडोत्तरोक्तः, अधिमासे न कार्यमित्यनुवृत्ती, ___ "ईशानस्य बलिर्विष्णोः शयनं परिवर्तनम्" इति कालादशक्तिश्च । स्वापविधिर्भविष्ये "महापूजां ततः कृत्वा देवदेवस्य चक्रिणः । जातीकुसुममालाभिर्मन्त्रेणानेन पूजयेत् ।। मन्त्रस्तु त्वयि सुप्ते जगन्नाथे जगत्सुप्तं भवेदिदम् । विबुद्धे च विबुध्येत प्रसन्नो मे भवाऽच्युत ! ॥” इति । वामनपुराणे तु द्वादश्यां शयनमुक्तम् "एकादश्यां जगत्स्वामिन् ! शयनं परिकल्पयेत् । शेषाहिभोगपर्यः कृत्वा सम्पूज्य केशवम् ॥ अनुज्ञां ब्राह्मणेभ्यश्च द्वादश्यां प्रयतः शुचिः । लब्ध्वा पीताम्बरधरं स्वस्ति निद्रां समानयेत् ॥” इति । स्वापस्तु मतद्वयेऽपि रानावेव करणीयः। वचनन्त्वग्रे वक्ष्यते । अत्रैव पूजां विधाय चातुर्मास्यव्रतारम्भ उक्तो भारते "आषाढे तु सिते पक्षे एकादश्यामुपोषितः । चातुर्मास्यव्रतं कुर्याद्यकिश्चिनियमो नरः ॥" इति । अन्येऽपि कालाः सनत्कुमारवराहाभ्यामुक्ताः "एकादश्यां तु गृह्णीयात्सङ्क्रान्तौ कर्कटस्य वा । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #179 -------------------------------------------------------------------------- ________________ तिथ्यर्क: आषाढ्यां वा नरो भक्तया चातुर्मास्यादितं व्रतम् ॥ आषाढशुक्ल द्वादश्यां पैौर्णमास्यामथापि वा ।" इति । अत्र व्रतारम्भेऽस्तादिदोषेो नास्ति, " न शैशवं न मैौढ्य च शुक्रगुवर्न वा तिथेः । खण्डत्वं चिन्तयेज्जातु चातुर्मास्यव्रते विधौ ।” इति गार्ग्यवचनात् । व्रतानि तु भविष्ये "श्रावणे वर्जयेच्छाकं दधि भाद्रपदे तथा । दुग्धमाश्वयुजे मासि कार्तिके द्विदलं त्यजेत् ॥” इति । चत्वारीमानि नित्यानीत्युक्तं स्कान्दे चातुर्मास्यप्रकरणे" चत्वार्येतानि नित्यानि चतुराश्रमवर्णिनाम् । प्रथमे मासि कर्त्तव्यं नित्यं शाकवतं नरैः ॥ १४३ द्वितीये मासि कर्त्तव्यं दधिव्रतमनुत्तमम् । पयोव्रतं तृतीये तु चतुर्थे द्विदलं त्यजेत् ॥” इति । त्यजेद् वर्जनसङ्कल्पं कुर्यादित्यर्थः । शाकं दशधेत्याह क्षीरस्वामी"मूलपत्र करीराग्रफलकाण्डाधिरूढकाः । त्वक् पुष्पं कवचञ्चेति शाकं दशविधं स्मृतम् ॥” इति । ‘करीरम्’ शिम्बी। ‘काण्डम्’ नालम् । 'अधिरूढम्' अङ्कुरम् | 'कवचम् ' उरगकवचवत्सूक्ष्मा त्वगेव । द्विदलान्युक्तानि स्कान्दे " माषमुद्गमसूराश्च चणकाश्च कुलत्थकाः || निष्पावा राजमाषाश्च यढको द्विदलं स्मृतम् ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #180 -------------------------------------------------------------------------- ________________ १४४ तिथ्यर्कः केचिदुत्पत्तिसमये यस्य दलद्वयं तद् द्विदलमित्याहुस्तत्र मूलवाक्यं गवेषणीयम् । अथ चातुर्मास्ये वानि स्कान्दे“वार्षिकांवचतुरो मासान् प्रसुप्ते वै जनार्दने । मञ्चखट्वादिशयनं वर्जयेद्भक्तिमानरः ।। अनृतौ वर्जयेद्भायां मांसं मधु परोदनम् । पटोलं मूलकं चैव वृन्ताकं च न भक्षयेत् ॥ अभक्ष्यं वर्जयेइरान्मसूरं सितसर्षपम् ।। राजमाषान् कुलत्थांश्च आशुधान्यश्च सन्त्यजेत् ॥" तथा "वृन्ताकं च कलिङ्गं च विल्वादुम्बरभिःसटाः । उदरे यस्य जीर्यन्ते तस्य दूरतरो हरिः ॥" तथा "निष्पावराजमाषांश्च मसूरं सन्धितानि च । वृन्ताकञ्च कलिङ्गश्च सुप्ते देवे विवर्जयेत् ॥ विशेषाददरी धात्री कूष्माण्ड तिन्तिणीं त्यजेद् । जीर्ण धात्रीफलं ग्राह्यं कथञ्चित् कायशेधनम् ॥” इति । अथ काम्यानि हेमाद्रौ भविष्ये "स्त्री वा नरो वा मद्भक्तो धर्मार्थ सुदृढव्रतः । गृह्णीयान्नियमानेतान् दन्तधावनपूर्वकान् ॥ तेषां फलानि वक्ष्यामि तत्कतणां पृथक् पृथक् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #181 -------------------------------------------------------------------------- ________________ १४५ तिथ्यर्कः मधुस्वरो भवेद्राजा पुरुषो गुडवर्जनात् ।। तैलस्य वर्जनाद्राजन् ! सुन्दराङ्गः प्रजायते । कटुतैलपरित्यागाच्छत्रुनाशमवाप्नुयात् ।। योगाभ्यासी भवेद्यस्तु स ब्रह्मपदमाप्नुयात् । ताम्बूलवर्जनाद्भोगी रक्तकण्ठश्च जायते ।। घृतत्यागाच्च लावण्यं सर्वस्निग्धतनुर्भवेत् । फलत्यागाच मतिमान् बहुपुत्रश्च जायते । शाकपकाशनाद्भोगी अपकादमलो भवेत् । भूमौ प्रस्तरशायी च विप्रो मतिवरो भवेत् ॥ एकान्तरोपवासेन ब्रह्मलोके महीयते । पादाभ्यङ्गपरित्यागाच्छिरोभ्यङ्गविवर्जनात् ॥ दीप्तिमान दीप्तकरण यक्षो द्रव्यपतिर्भवेत् । दधिदुग्धतक्रनियमो गोभक्तो गोपतिर्भवेत् ।। इन्द्रातिथित्वमानोति स्थालीपाकस्य भक्षणात् । लभते सन्तति दीर्घा तैलपकविवर्जनात् ॥ धारणान्नखरोम्णां च गङ्गास्नानफलं लभेत् । मौनव्रती भवेद् यस्तु तस्याऽऽज्ञाऽस्खलिता भवेत् ।। भूमौ भुङ्क्ते सदा यस्तु स पृथिव्याः पतिर्भवेत् । प्रदक्षिणाशतं यस्तु करोति स्तुतिपाठकः ।। हंसयुक्तविमानेन स च विष्णुपुरं व्रजेत् । अयाचितेन प्राप्नोति पुत्रान् धानशेषतः ॥ १६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #182 -------------------------------------------------------------------------- ________________ तिथ्यर्कः षष्ठान्नकालभोक्ता यः कल्पस्थायी भवेदिवि । पर्णेषु यो नरो भुङ्क्ते कुरुक्षेत्रफलं लभेत् ॥ यामद्वयं जलत्यागान्न रोगैरभिभूयते । एवमादिवतैः पार्थ ! तुष्टिमायाति केशवः ॥” इति । एतेषां समाप्तौ दानानि "गुडवर्जी नरो दद्यात्तद्भुतं ताम्रभाजनम् । सहिरण्यं नरश्रेष्ठ ! लवणस्याप्ययं विधिः ॥” इति । प्रदक्षिणाशते वस्त्रम्, भूपर्णभोजने गौः कांस्यपात्रञ्च, माने । घृतकुम्भं वासायुगं घण्टा च, ब्रह्मचर्ये स्वर्णप्रतिमा, ताम्बूले वस्त्रयुग्मम्, नक्ते च तत्, एकान्तरोपवासे गोदानम्, षष्ठकालभोजनेऽपि तत्, भूस्वापे शय्या, ब्रीह्यादित्यागे हैमं तत्तद्धान्यम्, अनुक्तेषु गौः स्वर्णश्च इति । अत्र मूलवचांसि व्रतहेमाद्रौ द्रष्टव्यानीति संक्षेपः। एतेष्वन्यतमव्रतमप्यस्यामेव ग्राह्यम् । ग्रहणप्रकारो भविष्ये "वभाषेताग्रतो विष्णोः कृताञ्जलिपुटस्तदा । 'तदा' पूजोत्तरम् । [ 'वभाषेत' अवभाषेत ] चतुरो वार्षिकान् मासान देवस्योत्थापनावधि । इदं करिष्ये नियमं निर्विघ्नं कुरु मेऽच्युत ! ॥ इदं व्रतं मया देव ! गृहीत' पुरतस्तव । निर्विघ्न सिद्धिमायातु प्रसादात्तव केशव ! ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #183 -------------------------------------------------------------------------- ________________ तिथ्यर्कः गृहीतेऽस्मिन् व्रते देव ! पञ्चत्वं यदि मे भवेत् । तदा भवतु सम्पूर्ण त्वत्प्रसादाज्जनार्दन ! ॥” इति । श्रावण शुक्लकादश्यां पवित्राधिवासनमुक्तं रामार्चनचन्द्रिकायाम् "स्नात्वा त्रिगुणितं सूत्रं त्रिगुणीकृत्य शोधयेत् । पृथक पृथक पञ्चगव्यैरद्भिः प्रक्षालयेन्नरः ॥ मूलेनाष्टोत्तरशतं गायत्र्या रामसंज्ञया । शङ्खोदकेनाभिमन्त्र्य पवित्राणि विनिर्ममेत् ॥" विष्णुरहस्ये "कुङ्कमोशीरकपूरैश्चन्दनादिविलेपनैः । पवित्राणि विलिप्याऽथ देवाग्रेऽधिवास्य च ॥ एकादश्यां शुभैर्गन्धैः पुष्पधूपविलेपनैः । दीपनैवेद्यवस्त्राद्यैः पूजयेद् गरुडध्वजम् ॥” इति । ततः प्रार्थनां कुर्यात् । "क्रियालोपविधानार्थं यत्त्वया विहित प्रभो ! । मयैतत् क्रियते देव ! तव तुष्टयै पवित्रकम् ॥ प्रातस्त्वां पूजयिष्यामि सान्निध्यं कुरु केशव! । निवेदयाम्यहं तुभ्यं प्रातरेतत्पवित्रकम् ॥ निपतेद्दण्डवद् भूमौ क्षिप्त्वा पुष्पाञ्जलिं ततः । गीतमङ्गलनिर्घोषैः कुर्याज्जागरणं नरः ॥” इति । पवित्रार्पणविधिस्तु श्रावणशुक्लद्वादश्यां वक्ष्यते । अत्रैव दधिवतारम्भोऽपि कार्यः। दधिवते तक्रभक्षणं कार्यम्, तक्रे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #184 -------------------------------------------------------------------------- ________________ १४८ तिथ्यर्कः दधिरसानुपलम्भात् । भाद्रशुक्लैकादश्यां विष्णोरङ्गपरिवतनमुक्तं हेमाद्रौ भविष्ये "प्राप्ते भाद्रपदे मासि एकादश्यां दिने सिते । कटिदानं भवेद्विष्णोर्महापातकनाशनम् ॥” इति । 'कटिदानम्' अङ्ग परिवर्तनम् । तत्र मन्त्रस्तिथितत्त्वे "वासुदेव ! जगन्नाथ ! प्राप्तेयं द्वादशी तव । पार्चन परिवर्तस्व सुखं स्वपिहि माधव ! ॥” इति । द्वादशीपदमत्र सन्निहितपरम् । अत्रैव दुग्धव्रतं स्वीकुर्यात् । दुग्धव्रते पायसादि वर्जयेत्, न तु दध्यादि । यत्र धिकारे प्रकृतिद्रव्य. रसोपलम्भस्तत्प्रत्यभिज्ञानं वा, तस्य विकारस्य निषेधः । न चैव सति सन्धिन्यनिर्दशावत्सगोपयः परिवर्जयेदिति वचनात्सन्धिन्यादिक्षीरनिषेधे सन्धिन्यादिदुग्धसम्भूतस्य दध्नो ग्रहणं स्यादिति वाच्यम्, "क्षीराणि यान्यभक्ष्याणि तद्विकाराशने बुधः । सप्तरात्रं व्रतं कुर्यात्प्रयत्नेन समन्वितः ॥" इति शङ्खस्मृत्या तन्निषेधात् । 'व्रतम्' गोमूत्रपावकाशनम् । आश्विनशुक्लैकादश्यां कार्तिकस्नानारम्भः कार्यः। तदुक्तं विष्णुरहस्ये "आरभ्यैकादशी शुक्लामाश्विनस्य तु मानवः । · प्रातः स्नानं प्रकुर्वीत यावत्कार्तिकभास्करम् ॥" इति । अत्र सौरोऽपि मासे ग्राह्यः, "तुलामकरमेषेषु प्रातः स्ना विधीयते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #185 -------------------------------------------------------------------------- ________________ १४६ तिथ्यर्कः हविष्यं ब्रह्मचर्यं च महापातकनाशनम् ॥" इति पायोक्तेः । अशक्तस्तु व्यहं स्नायात्, "वाराणस्यां पञ्चनदे व्यहं स्नातास्तु कार्तिके । अमी ते पुण्यवपुषः पुण्यभाजोऽतिनिर्मलाः ॥" इति काशीखण्डात् । स्नानकालस्तूक्तः काशीखण्डे "कार्तिके बिन्दुतीर्थे यो ब्रह्मचर्यपरायणः । स्नास्यत्यनुदिते भाना भानुजा तस्य भीः कुतः ॥” इति । भानुजोऽन्तकः । स्नानमन्त्रस्तत्रैव "कार्तिकेऽहं करिष्यामि प्रातः स्नानं जनार्दन !। प्रीत्यर्थं तव देवेश ! दामोदर ! मया सह ॥ इमं मन्त्रं समुच्चार्य मौनी स्नायाद् व्रती नरः।" इति । अर्घ्यमन्त्रस्तत्रैव-- "तिनः कार्तिके मासि स्नातस्य विधिवन्मम । दामोदर ! गृहाणाऱ्या दनुजेन्द्रनिषूदन !॥ नित्यनैमित्तिके कृष्ण ! कार्तिके पापशाधने । गृहाणायं मया दत्तं राधया सहित। हरे ! ॥” इति । अत्र धात्रीसेवा कार्येत्युक्तं स्कान्दे कात्तिकप्रशंसापकरणे "धात्रीछायां तु यः कुर्यात् पिण्डदान महामुने! । मुक्ति प्रयान्ति पितरः प्रसादान्माधवस्य तु ॥ धात्रीफलविलिप्ताङ्गो धात्रीफलविभूषितः ।। * मया लक्ष्म्या । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #186 -------------------------------------------------------------------------- ________________ १५० तिथ्यर्क: धात्रीफलकृताहारो नरो नारायणेो भवेत् ॥” इति दानमाह वामनः " रजतं कनकं दीपान् मणिमुक्ताफलादिकम् । दामोदरस्य प्रीत्यर्थं प्रदद्यात् कार्त्तिके नरः ||" इति । स्यामेव पूर्वोक्तद्विदलादिवतस्यारम्भः कार्य इत्युक्तं पामे"आश्विनस्य तु मासस्य या शुक्लैकादशी भवेत् । कार्त्तिकस्य व्रतानीह तस्यां वै मारभेत्सुधीः ||" इति । कार्तिक शुक्लैकादशी बोधिनीत्युक्तं हेमाद्रौ तत्रैव "एकादश्यां तु शुक्लायां कार्त्तिके मासि केशवम् | प्रसुप्तं बोधयेद्रात्रौ श्रद्धाभक्तिसमन्वितः ॥” इति । मदनरत्नेऽपि भविष्ये— "कार्त्तिके शुक्लपक्षे तु एकादश्यां पृथासुत ! मन्त्रेणानेन राजेन्द्र ! देवमुत्थापयेद् द्विजः ॥” इति । यद्यपि हेमाद्रिधृतवचने रात्रौ बोधयेदित्युक्तम्, तथापि प्रवेधस्तु दिवैव कार्य:, " निशि स्वापो दिवोत्थानं सन्ध्यायां परिवत्तनम् ।" इति सर्वनिबन्धकारधृतमात्स्यवाक्यात् । शिष्टास्तु द्वादश्यां प्रबोधयन्ति । तद्विधिस्तु कार्त्तिकशुक्लद्वादश्यां वक्ष्यते । अस्यां भीष्मपञ्चकं कार्यम् । "व्रतं चैतन्महापुण्यं महापातकनाशनम् । तो वरमयत्नेन कर्त्तव्यं भीष्मपञ्चकम् ॥ -- Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #187 -------------------------------------------------------------------------- ________________ विथ्यर्कः १५१ कात्तिकस्याऽमले पक्षे स्नात्वा सम्यग्यतव्रतः । एकादश्यां तु गृह्णीयाद् व्रतं पञ्चदिनात्मकम् ।।" पाने "पश्चाई पञ्चगव्याशी भीष्मायायं च पञ्चसु । अहःस्खपि तथा दद्यान्मन्त्रेणानेन सुव्रत !॥ सत्यव्रताय शूराय शान्ताय तु महात्मने । भीष्मायैतद्ददाम्यय॑माजन्मब्रह्मचारिणे ॥" इति । अन्योऽपि विस्तरोत्र श्रीमातुलकृतव्रतार्के द्रष्टव्यः। अथ पौषशुक्लैकादशी मन्वादिः, "पुष्यस्यैकादशी सिता" इति वाक्यांशात् । अत्र श्राद्ध कार्यम्, “माध्यां मन्वन्तरादिषु" इति पूर्वोक्तवाक्यात् । तच्च नैमित्तिकम् । एकादशी प्रयुक्तोपवासस्तु नित्यः । तथा च नित्योपवासे श्राद्धप्राप्तौ ऋष्यशृङ्गः "उपवासा यदा नित्यः श्राद्धं नैमित्तिक भवेत् । उपवासं तदा कुर्यादाघ्राय पितृसेवितम् ॥” इति । अस्यामेव माघस्नानारम्भ उक्तो ब्राह्म "एकादश्यां पौषमासे माघस्नान समारभेत् । द्वादश्यां पूर्णिमायां वा शुक्लपक्षे समापनम् ॥” इति । 'शुक्लपक्षे माघशुक्लपक्षे । मासोपवासिनस्त्रिकालं स्नान पूजा चोक्ता पद्मपुराणे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #188 -------------------------------------------------------------------------- ________________ १५२ तिथ्यर्कः "पुष्यस्यैकादशी शुक्लामारभ्य स्थण्डिलेशयः । मासमात्रं निराहारस्त्रिकालं स्नानमाचरेत् ॥ त्रिकालमर्चयेद्विष्ण त्यक्तभोगा जितेन्द्रियः । माघस्यैकादशी शुक्ला यावद्विद्याधरोत्तम ! ॥" इति । स्नानकालश्च श्रीसूर्योदये प्रोक्तो भविष्योत्तरे"यो माघमास्युषसि सूर्यकराभितप्ते स्ना समाचरति चारुनदीप्रवाहे । उद्धत्य सप्तपुरुषान् पितृमातृतश्च __स्वर्ग प्रयात्यमरदेहधरो नरोऽसौ ॥” इति । अरुणोदयेऽप्युक्तो ब्राह्मे "अरुणोदये तु सम्माप्ते स्नानकाले विचक्षणः । माधवाघ्रियुगं ध्यात्वा यः स्नाति सुरपूजितः ॥” इति । तत्र सङ्कल्पमाह विष्णुः "तत्र चोत्थाय नियमं गृह्णीयाद् विधिपूर्वकम् । माघमासमिमं पूर्ण स्नास्येऽहं देव ! माधय ! तीर्थस्यास्य जले नित्यमिति सङ्कल्प्य चेतसि ।" स्नानमन्त्रः पाद्म "दुःखदारिद्रयनाशाय श्रीविष्णास्तोषणाय च । प्रातः स्नानं करोम्यद्य माघे पापविनाशनम् ॥ मकरस्थे रवौ माघे गोविन्दाऽच्युत ! माधव ! । स्नानेनाऽनेन मे देव ! यथोक्तफलदो भव ॥” इति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #189 -------------------------------------------------------------------------- ________________ १५३ तिथ्यर्कः श्रोसूर्यायार्घ्यदानमुक्तं पृथ्वीचन्द्रोदये "सवित्र प्रसवित्रे च परं धाम जले मम । त्वत्तेजसा परिभृष्टं पापं याति सहस्रधा ।।" इति । माघस्नानमदः प्रयागेऽतिप्रशस्तमुक्तं पद्मपुराणे "काश्याः शतगुणा प्रोक्ता गङ्गा यामुनसङ्गमे । सहस्रगुणिता सापि भवेत्पश्चिमवाहिनी ।। पश्चिमाभिमुखी गङ्गा कालिन्द्या सह संगता। हन्ति कल्पकृतं पापं सा माघे नृप ! दुर्लभा" ॥ इति । विशेषस्त्वस्मन्मातृप्रपितामहभट्टश्रीनारायणपदपायोजविरचितात् प्रयागसेतोरवगन्तव्यः । अत्राऽसमर्थख्यहं स्नायात्, "अस्मिन् योगे त्वशक्तोऽपि स्नायादपि दिनत्रयम् ।" इति पद्मपुराणात् । अत्र मकरसंक्रमरथसप्तमीमाघीपार्णमासीति दिनत्रयमिति केचित् । माघशुक्लदशम्यादीत्येके । मकराद्ययह इत्यन्ये । माघस्याऽऽद्यव्यह इत्यपरे । यत् किश्चिद् दिनत्रयमिति श्रीमातुः प्रपितामहचरणाः। माघशुक्लत्रयोदश्यादीति भूरयो निबन्धकाराः । एवं षट्पक्षाः सिद्धाः । फाल्गुनशुक्लैकादश्यामामलकीवृक्षस्थितं विष्णु पूजयेदित्युक्तं निर्णयामृते भविष्योत्तरे "फाल्गुने मासि शुक्लायामेकादश्यां जनार्दनः । वसत्यामलकीने लक्ष्म्या सह जगत्पतिः ॥ तत्र सम्पूज्य देवेशं भक्त्या कुर्यात् प्रदक्षिणम् ।" इति । २० www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat Page #190 -------------------------------------------------------------------------- ________________ १५४ तिथ्यर्कः एकादशी शुक्रेण सिद्धा। भीमेन विरुद्धा । योगिन्यस्यामाग्नेय्यामित्येकादशी निर्णीता ॥ अथ द्वादशी निर्णीयते । सा पूर्वा कार्या, "द्वादशी च प्रकर्त्तव्या एकादश्या युता प्रभो !" इति माधवीयस्कान्दात् 'रुद्रेण द्वादशी युक्ता' इति युग्मवाक्याच्च । पारणानिर्णये हेमाद्रौ कूर्मपुराणे "एकादश्यामुपोष्यैवं द्वादश्यां पारण स्मृतम् । त्रयोदश्यां न तत्कुर्याद् द्वादशद्वादशीक्षयात् ॥" तत्रैव "कलाद्वयं त्रयं वापि द्वादशी न त्वतिक्रमेत् ।" अतिक्रान्तायां द्वादश्यांतु सर्व नित्यं प्रातरेव समाप्य तस्यां पारणं कुर्यात् । तदुक्तं हेमाद्रौ पाझे "यदा भवेदतीवाऽल्पा द्वादशी पारणा दिने । उषःकाले द्वयं कुर्यात्मातर्माध्याह्निकं तदा ॥” इति । तत्रैव कात्यायनः "क्रमतस्तु च कृत्येषु यद्यन्तमपकृष्यते । तदा सर्वापकर्षः स्यादन्यथा क्रमवाधनात् ॥" माध्याह्नापकर्षस्तु सम्पूर्णायामपि द्वादश्यां कार्यम् , "सर्वेषामुपवासानां प्रातरेव हि पारणा ।" इति पा अवचसा प्रातःकाले पारणाविधानात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #191 -------------------------------------------------------------------------- ________________ तिथ्यर्क: १५५ प्रातःकालोऽह्नः पञ्चधा विभागपक्षे ज्ञेयः । वचनं स्वलेखि प्राक् । स्वल्पायां पारणासम्भवेऽनुकल्पमाह देवलः - " सङ्कटे विषमे प्राप्ते द्वादश्यां पारयेत्कथम् । अद्धिस्तु पारणं कुर्यात् पुनर्भुक्तं न देोषकृत् ॥” इति । सम्पूर्णायामपि द्वादश्यां श्राद्धप्राप्तावेतस्मादेव वाक्यादद्भिः पारणं कार्यमेव । यदा द्वादश्येव नास्ति तदा त्रयोदश्यां पारणमुक्तं नारदीये " त्रयोदश्यां तु शुद्धायां पारणं पृथिवीफलम् । शतयज्ञाधिकं वापि नरः प्राप्नोत्यसंशयम् ॥” इति । द्वादश्याः प्रथमपादस्य हरिवासरसंज्ञा । तद्वर्जनं चाक्तं निर्णयामृते विष्णुधर्मोत्तरे " द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः । अतिक्रम्य तु कर्त्तव्यं पारणं विष्णुतत्परैः ॥” इति । विष्णुतत्परैरीश्वरभक्तैरित्यर्थः । अथ चैत्रशुक्ल द्वादश्यां दमनकाकर्षरणम् । तदुक्तमगस्त्य संहितायाम् — “द्वादश्यां चैत्रमासस्य शुक्लायां दमनोत्सवः । बौधायनादिभिः प्रोक्तः कर्त्तव्यः प्रतिवत्सरम् ॥” इति । दमनकानयनप्रकारस्तु चैत्रशुक्लैकादश्यामुक्तः । पूर्वेयुरानीतं दमनकं द्वादश्यां गृहीत्वेश्वराय समर्पयेत् । तत्र मन्त्रः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #192 -------------------------------------------------------------------------- ________________ १५६ तिथ्यर्कः "इमं दमनक देव ! गृहाण मदनुग्रहात् । इमां सांवत्सरी पूजां भगवन् ! परिपूरय ॥” इति । "मन्त्रहीन क्रियाहीनं भक्तिहीनं जनार्दन ! । यत्पूजितं मया देव ! परिपूर्ण तदस्तु मे ॥" इति संपार्थ्य, नमस्कारान् कृत्वा, ब्राह्मणान् भोजयित्वा पारण कुर्यात् । द्वादश्यलाभे त्रयोदश्यामपीदं कार्यमित्युक्तं तत्रैव "पारणाहे न लभ्येत द्वादशी घटिकापि वा । तदा त्रयोदशी ग्राह्या पवित्रा दमनार्पणे ॥” इति । इदं च दमनार्पण नित्यम् "ऊर्जे व्रतं मधो दोला श्रावणे तन्तुपूजनम् । चैत्रे च दमनारोपमकुर्वाण व्रजत्यधः ॥" इति रामार्चनचन्द्रिकायामनिष्टश्रुतेः। श्रीसूर्यादिभक्तैस्तु सप्तम्यादा दमनकार्पणं कार्यमिति तत्रैवोक्तम्-- ___"तत्र स्यात्स्वीयतिथिषु वयादेर्दमनार्पणम् ।" इति । तत्र मधावित्यर्थः। वह्नयादयस्तु तिथिक्रमेण प्रागुक्ताः । अस्यां वामनाराधनमुक्तं निर्णयामृते वाराहपुराणे "सौवणं वामनं मासि चैत्र सङ्कल्प्य द्वादशीम् । उपोष्याऽऽराधयेत्पश्चाद् देवदेवन्तु वामनम् ॥” इति । एकादश्यामुपोष्य द्वादश्यां सङ्कल्पपूर्वकं सौवर्ण वामनं पूजयेदित्यर्थः । वैशाखशुक्ल द्वादश्यां योगविशेष उक्तो ज्योतिःशास्त्रे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #193 -------------------------------------------------------------------------- ________________ १५७ तिथ्यर्कः "पश्चाननस्था गुरुभूमिपुत्रौ मेषे रविः स्याद्यदि शुक्लपक्षे । पाशाभिधाना करभेण युक्ता तिथिर्व्यतीपात इतीह योगः ॥" 'पञ्चाननः सिंहः । 'पाशाभिधाना' द्वादशी । 'करभो' हस्तम् । अत्रैव श्राद्धमुक्त प्राक् । ज्येष्ठशुक्लद्वादश्यां वटसावित्रीव्रतारम्भ उक्तो भविष्ये "ज्येष्ठे मासि सिते पक्ष द्वादश्यां रजनीमुखे । व्रतं त्रिरात्रमुद्दिश्य दिवारानं स्थिरा भवेत् ॥” इति । अत्र पूर्णिमानुरोधेन यथा त्रिरात्रं भवति तथा द्वादश्यां त्रयोदश्यां वा प्रारम्भः कार्यः । इयमेव रामद्वादशी। अत्र रामपूजोक्ता निर्णयामृते वाराहपुराणे "ज्येष्ठे मासेऽप्येवमेव सङ्कल्प्य विधिना नरः। नमो रामाभिरामाय पादौ पूर्व समर्चयेद् ।।" इति । आषाढशुक्लद्वादश्यां तप्तमुद्राधारणमुक्तं भविष्ये "शयन्यां चैव बोधिन्यां चक्रतीर्थे तथैव च । शङ्खचक्रविधानेन वहिपूतो भवेन्नरः ॥” इति । अन्यत्रापि "तद्विष्णोः परमं पदं ये गच्छन्ति हि लाञ्छिताः" । इति । अत्र शूद्रस्याधिकारो न ब्राह्मणादेः। तदुक्तं नारदीये "शङ्खचक्रं मृदा यस्तु कुर्यात्तप्तायसेन वा। स शूद्रवद् वहिः कार्यः सर्वस्माद् द्विजकर्मणः ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #194 -------------------------------------------------------------------------- ________________ १५८ तिथ्यर्कः शैवपुराणेऽपि "शङ्खचक्रायनं च नृत्यगीतादिकं तथा । एकजातेरयं धर्मो न जातु स्याद् द्विजन्मनः ॥" इति । आश्वलायनः "शिवकेशवयोरङ्कान् शूलचक्रादिकान द्विजः । न धारयेत्तु मतिमान् वैदिके वर्त्मनि स्थितः ॥ यथा श्मशान काष्ठमनह सर्वकर्मसु । तथा चक्राङ्कितो विप्रः सर्वकर्मसु गर्हितः ॥" श्रावणशुक्लद्वादश्यां देवे पवित्रारोपणं कार्यम् । तदुक्तं हेमाद्रौ विष्णुरहस्ये "श्रावणे ह्यसिते पक्षे कर्कटस्थे दिवाकरे । द्वादश्यां वासुदेवाय पवित्रारोपणं स्मृतम् ॥” इति । कुलधर्मानुरोधेनाप्युक्तं निर्णयामृते मात्स्ये "आषाढ्यामथवा षष्ठयां चतुर्दश्यामुमापतिम् । पवित्ररचयेद् भाद्रयां श्रावण्यां च विशेषतः ॥” इति । अत्र सर्वेषामप्यधिकार उक्तो विष्णुरहस्ये "ब्राह्मणः क्षत्रियो वैश्यस्तथा स्त्री शूद्र एव च । खधर्मावस्थिताः सर्वे भक्त्या कुर्युः पवित्रकम् ॥ पवित्रारोपणं काले न करोति कथंचन । तदाऽयुतं जपेन्मन्त्रं स्तोत्रं वापि समाहितः ॥" इति रामार्चनचन्द्रिकायां प्रायश्चित्तश्रवणानित्यमिदम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #195 -------------------------------------------------------------------------- ________________ १५६ तिथ्यर्कः "न करोति विधानेन पवित्रारोपणं तु यः। तस्य सांवत्सरी पूजा निष्फला मुनिसत्तम ! ॥" इति विष्णुरहस्येऽनिष्टश्रवणाच्च । पवित्रार्पणविधिर्भविष्ये "सोपवासः शुचिः प्रातः कृतजाप्यो जितेन्द्रियः । दत्वा दानं द्विजारयेभ्यः पूजयित्वा जनार्दनम् ॥ पूर्वाधिवासितं सम्यक समादाय पवित्रकम् ।" पवित्राधिवासनं तु श्रावण शुक्लैकादश्यामुक्तम् "अता देवेति मन्त्रेण विष्णोर्मूर्ध्नि निवेदयेत् । सूक्तस्य मूलमन्त्रो वा येन वै पूजयेद्धरिम् ।।" येन वेत्यनेन नाममन्त्र उक्तः। प्रार्थना तत्रैव "मणिविद्रुममालाभिर्मन्दिरं कुसुमादिभिः । एषा सांवत्सरी पूजा तवाऽस्तु गरुडध्वज ! ॥ अपराधसहस्राणि क्रियन्तेऽहनिशं मया । दासोऽहमिति मां मत्वा क्षमस्व मधुसूदन ! ॥ ततः पवित्रं गुरवे दद्याद् गन्धादिपूर्वकम् । ब्राह्मणान् वैष्णवांश्चैव गन्धपुष्पादिनायेत् ॥ पक्षं द्विमासं सद्यो वा त्रिरात्रं पञ्च वा नव । स्थाप्यमिति शेषः । सांवत्सरी शुभां पूजां संपाद्य विधिवनमः । व्रजेदानी पवित्र ! त्वं विष्णुलोकं विसर्जितम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #196 -------------------------------------------------------------------------- ________________ तिथ्यर्कः मन्त्रेणानेन तत्सूत्रमवतार्य यथाविधि । उत्तार्य ब्राह्मणे दद्यात्तोये वाऽथ विसर्जयेत् ॥ अनेनैव विधानेन सर्वेषां त्रिदिवौकसाम् । पवित्रारोपणं कुर्यान्मूर्ती वा स्थण्डिलेऽपि वा ॥ तत्तन्मन्त्रौः समावेशी विसर्जनविधिक्रियाः ।" इति दिक् । भाद्रशुक्लद्वादशी वामनजयन्ती, तस्यां वामनावतारात् । तदुक्तं श्रीभागवतेऽष्टमस्कन्धेऽष्टादशाध्यायारम्भे "श्रोणायां श्रवणद्वादश्यां मुहूर्तेऽभिजिति प्रभुः । ग्रहनक्षत्रताराद्याश्चक्रुस्तज्जन्म दक्षिणम् ॥ द्वादश्यां सविता तिष्ठन्मध्यंदिनगतो नृप ! । विजया नाम सा प्रोक्ता तस्यां जन्म विदुहरेः॥" व्रतहेमाद्रौ पक्षान्तरमुक्तम् "अथ काले बहुतिथे गते सा गुर्विणी भवेत् । सुषुवे नवमे मासि पुत्रं सा वामनं हरिम् ।। एतत्सर्व समभवदेकादश्यां युधिष्ठिर ! ।। तेनेष्टा देवदेवस्य सर्वथा विजया तिथिः ॥” इति । अत्र कल्पभेदेन व्यवस्था। सम्प्रति श्रीभागवतपक्ष एवाद्रियते शिष्टैः। इयं मध्याह्न वामनप्रादुर्भावान्मध्याह्नव्यापिनी ग्राहया। दिनद्वये मध्याह्नव्याप्तावव्याप्तौ वा पूर्वा, पूर्वोक्तस्कान्दवचनात् । तत्र विधिर्वतहेमाद्रावग्निपुराणे * 'भाद्रद्वादश्याम्' इति पाठान्तरम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #197 -------------------------------------------------------------------------- ________________ तिथ्यर्कः १६१ "नदीनां सङ्गमे स्नायादर्चयेदत्र वामनम् । सौवर्ण वस्त्रसंयुक्तं द्वादशाङ्गलमुच्छितम् ॥" इति तं सम्पूज्य सौवर्णपात्रेणायं दद्यात् । तत्र मन्त्रः "नमस्ते पद्मनाभाय नमस्ते जलशायिने । तुभ्यमर्थ्य प्रयच्छामि बालवामनरूपिणे ॥" एवं कृत्वा परदिने प्रतिमा विप्राय दद्यात् । दानमन्त्रः "वामनः प्रतिगृह्णाति वामनोऽहं ददामि ते । वामनं सर्वतो भद्रं द्विजाय प्रतिपादये ॥” इति । इयमेव श्रवणयुक्ता श्रवणद्वादशी। अत्रोपोषणं कार्यम्, "द्वादश्यामुपवासात्र त्रयोदश्यां तु पारणम् । निषिद्धमपि कर्त्तव्यमित्याज्ञा पारमेश्वरी ॥" इति हेमाद्रिधृतनारदपुराणात् । एषा च द्वादशी श्रवणयोगमात्रेण सर्वापि पुण्यतमा भवति । तदुक्तं मात्स्ये___ "द्वादशी श्रवणायुक्ता कृत्स्ना पुण्यतमा तिथिः । न तु सा तेन संयुक्ता तावत्येव प्रशस्यते ॥" इति । श्रवणस्पृष्टेयं द्वादशी एकादशी स्पृशेच्चेद् विष्णुशृङ्खला। तत्रोपवासे महत् फलम् । तदुक्तं हेमाद्रौ मत्स्यपुराणे "द्वादशी श्रवणास्पृष्टा स्पृशेदेकादशी यदि । स एव वैष्णवो योगो विष्णुशृङ्खलसंज्ञितः ॥ २१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #198 -------------------------------------------------------------------------- ________________ तिथ्यर्क: तस्मिन्नुपोष्य विधिवन्नरः संक्षीणकल्मषः । प्रामोत्यनुत्तमां सिद्धिं पुनरावृत्तिदुर्लभाम् ॥” इति । श्रवणास्पृष्टा श्रवणेन युक्तेत्यर्थः । अस्मिन्नेव वचने श्रवणशब्दस्य स्त्रीलिङ्गेऽपि दर्शनात् । निर्णयामृतकारस्तु - १६२ " द्वादशी श्रवण च स्पृशेदेकादशीं यदि । स एव वैष्णवो योगो विष्णुशृङ्खलसज्ञितः ।। " एव मिदं वचो लिलेख । तेन तन्मते श्रवणस्यैकादशीद्वादशीभ्यां सह योग एव विष्णुशृङ्खलमन्यथा नेति । हेमाद्रिमते तु — एकादश्याः श्रवणयोगाभावेऽपि तद्युक्तद्वादशीमात्र योगे विष्णुशृङ्खलमिति भेदः । यदैकादश्येव श्रवणान्विता तदैकेनैवेापवासेन द्वयोः सिद्धिः । तदेतदभिप्रेत्योक्तं हेमाद्रौ नारदीये - " यदा न प्राप्यते ऋक्षं द्वादश्यां वैष्णवं कचित् । एकादशी तापाया पापनी श्रवणान्विता ॥ उभयेोर्देवता विष्णुः पुराणपुरुषोत्तमः । विभेदोऽपि न कर्त्तव्यो विभेदात्पतते नरः || ” इति । अनुष्ठितैकादशीव्रतः सन् परदिने यस्तूपवासासमर्थः स तु पूजामात्रं कुर्यात् । तथा च मात्स्ये " द्वादश्यां शुक्लपक्षे तु नक्षत्रं श्रवणं यदि । उपोष्यैकादशीं तत्र द्वादश्यां पूजयेद्धरिम् ॥” इति हरिपूजामेव कुर्वीत न तूपवासमित्यर्थः । उपवासकरणे तदङ्गदरिपूजायाः प्राप्तत्वादेव पुनस्तद्विधिवैयर्थ्यात् । यस्तूप Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #199 -------------------------------------------------------------------------- ________________ विथ्यर्कः वासासमोऽस्वीकृतैकादशीव्रतश्च स 'काम्यं नित्यस्य बाधकम्' इति न्यायेन द्वादश्युपोषणमेव कुर्यात् । तदुक्तं नारदीये "उपोष्य द्वादशी पुण्यां विष्णुऋक्षेण संयुताम् । एकादश्युद्भवं पुण्यं नरः प्रामोत्यसंशयम् ॥” इति । यस्तूपवासद्वयसमर्थस्तं प्रति भविष्योत्तरे "एकादश्यामुपोष्यैव द्वादश्यामप्युपोषयेत् । न चात्र विधिलोपः स्यादुभयोर्दैवतं हरिः॥" इति । विधिलोपः पारणाविधिलोपः । अत्र कृत्यं मदनरत्ने विष्णुधर्मोत्तरे-- "या राम ! श्रवणोपेता द्वादशी महती तु सा । तस्मिन् दिने तथा स्नानं यत्र कचन संगमे ॥ कार्यमिति शेषः। दध्योदनयुतं तस्यां जलपूर्ण घटं द्विज !। . वस्त्रसंवेष्टितं दत्वा गतिमयां च विन्दति ॥ प्रामोत्ययत्नाद् धर्मज्ञ ! द्वादशद्वादशीफलम् ।" इति । घटदाने मन्त्रः "नमो नमस्ते गोविन्द ! बुधश्रवणसंज्ञक ! । अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव ॥ प्रीयतां देवदेवेशो मम संशयनाशनः ।" इति । इयं बुधान्विता प्रशस्तेत्युक्तं हेमाद्रौ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #200 -------------------------------------------------------------------------- ________________ तिथ्यर्क: "बुधश्रवणसंयुक्ता सैव च द्वादशी भवेत् । अत्यन्तमहती सा स्याद् दत्तं भवति चाऽक्षयम् ॥” इति । पारणमन्यतरान्ते कार्यम् । तदुक्तं हेमाद्रौ नारदीये “तिथिनक्षत्रयोर्योगे उपवासो यदा भवेत् । पारणं तु न कर्त्तव्यं यावन्नैकस्य संक्षयः ॥” इति । अयमन्यतरान्तपारणापक्ष गौणो न तु मुख्यः, १६४ “याः काचित्तिथयः प्रोक्ताः पुण्यनक्षत्रयोगतः । ऋक्षान्ते पारणं कुर्याद्विना श्रवणरोहिणीम् ॥” इति वचने श्रवणरोहिण्येाः पर्युदासाश्रयणात् । तस्मादुभयान्ते पारणमिति मुख्यः कल्पः । sa प्रसङ्गादितरमहाद्वादशीनामानि ब्रह्मवैवर्ते_ "उन्मीलनी वञ्जुला च त्रिस्पृशा पक्षवर्द्धिनी । जया च विजया चैव जयन्ती पापनाशिनी ॥ द्वादश्यrst महापुण्याः सर्वपापहरा द्विजाः ! ॥” इति । एतासां लक्षणादिकं प्रचुरप्रचाराभावान्नोक्तमिति संक्षेपः । आश्विन कृष्णद्वादश्यां संन्यासिनां महालय श्राद्धमुक्तं वायुपुराणे "संन्यासिनेोऽप्याब्दिकादि पुत्रः कुर्याद् यथाविधि । महालये तु यच्छ्राद्धं द्वादश्यां पार्वणेन तु ॥” इति । आश्विनशुक्लद्वादश्यां पद्मनाभ पूजाक्ता निर्णयामृते वाराहपुराणे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #201 -------------------------------------------------------------------------- ________________ तिथ्यर्क: " सम्यगाश्वयुजे मासि द्वादश्यां शुक्लपक्षके । सङ्कल्प्याभ्यर्चयेद्देवं पद्मनाभं सनातनम् ॥” इति । कार्त्तिक कृष्णद्वादश्यां गोवत्सद्वादशीव्रतम् । तदुक्तं मदनरत्ने भविष्ये " सम्प्राप्ते कार्त्तिके मासि कृष्णपक्षे कुरूत्तम ! | महापुण्यत्रतं स्त्रीणां गोवत्सद्वादशीव्रतम् ||" व्रतविधिस्तत्रैव -- "द्वादश्यां कृतसङ्कल्पः स्नात्वा पुण्ये जलाशये । नरो वा यदि वा नारी नक्तं सङ्कल्प्य चेतसि ॥ ततेा मध्याह्नसमये कृत्वा देवार्चनादिकम् । प्रतीक्षेतागमं भक्त्या गवां गोध्यानतत्परः ॥ सवत्सां तुल्यवर्णा च शीलिनीं गां पयस्विनीम् । चन्दनादिभिरालिप्य पुष्पमालाभिरर्चयेत् ॥ अर्घ्यं ताम्रमये पात्रे कृत्वा पुष्पाक्षतैस्तिलैः । पादमूले तु दद्याद्वै मन्त्रेणाऽनेन पाण्डव ! ।। क्षीरेरादार्णव सम्भूते ! सुरासुरनमस्कृते ! । सर्वदेवमये ! मातगृहाणार्घ्यं नमो नमः ॥ दत्वार्ध्य साक्षतं पुण्यं तज्जलं मूर्ध्नि निक्षिपेत् । ततो माषादिसंसिद्धान् वटकान् विनिवेदयेत् ॥ पञ्च सप्त दशैकं वा यथाविभवमात्मनः ।" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat १६५ www.umaragyanbhandar.com Page #202 -------------------------------------------------------------------------- ________________ तिथ्यर्क: १६६ गोग्रासे मन्त्रौ - “सौरभेय्यः सर्वहिताः पवित्राः पुण्यराशयः । प्रतिगृन्तु मे ग्रासं गावस्त्रैलोक्यमातरः || सुरभि ! त्वं जगन्मातर्देवि ! विष्णुपदे स्थिता | सर्वदेवमये ! ग्रासं मया दत्तमिमं ग्रस ॥” इति । प्रार्थना “प्रार्थयेच्चाशिषः सम्यक् बध्वायें करसम्पुटम् । सर्ववेदमये ! देवि ! सर्वदेवैरलंकृते ! ॥ मातर्ममाभिलषितं सफलं कुरु नन्दिनि ! |" इति । अत्र वर्ज्य तत्रैव " तद्दिने तापिकापकं स्थालीपकं युधिष्ठिर ! | गोक्षीरं गोघृत ं चैव दधि तक्रं च वर्जयेत् ॥” इति । 'तापिका' रोटिकाभर्जनपात्रम् । भक्ष्य ं तत्रैव — “भाषान्नं कामतेोऽश्नीयाद्रात्रौ विगतमत्सरः ।" इति । इयं सायाह्वव्यापिनी ग्राह्या, गवागमनप्रतीक्षोक्तेः | दिनद्वये चेत्पूर्वा, "वत्सपूजा वटश्चैव कर्तव्या प्रथमेऽहनि ।” इति स्मृत्यन्तरात् । अत्र कार्तिकः कृष्णप्रतिपदादिगृह्यते, शिष्टाचारात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #203 -------------------------------------------------------------------------- ________________ तिथ्यर्कः अथ द्वादशीमारभ्य पञ्चसु दिनेषु नीराजनाविधिरुक्तो नारदीये "आश्विने कृष्णपक्षे तु द्वादश्यादिषु पञ्चसु । तिथिषूक्तः पूर्वरात्रौ नृणां नीराजनाविधिः ॥ नीराजयेयुर्देवांस्तु विप्रान् गाश्च तुरङ्गमान् । ज्येष्ठान् श्रेष्ठान् जघन्यांश्च मातृमुख्यांश्च योषितः ॥” इति । अत्राश्विनोऽमान्तः। यमोद्देशेन सन्ध्याकाले बहिर्दीपदानमुक्तं स्कान्दे । तत्र मन्त्रः "मृत्युना पाशदण्डाभ्यां कालेनामलया सह । त्रयोदश्यां दीपदानात्सूर्यजः प्रीयतां नमः ॥” इति । कार्तिकशुक्लद्वादश्यां देवोत्थापनमुक्तं रामार्चनचन्द्रिकायाम् "पारणाहे पूर्वरात्रौ घण्टादीन्वादयेन्मुहुः । विधाय महतीं पूजां विष्णुमभ्यर्च्य वैष्णवान् ॥” इति । उत्थापनविधिस्तत्रैव "इदं विष्णुरनेनाशु तल्पादुत्थापयेत्लभुम् ।" पौराणमन्त्रः "ब्रह्मेन्द्ररुद्राग्निकुबेरसूर्यसामादिभिर्वन्दित ! वन्दनीय ! बुध्यस्व देवेश ! जगन्निवास ! समं प्रभावेण सुखेन देव ॥ इयं तु द्वादशी देवप्रबोधार्थ विनिर्मिता । त्वयैव सर्वलोकानां हितार्थ शेषशायिना ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #204 -------------------------------------------------------------------------- ________________ १६८ तिथ्यर्कः उत्तिष्ठोत्तिष्ठ गोविन्द ! त्यज निद्रां जगत्पते !। त्वयि सुप्ते जगन्नाथ ! जगत् सुप्तं भवेदिदम् ॥ विबुद्धे च विबुद्ध्येत प्रसन्नो मे भवाऽच्युत !। उत्थिते चेष्टते सर्वमुत्तिष्ठोत्तिष्ठ माधव ! ॥ गता मेघा विपच्चैव निर्मलं निर्मला दिशः । शारदानि च पुष्पाणि गृहाण मम केशव ! ॥" इदं देवोत्थापनमिदानीन्तना रामार्चनचन्द्रिकात एव द्वादश्यां कुर्वन्ति । वस्तुतस्तु तत्र श्रीरामोत्थापनमेव युक्तम्, राघवादिशब्दग्रहणात् । इतरेषां ऋतुभुजामेकादश्यामेव पूर्वोक्तवचनादिति । तच्च प्रभाते कार्यम्, "रात्री जागरणं कुर्यादेकादश्यां सुरालये । प्रभाते विमले स्नात्वा देवमुत्थापयेत्सुधीः ॥" इति भविष्यत्पुराणात् । ततो देवाग्रे चातुर्मास्यव्रतसमाप्तिः कार्या, "चतुर्दा गृह्य वै चीण चातुर्मास्यं व्रतं नरैः । कार्ति के शुक्लपक्षे तु द्वादश्यां तत्समापयेत् ।।" इति भारते उक्तत्वात् । तत्र मन्त्रः "इदं व्रतं मया देव ! कृतं प्रीत्यै तब प्रभो ! । न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन : ॥” इति । ततो ब्राह्मणेभ्यो नियमं कथयित्वा सदक्षिण तद् द्रव्यं दत्वा पारणं कुर्यात् । तदुक्तं ब्राह्मे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #205 -------------------------------------------------------------------------- ________________ १६६ तिथ्यर्कः "चतुरो वार्षिकान् मासान् नियमं यस्य यत्कृतम् । कथयित्वा द्विजेभ्यस्तदद्याद्भक्त्या सदक्षिणम् ॥ एवं विसर्जयेद् विघं ततो भुञ्जीत तत्स्वयम् ।" इति । इयं मन्वादिः, “कार्त्तिके द्वादशी तथा" इति वाक्यात् । माघशुक्लद्वादशी तिलद्वादशी। तदुक्तं ब्रह्मपुराणे "माघे तु शुक्लद्वादश्यां यमो हि भगवान् पुरा । तिलानुत्पादयामास तपः कृत्वा सुदारुणम् ॥ राजा दशरथो भूतस्तस्यां तानवतारयत् । तिलानामाधिपत्ये तु विष्णुस्तत्र सुरैः कृतः ॥ तस्यामुपोषितः स्नात्वा तिलैः सम्यग यजेद्धरिम् । तिलतैलेन दीपाश्च देया देवगृहेषु च ॥ निवेदयेत् तिलानेव होतव्याश्च तथा तिलाः । तिलान् दत्वा तु विप्रेभ्यो भक्षयेच्च तथा तिलान् ॥"इति । अथ सर्वासु द्वादशीषु व्रतसमर्पणं कृत्वा पारणं कुर्यादित्युक्तं कात्यायनेन "प्रातः स्नात्वा हरि पूज्य उपवासं समर्पयेत् । पारणं तु ततः कुर्याद् यथासम्भवमागतः ॥" इति । समर्पणे मन्त्रस्तत्रैव "अज्ञानतिमिरान्धस्य व्रतेनानेन केशव ! प्रसीद सुमुखो नाथ ! ज्ञानदृष्टिपदो भव ॥" इति । अपरार्केपि २२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #206 -------------------------------------------------------------------------- ________________ १७० तिथ्यर्कः "अज्ञानान्धेन यत्किश्चिद् मया खण्डं व्रतं कृतम् । भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ॥ यथाखण्डं जगत्सर्व त्वमेव पुरुषोत्तमः । तथा खण्डमखण्डं मे व्रतं भवतु केशव ! ॥" इति । यथासम्भवमागतान् ब्राह्मणान् यथाशक्ति भोजयित्वेष्टैः सह नारायणस्मरणपूर्वकं भोजनं कुर्यादित्यर्थः । तथैव नारदीये द्वादशीप्रकरणे "ब्राह्मणान् भोजयेच्छक्तया प्रदद्यादक्षिणां तथा । ततः खबन्धुभिः साद वारायणपरायणः ॥ कृतपञ्चमहायज्ञः स्वयं भुञ्जीत वाग्यतः ।" इति । पारणाहे विशेषः स्कान्दे "कृत्वा चैवोपवासं तु योऽश्नीयाद् द्वादशीदिने । नैवेद्यं तुलसीमिश्रं हत्याकोटिविनाशनम् ॥” इति । हेमाद्री विष्णुरहस्ये "परमापदमापनो हर्षे वा समुपस्थिते । सूतके मृतके चैव न त्याज्यं द्वादशीव्रतम् ॥" इति । अत्र वान्युक्तानि ब्रह्माण्डे "कांस्यं मांसं सुरां क्षौद्रं लोभं वितथभाषणम् । व्यायामञ्च प्रवासं च दिवास्वापमथाञ्जनम् ॥ तित(ल)पिष्टं ( १ ) मसूरं च द्वादशैतानि वैष्णवः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #207 -------------------------------------------------------------------------- ________________ तिथ्यर्क: द्वादश्यां वर्जयेन्नित्यं सर्वपापैः प्रमुच्यते ॥” इति । बृहस्पतिरपि - "दिवानिशं परान्नं च पुनर्भोजनमैथुने । क्षौद्रं कांस्यामिषे तैलं द्वादश्यामष्ट वर्जयेत् ॥” इति । कांस्यं भोजनपात्रम् । श्रमिषाणि चोक्तानि रामार्चनचन्द्रकायां पाद्मे "प्राण्यङ्गचूर्ण चर्माम्बु जम्बीरं बीजपूरकम् । अयज्ञशिष्टं मांसादि यद्विष्णोर निवेदितम् ॥ दग्धमन्नं मसूरश्च मांसं चेत्यष्टधाऽऽमिषम् ।" तथा १७१ "गोछागमहिषी दुग्धादन्यदुग्धादि चामिषम् ।। धान्ये मसूरिका प्रोक्ता अन्नं पर्युषितं तथा । द्विजक्रीता रसाः सर्वे लवणं भूमिजं तथा ॥ ताम्रपात्रस्थितं गव्यं जलं पल्वलसंस्थितम् । आत्मार्थं पाचितं चान्नमामिषं तत्स्मृतं बुधैः ॥” इति । ताम्रपात्रस्थमैक्षवमपि निषिद्धम्, “ऐक्षवं ताम्रपात्रस्थं गोमांससदृशं मुने ! ।" इति ब्रह्मवैवर्तवचनात् । द्वादशी बुधवारेण सिद्धा | रविवारेण क्रकचाख्या विरुद्धा | योगिन्यत्र नैर्ऋ त्याम् । इति द्वादशी निर्णीता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #208 -------------------------------------------------------------------------- ________________ १७२ तिथ्यर्क: अथ त्रयोदशी निर्णीयते— सा शुक्ला पूर्वा, कृष्णोत्तरा । तदुक्तं माधवेन" शुक्ला त्रयोदशी पूर्वा परा कृष्णत्रयोदशी ।" इति । दीपिकायामपि - “त्रयोदशी तिथिः पूर्वा सितेऽथासिते पश्चात् " इति । उपवासेऽप्ययमेव निर्णयः । शिवपूजानक्तभोजनात्मकमदेोषत्रते तु प्रदोषव्यापिनी ग्राह्या, "पक्षद्वये त्रयोदश्यां निराहारो भवेदिवा । घटिकाभिरस्तमयात्पूर्वं स्नानं समाचरेत् ॥ शुक्लाम्बरधरो भूत्वा वाग्यता नियमान्वितः । कृतसन्ध्याजपविधि: शिवपूजां समारभेत् ॥” इति ब्रह्मोत्तरखण्डे तत्रैव पूजाविधानात् ; " ततस्तु लोहिते भानौ स्नात्वा सनियमो व्रती । पूजास्थानं ततो गत्वा प्रदोषे शिवमर्चयेत् ॥” इति स्कान्दाच्च । प्रदोषश्च - "प्रदोषस्त्रिमुहूर्तः स्याद्भानावस्तं गते सति । " इत्युक्तो बाध्यः । दिनद्वये प्रदोषव्याप्तौ परैव, “यदि स्यादुभयेोस्तिथ्योः प्रदोषव्यापिनी तिथिः । तदोत्तरत्र नक्तं स्यादुभयत्रापि सा यतः ॥” इति । हेमाद्रिधृतजा बालिवाक्यात् । ' उभयत्र' दिवा रात्रावपीत्यर्थः । दिन प्रदोषाभावेऽपि परैव ―― Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #209 -------------------------------------------------------------------------- ________________ तिथ्यर्कः "अतथात्वे परत्र स्यात्तत्रार्वागस्तता दिवा ।" इति वाक्यात् । 'अतथात्वे' दिनद्वये प्रदोषकाले तिथेरभावे । पक्षप्रदोषव्रते वारभेदेन फलभेदोप्युक्तः स्कन्दपुराणे “यदा त्रयोदशी शुद्धा मन्दवारेण संयुता। प्रारब्धव्यं व्रतं तत्र सन्तानफलसिद्धये ॥ ऋणनिर्माचनार्थे तु भौमवारेण संयुता। सौभाग्यस्त्रीविद्धयर्थं शुक्रवारेण संयुता॥ आयुरारोग्यसिद्धयर्थं भानुवारेण संयुता ।" इति । इदं प्रदोषव्रतं मन्दवारे प्रशस्तम् , कृष्णपक्षे मन्दे त्वतिप्रशस्तम् । तदुक्तं ब्रह्मोत्तरखण्डे "मन्दवारं प्रदोषोऽयं दुर्लभः सर्वदेहिनाम् । तत्रापि दुर्लभस्तस्मिन् कृष्णपक्षे समागतः ॥" इति । अध्ययनप्रदोषमाह कालादर्श बृहन्मनुः "चतुर्थी च त्रयोदश्यां सप्तम्यामर्द्धरात्रतः । अर्वानाध्ययनं कुर्याद्यदीच्छेत्तस्य धारणम् ॥" अस्यार्थः-चतुर्थादितिथीनामर्द्धरात्रादर्शक सत्त्वेऽर्द्धरात्रं यावत्पदोष इति । दिनद्वयेऽपि तथात्वे दिनद्वयं प्रदोषः । स्मृत्यर्थसारमते चतुर्थी विशेषः "चतुर्थाः पूर्वरात्रे तु नवनाडीषु दर्शने । नाध्यायं पूर्वरात्रे स्यात्सप्तमी च त्रयोदशी ॥ अर्द्धरात्रात्पुरा चेत्स्यानाध्येय पूर्वरात्रके ॥" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #210 -------------------------------------------------------------------------- ________________ १७४ तिथ्यर्कः अथ चैत्रशुक्लत्रयोदश्यनङ्गत्रयोदशी। अस्यामनङ्गपूजोक्ता निर्णयामृते कूर्मपुराणे-- "मधौ शुक्लत्रयोदश्यां मदनं चन्दनात्मकम् । कृत्वा संपूज्य यत्नेन वीजयेद् व्यजनेन च ॥ ततः संधुक्षितः कामः पुत्रपौत्रसमृद्धिदः ।" इति । हेमाद्रौ भविष्येऽपि"चैत्रात्सवे सकललोकमनोनिवासे कामं त्रयोदशतिथौ च वसन्तयुक्तम् । पत्न्या सहाय॑ पुरुषप्रवरोऽथ योषि त्सौभाग्यरूपसुतसौख्ययुतः सदा स्यात् ॥" वैशाखशुक्लत्रयोदश्यां वैशाखस्नानारम्भः कार्य इत्युक्तं पद्मपुराणे "त्रयोदश्यां चतुर्दश्यां वैशाख्यां च दिनत्रयम् । अपि सम्यग विधानेन नारी वा पुरुषोऽपि वा । प्रातः स्नातः सनियमः सर्वपापैः प्रमुच्यते । इति ।" स्नानविधिस्तु चैत्रशुक्लैकादश्यामुक्तः। इदं च सम्पूर्णवैशाखस्नानाशक्तौ ज्ञेयम् । भाद्रकृष्णत्रयोदशी युगादिरित्युक्तं पाक । भाद्रोवामान्तो ज्ञेयः, चान्द्रमासस्य मुख्यत्वात् । भाद्रशुक्लत्रयोदश्यां गोत्रिरात्रव्रतं कार्यम्, "मासि भाद्रपद शुक्ले त्रयोदश्यां समारभेत् ।" इति हेमाद्रौ भविष्योत्तरवचनात् । अत्र त्रयोदश्यनुरोधेन निर्णय Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #211 -------------------------------------------------------------------------- ________________ तिथ्यर्क: १७५ त्रिरात्रस्य । इयं च त्रयोदशी प्रातःकालवर्तिनी ग्राह्मा | दिनद्वये चेत्पूर्वा, सम्पूर्णत्वात् । कार्त्तिक कृष्ण त्रयोदश्यां सन्ध्यायामपमृत्युनाशार्थं दीपदानं कार्यम्, "कार्त्तिकस्य सिते पक्षे त्रयोदश्यां निशामुखे । यमदीपं वहिर्दद्यादपमृत्युर्विनश्यति || " इति चन्द्रप्रकाशे उक्तत्वात् । बहिगृहाद्वहिः । दीपदाने प्रदोषवर्तिनी ग्राह्या, ' त्रयोदश्यां निशामुखे' इत्युक्तेः । निशामुखं प्रदेोषः । ' प्रदोषो रजनीमुखम्' इत्यमरः । प्रदेोषः -- 'प्रदेोषस्तमयादूर्ध्व घटिकाद्वयमिष्यते' इत्युक्तलक्षणे। ज्ञेयः । घटिकाद्वयस्य मुखावधिसमर्पकत्वात् | दिनद्वये तत्र चेत्परा | दिनद्वये तत्राभावे पूर्वा । दीपदाने मन्त्र:" मृत्युना पाशदण्डा त्रयोदशीदीपदानात् सूर्यजः प्रीयतां मम ॥” इति । कार्त्तिकः पूर्णिमान्तो ग्राह्यः, तथैवाचारात् । कार्त्तिकशुक्लत्रयोदश्यादिदिनत्रये काश्यां पञ्चनदे स्नाताः पुण्यभाजा भवन्तीत्युक्तं काशीखण्डे कालेन श्यामया सह । " वाराणस्यां पञ्चनदे त्र्यहं स्नातास्तु कार्त्तिके | श्रमी ते पुण्यवपुषः पुण्यभाजोऽतिनिर्मलाः ॥” इति । अत्र केचिद् यत् किञ्चिद्दिनत्रयमिच्छन्ति । बहवस्त्विदमेव त्रयोदश्यादिदिनत्रयमाहुः । माघशुक्लत्रयोदश्यादि दिनत्रये माघस्नानं कार्यम्, ―――➖ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #212 -------------------------------------------------------------------------- ________________ तिथ्यर्क: "अस्मिन् योगे त्वशक्तोऽपि स्नायादपि दिनत्रयम् ॥" इति पाद्मात् । चैत्रकृष्णत्रयोदशी योगविशेषेणाऽतिप्रशस्तेत्युक्तं स्कान्दे- १७६ " वारुणेन समायुक्ता मधै कृष्णत्रयोदशी । गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा ॥ शनिवारसमायुक्ता सा महावारुणी स्मृता । शुभयोगसमायुक्ता शनौ शतभिषा यदि || महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ।” इति । अत्र चैत्रः कृष्णप्रतिपदादिग्रह्यः, तत्रैव शतभिषायोग संभवात् । त्र कृत्यं कल्पतरौ ब्रह्माण्डे "चैत्रकृष्ण त्रयोदश्यां शनौ शतभिषा यदि । वारुणीति समाख्याता शुभेन महती स्मृता ॥ पद्ममष्टदलं कृत्वा तण्डुलैर्द्रोणसम्मितैः । सौवर्ण राजतं ताम्रं मृण्मयं वा घटं शुभम् ॥ सितवस्त्रेण संवेष्ट्य वारिपूर्ण सपल्लवम् । पद्मस्य कर्णिकायां तु स्थापयेन्मन्त्रतः क्रमात् ॥ तन्मध्ये स्थापयेद्देवं वरुणं हेमनिर्मितम् । पलेन वा तदर्द्धेन तदर्द्धेनापि शक्तितः ॥ उपचारः षोडशभिः पूजयित्वा यथाविधि । कलशं मूर्तिसंयुक्तं ब्राह्मणाय प्रदापयेत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #213 -------------------------------------------------------------------------- ________________ तिथ्यर्क: आयुरारोग्यमैश्वर्यं धनं च लभते ध्रुवम् । सर्वपापैर्विनिर्मुक्तो यथेष्टां प्राप्नुयाद् गतिम् ॥” इति । अयं योगा गौडेष्वतिप्रसिद्धः । त्रयोदशी भौमेन सिद्धा । सोमेन विरुद्धा | योगिन्यस्यां दक्षिणस्यामिति त्रयोदशी निर्णीता || अथ चतुर्दशी निर्णीयते । सा शुक्लेतरा । तदुक्तं नारदीये " तृतीयैकादशी षष्ठी शुक्लपक्षे चतुर्दशी । पूर्वविद्धा न कर्त्तव्याः कर्त्तव्याः परसंयुताः ॥” इति । कृष्णा पूर्वा, १७७ "कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी । पूर्वविद्धा प्रकर्त्तव्या परविद्धा न कर्हिचित् ॥” इत्यापस्तम्बे|क्तेः । उपवासे तु शुक्ला कृष्णापि परयुतैव ग्राह्या, "एकादश्यष्टमी षष्ठी उभे पक्ष चतुर्दशी । अमावास्या तृतीया च ता उपोष्याः परान्विताः ॥ १ इति मदनरत्ने वृद्धवसिष्ठोक्तः । यत्तु 'कृष्णपक्षेऽष्टमी चैव' इति वचने कृष्णचतुर्दश्या उपवासे पूर्वविद्धात्वमुक्तम्, तद् रुद्रोपवासविषयम्, " रुद्रतेषु सर्वेषु कर्त्तव्या सम्मुखी तिथिः ।" इति पूर्वमुक्तत्वात् । रुद्रवतं स्कन्दपुराणे दर्शितम्" चतुर्दशी तु कर्त्तव्या त्रयोदश्या युता विभो ! | मम भक्तैर्महाबाहो ! भवेद्या चापराह्निकी ।।" इति । २३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #214 -------------------------------------------------------------------------- ________________ १७८ तिथ्यर्क: अत्र मम भक्तैरितीश्वरोक्तिलिङ्गादस्य रुद्रव्रतसम्बन्धिचतुर्दशीविषयत्वं विज्ञायते । चैत्रशुक्लचतुर्दशी रात्रिव्यापिनी कार्या, “मधेोः श्रावणमासस्य शुक्ला या तु चतुर्दशी । " सा रात्रिव्यापिनी ग्राह्या परा पूर्वाह्नगामिनी ॥ " इति बौधायनवाक्यात् । परा अन्या अन्यमासगता शुक्लचतुर्दशी पूर्वाह्नगामिन्युत्तर विद्धेत्यनुवादः । श्रीमातामहास्तु रात्रिव्यापिनीत्येतत्पूर्वविद्धापरमित्यूचुः । तत्र स्पष्टार्थत्वाद्रात्राचैव पशुपतीश्वरपूजाविधानाच्च पूर्वमतमेव युक्तमाभाति । अस्यां काममहोत्सव उक्तो हेमाद्रौ देवीपुराणे “चैत्रे सितचतुर्दश्यां भवेत्काममहोत्सवः । जुगुप्सितोक्तिभिस्तत्र गीतवस्त्रादिभिनृणाम् || भगवांस्तुष्यते कामः पुत्रपौत्रसमृद्धिदः । " इति । इयमेव पशुपतीश्वरपूजने रात्रिव्यापिनी ग्राह्या, “चैत्र शुक्लचतुर्दश्यामुपोषणपरायणः । पूजयित्वा पशुपतिं रात्रौ जागरणं तथा ।। निशि भ्रमन्ति भूतानि शक्तयः शूलभृद्यतः । अतस्तत्र चतुर्दश्यां सत्यां तत्पूजनं भवेत् ॥” इति ब्रह्मवैवर्त्तात् । - वैशाख शुक्ल चतुर्दशी नृसिंह जयन्ती । तदुक्तं गोविन्दा - वे ब्राह्मे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #215 -------------------------------------------------------------------------- ________________ तिथ्यर्कः १७६ "शुक्लपक्षे चतुर्दश्यां मासि माधवसंज्ञके । प्रादुर्भूतो नृपश्चास्यस्तस्मात्तां समुपोषयेत् ।।" इति । 'नृपश्चास्यो' नृसिंहः। इयं प्रदोषव्यापिनी ग्राह्या, "वैशाखस्य चतुर्दश्यां सोमवारेऽनिलक्षके । अवतारो नृसिंहस्य प्रदोषसमये द्विजाः ॥" इति स्कान्दात "वैशाखशुक्लपक्षस्य चतुर्दश्यां विवस्वति । अस्तंगामिनि सर्वेषां पुरः स्तम्भस्य मध्यतः ।। प्रबभूव महाविष्णुनरसिंहाकृतिप! । राधशुक्ल चतुर्दश्यां शुद्ध वणिजवायुभे ।। मन्दवारे नृसिंहोऽभूत् त्रेतायां चादिकल्पके । सायंकाले सदसतां रक्षादमनकारणात् ॥" इति नृसिंहभविष्यपुराणाच । अत्राऽस्मन्मातुः पितामहचरणाःनृसिंहपुराणे सामान्यतः काल उत्पत्तेरुक्तः, विवस्वत्यस्तंगामिनीति घटिकापरिमाणानुक्तेः। तस्य स्कान्देन निर्णयः । तत्र हि प्रदोष उपात्तः। तल्लक्षणं च हेमाद्रावुक्तम् ___ "त्रिमुहूर्तः प्रदोषः स्याद्रानावस्तं गते सति ।" इति । तस्यापि सङ्कोचो भविष्यपुराणेन तत्र सायंकाल इत्युक्तः । "नक्षत्रदर्शनात्संध्या सायं तत्परतः स्थितम् ।" इति । अत्र यद्यपि सायंशब्देन परोऽवधिर्न लभ्यते, तथापि प्रदोषशब्देन ___Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #216 -------------------------------------------------------------------------- ________________ १८० तिथ्यर्क: परावधिलाभात् सायंशब्देन च पूर्वावधिलाभात् विघटिकात्मकसायंसन्ध्योर्ध्वघटिकात्रयं प्रदोषसायंशब्दाभ्यां परस्परं विशेषणालभ्यते जन्मकालत्वेनेति तत्कालव्यापिनी नृसिंहचतुर्दश्युपायेति राद्धान्तमाहुः"अयं प्रकामं प्रियदर्शनत्वाद् विनिर्णयो मे रुचये बभूव । निशीथिनीनाथ इवोदितोऽसौ प्रभाकरः पूर्णकलो नलिन्याः ॥” इति । दिनद्वये तद्वयाप्तिसत्त्वेऽसत्त्वे वैकदेशसमव्याप्तौ चोत्तरा, व्रतारम्भकाले सत्त्वात् । व्रतारम्भकालस्तु तत्रैवोक्तः "ततो मध्याह्नवेलायां नद्यादौ विमले जले । परिधाय नवं वासो व्रतकर्म समारभेत् ॥” इति । "अनङ्गेन समायुक्ता न सोपाष्या चतुर्दशी । धनापत्यैर्वियुज्येत तस्मात्ता परिवर्जयेत् ॥" इति पाने त्रयोदशीयुक्तनिषेधाचापरैव । वैपम्येणैकदेशस्पर्श तदाधिक्यवती ग्राहया। अत्र सर्वेषामधिकार इत्युक्तं तत्रैव "सर्वेषामेव वर्णानामधिकारोऽस्ति मह्ते । मद्भक्तस्तु विशेषेण कर्त्तव्यं मत्परायणैः ॥ इति । अथ व्रतग्रहणप्रकारस्तत्रैव "नृसिंह ! देवदेवस्य तव जन्मदिने शुभे । उपवासं करिष्यामि सर्वभोगविवर्जितः ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #217 -------------------------------------------------------------------------- ________________ तिथ्यर्कः १८१ इति संकल्पं मध्याह्ने कृत्वा, परदिने स्नात्वा पुनर्देवं सम्पूज्य प्रार्थयेत् - " नृसिंहाच्युत ! देवेश ! लक्ष्मीकान्त ! जगत्पते ! अनेनार्चा प्रदानेन सफलाः स्युर्मनेारथाः || मद्वंशे ये नरा जाता ये जनिष्यन्ति चापरे । ताँस्त्वमुद्धर देवेश ! दुःसहाद्भवसागरात् ॥ श्रीनृसिंह ! रमाकान्त ! भक्तानां भयनाशन ! | क्षीराम्बुनिधिवासी त्वं चक्रपाणे ! जनार्दन ! | व्रतेनानेन देवेश ! भुक्तिमुक्तिप्रदो भव ।" इति । ततस्तां प्रतिमां ब्राह्मणाय दद्यात् । योगविशेषेणेकं प्रशस्तेत्युक्तं तत्रैव "स्वाति नक्षत्रसंयोगे शनिवारे च मद्व्रतम् । सिद्धियोगस्य संयोगे वणिजे करणे तथा । पुंसा सैाभाग्ययोगेन लभ्यते दैवयोगतः ।” इति । इदं नित्यत्रतम्, "विज्ञाय महिनं यस्तु लङ्घयेत्पापकृन्नरः । स याति नरके घोरे यावच्चन्द्रदिवाकरौ ॥” इत्यनिष्टश्रुतेः । श्रावण शुक्लचतुर्दशी रात्रिव्यापिनी ग्राह्येत्युक्तं प्राक् । भाद्रशुक्लचतुर्दश्यामनन्तत्रतमुक्तं भविष्ये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #218 -------------------------------------------------------------------------- ________________ १८२ तिथ्यर्क: “ तथा भाद्रपदस्यान्ते चतुर्दश्यां द्विजोत्तमः । पौर्णमास्याः समायोगे व्रतं चानन्तयं चरेत् ॥” इति । त्रोदयव्यापिनी ग्राह्या, "उदये त्रिमुहूर्ताप ग्राह्यानन्तत्र ते तिथिः । " इति । माधवोक्तः । " मुहूर्त्तमपि चेद्राद्रे पौर्णमास्यां चतुर्दशी । सम्पूर्णा तां विदुस्तस्यां पूजयेद्विष्णुमव्ययम् ॥” इति । स्कान्दाच्च । अतश्च पूर्णिमायुक्तायामुदयकालव्यापिन्यां चतुर्दश्यामनन्तव्रतं कार्यमिति सिद्धम् | दिनद्वये उदयव्यापित्वे सम्पूर्णस्वात् पूर्वैव, दिनद्वये उदयाव्यापित्वेऽपि पूर्वा, मध्याह्ने सत्त्वात् । आश्विन कृष्ण चतुर्दश्यां शस्त्रादिहतानामेव श्राद्धमुक्तं कालादर्शे“श्राद्धं शस्त्र हतस्यैव चतुर्दश्यां महालये" । इति । नागरखण्डेऽपि "अपमृत्युर्भवेद्येषां शस्त्र मृत्युरथापि वा । श्राद्धं तेषां प्रकर्तव्यं चतुर्दश्यां नराधिप !" || इति । कार्तिक कृष्णचतुर्दश्यां चन्द्रोदयव्यापिन्यामभ्यङ्गस्नानं कार्यम् । तदुक्तं हेमाद्रौ भविष्ये— " श्रश्वयुकृष्णपक्षस्य चतुर्दश्यां विधूदये । तिलतैलेन कर्तव्यं स्नानं नरकभीरुणा ||" इति ॥ अत्राश्विनेामान्तो बाध्यः सूर्योदयव्यापिन्यामप्युक्तं हेमाद्रिनिर्ण यामृतयेोर्भविष्ये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #219 -------------------------------------------------------------------------- ________________ तिथ्यर्क: " कार्तिक कृष्णपक्षे तु चतुदश्यामिनादये । अवश्यमेव कर्त्तव्यं स्नानं नरकभीरुणा ||" इति । 'इन' सूर्यः । केचित्विनपदस्य चन्द्रे लक्षणेत्याहुः, तन्मन्दम् ; लक्षणायां भानाभावात् । अपरे तु इनश्चन्द्र इति व्याचख्युस्तदप्यशुद्धम्, इनशब्दस्य सूर्यवाचित्वात् । गौडास्तु सूर्योदयव्यापिन्यां कुर्वन्ति स्नानम् । - अत्र केचिदाहुः–सूर्योदयो गौणकालः, मुख्यकालोत्तरत्वात् । तदेवाह मण्डन: "स्वकालादुत्तरो गौणः कालः सर्वस्य कर्मणः । यद्वागामिक्रियामुख्यकालस्याप्यन्तरालवत् ॥ गौण कालत्वमिच्छन्ति केचित्प्राक्तनकर्मणि । मुख्यकाले यदावश्यं कर्म कर्तु ं न शक्यते ॥ गौणकाले तु कर्तव्यं गौणोऽप्यदृशेो भवेत् । " १८३ 'ईदृशो ' मुख्यकालसदृश इति । वस्तुतस्त्वयं गौणकाला यत्र शास्त्रेण मुख्यकालातिक्रमे कालान्तरमुक्तं तस्मिन् कर्मणि बोध्यः, न तु सर्वत्र काम्येऽपि कर्मणीति । यत्तु केचित् "तैलाभ्यङ्गं तथा शय्यां परान्नं कांस्यभोजनम् । कार्तिके वर्जयेद्यस्तु परिपूर्णवती भवेत् ॥” इति पाद्मनिषेधाद् हविष्यं कार्तिकव्रतिभिन्नपरमित्याहुः, तन; Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #220 -------------------------------------------------------------------------- ________________ तिथ्यर्क: "नरकस्य चतुर्दश्यां तैलाभ्यङ्गञ्च कारयेत् । अन्यत्र कार्तिकस्नायी तैलाभ्यङ्गञ्च वर्जयेत् ॥” इति तत्रैव प्रतिप्रसवश्रुतेः | दिनद्वये तद्व्याप्तौ सामान्यवचनात् पूर्वा, दिनद्वये तद्व्याप्तावपि पूर्वा । १८४ “पूर्वविद्धचतुर्दश्यां कार्तिकस्य सितेतरे । पक्षे प्रत्यूषसमये स्नानं कुर्यात्प्रयत्नतः ॥ " इति स्कान्दात् । अत्र, “तैले लक्ष्मीर्जले गङ्गा दीपावल्याश्चतुर्दशीम् । लब्ध्वेति शेषः । प्रातः स्नानं तु यः कुर्याद् यमलोकं न पश्यति ॥" इति ब्राह्मोक्तेश्चातुर्वर्ण्यस्याप्यधिकारः । चतुर्दशीमारभ्य चतुर्ष्वपि दिनेषु काम्यस्नानमुक्तं पृथ्वीचन्द्रोदये ब्राह्मे "इषे भूते च दर्शे कार्त्तिकप्रथमे दिने । यदा स्वातिस्तदाभ्यङ्गस्नानं कुर्याद्दिनेोदये || ऊर्जे शुक्ल द्वितीयायां तिथैौ यस्तु शुभे दिने । मानवो मङ्गलस्नायी नैव लक्ष्म्या वियुज्यते ॥ दीपैर्नीराजनं तत्र सैषा दीपावली स्मृता ।" इति । स्नानेऽपामार्गभ्रामणमुक्तं ब्राह्मे - “अभ्यङ्गस्नानमध्ये तु नरकस्य क्षयाय वै । अपामार्गस्य पत्राणि भ्रामयेच्छिर से|परि ||" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #221 -------------------------------------------------------------------------- ________________ तिथ्यर्क : “श्रभ्यङ्गस्त्रानमध्ये तु नरकस्य क्षयाय वै । अपामार्गस्थ पत्राणि भ्रामयेच्छिर सोपरि" || इति । मदनरने पाद्मेऽपि - " अपामार्गमथेो तुम्बी पपुन्नाडमथापरम् । भ्रामयेत्स्नानमध्ये तु नरकस्य क्षयाय वै ।।" इति । मन्त्र : “सितालेोष्टसमायुक्त ! सकण्टकदलान्वित ! | हर पापमपामार्ग ! भ्राम्यमाणः पुनः पुनः ॥” इति । अत्र तर्पणमुक्तं भविष्ये " ततश्च तर्पणं कार्यं धर्मराजस्य नामभिः | यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ वैवस्वताय कालाय सर्वभूतक्षयाय च । औदुम्बराय दनाय नीलाय परमेष्ठिने || वृकोदराय चित्राय चित्रगुप्ताय ते नमः ।" इति । एतत्तर्पण' सव्येनापसव्येन वा कार्यम्, "यज्ञोपवीतिना कार्य्यं प्राचीनावीतिनाऽथवा । देवत्वं च पितृत् च यमस्य स्याद् द्विरूपता" || इति तत्रैवाक्तः । इदं च तर्पणं जीवत्पित्रापि कार्यम् । तदुक्तं पाद्मे" जीवत्पितापि कुर्वीत तर्पणं यम भीष्मयेोः । कृष्णैस्तिलैस्तथा चान्यैः कुर्यात्तर्पणमिच्छया ॥” इति । २४ १८५ Shree Sudharmaswami Gyanbhandar-Umara, Surat - www.umaragyanbhandar.com Page #222 -------------------------------------------------------------------------- ________________ तिथ्यर्कः अन्यैः शुक्लैः । देवत्वपक्षे शुक्लतिलैः, पितृत्वपक्षे कृष्णतिलैरिति बोध्यम् । भीष्मतर्पणं माघशुक्लाष्टम्यामुक्तम् । लैङ्ग विशेषः "ततः प्रेतचतुर्दश्यां भोजयित्वा तपोधनान् । दानं दत्वा तु तेभ्यस्तु यमलोकं न गच्छति ॥” इति । अस्यां प्रदोषसमये दीपदानं कार्यम् । तदुक्तं भविष्ये "ततः प्रदोषसमये दीपान दद्याद् मनोरमान् । ब्रह्मविष्णुशिवादीनां भवनेषु मठेषु च ॥ प्राकारोद्यानवीथीषु प्रतौलीनिष्कुटेषु च । मन्दुरासु विविक्तासु हस्तिशालासु भूरिशः ॥" "वाजिशाला तु मन्दुरा" इत्यमरः। इदं दीपदानं संलग्न कार्यम् । तदुक्तं ज्योतिर्निबन्धे नारदेन-- "इषासित चतुर्दश्यामिन्दुक्षयतिथावपि । ऊर्जादा स्वातिसंयुक्त तदा दीपावली भवेत् ॥ कुर्यात्संलग्नमेतच्च दीपोत्सवदिनत्रयम् ।" इति । अत्र यमलोकदर्शनाभावकामा नरकचतुर्दश्यां स्नास्ये---इति सङ्कल्प्य, कृताभ्यङ्गः स्नात्वा कृतनित्यक्रियोऽनन्तरं यमतर्पणं करिष्ये--इति सङ्कल्पं कृत्वोपवीती शुक्लतिलैः प्राचीनावीती चेत् कृष्णतिलैर्यमं धर्मराज मृत्युमन्तकं वैवस्वतं कालं सर्वभूतक्षयमौदुम्बरं दन्नं नीलं परमेष्ठिनं वृकोदरं चित्रगुप्तं तर्पयामीति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #223 -------------------------------------------------------------------------- ________________ तिथ्यर्क: १८७ चतुर्दशनामभिर्यमं सन्तर्प्य, यथाकालं तपोधनान् भोजयित्वा, स्वयं च भुक्त्वा प्रदोषसमये दीपान् दद्यात् । उक्तस्थलेष्विति प्रयोगः । कार्त्तिकशुक्लचतुर्दशी वैकुण्ठचतुर्दशी इयमरुणोदयव्यापिनी ग्राह्या । तदुक्तं सनत्कुमारसंहितायाम् - "वर्षे वै हेमलम्बाख्ये मासि श्रीमति कार्त्तिके । शुक्लपक्षे चतुर्दश्यामरुणाभ्युदयं प्रति ॥ महादेवतिया ब्राह्मे मुहूर्ते मणिकर्णिके । स्नात्वा विश्वेश्वरो देव्या विश्वेश्वरमपूजयत् || संक्षेपं ज्योतिषस्तस्य प्रतिष्ठाख्यं तदाऽकरोत् । स्वयमेव स्वमात्मानं चरन् पाशुपतव्रतम् ॥” इति । व्रतमित्यनेनेापवास उच्यते, "ततः प्रभाते विमले कृत्वा पूजां महाद्भुताम् । दण्डपाणेर्महानानि वनेऽस्मिन् कृतपारणः ||" इति वचने पारणाशब्दश्रवणात् । अस्यां श्रीविश्वेश्वर दर्शनान्मुक्तिरुक्ता काशीखण्डे -- "कार्त्तिकस्य चतुर्दश्यां विश्वेशं यो विलोकयेत् । स्नात्वा चात्तरवाहिन्यां न तस्य पुनरागतिः ॥” इति । मार्गशीर्ष शुक्लचतुर्दशी पिशाचमेोचनी । अस्यां पिशाचमोचन - तीर्थयात्रोक्ता काशीखण्डे - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #224 -------------------------------------------------------------------------- ________________ १८५ तिथ्यर्क: " मार्गशुक्लचतुर्दश्यां कपर्दीश्वरसन्निधौ । स्नात्वाऽन्यत्रापि मरणान्न पैशाच्यमवायुः || इमां सांवत्सरी यात्रां ये करिष्यन्ति मानवाः । तीर्थप्रतिग्रहात् पापान्निस्तरिष्यन्ति ते द्विजाः ॥” इति । माघकृष्णचतुर्दश्यां कृत्यमाह हेमाद्रौ यमः - "अर्काभ्युदिते काले माघकृष्ण चतुर्दशी । स्नातः सन्तर्प्य तु यमं सर्वपापैः प्रमुच्यते ॥” इति । अत्र जीवत्पितृकस्याप्यधिकार इत्युक्तं प्राक् । माघशुक्ल चतुर्दशी रटन्त्याख्या । अस्यां कृत्यमुक्तं ब्रह्मपुराणे - "माघशुक्लचतुर्दश्यां विष्णोर्देहान्मरीचयः । निश्च रुस्तिलकाकाराः शतशोऽथ सहस्रशः ॥ अभ्युदिते का सत्सु तारांशुकेष्वपि । राजा च तत्र सम्पूज्या यमः मलय भास्करः || ” तथा 1 “सर्वाङ्गसन्धिसम्भूता नद्यो विष्णोश्च तत्र वै । अरुणोदयवेलायामारटन्त्योऽपि नित्यशः ॥ तत्रोपोष्य त्रयोदश्यां सम्प्राप्ते तु निशाक्षये । स्नात्वा पूज्य जगद्भर्त्ता हरिः, पूज्याश्च तारकाः ॥ or as तीर्थानि देवताः पितरस्तथा । वह्निः पूज्यश्च भगवान् घृताक्तैस्तिलतण्डुलैः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #225 -------------------------------------------------------------------------- ________________ तिथ्यर्क: नमः प्रणवसंयुक्तान् सतिलांश्च जलाञ्जलीन् । यमाय सप्त पित्रे च धर्मराजाय सप्त च ॥ मृत्यवे सप्त देयाश्च तथा सप्ताऽन्तकाय च । वैवस्वताय सप्तान्यान् सप्त कालाय वै बहिः ॥ सप्तदेयाश्च विधिवत् सर्वप्राणहराय च ||" इति । एवमेकेानपञ्चाशद जलयो भवन्ति । तथा “कसरं भेोजनीयाश्च ब्राह्मणास्तदनन्तरम् । श्राद्धं दत्वा पितृभ्यश्व विमुक्तः सर्वपातकैः || ततो वितत्य बन्धुभ्यः कृसरं भक्षयेत् स्वयम् |" इति अथ फाल्गुनकृष्ण चतुर्दशी शिवरात्रिः । शिवरात्रिविनिर्णयो मया सुधियां प्रीतिविवर्द्धनाचितः । क्रियते गुरुदिष्टवर्त्मना मतमास्थाय गुरोर्गरीयसः ॥ तत्र शिवरात्रिशब्दो निर्मथ्यन्यायेन योगरूढः । तत्पुरुषसमासेन योगेन प्रवर्तमानः शब्दो रूड्या माघकृष्णचतुर्दशीरूपे कालविशेषे नियम्यते । तत्स्वरूपं स्कान्दे "माघस्य कृष्णपक्ष या तिथिश्चैव चतुर्दशी । शिवरात्रिः समाख्याता सर्वपापनिषूदनी ॥” इति । कामिकेsपि - "माघमासे सिते पक्षे विद्यते या चतुर्दशी । * शिवरात्रिस्तु सा ज्ञेया सर्व पुण्यशुभावहा ||" इति । * आदर्शपुस्तके - 'शिवरात्रिः स्यात्सर्वपुण्यशुभावहा' पाठोऽस्ति । १८६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #226 -------------------------------------------------------------------------- ________________ १६० तिथ्यर्कः इयं निशीथव्यापिनी ग्राहया । तदुक्तमीशानसंहितायाम् "माघकृष्णचतुर्दश्यामादिदेवो महानिशि । शिवलिङ्गमभूत्तत्र कोटिसूर्यसमप्रभम् ।। तत्कालव्यापिनी ग्राहया शिवरात्रिवते तिथिः । व्याप्यार्द्धरात्रं यस्यां तु लभ्यते या चतुर्दशी ॥ तस्यामेव व्रतं कार्य मत्प्रसादार्थि भिजनैः । पूर्वेधुर्वा परेधुवा महानिशि चतुर्दशी ॥ व्याप्ता सा दृश्यते यस्यां तस्यां कुर्याद् व्रतं नरः।" इति । अत्र महानिशाशब्देन मध्यमयामयोर्मध्यमुच्यते, "महानिशा तु विज्ञेया मध्यं मध्यमयामयोः ।" इति वाक्यात् । नारदसंहितायामपि "अद्धरात्रयुता यत्र माघकृष्णा चतुर्दशी । शिवरात्रि व्रतं तत्र सेोऽश्वमेधफलं लभेत् ॥” इति । दिनद्वये निशीथव्यापिन्यव्यापिनी चेदुत्तरैव । तदुक्तं माधवीये कामिकस्मृत्यन्तरयोः "आदित्यास्तमये काले अस्ति चेद्या चतुर्दशी । शिवरात्रिवतं तत्र सोऽश्वमेधफलं लभेत् ॥ प्रदोषव्यापिनी ग्राहया शिवरात्रिचतुर्दशी । रात्री जागरणं यस्मात्तस्मात्तां समुपोषयेत् ॥” इति । अत्र प्रदोषवेधस्तत्रैव वायुपुराणे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #227 -------------------------------------------------------------------------- ________________ तिथ्यर्क: " त्रयोदश्यस्तगे सूर्ये चतसृष्वेव नाडिषु । भूतविद्धा तु या तत्र शिवरात्रिव्रतं चरेत् ॥” इति । १-८१ पूर्वेद्युरेव प्रदोषनिशीथोभयव्याप्तौ पूर्वा, " त्रयोदशी यदा देवि ! दिनभुक्तिप्रमाणतः । जागरे शिवरात्रिः स्यान्निशि पूर्णा चतुर्दशी ||" इति । हेमाद्रिधृतस्कान्दात् । दिनभुक्तिरस्तमयः । परेद्यरेवोभयव्याप्तौ परैव, “निशाद्वये चतुर्दश्यां पूर्वा त्याज्या परा शुभा ।" इति कामिकात् । यदा पूर्वेद्युर्निशीथव्याप्तिः परेद्युः प्रदोषव्यातिस्तदा पूर्वैव, " पूर्वविद्धा तु कर्त्तव्या शिवरात्रिर्वलेर्दिनम् । माघ फाल्गुनयेोर्मध्ये असिता या चतुर्दशी || अनङ्गेन समायुक्ता कर्त्तव्या सा सदा तिथिः । अर्द्धरात्रात्पुरस्ताच्चेज्जयायोगो यदा भवेत् ॥ पूर्वविद्धैव कर्त्तव्या शिवरात्रिः शिवप्रियैः ।" इति माधवपरित स्कान्दनागरखण्डपुराणेभ्यः । हेमाद्रिमदन तु 'अर्द्धरात्राद्' इत्यस्मादेव वचनादिनद्वये निशीथव्याप्तौ पूर्वेत्याहतुः । असावेव निर्णयो मासशिवरात्रावपि ज्ञेयः । यत्तु निर्णयामृतकारः प्रदेोषव्यापिनी ग्राह्येत्येतद्वाक्यं प्रमाणीकृत्य सर्वापि शिवरात्रिः प्रदोषव्यापिन्येव ग्राह्येत्याह तदसमञ्जसम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #228 -------------------------------------------------------------------------- ________________ तिथ्यर्क: १-८२ सर्वेषां निशीथव्याप्तिनिर्णायकवचनानां वैयर्थ्यापातात् । प्रदोपवाक्यस्य चोदाहृतरीत्येोपपत्तेश्च । अस्मिन् व्रते सर्वेषा - मधिकारः । "शिवरात्रि व्रतं नाम सर्वपापप्रणाशनम् । चाण्डालमनुष्याणां भुक्तिमुक्तिप्रदायकम् ॥” इति हेमाद्रिधृतेशान संहितेाक्त: । इदं व्रतं नित्यमित्युक्तं स्कान्दे"परात्परतरं नास्ति शिवरात्रिः परात्परम् । न पूजयति भक्तयेशं रुद्रं त्रिभुवनेश्वरम् ॥ जन्तुर्जन्मसहस्रेषु भ्रमते नात्र संशयः ।" इत्यनिष्टश्रुतेः । " मम भक्तस्तु यो देवि ! शिवरात्रिमुपोषकः । शिवञ्च पूजयित्वा यो जागर्ति च चतुर्दशी || मातुः पयोधररसं न पिवेत् स कदाचन । गणत्वमक्षयं दिव्यमक्षय्यं शिवशासनम् ॥ सर्वान् भुक्त्वा महाभोगान् मृतो भूये। न जायते ।” इति तत्रैव फलश्रवणात् काम्यश्च । - अत्र नित्यत्रते पूजैव प्रधानम्, पूर्वोक्तानिष्टवाक्ययेाः पूजामात्रग्रहणात् । काम्यव्रतविधायकवाक्येषु त्रितयग्रहणात् काम्यव्रते उपवासजागरणपूजाः प्रधानम् । प्रतिवर्षे काम्यस्यास्यावधिरुक्तो माधवीये ईशानसंहितायाम् - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #229 -------------------------------------------------------------------------- ________________ १६३ तिथ्यर्कः "एवमेतद् व्रतं कुर्यात्पतिसंवत्सरं व्रती । द्वादशाब्दिकमेतत्स्याच्चतुर्विशाब्दिकं तु वा ॥” इति । इयं योगविशेषेणातिप्रशस्तेत्युक्तं माधवीये स्कन्दपुराणे "माघकृष्णचतुर्दश्यां रविवारो यदा भवेत् । भौमवारो भवेद्देवि ! कर्त्तव्यं व्रतमुत्तमम् ।। शिवयोगस्य योगे च तद्भवेदुत्तमोत्तमम् ।" इति । अत्र कृत्तिवासेश्वरार्चाऽप्युक्ता तत्रैव "कृत्तिवासेश्वरं लिङ्गमर्चयन्ति शिवं शुभम् । ते यान्ति परमस्थानं सदा शिवमनामयम् ॥” इति । अत्र उमासहितं शिवं पूजयेत् । पूजा च रात्रौ प्रहरे प्रहरे कार्या, "कर्त्तव्या यामपूजा च स्नानं पञ्चामृतेन च ।" इति स्कान्दात् । इदं च व्रतं पातकादिमोक्षकामनायां प्रतिमासं कार्यम् । तदुक्तं मदनरत्ने स्कन्दपुराणे "प्रतिमासं कार्यमित्युपक्रम्ययतः प्रति चतुर्दश्यां पूजा यत्नेन मे कृता । तथा जागरणं रात्रौ सन्निधौ मे कृतं तदा ॥ तेन कर्मविपाकेन मुक्ताऽसौ पातकेन च ।" इति । काम्यमासशिवगत्रिव्रतस्य ग्रहणकालावधिवतहेमाद्रौ स्कान्दे "आदी मार्गशिरे मासि दीपोत्सवदिनेऽपि वा। गृह्णीयान्माघमासे वा द्वादशैवमुपोषयेत् ॥ एवं द्वादशवर्षे तु द्वादशैव तपेाधनान् ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #230 -------------------------------------------------------------------------- ________________ तिथ्यर्क: पक्षान्तरम् - " सर्वकामप्रदं कृष्ण चतुर्दश्यां शिवव्रतम् । १-६४ श्रामन्त्रयेति शेषः । तत्रैव इत्युपक्रम्य - चतुर्दशाब्दं कर्त्तव्यं शिवरात्रिवतं शुभम् । ” इति संक्षेपः । वार्षिकशिवव्रतानुष्ठानप्रयोगं अथात्र सर्वलोकोपकारार्थ वदामः । तत्र यद्यपि भूयांसः प्रकारा दृश्यन्ते, तथापि प्रमाणीभूत शिवरहस्यसंवादी तावत्प्रकार: प्रदर्श्यते “विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया | पूजितोऽपि महादेवा न स्यात्तस्य फलप्रदः ॥ तस्मान्मृदाऽपि कर्त्तव्यं ललाटे च त्रिपुण्ड्रकम् ।" इति लिङ्गपुराणात् त्रिपुण्ड्ररुद्राक्षमालान्वितो मासपक्षाद्युल्लिख्य श्रीसदाशिवचरण पद्मपरागसारूप्यकामोऽहं महाशिवरात्रौ वार्षिकं शिवरात्रिव्रतं करिष्ये इति प्रातः सङ्कल्प्य मन्त्रान् पठेत् । नूतनते तु नूतनमिति विशेषः । मन्त्रास्तु- "शिवरात्रिव्रतं ह्येतत् करिष्येऽहं महाफलम् | निर्विघ्नमस्तु मे चात्र त्वत्प्रसादाज्जगत्पते ! || चतुर्दश्यां निराहारो भूत्वा शम्भोऽपरेऽहनि । भोक्ष्येऽहं भुक्तिमुक्त्यर्थं शरणं मे महेश्वरः ॥” इति । ततो रात्रौ पूर्वयामे शिवपूजनं करिष्ये - इति सङ्कल्प्य सञ्जात ――――――――――― Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #231 -------------------------------------------------------------------------- ________________ तिथ्यर्कः १६५ प्रतिष्ठलिङ्ग शिवं मूलमन्त्रण 'त्र्यम्बकम्' इति वैदिकेन वा दुग्धाभिषेकपूर्वकमावाहनादिषोडशोपचारैरर्चयेत् । पूर्वपूजायामर्घ्यदाने मन्त्र: "शिवरात्रिवतं देव ! पूजाजपपरायणः । करोमि विधिवदत्तं गृहाणार्य महेश्वर ! " इति । ततस्तत्कथाः श्रुत्वा द्वितीययामे दध्यभिषेकपूर्वकं प्राग्वदर्च येत् । अर्घ्यदाने मन्त्रः "नमः शिवाय शान्ताय सर्वपापहराय च । शिवरात्रौ ददाम्ययं प्रसीद उमया सह ॥” इति । पूर्ववत्कथाः श्रुत्वा तृतीययामे घृताभिषेकपूर्वकं प्राग्वदर्चयेत् । अध्ये मन्त्रः "दुःखदारिद्रयशोकेन दग्धोऽहं पार्वतीपते !। शिवरात्रौ ददाम्यय॑मुमाकान्त ! गृहाण मे ॥" इति । चतुर्थे तु यामे मञ्चभिषेकपूर्वकमर्चयेत् । अर्घ्यप्रदाने मन्त्रः "मया कृतान्यनेकानि पापानि हर शङ्कर ! । शिवरात्रौ ददाम्यय॑मुमाकान्त ! गृहाण मे ॥" इति । ततः पूजान्ते "भवाय भानाशाय महादेवाय धीमते । रुद्राय नीलकण्ठाय शिवाय शशिमालिने ॥ उग्रायोग्राघनाशाय भीमाय भवरूपिणे । ईशानाय नमस्तुभ्यं पशूनां पतये नमः ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #232 -------------------------------------------------------------------------- ________________ १९६ तिथ्यर्कः चतुर्थ्यन्तैर्नामभिर्विल्वपत्राणि समर्चयेत् । एवं रात्रिमतिवाह्य उपसि व्रतं समर्पयेत् । तत्र मन्त्रः "अविघ्नेन व्रतं देव ! त्वत्प्रसादात् समापितम् । क्षमस्व जगतां नाथ ! त्रैलोक्याधिपते ! हर ! ॥ यन्मयाऽद्य कृतं पुण्यं तद्रुद्रस्य निवेदितम् । त्वत्पसादान्महादेव ! व्रतमद्य समर्पितम् ॥ प्रसन्नो भव मे श्रीमन् ! सद्गतिः प्रतिपाद्यताम् । त्वदालोकनमात्रेण पवित्रोऽस्मि न संशयः ॥" इति । ततो द्वितीयेऽह्नि स्नात्वा कृतनित्यक्रिय एकादश विधान् अशक्तो यथासामर्थ्य भोजयित्वा, "संसारक्लेशदग्धस्य व्रतेनानेन शङ्कर ! । प्रसीद सुमुखा नाथ ! ज्ञानदृष्टिप्रदो भव ॥" इति देव सम्प्रार्थ्य पुत्रमित्रायन्वितः पारणं कुर्यात् । यदा प्रतिष्ठितं लिङ्गं नास्ति तदैवं प्रकारः हराय नम इति मृदमानीय, तां संशोध्य, महेश्वराय नम इति लिङ्ग विधाय, शूलपाणये नम इति शिव ! इह सुप्रतिष्ठिता भवेति प्रतिष्ठाप्य, "ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्ति वसानं विश्वाचं विश्ववीज निखिलभयहरं पञ्चवकां त्रिनेत्रम् ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #233 -------------------------------------------------------------------------- ________________ तिथ्यर्कः इति ध्यात्वा पूर्वोक्तप्रकारेण पूजयेदित्यलं विस्तृतिधारया । पारणं तूर्वरितचतुर्दश्यामेव कार्यम्। तदुक्तं माधवीये स्कन्दपुराणे "उपोषणं चतुर्दश्यां चतुर्दश्यां च पारणम् । कृतैः सुकृतलक्षश्च लभ्यते यदि वा न वा ॥ ब्रह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै । संस्नातानि भवन्तीह भूतायां पारणे कृते ॥ तिथीनामेव सर्वासामुपवासव्रतादिषु । तिथ्यन्ते पारणं कुर्याद्विना शिवचतुर्दशीम् ॥” इति । यत्तु "जन्माष्टमी रोहिणी च शिवरात्रिस्तथैव च । पूर्व विद्धैव कर्तव्या तिथिमान्ते च पारणम् ॥” इति, यच्च स्कान्दे "कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिचतुर्दशी । एताः पूर्वयुताः कार्यास्तिथ्यन्ते पारणं भवेत् ॥" इति तत्पारणाकाले चतुर्दश्यलाभपरम् । अथ चतुर्दश्यामुपवासः केदारकुण्डोदकपानं च कार्यमित्युक्तं स्कन्दपुराणे "चैत्रकृष्णचतुर्दश्यामुपवासं विधाय च । केदारोदकपानश्च तथा तत्र फलं लभेत् ।।" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #234 -------------------------------------------------------------------------- ________________ १८८ तिथ्यर्क: चतुर्दशी शनिवारेण सिद्धा, रविवारेण विरुद्धा | योगिन्यत्र पश्चिमायाम् । इति चतुर्दशी निर्णीता । थमा निर्णीयते । सा व्रतादावुत्तरा ग्राह्या, युग्मवाक्यात् । उपवासेऽप्ययमेव निर्णयः, "अमावास्या तृतीया च ता उपोष्याः परान्विताः । " इति स्मृतेः । इयं सोमवारयुक्ता कपिलातीर्थे श्राद्धादावतिप्रशस्ता, “मासेामसमायोगे श्राद्धं यद्यत्र लभ्यते । तीर्थे कपिलधारेऽस्मिन् गयायां पुष्करेण किम् ॥ दिव्यन्तरिक्षभूतानि यानि तीर्थानि सर्वशः । तान्यत्र त्ववतिष्ठन्ति दर्शे से मदिनान्विते ||" इति काशीखण्डेोक्तः । शङ्खस्मृतावपि - " श्रमावास्या तु सोमेन सप्तमी भानुना तथा । चतुर्थी भूमिपुत्रेण सेोमपुत्रेण चाष्टमी || चतस्रस्तिथयस्त्वताः सूर्यग्रहणसन्निभाः । स्नानं दानं तथा श्राद्धं सर्व तत्राक्षयं भवेत् ॥” इति । अमायाः सामादियोगे पुष्करसंज्ञोक्ता हेमाद्रौ श्रीमहाभारते - " मा सामे तथा भैौमे गुरुवारे यदा भवेत् । तत्तीर्थं पुष्करं नाम सूर्यपर्वशताधिकम् ॥” इति । शातातप: ― "अमावास्या सोमवारे सूर्यवारे च सप्तमी । अङ्गारकदिने प्राप्ते चतुर्थी वा चतुर्दशी || Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #235 -------------------------------------------------------------------------- ________________ तिथ्यर्कः १६ तत्र यः कुरुते कर्म शुभं वा यदि वाऽशुभम् । पष्टिवर्षसहस्राणि कर्त्ता तत्फलमश्नुते ॥” इति । अथ कृष्णप्रतिपदादिज्येष्ठामायां वटसावित्रीव्रतमुक्तं भविष्ये "अमायां च तथा ज्येष्ठ वटमूले महासती ।। त्रिरात्रोपोपिता नारी विधिनाऽनेन पूजयेत् ॥” इति । इदं कान्यकुब्जेषु प्रसिद्धम् । तच्च पूर्व विद्धायामेव कार्यम्, "भूतविद्धा न कर्त्तव्या अमावास्या च पूर्णिमा । वर्जयित्वा नरश्रेष्ठ ! सावित्रीव्रतमुत्तमम् ॥" इति ब्रह्मवैवर्तात् । भाद्रामायां दर्भसंग्रहः कार्यः, "मासे नभस्यमावास्या तस्यां दर्भाच्चयो मतः । अयातयामास्ते दर्भा विनियोज्याः पुनः पुनः ॥" इति हारीतोक्तः। नभः श्रावणः । स च दर्शान्तो बोध्यः । 'अयातयामाः' अगतरसा इत्यर्थः । पूर्णिमान्तमासेनाऽऽश्विनामायोगविशेषेण गजच्छायेत्युक्तं वायुपुराणे "हंसे हंसस्थिते या तु अमावास्या करान्विता । सा ज्ञेया कुञ्जरच्छाया इति बौधायनोऽब्रवीत् ॥" 'हसः सूर्या हस्तनक्षत्रं च । अत्र श्राद्धं प्रशस्तमित्युक्तं प्राक् । कार्तिकामायामभ्यङ्गस्नानं कृत्वा अलक्ष्मोपरिहाराय स्वेष्टदेवतां पूजयेदित्युक्तं कालादर्श "प्रत्यूषे अश्वयुग्दर्शे कृताभ्यङ्गादिमङ्गलः । भक्त्या प्रपूजयेदेवीमलक्ष्मीविनिवृत्तये ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #236 -------------------------------------------------------------------------- ________________ २०० तिथ्यर्कः अत्र कृत्यान्तरं हेमाद्रावादित्यपुराणे-- "एवं प्रभातसमये अमायाश्च नराधिप ! । स्नात्वा देवान् पितन भक्तया सम्पूज्याऽध प्रणम्य च ॥ कृत्वा तु पार्वणश्राद्धं दधिक्षीरघृतादिभिः । दिवा तत्र न भोक्तव्यमृते बालातुराज्जनात् ॥ प्रदोषसमये लक्ष्मी पूजयित्वा यथाक्रमम् । दीपवृक्षास्तथा कार्याः शक्त्या देवगृहेषु च । ब्राह्मणान् भोजयित्वाऽदा संभोज्य च बुभुक्षितान् ॥ अलङ्कतेन भोक्तव्यं नववस्त्रोपशोभिना ।" यत्तु "भूताष्टम्यार्दिवा भुक्त्वा रात्रौ भुक्त्वा च पर्वणि । एकादश्यामहारानं भुक्त्वा चान्द्रायणं चरेत् ॥" इत्यनेनामायां भोजनं रात्रौ निषिद्धम्, तद् रागमाप्तं न वैधम् ; विधिस्पृष्टे निषेधानवकाशात् । इयमेव रात्रिः सुखरात्रिः। अत्र सर्वदेवानां सुखशयनमुक्तं तत्रैव "अमायां चैव देवास्तु कात्तिके मासि केशवात् । अभयं प्राप्य सुप्तास्तु सुखं क्षीरोदसानुषु । लक्ष्मीर्दै त्यदवान्मुक्ता सुखं सुप्ताऽम्बुजोदरे । अतोऽर्थ विधिवत् कार्या तुष्ट्य तु सुखसुप्तिका ॥" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #237 -------------------------------------------------------------------------- ________________ तिथ्यर्कः २०१ विशेषो ब्राह्मे "अर्द्धरात्रे भ्रमत्येव लक्ष्मीराश्रयितुं गृहान् । अतः स्खलङ्कता लिप्ता दीपैर्जाग्रज्जनोत्सवाः ।। सुधाधवलिताः कार्याः पुष्पमालोपशोभिताः ।" इति । अत्र निशीथोत्तरमलक्ष्मीनिःसारणमुक्तं निर्णयामृते भविष्ये "एवं गते निशीथे तु जने निद्रार्द्ध लोचने । तावन्नगरनारीभिस्तूर्यडिण्डिमवादनैः ।। निष्काष्यते प्रहृष्टाभिरलक्ष्मीः स्वगृहाङ्गणात् ।"इति । इयं प्रदोषव्यापिनो ग्राह्या, कर्मकालत्वात् । दिनद्वये तद्वयाप्तावुत्तरा, सामान्यनिर्णयात् । उभयदिने तद्व्याप्त्यभावेऽर्द्धरात्रव्यापिनी ग्राह्या, लक्षम्या गमनकालत्वात्। अस्यामेव केदारगौरीव्रतं कार्यम् , "आश्विनस्यासिते पक्षे अमावास्या यदा भवेत् । तस्यां व्रतामेदं कार्य यथोक्तं शम्भुना पुरा ॥" इति पद्मपुराणात् । इयमत्र सामान्यनिर्णयादुत्तरा ग्राह्या। माघामायां ब्राह्मणं सम्पूज्य नवनीतधेनु ब्राह्मणाय दद्यादित्युक्तं निर्णयामृते ब्रह्मपुराणे "अमायां माघमासस्य पूजयित्वा पितामहम् । गायत्र्या सहितं देवं वेदवेदाङ्गभूषितम् ।। नवनीतमयीं धेनु ब्राह्मणाय निवेदयेत् ।" इति । २६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #238 -------------------------------------------------------------------------- ________________ तिथ्यर्क: योगविशेषेणाऽर्द्धादय उक्तो हेमाद्रौ स्कान्दे"माघामायां व्यतीपाते आदित्ये विष्णुदैवते । अर्द्धादयं तमित्याहुः सहस्रार्कगृहैः समः ॥ " इति । मदनरत्ने भारतेऽपि - २०२ "मार्कपातश्रवणैर्युक्ता चेत्पुष्यमाघयेोः । अदयः स विज्ञेयः कोटिसूर्यग्रहैः समः ॥ दिवैव योगः शस्तोऽयं न तु रात्रौ कदाचन ।" इति । दिवैवेत्यर्द्ध निर्णयामृत एव पठितं नान्यग्रन्थेषु । अत्र दानमुक्तं स्कान्दे "ये तु सम्प्राप्ते सर्व गङ्गासमं जलम् । शुद्धात्मानो द्विजाः सर्वे भवेयुर्ब्रह्मसम्मिताः ॥ यत्किञ्चित् क्रियते दानं मेरुसन्निभमिध्यते । चतुःषष्टिपलं मुख्यममत्रं तत्र कारयेत् ॥ चत्वारिंशत्पलं वाऽथ पञ्चविंशतिमेव च । निधाय पायसं तत्र पद्ममष्टदलं लिखेत् ॥ पद्मस्य कर्णिकायां तु कर्षमात्रं सुवर्णकम् । तदभावे तदर्द्ध वा तदर्द्ध वापि कारयेत् ।। कृत्वा तु तण्डुलैः शुद्धैः पद्ममष्टदलं शुभम् । मत्रं स्थापयेत्तत्र ब्रह्मविष्णुशिवात्मकम् ॥ तेषां प्रीतिकरार्थाय श्वेतमाल्यैः सुशोभनैः । वस्त्रादिभिरलङ्कृत्य ब्राह्मणाय निवेदयेत् ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #239 -------------------------------------------------------------------------- ________________ तिथ्यर्क: ---- दाने मन्त्र: " सौवर्ण पायसामत्रं यस्मादेतत्त्रयात्मकम् । आवयोस्तारकं यस्मात्तद्गृहाण द्विजोत्तम ! || " 'अमत्रम् ' पात्रम् । "समुद्रमेखलां पृथ्वीं सम्यग् दत्वा तु यत्फलम् | तत्फलं लभते मर्त्यः कृत्वा दानममत्रकम् ॥” इति । हेमाद्रौ स्कान्दे तु विशेष: "ब्रह्मविष्णुमहेशानां सौवर्ण पलसङ्ख्यया । प्रतिमास्तु प्रकर्त्तव्या तदर्द्धन द्विजोत्तम ! ॥ सायं शतत्रयं शम्भोर्द्रोणानां तिलपर्वताः ।” 'शम्भोः' ब्रह्मणः । "कर्त्तव्या पर्वता विष्णुरुद्रयाः पूर्व संख्यया । शय्यात्रयं ततः कुर्यादुपस्करसमन्वितम् ॥ मध्याह्न े तु नरः स्नात्वा शुचिर्भूत्वा समाहितः । तिलपर्वतमध्यस्थ पूजयेद् देवतात्रयम् ॥ ब्रह्मविष्णुशिवप्रीत्यै दातव्यं तु गवां त्रयम् । हिरण्यभूमिधान्यादिदानं विभवसारतः ॥ देवतात्रयमुद्दिश्य कर्त्तव्यं भक्तिशक्तितः । एतत्सर्वं ब्राह्मणेभ्यो दातव्यं च प्रयत्नतः ॥ | " इति । अथ यस्यां कस्याममायां योगविशेषैः पारिभाषिको व्यतीपात उक्तो भारते २०३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #240 -------------------------------------------------------------------------- ________________ तिथ्यर्क: “श्रवणाश्विधनिष्ठार्द्रा नाग देवतमस्तकैः । अमा चेद् रविवारेण व्यतीपातः स उच्यते ॥ तत्र जप्तं हुतं दत्तं सर्व कोटिगुणं भवेत् ॥” 'नागदैवतम् ' आश्लेषा | 'मस्तकम्' मार्गशीर्षम् । चान्द्रमाघामावास्या युगादिः, “पञ्चदशी माघमासे" इति वचनात् । चान्द्रफाल्गुनामा मन्वादिः, " फाल्गुनस्य त्वमावास्या" इति पूर्वोक्तवाक्यात् । मा गुरुवारेण सिद्धा, शनिवारेण विरुद्धा | योगिन्यत्रै शान्याम् । इत्यमा निर्णीता | २०४ अथ पौर्णमासी निर्णीयते । भविष्योत्तरं - " पौर्णमासी महाराज ! सोमस्य दयिता तिथिः । पूर्णो मासा भवेद् यस्मात् पौर्णमासी ततः स्मृता ॥” इति । सा सावित्रीव्यतिरिक्ता परैव । तदुक्तं ब्रह्मवैवर्ते"भूतविद्धा न कर्त्तव्या दर्श: पूर्णा कदाचन । वर्जयित्वा मुनिश्रेष्ठ ! सावित्रीव्रतमुत्तमम् ॥” इति । यत्तु " चतुर्दश्या च पूर्णिमा" इति युग्मवाक्यम्, तत् सावित्र्यादिव्रतविषयम् । अत्र हेमाद्रिमाधवमतयोर्विप्रतिपत्तिः । • हेमाद्रिमते सावित्री तमन्तरेण श्रमापूर्णिमे परे भवता न पूर्वदिनेऽष्टादशनाडीमित चतुर्दशी सत्त्वेऽपवादः । माधवमते पूर्वदिनेऽष्टादशनाडीमितचतुर्दशीसत्त्वे सावित्रीवतेऽपि परे भवताऽमावास्या - पूर्णिम, "भूतोऽष्टादशनाडीभिर्दूषयत्युत्तरां तिथिम् ।" Shree Sudharmaswami Gyanbhandar-Umara, Surat ――― www.umaragyanbhandar.com Page #241 -------------------------------------------------------------------------- ________________ तिथ्यर्क: २०५ इति स्कान्दोक्तदूषण दूषितत्वात् । तदिदं माधवमतं रीतिका भरणवदापातरमणीयम् । हेमाद्रिमतं सुवर्णस्वर्णाभरणवद् रमणीयम् । तथाहि- "नागविद्धा न कर्त्तव्या षष्ठी चैव कदाचन । एकादशी न कर्त्तव्या दशमीसंयुता विभो ! ॥ भूतविद्धा न कर्त्तव्या दर्शः पूर्णा कदाचन ।" इत्यस्य शेषोऽयम्, “नागो द्वादशनाडीभिदि कपञ्चदशभिस्तथा । भूतोऽष्टादशनाडीभिदूषयत्युत्तरां तिथिम् ॥” इति लाघवात् । तथा च यत्र भूतविद्धा निषिद्धा तत्रैवाय विशेषविधिर्भवति, न तु सावित्रीव्रते । सोऽपि कर्मकालव्याप्तिशास्त्रौदासीन्य इति न माधवमतदूषण निस्तारः । अस्यामप्यमा - वास्यावच्छ्राद्धं नित्यम्, "अमावास्याव्यतीपातपौर्णमास्यष्टकासु च । विद्वान् श्राद्धमकुर्वाणो नरकं प्रतिपद्यते ॥" इति पितामहेोक्तेः । तच्चाऽपिण्डक ं कार्यम् । तदाह निर्णयदीपे गर्ग : " पौर्णमासीषु सर्वासु निषिद्धं पिण्डपातनम् । वर्जयित्वा प्रोष्ठपदीं यथा दर्शस्तथैव सा ॥” इति । अथ चैत्र पौर्णमास्यां दमनेन शिवपूजोक्ता वायवीये Shree Sudharmaswami Gyanbhandar-Umara, Surat - www.umaragyanbhandar.com Page #242 -------------------------------------------------------------------------- ________________ तिथ्यर्कः "संवत्सरकृतार्चायाः साफल्यायाऽखिलान् सुरान् । दमनेनार्चयेद्देवं विशेषेण सदाशिवम् ॥” इति । इयं मन्दादिवारेणातिशस्तेत्युक्तं ब्रह्मपुराणे "मन्दे वार्के गुरौ वापि वारेवेतेषु चैत्रिकी । तत्राऽऽश्वमेधिकं पुण्यं दानेन लभते नरः !" इति । इयं मन्वादिः, पूर्वोक्तवचनात् । वैशाख्यां वैशाखबतिनां वैशाखोद्यापनमुक्तं पद्मपुराणे "मासमेकं बहिः स्नात्वा नद्यादा विमले जले । एकादश्यां च द्वादश्यां पौर्णमास्यामथापि वा । उपोष्य नियतो भूत्वा कुर्यादुद्यापनं ततः । मण्डपं कारयेदादा कलशं तत्र विन्यसेत् ॥ निष्केण वा तदर्दैन तदर्भाःन वा पुनः । शक्त्या वा कारयेद्देवं सौवर्ण लक्षणान्वितम् ॥ लक्ष्मीयुतं जगन्नाथं पूजयेदासने बुधः । भूषणैश्चन्दनैः पुष्पैर्दीपैनैवेद्यसञ्चयैः ।। एवं सम्पूज्य विधिवद् रात्री जागरणं चरेत् । श्वोभूते कृतमैत्रोऽथ ग्रहवेद्यां ग्रहान् यजेत् ॥ होमं कुर्यात् प्रयत्नेन पायसेन विचक्षणः । तिलाज्येन यवैर्वापि सर्वैर्वापि स्वशक्तितः ॥ अष्टोत्तरसहस्र वा शतमष्टोत्तरन्तु वा । प्रतद्विष्णुरनेनैव इदं विष्णुरनेन वा ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #243 -------------------------------------------------------------------------- ________________ २०७ तिथ्यर्कः व्रतसम्पूर्ति सिद्ध्यर्थ धेनुमेका पयस्विनीम् । पादुकोपानहच्छत्रं गुरवे व्यजनं तथा ॥ शय्यां स्वोपस्करां दद्याद् दीपिका दर्पणं तथा । ब्राह्मणान् भोजयेत् त्रिंशत् तेभ्यो दद्याच्च दक्षिणाम् ॥ कलशान जलपूर्णांस्तु तेभ्यो दद्याद् यवांस्तथा ।। एवं कृते माधवस्य उद्यापनविधी शुभे। फलमाप्नोति सकलं विष्णुसायुज्यमाप्नुयात् ॥” इति । यदा वैशाखो मलमासस्तदा तस्मिन्नेवारब्धं मलमासात् प्राग यत्काम्यमसमापितम्-'सम्प्राप्ते मलमासेऽपि तत्समाप्यमसंशयम् ।" अस्मात्काण्वगृह्यात्समापनीयमिति हेमाद्रिमदनावाहतुः। अस्यामेव शृतान्नं चादकुम्भं धर्मरानपीतये देयमित्युक्तं जाबालिना "शृतान्नमुद कुम्भञ्च वैशाख्याञ्च विशेषतः । निर्दिश्य धर्मराजाय गोदानफलमाप्नुयात् ॥” इति । 'शृतम्' पक्वम् । अस्यां कृष्णाजिनदानमप्युक्तं निर्णयामृते पुराणसमुच्चये "वैशाख्यां पौर्णमास्यां तु विशाखा तु विशेषतः। यस्तु कृष्णाजिनं दद्यात् सखुरं शृङ्गसंयुतम् ।। तिलैः प्रच्छाद्य वासाभिः सर्ववस्त्रैरलंकृतम् । ससमुद्रगुहा तेन सशैलवनकानना । सप्तद्वीपान्विता दत्ता पृथिवी नात्र संशयः ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #244 -------------------------------------------------------------------------- ________________ २०८ तिथ्यर्कः हेमाद्रौ भविष्ये "कुम्भान् स्वच्छजलैः पूर्णान् हिरण्येन समन्वितान् । वैशाखे ब्राह्मणे दत्वा न शोचति कृतान्ततः ॥” इति । ज्येष्ठपौर्णमास्यां सावित्रीव्रतमुक्तं भविष्ये "ज्येष्ठे मासि सिते पक्षे पौर्णमास्यां तथा व्रतम् । चीण पुरा महाभक्त्या कथितं ते मया नृप !॥” इति । "प्रतिपत्पश्चमीभूतसावित्रीव्रतपूर्णिमा। नवमी दशमी चैव नोपोष्याः स्युः परान्विताः ॥" इति ब्रह्मवैवर्तात्, "भूतविद्धा सिनीवाली न तु तत्र व्रतं चरेत् । वर्जयित्वा तु सावित्रीव्रतं तु शिखिवाहन !" इति स्कान्दाच्च इयं पूर्व विद्धा ग्राह्या । अत्र विशेषो भविष्ये "सावित्रीप्रतिमां कुर्यात्सौवीं वापि मृण्मयीम् । सार्द्ध सत्यवता साध्वीं फलनैवेद्यदीपकैः ॥ पूजयेदिति शेषः। सावित्र्याख्यानकं चापि वाचयीत द्विजोत्तमः । रात्री जागरणं कृत्वा प्रभाते विमले ततः ।। तामपि ब्राह्मणे दत्वा प्रणिपत्य क्षमापयेत् ।" प्रतिमादाने मन्त्रः "सावित्रीयं मया दत्ता सहिरण्या महासती । ब्रह्मणः प्रीणनार्थाय ब्राह्मण ! प्रतिगृह्यताम् ।।" इति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #245 -------------------------------------------------------------------------- ________________ तिथ्यर्कः २०६ अत्र सर्वव्रतेषु कथादिकं विस्तरभिया नोक्तम्, तत् श्रीमातुलकृतव्रताकें द्रष्टव्यम् । अत्र विशेषो निर्णयामृते आदित्यपुराणे "ज्येष्ठे मासि तिलान् दद्यात्पौर्णमास्यां विशेषतः । सोऽश्वमेधस्य यत्पुण्यां तत्प्राप्नोति न संशयः ॥” इति । विष्णुरपि "ज्येष्ठी ज्येष्ठायुता चेत्स्याच्छनोपानत्मदानेन नरो नराधिपत्यमाप्नोति ॥” इति । आषाढी कोकिलावते सन्ध्याकालव्यापिनी ग्राहया, "आषाढपौर्णमास्यां तु सन्ध्याकालेऽप्युपस्थिते । सङ्कल्पयेन्मासमेकं श्रावणे प्रत्यहं ह्यहम् ॥ स्नानं करिष्ये नियता ब्रह्मचर्यस्थिता सती । भोक्ष्यामि नक्तं भूशय्यां करिष्ये प्राणिनां दयाम् ॥" इति भविष्यात् । व्यासपूजादौ त्वौदयिकी सार्द्धत्रिमुहूर्ता ग्राहया, "त्रिमुहूर्ताधिकं ग्राह्य पर्व क्षौरममाणयोः ।" इति विश्वेश्वरपद्धतावुक्तत्वात् । अत्रैव भारभूतेशाऽषाढीशयोः पूजा यात्रा च काय, "उदीच्यां भारभूतेशमाषाढीशं समर्चयेत् । कृत्वा सांवत्सरी यात्रामनेना जायते नरः ॥" २७ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #246 -------------------------------------------------------------------------- ________________ २१० तिथ्यर्फ: इति काशीखण्डात् । अस्यां शिवशयनमुक्तं हेमाद्री वामन. पुराणे "पौर्णमास्यामुमानाथः स्वपते चर्मसंस्तरे । वैयाध्ये च जटाभारं समुद्ग्रथ्याऽहिचर्मणा ॥” इति । अत्र विष्णुशयनमप्युक्त कल्पतरौ यमेन--- "क्षीराब्धौ शेषपर्यङ्के आषाढ्या संविशेद्धरिः । निद्रां त्यजति कार्त्तिक्यां तयोः सम्पूजयेद्ध रिम् । ब्रह्महत्यादिकं पापं क्षिप्रमेव व्यपोहति । हिंसात्मकैस्तु किं तस्य यज्ञैः कार्य महात्मनः ॥ प्रस्वापे च प्रबोधे च पूजितो येन केशवः ॥” इति । न चाषाढस्येयमेकादशी आषाढी, कार्तिकस्येयमेकादशी कातिकीति व्युत्पत्त्याऽऽषाढीकार्तिकीपदेन चाषाढकार्तिकथोरेकादशी ग्राह्येति वाच्यम्, "आषाढशुक्लपक्षान्ते भगवान् मधुसूदनः । भोगिभोगे निजां मायां योगनिद्रा समाप्नुयात् ॥" इति विष्णुधर्मोत्तरे पक्षान्तग्रहणात् । न च "आषाढशुक्लैकादश्यां कुर्यात्स्वापमहोत्सवम् इति पूर्वोक्तस्कान्दविरोध इति वाच्यम्, देशभेदेन सम्प्रदायभेदेन च व्यवस्थासम्भवात् । अस्यामन्नादिदानं कार्यम्, "आषाढ्यामाषाढयुतायामन्नपानादिदानेनाक्षय्य. माप्नोति" इति विष्णुक्तेः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #247 -------------------------------------------------------------------------- ________________ तिथ्यर्कः २११ अथ श्रावणपौर्णमासी पवित्रारोपणादौ पूर्वविद्वैव ग्राहया, 'श्रावणी दुर्गनवमी' इति बृहद्यमोक्तः। अस्यामुपाकर्म कार्यम्, "अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा । हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥" इति याज्ञवल्क्योक्तेः। 'अध्यायानाम्' वंदानाम् । “पञ्चम्यां हस्तेन युक्तायामुपाकर्म कार्यम्" इति हेमाद्रिमतम् । अपरे तु"प्राञ्चो हस्तेन युक्तेऽहनि पञ्चम्यां वा" इति व्याचक्षते । स्मृत्यर्थसारे तु "श्रावणमासस्य श्रवणे वा पञ्चम्या हस्ते पञ्चमीहस्तयोगे वा कार्यम्" इत्युक्तम् । ओषधीनां प्रादुर्भावाभावे वहर्चकारिकायाम् "अष्ट्यापधयस्तस्मिन् मासे तु न भवन्ति चेत् । तदा भाद्रपदे मासे श्रवणेन करोति तद् ॥” इति । एवं मूनकादिनाऽप्यन्तरिते भाद्रपदे श्रवणेन कार्यम् । तत्राप्यन्तरिते तु नोकर्षः, “वार्षिकमित्येतदाचक्षते" इति सूत्रे वार्षिकमिति समाख्याबलाद् । वर्षासु क्रियत इति वार्षिकम्, श्रावणभाद्रपदावेव वर्षा ऋतुः। अत्र श्रवणं धनिष्ठायुतं ग्राह्यम् तदाह व्यास: "धनिष्ठासंयुते कुर्याच्छावणं कर्म यद्भवेत् । तत्कर्म सफलं ज्ञेयमुपाकरणसंज्ञितम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #248 -------------------------------------------------------------------------- ________________ २१२ तिथ्यर्कः श्रवणेन तु यत्कर्म ह्युत्तराषाढसंयुतम् । संवत्सरकृतोऽध्यायस्तरक्षणादेव नश्यति ॥" गर्गः "पर्वण्यौदयिक कुर्युः श्रावणं तैत्तिरीयकाः । वढचाः श्रवणे कुर्युग्रहसंक्रान्तिवर्जिते ॥” इति । अत्र तैत्तिरीयपदं यजुर्वेदिमात्रपरम् ।। यदा श्रवणं पर्व वा ग्रहणसंक्रान्तिभ्यामन्वितम् , तदा पञ्चम्यामुपाकर्म कार्यम् । तदुक्तं मदनरत्ने स्मृत्यन्तरे "उपाकर्म न कुर्वन्ति क्रमात् सामर्यजुर्विदः । ग्रहसंक्रान्तियुक्तेषु हस्तश्रवणपर्वसु ॥" तथा-- "यदि स्याच्छावणं पर्व ग्रहसंक्रान्ति दूषितम् । स्यादुपाकरणं शुक्लपञ्चम्यां श्रावणस्य तु ॥" इति । अत्र विशेष प्रयोगपारिजाते वृद्धमनुकात्यायनावाहतुः "यद्यर्द्धरात्रादर्वाक्तु ग्रहः संक्रम एव वा । नोपाकर्म तदा कुर्याच्छावण्यां श्रवणेऽपि वा ॥ अधराबादधस्ताच्चेत् संक्रान्तिर्ग्रहणं तदा । उपाकर्म न कुर्वीत परतश्चेन्न दोषकृत् ॥” इति । 'परतश्चेत् परेऽहनि' इत्यपि क्वचित् पाठः। तदा परेऽहन्यपि निषेध इति समयमयूखे गुरवः । यत्तु वचनजातं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #249 -------------------------------------------------------------------------- ________________ तिथ्यर्क: " त्रयोदश्यादिता वर्ज्य दिनानां नवकं ध्रुवम् । मङ्गल्येषु समस्तेषु ग्रहणे चन्द्रसूर्ययोः ॥ द्वादश्यादितृतीयान्तो वेध इन्दुग्रहे स्मृतः । एकादश्यादितः सौरे चतुर्थ्यन्तः प्रकीर्त्तितः ॥ खण्डग्रहे तयाः प्रोक्त उभयत्र दिनत्रयम् ।" इत्यादि पौर्णमासीव्यतिरिक्त दिनान्तरस्यापि सदेोषत्वप्रतिपादककर्म्माद्यतिरिक्तकर्म्मविषयं बोध्यम्, "नित्ये नैमित्तिके जप्ये होमयज्ञक्रियासु च । उपाकर्मणि चेोत्सर्गे ग्रहवेधो न विद्यते ।। " इति मदनरत्नधृतवचनात् । केचित्तु - "वेदोपकरणे प्राप्ते कुलीरे संस्थिते वैौ । उपाकर्म न कर्त्तव्यं कर्त्तव्यं सिंहयुक्तके || " २१३ इति वचनाद्बह्वृचानां सिंहार्क एवोपाकर्माऽऽहुः, तन्न, वहृचान्यति त्वनेन वचनेनाऽप्राप्त सिंहार्के विधीयमाने गौरवप्रसङ्गात् । ननु तर्ह्येतस्य वचनस्य का गतिरिति चेच्छृणु, इदं हि वचनं सामगान प्रति युक्तम् । तेषां हि ------ "सिंह खैौ तु पुष्यकें पूर्वाह्न विचरेद्बहिः । छन्दोगा मिलिताः कुर्युरुत्सर्ग स्वस्वच्छन्दसाम् || शुक्लपक्षं तु हस्तेन उपाकर्मापराह्निकम् ।" इति गर्गवचनेन सिंहार्क एव तद्विधानात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #250 -------------------------------------------------------------------------- ________________ २१४ तिबर्फ 'छन्दोगा:' सामगाः । अधिमासे उपाकर्म न कार्यम्, “उपाकर्म तथेोत्सर्गः प्रसवाहोत्सवोऽष्टकाः । मासवृद्धौ परे कार्या वर्जयित्वा तु पैतृकम् ॥” इति पराशरोक्तः । ' परे' उत्तरे मासीत्यर्थः । 'प्रसवाहोत्सवः ' जन्म दिनोत्सवो वर्द्धमानसंज्ञकः । “उत्कर्षः कालवृद्धौ स्यादुपाकर्मादिकर्मणि । श्रभिषेकादिवृद्धीनां न तूत्कर्षो युगादिषु ||" इति कात्यायनवचनाच्च । यत्तु — "दशहरा नोत्कर्षश्चतुर्वपि युगादिषु । उपाकर्ममहाषष्ट्यादिष्टं वृषादितः ।। " इति ऋष्यशृङ्गवचनं छन्दोगविषयम् । तेषां हि 'सिंहार्क एव' तदुक्तेरन्येषां सौरमासग्रहणे प्रमाणाभावात् । प्रथमा यस्तु गुरुभार्गवयेोरिति वक्ष्यमाण संग्रहवचने पाकर्मनिषेधः, स सामगविषय एव तेषां द्वितीयादिप्रयोगस्य सिंहरबा मलमासे सति तत्रैव कर्त्तव्यत्वात् । कर्मपुराणे "श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः । आषाढ्यां प्रोष्ठपद्यां वा वेदेोपाकरणं स्मृतम् ॥” इति । आषाढी तु बौधायनपरा, “ श्रावण्यां पैौर्णमास्यामाषाढ्यां वोपाकृत्य" इति सूत्रात्। पौष्ठपदी हिरण्यकेशितैत्तिरीयाणाम्, सापि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #251 -------------------------------------------------------------------------- ________________ विश्वर्कः २१५ यदा श्रावणीग्रहसंक्रान्तिसंयुक्ता तदैव नान्यथेति । अत्र तैत्तिरीयाणां प्रागुक्तमौदयिकं पर्व उदाजहार पाराशरीये मार्यः "श्रावणीपौर्णमासी तु सगवात् परतो यदि । तदैवौदयिकी ग्राहया नान्यदादयिकी भनेत ॥” इति । अत्र पौर्णमासीति श्रवणहस्तयोरुपलक्षणम् । तेन तावपि सङ्गवस्पृष्टौ ग्राहयौ। तथा च पृथ्वीचन्द्रोदये "उदये संगवस्पर्शे श्रुती पर्वणि चार्कभे । कुर्युनभस्युपाकर्म ऋग्यजुःसामगाः क्रमात् ॥” इति । याजुपैः पूर्वाह्न कार्यम्, "भवेदुपाकृतिः पौर्णमास्यां पूर्वाह्न एव तु" इति प्रचेतावचनात् । छन्दोगैस्तु अपराह्न कार्यम्, "अध्यायानामुपाकर्म कुर्यात् कालेऽपरालिके । पूर्वाह्न तु विसर्गः स्यादिति वेदविदा विदुः ॥" इति गोभिलोक्तेः । अत्र स्वस्वशाखोक्तो हामः कार्यः । अत्रsर्षिपूजनतर्पणे पाह कार्णाजिनिः__ "उपाकर्माणि चोत्सर्गे यथाकालं समेत्य तु । ऋषीन दर्भमयान् कृत्वा पूजयेत् तर्पयेत् ततः ॥” इति । व्यास: "विष्टरं सप्तभिर्दभैदिशाङ्गलिदैर्षिकम् । चतुरङ्गलमग्र स्याद्ग्रन्थिमेकाङ्गलिं तथा ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #252 -------------------------------------------------------------------------- ________________ २१६ तिथ्यर्क: प्रदक्षिणममं कृत्वा ऋषीनावाह्य तर्पयेत् । ऋषीणामर्चनं सर्व कर्त्तव्यश्च निवीतिना ||" इति । कार्ष्णाजिनि: “वेदारम्भणतः पूर्वं सक्तुप्राशनतः परम् । नवयज्ञोपवीतानि हुत्वा दत्वा च धारयेत् ||" इति । विष्णु:-- " उपाकर्मणि विप्रेभ्यो दद्याद् यज्ञोपवीतकम् । आयुष्मान जायते तेन कर्मणा मानवा भुवि ॥” इति । ब्रह्मचारिणामत्र विशेष: कालादर्शे "मौलीं यज्ञोपवीतञ्च नवं दण्डं च धारयेत् । अजिनं कटिसूत्रञ्च नवं वस्त्रं तथैव च ॥” इति । अत्र विशेषः स्वस्वमुत्रे ज्ञेयः । इदञ्च प्रथमोपाकर्म्मशुक्रास्तादावपि न कार्य्यम् । तदुक्तं संग्रहे "गुरुभार्गवाय बाल्ये चार्द्धषिकेऽपि वा । तथाऽधिमास संसर्प मलमासादिषु द्विजाः || प्रथम पाकृतिर्न स्यात् कृतकर्म्मविनाशकृत् ।" इति । मुहूर्तचिन्तामरणावपि - "व्याप्याराम तडागकूपभवनारम्भप्रतिष्ठे व्रतारम्भात्सर्ग वधूमवेशनमहादानानि सामाष्टके । गोदानाग्रयणप्रपाप्रथमको पाकर्म्मवेदवतं नीलोद्वाहमथातिपन्न शिशुसंस्कारान् सुरस्थापनम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #253 -------------------------------------------------------------------------- ________________ २१७ तिथ्यर्कः दीक्षामाजिविवाहमुण्डनमपूर्व देवतीर्थेक्षणं संन्यासाग्निपरिग्रहौ नृपतिसंदर्शाभिषेको गमम् । चातुर्मास्यसमावृती श्रवणयोधं परीक्षां त्यजेद् वृद्धत्वास्तशिशुत्व इज्यसितयोय॑नाधिमासे तथा॥” इति । अत्र नदीनां रजोदोषो नास्तीत्याह वसिष्ठः "उपाकर्मणि चोत्सर्गे व्रतस्त्राने तथैव च । चन्द्रसूर्यग्रहे चैव रजोदेोषो न विद्यते ॥" अथात्रवोत्सर्जनमुच्यते प्रसङ्गात् । तच्च पौषमासे रोहिण्यां कृष्णाष्टम्यां वा कार्यम् , "पौषमासस्य रोहिण्यामष्टकायामथापि वा। जलान्ते छन्दसां कुर्यादुत्सर्ग विधिवद्धहिः ॥" इति याज्ञवल्क्योक्तः। कालान्तरमाह मनुः "पुष्ये तु छन्दसां कुर्याद्वहिरुत्सर्जनं द्विजः । माघशुक्लस्य वा प्राप्ते पूर्वाह्न प्रथमेऽहनि ॥” इति । अत्र 'पूर्वाह्न प्रथमेऽहनीति पुष्पमाघयोरपि सम्बध्यते' इति स्मृतिचन्द्रिकाकारादयो निबन्धकाराः । विज्ञानेश्वरस्तु 'पूर्वाह्न इत्येव पदं पुष्यान्वयि, न तु प्रथमेऽहनीति याज्ञवल्क्येन कालान्तरीक्तत्वात्' इत्याह । असौ विकल्पो व्यवस्थितः । "श्रावण्यां मौष्ठपद्यां वा ह्युपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान विप्रोऽर्द्धपञ्चमान् ॥" इति मनुनैवोक्तत्वात् । एवं चायं विवेकः सम्पन्नः२८ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #254 -------------------------------------------------------------------------- ________________ २१८ तिथ्यर्क: यदा हि श्रावण्यामुपाकर्म क्रियते तदा पौषशुक्लप्रतिपदि पूर्वा उत्सर्जनम् । यदा तु प्रोष्ठपद्यां तदा माघशुक्लप्रतिपदि पूर्वाह्न इति । अर्द्धपञ्चमान् अद्धैः पञ्चम्यो येष्विति व्युत्पत्त्या सार्द्धचतुर इत्यर्थः । श्राश्वलायनास्तु माध्यामेव कुर्युः । "अध्यायात्सर्जनं माध्यां पौर्णमास्यां विधीयते ।" इति कारिकोक्तः । उपाकर्म्मदिने वा कार्य्यम्, " पुष्ये तूत्सर्जनं कुर्यादुप | कर्मदिनेऽपि वा । " इति हेमाद्रौ खादिरगृह्येोक्तः । सामगास्तु सिंहस्थे सूर्ये पुष्य नक्षत्रे कुर्युः, 'सिंहे रवौ' इति प्रागुक्तवचनात् । यदा तु सिंहस्थे सूर्ये पूर्वे हस्त एव भवति तत्पूर्वः पुष्यस्तु कन्यास्थे रवौ, तदा तत्रैवेत्सि - र्जनं कृत्वा सिंहार्कहस्ते उपाकर्म कार्य्यम्, "मासे प्रोष्ठपदे हस्तात्पुष्यः पूर्वो भवेद् यदा । तदा तु श्रावणे कुर्य्यादुत्सर्गं छन्दसां द्विजः ॥" इति कात्यायनवचनात् । प्रोष्ठपदश्रावणशब्दौ सौरमासपरौ, सामगानां सौरमासे एवेोपाकर्मोत्सर्जनविधानात् । अत्रापि ऋषीन् पूजयेदित्युक्तं प्रागित्यलं प्रासङ्गिकेन । अस्यामाश्वलायनैः श्रवणाकर्म कार्य्यम्, “श्रावण्यां पौर्णमास्यां श्रवणाकर्म्म" इति सूत्रात् । सर्पवलिरप्यत्रैव कार्यः । इदञ्च कर्म्मद्वय प्रदोषव्यापिन्यां पौर्णमास्यां कार्यम् "अस्तमिते स्थालीपाकं श्रपयित्वा" इति सूत्रात् । "इदं चाभुक्तवैव कार्यम्” इति प्रयोगरत्नेऽस्मन्मातुः प्रपितामहचरणाः । “भुक्त्वा कार्यम्" इत्यपि केचित् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #255 -------------------------------------------------------------------------- ________________ २१६ तिथ्यर्कः अस्यामेव रक्षाबन्धनमुक्त हेमाद्रौ भविष्योत्तरे "सम्माप्ते श्रावणस्यान्ते पौर्णमास्यां दिनोदये । स्नानं कुर्वीत मतिमान् श्रुतिस्मृतिविधानतः ॥ ततोऽपराह्नसमये रक्षापोटलिका शुभाम् । कारयेदक्षतैः शस्तैः सिद्धाहेमभूषितैः ।। विचित्रतन्तुग्रथितां बध्नीयाद् दक्षिणे करे ।" मन्त्रः "येन बद्धो बली राजा दानवेन्द्रो महाबलः । तेन मन्त्रेण* बनामि रक्षे ! मा चल मा चल ॥ इति । तथा तत्रैव"यः श्रावणे विमलमासि विधानविज्ञो रक्षाविधानमिदमाचरते मनुष्यः । आस्ते सुखेन परमेण स वर्षमेक ___ पुत्रप्रपौत्रसहितः ससुहृज्जनश्च ॥” इति । अत्र सर्वेषामप्यधिकारस्तत्रैवोक्तः "ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रश्चान्यैश्च मानवैः । कर्तव्यो रक्षिकाबन्धो द्विजान् सम्पूज्य यत्नतः ।। अनेन विधिना यस्तु रक्षाबन्धनमाचरेत् । स सर्वदोषरहितः सुख संवत्सरं वसेत् ॥” इति । इदं च भद्रायां न कार्यम् । तदुक्तं निर्णयामृते संग्रहे * 'तेन त्वां प्रतिबधामि' इत्यपि पाठः स्मर्यत । वामपीति निर्णयसिन्धौ । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #256 -------------------------------------------------------------------------- ________________ २२० तिथ्यर्कः "भद्रायां द्वे न कर्त्तव्ये श्रावणी फाल्गुनी तथा । श्रावणी नृपति हन्ति ग्राम दहति फाल्गुनी ॥” इति । अस्यामेव हयग्रीवयात्रोक्ता कल्पतरौ ब्राह्मे "श्रावण्यां श्रवणे जातः पूर्व हयशिरा हरिः । जगाद सामवेदं तु सर्वकल्मषनाशनः ।। स्नात्वा संपूजये तु शङ्खचक्रगदाधरम् ।” इति । अथ भाद्रपौर्णमास्यां नान्दीमुखश्राद्धमुक्तं ब्रह्मपुराणे "नान्दीमुखानां प्रत्यब्दं कन्याराशिगते रवौ । पौर्णमास्यान्तु कर्त्तव्यं वराहवचनं यथा ॥” इति । नान्दीमुखास्त्वश्रुमुखेभ्यः परास्त्रयः। अश्रुमुखादिसंज्ञाप्युक्ता तत्रैव "पिता पितामहश्चैव तथैव प्रपितामहः । त्रयो ह्यश्रुमुखा ह्येते पितरः सम्प्रकीर्तिताः । तेभ्यः परतरे ये तु ते तु नान्दीमुखाः स्मृताः ।" इति । अथाश्विनपौर्णमास्यामश्वयुजीकाग्रयणे कार्ये, “अाश्वयुज्यमाश्वयुजीकर्म" इति सूत्रात् । “शरद्याग्रयणं नाम पर्वणि स्यात्तदु. च्यते" इति शौनकोक्तेः। अत्र प्रयोगादिविस्तरस्त्वस्मन्मातुः प्रपितामहभट्टश्रीनारायणपदपायोजविरचिते प्रयोगरत्ने ज्ञेयः । अस्यामेव कोजागरव्रतमुक्तं लैङ्गे "आश्विने पौर्णमास्यान्तु चरेज्जागरणं निशि । कौमुदी सा समाख्याता कार्या लोकविभूतये ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #257 -------------------------------------------------------------------------- ________________ तिथ्यर्कः कौमुद्यां पूजयेल्लक्ष्मीमिन्द्रमैरावतास्थितम् । नारिकेलोदकं पीत्वा अक्षः क्रीडां समाचरेत् ॥ निशीथे वरदा लक्ष्मीः को जागर्तीति भाषिणी । तस्मै वित्तं प्रयच्छामि अझैः क्रीडां करोति यः ॥" इयं निशीथव्यापिनी ग्राह्या, तत्रैव जागरायुक्तत्वात् । अत्र जागरणं प्रधानम्, फलसम्बन्धात् । अत्र घृतपात्रदानं कार्यम्, "आश्वयुज्यामश्विनीगते चन्द्रे घृतपूर्णभाजनं सुवर्णयुतं विपाय दत्वा दीप्ताग्निर्भवति" इति निर्णयामृते विष्णुक्तेः । अथ कार्तिक्यां कार्तिकेयदर्शनमुक्त काशीखण्डे "कार्तिक्यां कृतिकायोगे यः कुर्यात् स्वामिदर्शनम् । सप्तजन्म भवेद्विषो धनाढ्यो वेदपारगः ॥" त्रिपुरोत्सवश्चात्रैवोक्तो भविष्ये-- "पार्णमास्यां तु सन्ध्यायां कर्त्तव्यस्त्रिपुरोत्सवः । दद्यादनेन मन्त्रेण सुदीपांश्च सुरालये ।। कीटाः पतङ्गा मशकाश्च वृक्षे जले स्थले ये विचरन्ति जीवाः । दृष्टवा प्रदीपं नहि जन्मभागिन स्ते मुक्तरूपा हि भवन्ति तत्र ॥” इति । अत्र सन्ध्याकालव्यापिनी ग्राहया, कर्मकालत्वात् । अस्यां क्षीरसागरदानमुक्तं निर्णयामृते ब्रह्मपुराणे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #258 -------------------------------------------------------------------------- ________________ २२२ तिथ्यर्कः "पार्णमास्यां तु संपूज्यो भक्त्या दामोदरः सदा। ततः चन्द्रोदये पूज्यास्तापस्यः कृतिकास्तु षट् ॥ कार्तिकेयस्तथा खड्गी वरुणश्च हुताशनः । धान्यैः सशूकै हं संभूषितव्यं निशागमे । माल्यै पैस्तथा दीपैर्भक्ष्यैरुच्चावचैस्तथा । परमान्नैः फलैः शाकैर्वहिब्राह्मणतर्पणैः ॥ एवं देवांस्तु सम्पूज्य दीपो देयो गृहाइहिः । दीपोपान्ते तथा गर्तश्चतुरस्रो मनोहरः । चतुर्विशांगुलः कार्यः सिक्तश्चन्दनवारिणा । गन्धक्षीरेण सम्पूर्णः स सम्यक् परिपूजितः ॥ तत्र हेममयो मत्स्यो मुक्तानेत्रमनोहरः । प्रक्षेप्तव्यो विधानेन नमोऽस्तु हरये पठन् ॥ ब्राह्मणायाऽथ योग्याय दद्यात्तं क्षीरसागरम् ।" इति । अत्रैव वृषोत्सर्ग उक्तो भविष्योत्तरे "कार्तिक्यां तु षोत्सग कृत्वा नक्तं समाचरेत् । शैवं पदमवाप्नोति शिवव्रतमिदं स्मृतम् ॥” इति । अस्यामेव कार्तिकस्नायिनां कार्तिकोद्यापनविधिरुक्तः पाझे"नारद उवाच अथार्जव्रतिनः सम्यगुद्यापनविधि नृप ! । तं शृणुष्व मया ख्यातं सविधानं विशेषतः ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #259 -------------------------------------------------------------------------- ________________ तिथ्यर्क: ऊर्जशुक्लचतुर्दश्यां कुर्यादुद्यापनं व्रती । व्रत सम्पूर्णतार्थाय विष्णुप्रीत्यर्थमेव च ॥ तुलसीमूलदेशे तु सर्वतोभद्रमेव च । पञ्चभिः वर्णकैः सम्यक् शोभाढ्य ं समलङ्कृतम् ॥ तस्योपरि सपिधानं पञ्चरत्नसमन्वितम् । महाफलेन संयुक्तं कुम्भं तत्र निधाय च ॥ पूजयेत्तत्र देवेशं शङ्खचक्रगदाधरम् । कौशेयपीतवसनं युक्तं जलधिकन्यया ॥ इन्द्रादिलोकपालांश्च मण्डयेत् पूजयेत् व्रती । द्वादश्यां प्रतिबुद्धोऽसौ त्रयोदश्यां यतः सुरैः ॥ दृष्टोऽचितचतुर्दश्य तस्मात् पूज्यस्तिथाविह । तस्यामुपवसेद् भक्त्या शान्तः प्रयतमानसः । पूजयेद् देवदेवेशं सौवण गुर्वनुज्ञया । उपचारैः षोडशभिर्नानाभक्ष्य समन्वितैः ॥ रात्री जागरणं कुर्याद् गीतवाद्यादिमङ्गलैः । ततश्च पौर्णमास्यां च सपत्नीकान् द्विजोत्तमान् ॥” “त्रिंशमितांस्तथैवैकं स्वशक्त्या वा निमन्त्रयेत् । अता देवा इति द्वाभ्यां जुहुयात् तिलपायसम् || प्रीत्यर्थ देवदेवस्य देवानाञ्च पृथक् पृथक् । दक्षिणां च यथाशक्त्या प्रदद्यात् प्रणमेच्च तान् || गुरु' व्रतोपदेष्टारं वखालङ्करणादिभिः । Shree Sudharmaswami Gyanbhandar-Umara, Surat २२३ www.umaragyanbhandar.com Page #260 -------------------------------------------------------------------------- ________________ २२४ तिथ्यर्क: सपत्नीकं समभ्यर्च्य तांश्च विप्रान् क्षमापयेत् ॥ युष्मत्मसादाद् देवेशः प्रसन्नो मम सर्वदा । व्रतादस्माच्च यत्पापं सप्तजन्मकृतं मया ॥ तत्सर्वं नाशमायातु स्थिरा मे चाऽस्तु सन्ततिः । मनोरथाश्च सफलाः सन्तु नित्यं तवार्चनात् ॥ देहान्ते परमं स्थानं प्राप्नुयामतिदुर्लभम् । इति क्षमाप्य तान् विप्रान् प्रसाद्य च विसर्जयेत् ॥ कार्त्तिके वा तपसि विधिरेवं विधो मतः ॥" इति कार्त्तिकेयेोद्यापन विधिः । अथ मार्गशीष्य प्रत्यवरोहणमुक्तम्, तत् प्रयोगरत्ने द्रष्टव्यम् । अत्र विशेषो विष्णुस्मृती"मार्गशीर्ष शुक्लपञ्चदश्यां मृगशिरोयुक्तायां चूर्णितलवणस्य सुवर्णनाभं प्रस्थमेकं ब्राह्मणाय प्रतिपादयेत् । तेन कर्मणा रूपसौभाग्यलाभो जयः" इति । अथ पौष्यां विशेषो ब्रह्मपुराणे - " इदं जगत् पुरा लक्ष्म्या व्यक्तमासीत्ततो हरिः । पुरन्दर सामथ तथा पुष्यबृहस्पती || पञ्चैते पुष्ययेोगेन पौर्णमास्यां तपोबलात् । श्रलङ्कृतं पुनचक्रुः सौभाग्योत्सव केलिभिः ॥ तस्मान्नरः पुष्ययोगे तत्र सौभाग्यवृद्धये । गौरसर्षपकल्केन समालभ्य स्वकां तनुम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat - www.umaragyanbhandar.com Page #261 -------------------------------------------------------------------------- ________________ २२५ तिथ्यर्कः कृतस्नानस्ततः कार्यमलक्ष्मीनाशनं परम् । उद्वर्त्य देवञ्च तथा मौषधियुतै लैः॥ नापयित्वा नवं वस्त्रं गृहीत्वाच्छादन ततः । यष्टव्य मङ्गलशतं धूपं स्रङमाल्यशोभितम् ।। ततो नारायणं शक्रश्चन्द्र पुष्यबृहस्पती । सम्पूज्य धूपपुष्पैश्च नैवेद्यैश्च पृथक पृथक् ॥ प्रशस्तैर्वैदिकैर्मन्त्रैः कृत्वाऽग्निहवन तथा । धनैविप्रांश्च सन्तर्प्य नवैर्वस्त्रैश्च शोभितान् ॥ ततः पुष्टिकरं हृद्यं भोक्तव्यं घृतपायसम् ।" इति । अथ माध्यामन्नदानान्युक्तानि भविष्योत्तरे-- "माध्यां मघासु च तिलैः सन्तर्प्य पितृदेवताः । तिलपात्राणि देयानि तिलैः सपललोदनम् ।। कार्पासदानमत्रैव तिलदानन्तु शस्यते । कम्बलाजिनरत्नानि कञ्चुको पापमोचकौ ।। उपानहानमन्त्रैव कथितं सर्वकामदम् । यत्र वा तत्र वा स्नान दान वित्तानुरूपतः ॥" तथा तत्रैव "पार्णमास्यान्तु यो माघे पूजयेद्विधिवच्छिवम् । सेोऽश्वमेधमवाप्येह विष्णुलोके महीयते ॥" इति । अस्यामेव माघस्नानाद्यापन कार्यम् । तद्विधिस्तु "कार्तिकेवाऽथ तपसि विधिरेवंविधो मतः ॥" २६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #262 -------------------------------------------------------------------------- ________________ २२६ तिथ्यर्कः इति नारदवचनात् कार्तिकोद्यापनवद् ज्ञेयः । अथ फाल्गुनपौर्णमास्यां होलिकापूजनमुक्तं भविष्ये "तपस्यपूर्णिमायान्तु रजन्यां होलिकोत्सवः ।" इति । तत्र पौर्णमासी प्रदोषव्यापिनी ग्राह्या । तदाह चन्द्रप्रकाशे नारदः “प्रदोषव्यापिनी ग्राह्या पूर्णिमा फाल्गुनी सदा । तस्यां भद्रामुखं त्यक्त्वा पूज्या होला निशामुखे ॥” इति । प्रदोषस्त्रिमुहूर्त्तात्मकः । यदा तु दिनद्वये प्रदोषव्यापिनी तदोतरा, पूर्व दिने भद्रारहितकालाभावात् । तथा च निर्णयामृतमदनरत्नयोः पुराणसमुच्चये "भद्रायां दीपिता होली राष्ट्रभङ्ग करोति वै । नगरस्य च नैवेष्टा तस्मात्ता परिवर्जयेत् ॥” इति । यदा पूर्वदिने प्रदोषव्यापिनी, परदिने प्रदोषेऽभावः, तदा तु पूर्वदिने भद्रां विहाय कार्या, "राकायामद्वयादूज़ चतुर्दश्यां यदा भवेत् । होला भद्रावसाने तु होलिकां तत्र दीपयेत् ॥" इति भविष्योत्तराच्च। यदा पूर्वदिने प्रदोषव्याप्तिन तत्सान्त्वना। अथ च भद्रारहितः कालो न लभ्यते, उत्तरदिने च प्रदोषे पूर्णिमाभावस्तदा भद्रापुच्छे कार्या, "पृथिव्यां यानि कार्याणि शुभानि त्वशुभानि तु । तानि सर्वाणि सिद्धयन्ति विष्टिपुच्छे न संशयः ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #263 -------------------------------------------------------------------------- ________________ तिथ्यर्कः इति लोक्तेः । विष्टिपुच्छमुक्तं ज्येोतिःशास्त्रे“पञ्चद्वयत्रिकृताष्टरामरसभूयामादिघव्यः शरा विष्टेरास्यमसद्द्वजेन्दुरसरामाद्य श्विवाणान्धिषु । यामेष्वन्त्यघटीत्रयं शुभकरं पुच्छं तथा वासरे विष्टिस्तिथ्यपरार्द्धजा शुभकरी रात्रौ तु पूर्वार्द्धजा ।।" - अस्यार्थः - शुक्लकृष्णपक्षये।श्चतुर्थ्यष्टम्येकादशी पैार्णमासीतृतीयासप्तमीचतुर्दशीषु क्रमेण पञ्चमद्वितीय सप्तमचतुर्थाष्टमतृतीयपष्ठप्रथमप्रहराणां प्रथमघटीपञ्चकं भद्रामुखम्, तदशुभम्, आस्वेव तिथिष्वष्टमप्रथमषष्ठतृतीय सप्तमद्वितीयपञ्चमचतुर्थ प्रहरेण्वन्तिमं घटीत्रयं भद्रापुच्छम्, तच्छुभम् शेषं स्पष्टमिति । यदा त्वस्मिन्नेव विषये उत्तरदिने सार्द्धयामत्रयमिता ततेोऽधिका वा पौर्णमासी प्रतिपदश्चापरेऽह्निवृद्धिस्तदा पैौर्णमास्युत्तरमपि प्रतिपत्प्रदेोप एवं होलिका कार्या, न पूर्वेऽह्नि विष्टिपुच्छे । तदुक्तं भविष्ये " सार्द्धयामत्रयं पूर्णा द्वितीये दिवसे यदा । प्रतिपद्धर्द्धमाना तु तदा सा होलिका स्मृता ॥” इति । २२७ Shree Sudharmaswami Gyanbhandar-Umara, Surat यत्त वचनम् - - " वह्नौ वह्नि ं परित्यजेत्” इति वह्नौ होलिकायां ૭ वह्नि प्रतिपदं वर्जयेदित्यर्थः, तदेतत् सायङ्काले भद्रारहितपौर्णमासीलाभेऽपि तामतिक्रम्य प्रतिपदि न कर्त्तव्यमित्येतत्परमुन्नेयम्, भविष्यवाक्यस्य निरर्थकता भीतेः । यदा पूर्वरात्रि w www.umaragyanbhandar.com Page #264 -------------------------------------------------------------------------- ________________ २२७ तिथ्यर्कः भान्विता, उत्तरेऽह्नि प्रदोषे ग्रस्तोदयात्मकं चन्द्रग्रहणम्, तदा स्नात्वा होला कार्या, "स्नात्वा कर्माणि कुर्वीत भृतमन्नं विवजयेत्" । इति वाक्यात् । अत्र कृत्यं हेमाद्रौ भविष्ये - "सञ्चयं शुष्ककाष्ठानामुपलानाञ्च कारयेत् । तत्राग्निं विधिवद् हुत्वा रक्षाघ्नैर्मन्त्रविस्तरैः ॥" पूजामन्त्रस्तु "असकपामयसंत्रस्तैः कृता त्वं होलि ! वालिशैः । अतस्त्वां पूजयिष्यामि भूते ! भूतिप्रदा भव ॥" इति । फाल्गुनो मलमासश्चेच्छुद्ध मासि होला कार्या, "स्पष्टमासविशेषाख्याविहितं वर्जयेद् मले ।" इति नारदवचनात् । इयमपि मन्वादिरित्युक्तं प्राक् । अत्रापि दोलोत्सव उक्तः कृत्यचिन्तामणी ब्राह्मे "नरो दोलागतं दृष्ट्वा गोविन्दं पुरुषोत्तमम् । फाल्गुन्यां संयतो भूत्वा गोविन्दस्य पुरं व्रजेत् ॥ इति । पौर्णमासी गुरुवारेण सिद्धा, मन्देन विरुद्धा । योगिन्यत्र वायव्यामिति पौर्णमासीनिर्णयः ।। इति श्रीमद्विद्वच्छिरोमणिभारद्वाजमहादेवभट्टात्मनसकलविद्यानिधानदिवाकरविरचिते तिथ्यर्के षोडशतिथीनां निर्णयः समाप्तः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #265 -------------------------------------------------------------------------- ________________ अथेष्टिकालनिर्णयः तत्रेष्टिः पर्वपतिपत्सन्धौ कार्या। तदुक्तं माधवीये गोभिलेन"पक्षान्ता उपवस्तव्याः पक्षादयो यष्टन्याः सन्धिमभितो यजेत्" इति । उपवासोऽन्वाधानम् । सन्धेः सूक्ष्मत्वात् तत्र यागानुष्ठानस्य बाधात् तत्सामीप्य विषयः। तदाह माधवीये बौधायन: "सूक्ष्मत्वात् सन्धिकालस्य सन्धिविषय उच्यते । सामीप्यं विषयं प्राहुः पूर्वेणाप्यपरेण च ॥" अत्र पूर्वापरशब्दाभ्यां सन्धेः प्राचीन पर्वदिन प्रतीचीन प्रतिपद्दिनमुच्यते । तत्र पूर्वस्मिन् पर्वदिनेऽन्वाधानादिरूपो यागारम्भः कार्यः। अपरस्मिन् प्रतिपदिने स्विष्टकृदादिस्तेमरूपा यागसमाप्तिः कार्या। तथा च तैत्तिरीयब्राह्मणश्रुतिः"पूर्वे रिध्मावहिः करोति यज्ञमेवारभ्य गृहीत्वोपवसति" इति । शतपथेऽपि-"पूर्वेधुरग्निं गृह्णात्युत्तरमहर्यजति" इति । अन्वाधानयागयोः कालमाह लौगाक्षिः "त्रीनशानौपवस्तस्य यागस्य चतुरो विदुः । द्वावशावुत्सृजेदन्त्यौ यागे च व्रतकर्मणि ॥" इति । पतिपत्पर्वणोरन्त्यौ द्वावशा यथाक्रमं यागान्वाधानयोस्त्याज्याविति भावः । तानिमान् यागस्य चतुरोंऽशान् विणतो माधवीये यज्ञपाशातातपा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #266 -------------------------------------------------------------------------- ________________ तिथ्यर्क: " पञ्चदश्याः परः पादः पक्षादेः प्रथमास्त्रयः । काल: पार्नणयागे स्यादथान्तेषु न विद्यते ॥ पर्वणो यश्चतुर्थोऽश आद्या प्रतिपदस्त्रयः । यागः कालः स विज्ञेयः प्रातरुक्तो मनीषिभिः ॥” इति । 'प्रातरिति विशेषणात् सूर्योदयस्योपरि मुहूत्तत्रयं यागकाल इत्युक्त' भवति' इति माधवः । प्रतिपदश्चतुर्थाशं निषेधति तत्रैव २३० कात्यायनः " न यष्टव्य ं चतुर्थेऽशे यागैः प्रतिपदः क्वचित् । रक्षांसि तद्विलुम्पन्ति श्रुतिरेषा सनातनी ॥” इति । एवं निर्णीतेऽर्थे पर्वप्रतिपदेाः सम्पूर्णत्व न कश्चिदपि सन्देहः । खण्डत्वे तु तयोर्निर्णयमाह माधवीये गोभिलः -- 46 "आवत' ने यदा सन्धिः पर्वप्रतिपदेाभवेत् । तदर्याग इष्येत परतश्चेत्परेऽहनि ।। पर्वप्रतिपदाः सन्धिर्वागावर्त्तनाद यदि । तस्मिन्नहनि यष्टव्य ं पूर्वेद्युस्तदुपक्रमः ॥ आवर्त्तनात् परः सन्धिर्यदि तस्मिन्नुपक्रमः । परेद्युरिष्टिरित्येव पर्वद्वयविनिश्चयः ॥” इति । आवतन मध्याह्नः । अत्र सन्धिश्व प्रतिपदा हासवृध्योरर्द्ध पर्वणि वियोज्य संयोज्य ज्ञेयः । तदाह कात्यायन: " परेss घटिकान्यूनास्तथैवाभ्यधिकाच याः । तदद्ध क्लृप्त्या पूर्वस्मिन् ह्रासवृद्धी प्रकल्पयेत् ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #267 -------------------------------------------------------------------------- ________________ लौगाक्षरपि तिथ्यर्क: "तिथेः परस्याः घटिकास्तु याः स्युयूनास्तथैवाभ्यधिक्राश्च तासाम् । अर्द्ध विज्य च तथा प्रयोज्य हासे च वृद्धौ प्रथमे दिने तत् ॥” इति । तथा च प्रतिपदा ह्रासे यावान् हासस्तदर्द्ध पूर्वस्मात् पर्वदिनानिष्काश्यैव प्रतिपदवृद्धौ वृद्धिनाडिकार्द्ध पूर्वस्मिन् पर्वदिने ' संयोज्य सन्धिः कल्पनीय इत्यर्थः । २३१ प्रतिपदा ह्रासवृद्धी पर्व भोगमादाय ज्ञेये । तथाहियदा चतुर्दशी दशघव्यात्मिका, पर्व' च दशघय्यात्मकम्, प्रतिपदेकोनविंशतिघट्यात्मिका, तदा प्रतिपदेा ह्रासः । यदा चतुदेशी पञ्चविंशतिघय्यात्मिका, पर्व एकोनविंशतिघट्यात्मकम्, प्रतिपच्चतुर्दशघट्यात्मिका, तदा वृद्ध्युदाहरणम् । एवमादीन्युदाहरणानि बोद्धव्यानि । अपराह्न सन्धैौ वृद्धशातातपः “सन्धिर्यत्रापराह्न स्याद् यागः प्रातः परेऽहनि । कुर्वाणः प्रतिपद्भागे चतुर्थेऽपि न दुष्यति ॥” इति । यश्च "न यष्टव्य' चतुर्थेऽशे यागैः प्रतिपदः क्वचित् ।" इति कात्यायनवचनात् प्रतिपच्चतुर्थभागे यागनिषेधः, स मध्याह्नसन्धिविषये यागकाले सत्यालस्यादिना तमतिक्रम्य चतुर्थेऽशे न Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #268 -------------------------------------------------------------------------- ________________ २३२ तिथ्यर्कः यष्टव्यमित्येवं बोध्यः । [यदा ?] अमायां चन्द्रदर्शो भवति, दिने यागकरणे प्रायश्चित्तविशेषमाह कात्यायन: "यजनीयेऽह्नि सेमिश्चेद् वारुण्यां दिशि दृश्यते । तत्र व्याहृतिभिर्तुत्वा दण्डं दद्याद् द्विजातये ॥" इति । वृद्धवसिष्ठशातातपावपि__"श्रादित्येऽस्तमिते चन्द्रः प्रक्षीण उदयाद्यदि । प्रतिपद्यतिपत्तिः स्यात् पञ्चदश्यां यजेत्तदा ॥" 'अस्तमिते' अस्तासन्ने इति श्रीगुरवः । अतिपत्तिागस्याननुष्ठानम्, "द्वितीया त्रिमुहूर्त्ता चेत् प्रतिपद्यापरालिकी । अन्वाधानं चतुर्दश्यां परतः सोमदर्शनात् ॥" इति सोमदर्शननिषेधाच्च । "अगस्तमयाद्यत्र द्वितीया तु प्रदृश्यते । तत्र यागं न कुर्वीत विश्वेदेवाः पराङ्मुखाः ॥” इति । अयं सोमदर्शननिषेधस्तु कात्यायनबौधायनपरो नाश्वलायनापस्तम्बानाम्, “यस्मिन्नहनि पुरस्तात् पश्चात् सोमो न दृश्येत तदर्यजेत" इति श्रुतेः। "द्वितीया त्रिमुहूर्ता चेत् प्रतिपद्यापरालिकी । अन्वाधान चतुर्दश्यां परतः सेामदर्शनात् ।।" इति बौधायनवचनाच्च । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #269 -------------------------------------------------------------------------- ________________ तिथ्यर्कः २३३ आश्वलायनापस्तम्बैस्तु “यदहः पश्चाञ्चन्द्रमा अभ्युदेति तदहर्यजन्निमाँल्लोकान् उदेति" इति श्रुत्या चन्द्रदर्शनोपेतायामपि प्रतिपदीष्टेराम्नानात् सोमदर्शनवत्यपि काले कार्यो । यत्तु“पर्वणेांऽशे चतुर्थे तु कार्या नेष्टिर्द्विजोत्तमैः । द्वितीयासहित यस्माद् दूषयन्त्याश्वलायनाः ॥" इति स्मृतिवाक्यं सर्वद्विजानामविशेषेण द्वितीयायुक्तपतिपदि यागनिषेधकम्, तदावर्तनादर्वाक पर्वप्रतिपत्सन्धौ बोध्यम् । इष्टिसमाप्तिश्च प्रतिपन्मध्य एव कार्या न पर्वान्ते, "प्रतिपद्यप्रविष्टायां यदि चेष्टिः समाप्यते । पुनः प्रणीय कृत्स्नेष्टिः कर्त्तव्या यागवित्तमैः ॥" इति गार्ग्यवचनात् । कदाचित् पौर्णमास्यां विशेषमाह कात्यायन: "सन्धिश्चेत् सङ्गवार्ध्व पाक पर्यावर्त्तनाद्रवेः । सा पौर्णमासी विज्ञेया सद्यस्कालविधौ तिथिः ॥” इति । एतदपि वैकल्पिकं न नियतम्, “पार्णमास्यामन्वाधानपरिस्तरणोपवासाः सद्यो वा सद्यस्कालायां सर्व क्रियते" इत्यापस्तम्बस्मरणात् । अत्र याज्ञिकास्तु"प्राधानानन्तरा पैौर्णमासी चेन्मलमासगा। तस्यामारम्भणीयादीन् न कुर्यात्तु कदाचन ॥" ३० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #270 -------------------------------------------------------------------------- ________________ '२३४ तिथ्यर्क: इति त्रिकाण्डमण्डनवचनाद् विभ्रष्टिं कृत्वा शुद्धकाले एवारम्भं कुर्वीतेत्याहु: । प्रयोगपारिजातकारस्तु - “यद्यारम्भकाले मलमासगुरुशुक्रास्तबाल्य वार्द्धकग्रहणपापमासादि भवति तदापि प्रारम्भः कार्य एव । यानि तु तत्रारम्भनिषेधकानि ― " उपरागोऽधिपास यदि प्रथमपर्वणि । तथा मलिम्लुचे पौषे नान्वारम्भणमिष्यते || गुरुभार्गव चन्द्रसूर्यग्रहे तथा । " इति संग्रहवचनानि, तान्यालस्यादिना स्वकालानुपक्रान्तेष्टिस्था लीपाकविषयाणि, " नामकर्म च दर्शष्टिं यथाकालं समाचरेत् । तिपाते सति तयेाः प्रशस्ते मासि पुण्यभे || " इत्यपरार्कस्थगर्गवचनाद्” – इत्याह । अयमेव पक्षोsस्मन्मातृप्रपितामहश्रीजगद्गुरुभट्ट श्रीनारायणपदपाथोजैः प्रयेोगरत्ने श्रादृतः । इति प्रकृतीष्टेः कालो निरूपितः ॥ अथ विकृतिकालः । श्रापस्तम्बः – “यदीष्ट्या यदि पशुना यदि सामेन यजेत सामावास्यायां पौर्णमास्यां वा यजेत" इति । प्रकृतिदर्शपैार्णमासौ । “ऐन्द्राग्नमेकादशकपालं निर्वपेत् प्रजाकामः" इत्यादिकाः काम्येष्टया विकृतयः । तत्र “प्रकृतिवद् विकृतिः कर्त्त व्या" इति न्यायेन विकृतीनामपि कदाचित् सन्धिदिनोत्तर Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #271 -------------------------------------------------------------------------- ________________ तिथ्यर्क: २३५ दिनेऽनुष्ठानं प्राप्येत, तदेतदुदाहृतापस्तम्बवचनेन न्यायं बाधित्वा वार्यते । प्रकृतिविकृतेः सन्निपाते निर्णयमाह कात्यायनः - "श्रावर्तनात् प्राग् यदि पर्वसन्धिः कृत्वा तु तस्मिन् प्रकृतिं विकृत्याः । तदैव यागः परतो यदि स्यात्तस्मिन् विकृत्याः प्रकृतेः परेद्युः ॥” इति । पशैौ कालमाह - "अर्द्धादो भवति नियतः पर्वसन्धिः परस्तात् कृत्वा तस्मिन्नहनि तु पशुं सद्य एव द्वयहं वा ॥ आरभ्याथ प्रकृतिरथ चेत् पर्वसन्धिः पुरस्तात् कृत्वा तस्मिन् प्रकृतिमथ तु स्यात् पशुः सद्य एव ॥” इति । ग्रयणकालानाह आपस्तम्ब: "वर्षासु श्यामाकैर्यजेत शरदि ब्रीहिभिर्वसन्ते यवैः" इति । सम्पूर्णे दर्शे साग्ने क्रममाह लौगाक्षि: " पक्षान्तं कर्म निर्वर्त्य वैश्वदेवं च साग्निकः । पितृयज्ञ ततः कुर्यात्ततोऽन्वाहार्यकं बुधः ।। " इति । 'पक्षान्तं कर्म्म' अन्वाधानकर्म । 'अन्वाहार्यम्' दर्शश्राद्धम् । इति सङ्क्षेपः । अथ ग्रहणं निर्णीयते । माधवीये वृद्धगार्ग्यः " पूर्णिमा प्रतिपत्सन्धा राहुः सम्पूर्णमण्डलम् । ग्रसते चन्द्रमर्कञ्च दर्शप्रतिपदन्तरे ||" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #272 -------------------------------------------------------------------------- ________________ २३६ तिथ्यर्कः तत्र यस्मिन् यामे चन्द्रग्रहणम्, तस्माद् यामात् पूर्वप्रहरत्रयं न भुञ्जीत, "ग्रहणन्तु भवेदिन्दोः प्रथमादधि यामतः । भुञ्जीतावत्तनात् पूर्व प्रथमे प्रथमादधः ॥" इति मार्कण्डेयवचनात् । 'अधि' ऊर्ध्वम् । 'आवर्तनाद्' मध्याह्वात् । एवं सूर्यग्रहणे यस्मिन् यामे ग्रहणम् , तस्माद्यामात् पूर्व चतुरो यामान् भोजने विवर्जयेत्, "सूर्यग्रहे तु नाश्नीयात् पूर्व यामचतुष्टयम् । चन्द्रग्रहे तु यामांस्त्रीन् बालद्धातुरैर्विना ।।" इति वृद्धगौतमोक्तः। बालवृद्धातुराणां ग्रहणयामात् पूर्वमेको यामो भोजने निषिद्धः , "सायाह्ने ग्रहणञ्चेत् स्यादपराह्न न भोजनम् । अपराह्न न मध्याह्ने मध्याह्न न तु सङ्गवे ।। भुञ्जीत सङ्गवे चेत् स्यान्न पूर्व तु भुजिक्रिया।" इति मार्कण्डेयोक्तेः । कदाचिचन्द्रग्रहे विशेषमाह माधवीये वृद्धवसिष्ठः "ग्रस्तोदये विधाः पूर्वं नाह जनमाचरेत् ।" इति । सूर्याचन्द्रमसाम्रस्तास्ते तु तत्रैव व्यासो विशेषमाह"अमुक्तयोरस्तगयोरयाद् दृष्ट्वा परेऽहनि ।" इति । चन्द्रग्रस्तास्ते द्वितीयदिने भोजननिषेधः । न तु सन्ध्यास्नानादावित्याह उशनाः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #273 -------------------------------------------------------------------------- ________________ २३७ तिथ्यर्कः "ग्रस्ते चास्तंगते त्विन्दौ ज्ञात्वा मुक्त्यवधारणम् । स्नानहोमादिकं कार्य भुञ्जीतेन्दूदये पुनः ॥” इति । कचित्त · स्नात्वा पाकादिकं कार्यम्' इति तृतीयश्चरणः । इन्दुपदं रवेरुपलक्षणम् । तेन सायं सन्ध्यादिसिद्धिः। हेमाद्रौ] पत्रिंशन्मते "सर्वेषामेव वर्णानां सूतकं राहुदर्शने । स्नात्वा कर्माणि कुर्वीत शृतमन्नं विवर्जयेत् ॥" 'शृतम्' पाचितम् । ग्रहणात् पूर्व पाचितं ग्रहणेत्तरं न भोक्तव्यमिति भावः । शृतान्नसंसर्गित्वात् तत्पात्राणामपि क्षालन त्यागश्च । केषुचित् प्रतिप्रसवो वचनान्तरे "प्रारनालं च तवं चाद्यादेवं घृतपाचितम् । उदकश्च कुशच्छन्नं न दुष्येद्राहुदर्शने ॥” इति । कुशच्छन्नमिति सर्वत्रान्वेति । ग्रहणे होमादिस्मातकर्म कुर्वीत, ___"स्मार्तकर्मपरित्यागो राहोरन्यत्र मूतके ।" इति वचनात् । वेधकाले ग्रहणे वा भोजने प्रायश्चित्त माधवीये कात्यायन आह "चन्द्रसूर्यग्रहे भुक्त्वा प्राजापत्येन शुद्धयति । तस्मिन्नेव दिने भुक्त्वा त्रिरात्रेणैव शुद्धयति ।।" इति । वेधे भोजने त्रिरात्रोपोषणात् शुद्धिरित्यर्थः । चन्द्रग्रहे रात्रावपि स्नानदानादिकार्यमित्याह देवल: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #274 -------------------------------------------------------------------------- ________________ २३८ तिथ्यर्कः “यथा स्नानं च दानं च सूर्यस्य ग्रहणे दिवा । सोमस्यापि तथा रात्रौ स्नानं दानं विधीयते ॥" इति । दानान्युक्तानि भारते "भूमिर्गावः सुवर्ण च धान्यं वा यद्यदीप्सितम् । तत्सर्वं ग्रहणे देयमात्मनः श्रेय इच्छता ।।" एतदान सत्पात्रो देयमित्युक्तं तत्रैव "अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः । पात्रभूताय विप्राय भूमिं दद्यात् सदक्षिणाम् ॥” इति । पात्रलक्षणमाह याज्ञवल्क्यः -- "न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षते ॥” इति । वृत्तमाह ौनकः-- "सत्यं शौचं क्षमा धैर्य वृत्तमित्यभिधीयते ।" एतादृशपात्रालाभे बौधायनः "श्रोत्रियोऽश्रोत्रियो वापि पात्रं वाऽपात्रमेव वा । विमब्रवोऽपि वा विप्रो ग्रहणे दानमर्हति ॥” इति । हेमाद्रौ व्यासः-... "सूर्यवारे रविग्राहः सोमे सेामग्रहस्तथा । चूडामणिरिति ख्यातस्तत्रानन्तफलं लभेत् ।। वारेवन्येषु यत्पुण्यं ग्रहणे चन्द्रसूर्ययोः । तत्पुण्यं कोटिगुणित ग्रासे चूडामणौ स्मृतम् ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #275 -------------------------------------------------------------------------- ________________ तिथ्यर्क: शातातप:-- "सैंहिकेयेो यदा सूर्य ग्रसते पर्वसन्धिषु । गजच्छाया तु सा ज्ञेया पितॄणां दत्तमक्षयम् ॥” इति । शैचिनोऽपि ग्रहणे स्नानमुक्तं वृद्धवसिष्ठेन" सूतके मृतके चैव न दोषो राहुदर्शने । तावदेव भवेच्छुद्धिर्यावन्मुक्ति दृश्यते ।।" शुद्धिरित्युक्ते राशचिनो दानमपि भवति । रजस्वलाया विशेषो मिताक्षरायाम् - " स्नाने नैमित्तिके प्राप्ते नारी यदि रजस्वला । पात्रान्तरिततोयेन स्नानं कृत्वा व्रतं चरेत् ।" इति । 'व्रतम्' रजखलाधर्मरूपम् । ग्रहणे पुण्यकालमाह जाबालि :“संक्रान्तौ पुण्यकालस्तु षोडशोभयतः कलाः । चन्द्रसूर्योपरागे च यावद्दर्शनगोचरे ॥” इति । ' दर्शनम्' शास्त्रीयं ज्ञानम् । तथा च यावत्कालपर्यन्तं शास्त्रेण ग्रहणं ज्ञायते, तावत्कालः पुण्यसमय इति भावः । नन्वेवं सति द्वीपान्तरग्रहणेऽपि स्नानदानप्रसङ्ग इति वाच्यम्, "सूर्यग्रहो यदा रात्रौ दिवा चन्द्रे ग्रहस्तथा । तत्र स्नानं न कुर्वीत दद्यादानं न तु क्वचित् ॥" २३६ Shree Sudharmaswami Gyanbhandar-Umara, Surat dom इति षट्त्रिंशन्मते तस्य निषेधात् । मेघाद्याच्छिन्ने मोक्षस्नानमपि शास्त्रेण मुक्तिं विज्ञाय कार्यम्, www.umaragyanbhandar.com Page #276 -------------------------------------------------------------------------- ________________ २४० तिथ्यर्कः "चन्द्रसूर्यग्रहे नाद्यात्तस्मिन्नहनि पूर्वतः ।। राहोर्विमुक्ति विज्ञाय स्नात्वा कुर्वीत भोजनम् ।" इति वृद्धगौतमेन विज्ञायेति सामान्यतोऽभिधानात् । एतेन चाक्षुपदर्शनमेव स्नाननिमित्तमिति ब्रुवन्तो निरस्ता वेदितव्याः। हेमाद्रौ शातातपः "ग्रस्यमाने भवेत् स्नान ग्रस्त होमो विधीयते । मुच्यमाने श्राद्धदाने मुक्ते स्नान विधीयते ॥ इति । तथा च ग्रस्यमाने स्नानमकुर्वन्तो गोडा भ्रान्ता एव । ब्रह्मवैवत्तें "विमुक्ते यदि न स्नायाच्चन्द्रसूर्यग्रहे तथा । तस्य तावदशौचं स्याद् यावदन्यः परो ग्रहः ॥” इति । अत्र स्नान गङ्गादिमहानदीषु कार्यम् । तदुक्तं महाभारते "गङ्गास्नानं प्रकुर्वीत ग्रहणे सोममूर्ययोः। महानदीषु सर्वासु स्नानं कुर्याद् यथाविधि ॥” इति । महानद्यो ब्राह्मे दर्शिताः "गोदावरी भीमरथी तुङ्गभद्रा च वेणिका । तापी पयोष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः ॥ भागीरथी नर्मदा च यमुना च सरस्वती । विशोका चतस्रश्च विन्ध्यस्योत्तरस्तथा ॥” इति । महानद्यभावे शङ्ख पाह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #277 -------------------------------------------------------------------------- ________________ तिथ्यर्कः २४१ "वापीकूपतडागेषु गिरिप्रस्रवणेऽपि च । नद्यां नदे देवखाते सरसीद्धताम्बुनि ॥ उष्णोदकेन वा स्नायाद् ग्रहणे सोमसूर्ययोः ।" उष्णोदकमातुरस्येत्याह व्याघ्रः "आदित्यकिरणैः पूतं पुनः पूतच वह्निना । अतो व्याध्यातुरः स्नायाद् ग्रहणेऽप्युष्णवारिणा ॥ इति । एतेन वारणं स्नानं मुख्यम्, तदभावे नित्यवदाग्नेयाद्यपि कार्यमिति सूचितम् । व्यासः "सर्व गङ्गासमं तोयं सर्वे ब्रह्मसमाः द्विजाः । सर्वं भूमिसमं दान ग्रहणे सोमसूर्ययोः ॥” इति । क्षेत्राणि देवीपुराणे "गङ्गा कनखलं पुण्य प्रयागः पुष्करं तथा । कुरुक्षेत्रं महापुण्य राहुग्रस्ते दिवाकरे ॥” इति । अत्र श्राद्धं कार्यम् "सर्वस्वेनापि कर्तव्य श्राद्धं वै राहुदर्शने । अकुर्वाणस्तु नास्तिक्यात् पङ्के गौरिव सीदति ॥" इति वचनात् । तन्मुच्यमानकाले कार्यमित्युक्तं प्राक् । तचोपवासवता कार्यमिति विवेचनकारः। भुक्त्वापि कार्यमित्यपरे । शिवरहस्ये "सूर्णेन्दुग्रहणं यावत्तावत्कुर्याज्जपादिकम् ।। न स्वपेन च भुञ्जीत स्नात्वा भुञ्जीत मुक्तयोः ॥" इति । ३१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #278 -------------------------------------------------------------------------- ________________ २४२ तिथ्यर्कः जन्मनक्षत्रराश्यादौ स्थितरविसामग्रहणे दोष इत्युक्तं ज्योतिःशास्त्रे"त्रिषडदशायोपगते नराणां शुभप्रदं स्याद् ग्रहणं रवीन्द्वोः । द्विसप्तनन्देषु च मध्यम स्या च्छेपेष्वनिष्टं कथितं मुनीन्द्रैः ॥” इति । विष्णुधर्मोत्तरे "सूर्यस्य संक्रमो वापि ग्रहणं शशिसूर्ययोः । यस्य त्रिजन्मनक्षत्रे तस्य रोगोऽथवा मृतिः ॥ 'त्रिजन्मनक्षत्राणि' जन्मदशमैकोनविंशतिः । होरायां ग्रस्यते यस्य नक्षत्रे वा निशाकरः । प्राणसन्देहमाप्नोति स वा मरणमच्छति ॥ यन्नक्षत्रगतो राहुर्घसते शशिभास्करौ । तज्जनानां भवेत्पीडा ये नराः शान्तिवर्जिताः ।। 'होरा जन्मलग्नम् । तस्य दानं च हामं च देवार्चनजपो तथा । उपरागाभिषेकं च कुर्याच्छान्तिर्भविष्यति ॥ स्वर्णेन वाऽथ पिष्टेन कृत्वा सर्पस्य चाकृतिम् । ब्राह्मणाय ददेत्तस्य न रोगादिश्च तत्कृतः ॥" 'सर्पस्य तदाकारस्य राहोरित्यर्थः। ज्योतिःसागरे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #279 -------------------------------------------------------------------------- ________________ २४ ति : "सौवर्ण कारयेमागं पलेनाथ पलार्द्धतः । तदर्दैन तदर्डेन फणायां मौक्तिकं न्यसेत् ।। ताम्रपात्र निधायाऽय घृतपूर्णे विशेषतः । कांस्ये वा कान्तिलोहे वा न्यस्य दद्यात् सदक्षिणम् ॥ सौवर्ण राजतं वापि बिम्ब कृत्वा खशक्तितः । उपरागभवक्लेशच्छिदे विप्राय दापयेत् ॥" मन्त्रस्तु "तमोमय ! महाभाग ! सोमसूर्यविमर्दन ! । हेमताराप्रदानेन मम शान्तिपदा भव ॥ विधुन्तुद ! नमस्तुभ्यं सिंहिकानन्दनाच्युत ! । दानेनानेन नागस्य रत मां वेधजाद्भयात् ॥" इति । उपरागाभिषेकश्व "यस्य राशिं समासाद्य भवेद् ग्रहणसम्भवः।।" इत्यादिना ग्रन्थेन मत्स्यपुराणाभिहितः श्रीमातामहगुरुचरणकृतशान्तिमयूखे द्रष्टव्यः। दुष्टग्रहणदोषनाशकं सौषधिस्नानमुक्तं ग्रन्थान्तरे"सिद्धार्थकुष्ठरजनीद्वयलोध्रमुस्ता लामज्जकै (शै १)लफलिनीमुरमांसियुक्ताः । स्नानं हितं ग्रहणदोषविनाशनाय सर्वे ग्रहा रविमुखा बलिनो भवन्ति ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #280 -------------------------------------------------------------------------- ________________ २४४ तिथ्यर्फः 'लामज्जकम्' उशीरभेदः, 'फलिनी' प्रियङगुरिति दिक् । अथ पक्षः। विष्णुपुराणे"त्रिंशन्मुहूर्त कथितमहोरात्रं तु यन्मया । तानि पञ्चदश ब्रह्मन् ! पक्ष इत्यभिधीयते ॥" स च द्वधा, शुक्लकृष्णभेदात् । दैवे कर्मणि शुक्लपक्षः, पित्र्ये कर्मणि कृष्णपक्षो ग्राह्यः, ___"देवे मुख्यः शुक्लपक्षः कृष्णः पित्र्ये विशिष्यते ।" इति माधवलिखितश्रुतेः। अथ मासनिर्णयः । 'मस' परिमाणे इत्यस्माद्धातोर्निष्पन्नस्य मासशब्दस्यार्थो मस्येते परिमीयेते यावता कालेन चन्द्रद्धिक्षयौ स कालो मास इति । स मासस्त्रिधा, चांद्रसावनसौरभेदात् । चान्द्रादीनां स्वरूपं माधवीये ब्रह्मसिद्धान्ते "चान्द्रः शुक्लादिदर्शान्तः सावनस्त्रिंशता दिनैः । एकराशी रविर्यावत्कालं मासः स भास्करः ॥” इति । माधवमदनरत्नयो क्षत्रमपि केचिदिच्छन्तीत्युक्तम् , "सर्वक्षपरिवत्तेस्तु नाक्षत्रो मास उच्यते ।" इति विष्णुधर्मोत्तरात् । स च सप्तविंशतिभिः (त्या ?) दिनैः सम्पद्यते, "माने मासस्तु नाक्षत्रे सप्तविंशतिभिर्दिनैः ।। इति स्मृतेः । कुत्र को वा मासा ग्राह्य इत्याकाङक्षायां गर्गः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #281 -------------------------------------------------------------------------- ________________ तिथ्यर्कः २४५ "सौरो मासा विवाहादा यज्ञादा सावनः स्मृतः । प्राब्दिके पितृकार्ये च चान्द्रो मासः प्रकीर्तितः ॥” इति । "प्राब्दिके सांवत्सरिकमृताहश्राद्ध, पितृकार्ये पाण्मासिकश्राद्धादी, चशब्दान्माससंवत्सरसाध्ययज्ञव्यतिरिक्त सर्वस्मिन् देवकार्य चान्द्रो मासः प्रशस्यते इत्युक्तम्" इति हेमाद्रिः। उक्तञ्च पितामहेन___"दैवे कर्मणि पित्र्ये च मासश्चांद्रमसः स्मृतः ।" इति । विप्राणान्तु मुख्यश्चान्द्र एव, "अमावास्यापरिच्छिन्नो मासः स्याद् ब्राह्मणस्य तु । संक्रान्तिपौर्णमासीभ्यां तथैव नृपवैश्ययोः ॥" इति ब्रह्मसिद्धान्तात् । नाक्षत्रमासस्योपयोगस्त्वायुर्दीर्घनिर्णयः । माधवस्तु-"अमावास्यया हि मासान् सम्पश्यन्ति, पौर्णमास्या हि मासान् सम्पश्यन्ति” इति श्रुत्या दर्शान्तत्वपूर्णिमान्तत्वयोः साम्यादनुष्ठानादिषु विशेषवचनाच्छिष्टाचाराच व्यवस्थेत्युदाजहार । दर्शान्तानां पूर्णिमान्तानां वा मासविशेषाणां कार्तिकादिसंज्ञा नक्षत्रयोगाद् । यत्र मासे पूर्णिमा कृत्तिकानक्षत्रेण युज्यते, सा कार्तिकी “नक्षत्रेण युक्तः कालः" इत्यण । अणन्तत्वाडङीप् । साऽस्मिन् मासे स कार्तिको मासः, "साऽस्मिन् पौर्णमासीति संज्ञायाम्" इत्यण , "लुबविशेषे” इति तस्य लुप् कार्तिकः । एवं मार्गशीर्षादयोऽपि बोध्याः। अत्र यद्यपि कृत्तिकादिनक्षत्रं कार्तिकादिषु प्रयोजकमुक्तम्, तथापि कृत्तिकादि द्वन्द्वं त्रिकञ्च प्रयोजकं बोध्यम्, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #282 -------------------------------------------------------------------------- ________________ तिथ्यर्क: "अन्त्योपान्त्यौ त्रिभा ज्ञेयेा फाल्गुनश्च त्रिभो मतः । शेषा मासा द्विभा ज्ञेयाः कृत्तिकादिव्यवस्थया ॥ द्वे द्वे चित्रादिताराणां परिपूर्णेन्दुसङ्गमे । मासाश्चैत्रादयो ज्ञेयास्त्रिकैः पष्ठान्त्याः ॥” इति च्यवनसङ्कर्षणवचनात् । अथ मासदेवता अपरार्के २४६ "केशव मार्गशीर्षे तु पैषे नारायणः स्मृतः । माधव माघमासे तु गोविन्दः फाल्गुने तथा ॥ चैत्रे मासि भवेद्विष्णुवैशाखे माधवस्तथा । त्रिविक्रम ज्येष्ठमासे आषाढे वामनस्तथा || श्री श्रावणे ज्ञेयो हृषीकेशस्ततः परम् । पद्मनाभ आश्वयुजे ततो दामोदरो मतः ।। सर्वेष्वेतेषु मासेषु नरकारिर्मलिम्लुचः । " इति । मलमासः । हेमाद्रौ ब्रह्मसिद्धान्ते "चान्द्रो मासेा ह्यसंक्रान्तो मलमासः प्रकीर्तितः ॥” इति । स द्वेधा— अधिमासक्षयमासभेदात् । तदुक्तं मदनरत्ने काठकगृह्ये— " यस्मिन् मासे न संक्रान्तिः संक्रान्तिद्वयमेव वा । मलमासः स विज्ञेया मासः स्यात्तु त्रयोदशः ||" इति । तत्राधिमासस्वरूपं भृगुणा दर्शितम् - " एकराशिस्थिते सूर्ये यदा दर्शद्वय ं भवेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #283 -------------------------------------------------------------------------- ________________ विषयर्क: २४७ हव्यकव्यक्रिया हन्ता तदा ज्ञेयेोऽधिमासकः ॥” इति । स्थूलमानेन तस्य कालो ब्रह्मसिद्धान्ते "द्वात्रिंशद्विगतैर्मासैदिनैः षोडशभिस्तथा । घटिकानां चतुष्केण पतत्येकेोऽधिमासकः ॥” इति । क्षयमासस्वरूपं सिद्धान्तशिरोमणी - संक्रान्तिमा सोऽधिमासः स्फुटः स्याद् द्विसंक्रान्तमासः क्षयाख्यः कदाचित् । क्षयः कार्त्तिकादित्रये नान्यतः स्यात् तदा वर्षमध्येऽधिमासद्वयं च । एकः क्षयात् प्राक् अपरस्तूर्वमित्येवमधिमासद्वय भवतीति भावः । अस्मिन्नेवार्थे जाबालि : -- " एकस्मिन्नेव वर्षे तु द्वौ मासावधिमासका । प्राकृतस्तत्र पूर्वः स्यादुत्तरस्तु मलिम्लुचः || ” इति । प्राकृतः शुद्धः कमाई इत्यर्थः । तयोर्नामनी ज्योतिर्ग्रन्थे— " यस्मिन् मासे न संक्रान्तिः संक्रान्तिद्वयमेव वा । संसपहस्पती मासावधिमासश्च निन्दिताः ||" इति । क्षयमासात् प्राचीनोऽसंक्रान्तः संसर्पः, उत्तरोऽहस्पतिरित्यर्थः । कर्मसु सम्यक सर्पतीति संसर्पः । अत एव कर्माहः । द्वितीयस्तु स पापानां पतिः, ते निषिद्ध इति भावः । क्षयस्यागमनकालस्तत्रैव - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #284 -------------------------------------------------------------------------- ________________ तिथ्यर्कः “गतोऽन्थ्यद्रिनन्दर्मिते शाककाले तिथीशैभविष्यत्यथाङ्गाक्ष सूर्यैः । गजायग्निभूमिस्तथा प्रायशोऽयं कुवेदेन्दुवर्षेः क्वचिदोकभिश्च ।" इति । अस्यायमर्थः-अब्धयश्चत्वारः, अद्रयः सप्त, नन्दा नव-९७४ एतैर्युक्ते शाककाले क्षयमासेा गतः पूर्वमासीत् । तिथयः पञ्चदश, ईशा एकादश-१११५ एतैर्युक्ते शाककालेऽग्रे भविष्यति भविता । अङ्गानि षट, अक्षाणि पश्च, सूर्या द्वादश–१२५६, गजा अष्टौ, अद्रयः सप्त, अग्नयस्त्रयः, भूरेकः-१३७८, कुरेकः, वेदाश्चत्वारः, इन्दुरेकः-१४१ एतैर्वरयं मलमासः प्रायशो भवतीत्यर्थः । च परम्, क्वचित्कदाचित्, गावो नव, कुरेकः-१९ एतैरपि भवतीत्यर्थः। अथाऽत्र कार्याकार्य विविच्यते । जाबालिः "नित्यनैमित्तिके कुर्याच्छाद्धं कुर्यान्मलिम्लुचे । तिथिनक्षत्रवारोक्तं काम्य नैव कदाचन ।" इति । अगतिकानि काम्यान्यपि ज्वरादिरोगं शान्तिकारीर्यादिग्रहदास्थ्यपरिहारकादीनि मलेऽपि कार्याणि, "रोगे चालभ्ययोगे च सीमन्ते पुंसवेऽपि च । यद् दानादि समुदिष्ट पूर्वत्रापि न दुष्यति ॥" इति मरीचिवचनात् । अगतिककाम्यनिषेधोऽप्यारम्भसमाप्तिविषय एव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #285 -------------------------------------------------------------------------- ________________ विध्यर्कः " सूर्या नाम ये मासा न तेषु मनुसंमतः । व्रतानां चैव यज्ञानामारम्भश्च समापनम् ॥” इति । तेनैवेाक्तत्वात् । 'असूर्याः' संक्रान्तिरहिता: । 'नाम' प्रसिद्धौ । केषांचिन्नित्यानामपि निषेधः काठकगृह्ये "पुष्टीष्ट्याग्रयणाधान चातुर्मास्यादिकान्यपि । महालयाष्टकाश्राद्धोपाकर्माद्यपि कर्म यत् ॥ स्पष्टमास विशेषाख्या विहितं वर्जयेन्मले ।” इति । 'पुष्टि: ' काठकादौ प्रसिद्धेति श्रीगुरवः । श्रग्रयणे विकल्पमाह पैठीनसिः— " संक्रान्तिरहिते मासि कुर्यादाग्रयणं न वा " इति । वृद्धमनु: २४६ "अग्न्याधेयं प्रतिष्ठां च यज्ञदानत्रतानि च । वेदवतवृषे । त्सर्गचूडाकरणमेखलाः ॥ माङ्गल्यमभिषेकं च मलमासे विवर्जयेत् ।" इति । त्राग्न्याधेयमपूर्वम्, प्रतिष्ठाऽप्यपूर्वा, अग्न्यनुगमननिमित्तमाधानं चाण्डालादिसंस्पर्शप्रयुक्ता पुनः प्रतिष्ठा चाऽसावकाशनैमित्तिकत्वान्मलमासेऽपि कार्या, "कुर्यात् व्रतादिकं कर्म प्रयत्नेन मलिम्लुचे । नैमित्तिकं च कुर्वीत सावकाशे न यद्भवेत् ॥” इति भविष्यात् । वृषोत्सर्ग निषेधस्तु काम्यवृषोत्सर्गपरः । प्रेतेद्देश्यकस्तु मलेsपि भवति — ३२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #286 -------------------------------------------------------------------------- ________________ २५० तिथ्यर्कः "एकादशेऽह्नि प्रेतस्य यस्य नोत्सृज्यते दृषः । प्रेतत्वं सुस्थि तस्य दत्तैः श्राद्धशतैरपि ॥" इत्यस्मन्मातृप्रपितामहश्रीभट्टनारायणपदपायोजलिखितवचनात् । हेमाद्रौ ज्योतिःशास्त्रे "तत्र दत्तमदत्तश्च हुतं न हुतमेव च । सुजप्तमप्यजप्तं स्यानोपवासः कृतो भवेत् ।। न यात्रां न विवाहञ्च न च वास्तुनिवेशनम् । प्रतिष्ठां न च देवानां प्रासादग्रामभूरुहाम् " ॥ इति । स्कान्दे "मलमासेऽप्यनावृत्तं तीर्थस्नानमपि त्यजेत् ।" 'अनावृत्तम्' नूतनम्, यदुक्तम्-"नूतनतीर्थस्नानादि मलमासे न कर्त्तव्यम्" इति । तस्य क्वचित् प्रतिप्रसवो वायुपुराणे "गयायां सर्वकालेषु पिण्डं दद्याद्विचक्षणः । अधिमासे जन्मदिने अस्ते च गुरुशुक्रयाः॥ न त्यक्तव्यं गयाश्राद्धं सिंहस्थे च दृहस्पती ।" इति । स्मृत्यन्तरे "वापीकूपतडागादिप्रतिष्ठा यज्ञकर्म च । न कुर्यान्मलमासे तु महादानव्रतानि च ॥” इति । मदनरत्ने स्मृतिसंग्रहे "जातकर्म प्रसूतिश्च सीमन्तोन्नयनव्रते ।। मलिम्लुचेऽपि कर्त्तव्यं निमित्तं यदि जायते ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #287 -------------------------------------------------------------------------- ________________ यम: गृह्यपरिशिष्टे 46 " वषटकार होमाश्च पर्व चाग्रयणं तथा । मलमासेऽपि कर्त्तव्यं काम्या इष्टीश्च वर्जयेत् ॥” इति । 'अषटकार होमाः' अग्निहोत्रोपासनवैश्वदेवादयः । 'पर्व' दर्शपूर्णमासस्थालीपाकाः । स्मृत्यन्तरे - - " चन्द्रसूर्यग्रहे चैव मरणे पुत्रजन्मनि । मलमासेऽपि देयं स्याद्दत्तमक्षय्यकारकम् ॥” इति । तिथ्यर्क: बृहस्पतिः " सपिण्डीकरणे नित्ये नाघिमासं विवर्जयेत् । तीर्थस्नानं जपो होमो यवत्रीहितिलादिभिः ॥ जातकर्मान्त्यकर्माणि नवश्राद्धं तथैव च । मघात्रयोदशी श्राद्धं श्राद्धान्यपि च षोडश ।। चन्द्रसूयग्रहे स्नानं श्राद्धदानजपादिकम् । कार्याणि मलमासेऽपि नित्यनैमित्तिकं तथा ।। " इति । वार्षिकमहालयनिषेधवचनानि श्राद्धचन्द्रिकाप्रकाशे उदाहरिष्यन्ते । 46 "अस्तं गते गुरौ शुक्रे वृद्धे बाले मलिम्लुचे । व्रतारम्भापवर्गे च न कुर्यान्मञ्जिबन्धनम् ॥” इति । अस्तलक्षणं सिद्धान्ते २५१ "रविणासत्तिरन्येषां ग्रहाणामस्तमुच्यते । ततोऽवग्वार्धकं मैौढयादूर्ध्वं बाल्य प्रकीर्त्तितम् ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #288 -------------------------------------------------------------------------- ________________ तिथ्यर्क: बाल्यवार्धकप्रमाणं ज्योतिःशास्त्रे— २५२ "प्राक् पश्चादुदितः शुक्रः पञ्चसप्तदिनं शिशुः । विपरीतं तु वृद्धत्वं तद्वदेव गुरोरपि ॥” विशेषस्तत्रैव ज्ञेयः । मलमासे श्राद्धं कार्य न वेति विचारो विस्त रेण वक्ष्यते श्राद्धचन्द्रिकाप्रकाशे | पाद्ये अत्र दानमुक्तं हेमाद्रौ "अधिमासे तु सम्प्राप्ते गुडसपियु तानि च । त्रयस्त्रिंशदपूपानि दातव्यानि दिने दिने ।। अधिमासे तु सम्प्राप्ते त्रयस्त्रिंशत्त देवताः । उद्दिश्याऽपूपदानेन पृथ्वीदानफलं लभेत् ॥ त्रयस्त्रिंशदपूपांश्च कांस्यपात्रे निधाय च । सघृतं सहिरण्यञ्च ब्राह्मणाय निवेदयेत् ॥” इति । तिथ्यादि संकीर्त्य मम समस्तपापक्षयद्वारा श्रीनरकारिदेवमीत्यमिदं त्रयस्त्रिंशदपूपात्मकं कांस्यपात्रस्थं वायनं सघृतं साहिरण्यममुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे । कृतस्याधिमासवायनदानस्य साङ्गतार्थमिमां दक्षिणां तुभ्यमहं सम्प्रददे । इति यथाशक्ति दक्षिणां दत्वा प्रार्थयेदेतैर्मन्त्रैः --- "विष्णुरूपी सहस्रांशुः सर्वपापप्रणाशनः । पानमदादेन मम पापं व्यपोहतु || नारायण ! जगद्बीज ! भास्करप्रतिरूपक ! | दानेनानेन पुत्रांश्च सम्पदश्चाभिवर्द्धय ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #289 -------------------------------------------------------------------------- ________________ तिथ्यर्कः यस्य हस्ते गदाचक्रे गरुडो यस्य वाहनम् । शङ्खः करतले यस्य स मे विष्णुः प्रसीदतु ॥" इति मलमासनिर्णय इत्युपरम्यते । अथ संवत्सरः, स च सम्यग् वसन्त्यस्मिन्नयन मासपक्षादय इति व्युत्पत्त्या मासाद्यवयवयुक्तोऽवयवी कश्चित्प्रत्यक्षः। स द्वादशमासै यते, "द्वादश मासाः संवत्सरे" इति श्रुतेः । अत्र मासानां त्रैविध्येन संवत्सरोऽपि त्रिविधः । तदुक्तं ब्रह्मसिद्धान्ते "चान्द्रसावनसौराणां मासानां तु प्रभेदतः । चान्द्रसावनसौराश्च त्रयः संवत्सरा अमी ॥” इति । तत्र चान्द्रसंवत्सरश्चैत्रशुक्लपतिपदादिः फाल्गुनदर्शान्तश्चतु:पञ्चाशदधिकशतत्रयदिनात्मकः ३५४ । सौरस्तु मेषादि. मीनान्तः पञ्चषष्ट्यधिकशतत्रयदिनात्मकः ३६५। सावनस्तु षष्ट्युत्तरशतत्रयदिनात्मकः ३६०। ते च त्रयः संवत्सरा वचनविशेषेण केषुचित् कर्त्तव्यकर्मसु व्यवतिष्ठन्ते, केषुचिद् विकल्पन्ते इति सङक्षेपः । अथ क्षौरनिषिद्धकालं प्रदर्शयामः । षटत्रिंशन्मते "कुम्भे च कर्कटे चैव कन्यायां कार्मुके रवी । रोमखण्डं गृहस्थस्य पित न त्रासयते यमः ॥ कन्यां सर्वा कर्कटके त्रेधा भागद्वयं त्यजेत् । धनुः कुम्भेऽर्धभागं च पूर्वमेव परित्यजेत् ॥” इति । वृद्धगार्य: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #290 -------------------------------------------------------------------------- ________________ २५४ तिथ्यर्कः "मीने धनुषि सिंहे च स्थिते सप्ततुरङ्गमे । सौरमत्र न कर्त्तव्य विवाहो गृहकर्म च ॥” इति । यम: "सिताष्टमीषु सर्वासु भूताहेन्दुक्षये तथा । तैलाभ्यङ्ग क्षौरकर्म स्त्रीसङ्गं वै विवर्जयेत् ॥” इति । भारद्वाजः "निषिद्धतिथिवारादा भोजनानन्तरं च यः । क्षौरं करोति तद्गेहे नाश्नन्ति पितरः सुराः ॥ भुजिक्रियोत्तरं कालं क्षारं कर्म करोति यः । कृमिभक्ष्यो भवेत् सेोऽपि यावच्चन्द्रदिवाकरौ ॥" इति । वृद्धगार्य: "रव्यारसौरिवारेषु रात्रौ पाते व्रतेऽहनि । श्राद्धाहमतिपद्रिक्ता भद्राः क्षौरेषु वर्जयेत् ।।" 'पाते' व्यतिपाते। 'भद्राः द्वितीयासप्तमीद्वादश्यः । मार्कण्डेयोऽपि "अष्टमी च तथा षष्ठी नवमी च चतुर्दशी । क्षुरकर्मणि वा च पर्वसन्धिस्तथैव च ॥” इति । श्मश्रुकर्मणि निषेधमाह मरीचिः "निरासनस्य सुप्तस्य तिष्ठतश्च तथैव च । सायं भुक्तवतश्चैव स्नातस्य क्षुधितस्य च ॥ यात्रायुद्धोद्यतस्यापि श्मश्रुकर्म विवर्जयेत् ।" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #291 -------------------------------------------------------------------------- ________________ तिथ्यर्क: अन्यत्र विस्तरः । अस्य सर्वस्यापवादस्तीर्थप्राप्त्यादौ“क्षौर नैमित्तिकं कार्यं निषेधे सत्यपि धुवम् । पित्रादिमृतिदीक्षाषु प्रायश्चित्ते च तीर्थके ॥" इति स्मृतेः । अथ कलिवर्ज्यानि प्रोच्यन्ते । हेमाद्री “विधवायां प्रजोत्पत्तौ देवरस्य नियोजनम् ।" तथा " बालिकाक्षतयेान्यास्तु वरेणान्येन संस्कृतिः ॥ कन्यानामसवर्णानां विवाहश्च द्विजातिभिः । तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् ॥” आदित्यपुराणे "यस्तु कार्तयुगे धर्मो न कर्त्तव्यः कलौ युगे । पापप्रयुक्ताश्च सदा कलैा नार्यो नराः सदा ॥” तथा "दत्तौर सेतरेषां च पुत्रत्वेन परिग्रहः । सवर्णान्याङ्गनादुष्टैः संसर्गाः शोधितेरधि || " माधवीये “अस्थि संचयनादूर्ध्वमङ्गसंस्पर्शनं तथा ।" इति । ब्रह्मपुराणे - “दीर्घकालं ब्रह्मचर्य धारणं च कमण्डलोः । गोत्राद् मातृसपिण्डाच्च विवाहा गोवधस्तथा ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat २५५ www.umaragyanbhandar.com Page #292 -------------------------------------------------------------------------- ________________ २५६ तिथ्यर्कः नराश्वमेधौ मद्यञ्च कलौ वयं द्विजातिभिः ।" क्रतुः "देवरान सुतोत्पत्तिर्दत्ता कन्या न दीयते । न यज्ञे गोवधः कार्यः कलौ न च कमण्डलुः ॥" आदित्यपुराणे "ऊढायाः पुनरुद्वाहं ज्येष्ठांशं गोवधं तथा । कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ॥" 'ज्येष्ठांशम्' विषमविभागम् । हेमाद्रौ गरुड: "न कलौ क्रियते ह्यश्वमेधो वाप्यथ गोसवः । नरमेधोऽक्षतानारी देवरात्पुत्रसन्ततिः ॥" मदनपारिजाते "अक्षता गोपशुश्चैव श्राद्धे मांसं तथा मधु । देवराच्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेत् ॥” इति । देवलः "यावद्वर्णविभागोऽस्ति याद्वेदः प्रवर्तते । संन्यासं चाग्निहोत्रं च तावत्कुर्यात् कलौ युगे ॥” इति । कलावर्भाधानमेव कार्यमित्याह लौगाशि:-- "अर्भाधानं स्मृत श्रौतस्माग्न्यिोस्तु पृथक्कृतिः । सर्वाधानं तयोरैक्यकृतिः पूर्वयुगाश्रिता ॥” इति । 'पूर्वयुगाश्रिता' कलेः पूर्वं यद् युगं तदाश्रितेति सङ्क्षपः । अत्र Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #293 -------------------------------------------------------------------------- ________________ तिथ्यर्क: विस्तरस्तु हेमाद्रिमाधवादी द्रष्टव्य इति दिकू । वर्ज्यानि । हेमाद्रौ मनुः - “चतुर्दश्यष्ट मीदर्शपैार्णमास्यर्कसंक्रमः । एषु स्त्रीतैलमांसानि दन्तकाष्ठानि वर्जयेत् ॥” स्मृतिसमुच्चये "सायं संध्यां परान्नं च परभोजनमैथुने । तैलं मांस शिलापिष्टममावास्यां विवर्जयेत् ॥ सूर्यऋक्षं गते सामे परान्नं यो हि भक्षयेत् । तस्य मासगतं पुण्यं यस्यान्नं तस्य तद्भवेत् ॥ अमावास्यासु सर्वासु नवं वस्त्रं न धारयेत् ।" इति । प्रसंगादन्येषां पदार्थानां निषेधकालः प्रदर्श्यते । व्यासः - “षष्ठयष्टमी श्रमावास्या पक्षद्वयचतुर्दशी । संनिहितं पापं तैले मांसे क्षुरे भगे ।" रविवारादिषु तैलस्नानफलान्याह स एव " श्रादित्यादिषु वारेषु तापः कीर्तिमृ तिर्धनम् । दारिद्र्यं दुर्भगत्वं च कामाप्तिः स्नानतः क्रमात् ॥” 'स्नानतः' अभ्यङ्गस्नानतः । तथा ――――――――――― २५७ अथ पर्व " त्रयोदश्यां तृतीयायां प्रतिपदशमीदिने । तैलाभ्यङ्गं न कुर्वीत स्पृशेद्वा नवमीदिने || " ३३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #294 -------------------------------------------------------------------------- ________________ २५८ तिथ्यर्क: अत्र विशेषमाह हेमाद्रौ प्रचेताः -- “सार्षपं गन्धतैलं च यत्तैलं पुष्पवासितम् । अन्यद्रव्ययुतं तैलं न दुष्यति कदाचन ||" इति । तस्मात्तैलाभ्यङ्गनिषेधस्तिलतैलाभ्यङ्गनिषेधपर्यवसायी । हेमाद्रौ स्कान्दे "शिरः कपालमन्त्राणि नखचर्मतिळांस्तथा । एतानि क्रमशो नित्यमष्टम्यादिषु वर्जयेत् ॥” इति । 'शिरः' नारिकेलम्, 'कपालम्' अलाबु, 'अन्त्राणि' पटोलम्, 'नखम् ' निष्यावः, 'चर्म' मसूरिका । " शिरो नारिकेलम्, कपालमलाबु, अन्त्राणि पटोलम्, नखं निष्यावः, चर्म मसूरिकाः, तिला वृन्ताकम् ।" इति हेमाद्रिः । मदनरत्ने स्कान्दे "स्नानं चैव महादानं स्वाध्याय पितृतर्पणे । प्रथमेऽब्दे न कुर्वीत महागुरुनिपातने ।।" इति । 'स्नानम्' काम्यम् । अथ जन्मतिथिकृत्यम् । ब्रह्मपुराणे - " सर्वैश्च जन्मदिवसे स्नातैर्मङ्गलपाणिभिः । गुरुदेवाश्च विप्राश्च पूजनीयाः प्रयत्नतः || ” इति । 'सर्वैः' ब्राह्मणक्षत्रियवैश्यशूद्रैः । श्रीपतिमालायाम् - "नववस्त्रधरो भूत्वा पूजयेच्च चिरायुषम् । द्विभुजं जलं सैम्यं सुद्धं विरजोविन ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #295 -------------------------------------------------------------------------- ________________ तिम्पर्क: १५८ मार्कण्डेयं नरो भक्त्या पूजयेत्प्रयतस्तथा।" इति । "ततो दीर्घायुषं व्यासं रामं द्रौणिं कृपं बलिम् । प्रह्लादं च हनूमन्त विभीषणमथाऽर्चयेत् ॥" पूजितदेवतानां नाममन्त्रैर्हामः कार्यः । होमसंख्या देवीपुराणे 'हामो ग्रहादिपूजायां शतमष्टोत्तरं भवेत् । अष्टाविंशतिरष्टौ वा यथाशक्ति विधीयते ॥" होमद्रव्यमाज्यम्, "आज्यं द्रव्यमनादेशे” इत्युक्तत्वात् । मार्कण्डेयप्रार्थना कृत्यचिन्तामणौ । "मार्कण्डेय ! महाभाग ! सप्तकल्पान्तजीवन ! । आयुरिष्टार्थसिद्धयर्थमस्माकं वरदो भव ॥” इति । ततो गुडतिलयुतं पयः पिबेत् । पाने मन्त्रः "सतिलं गुडसंमिश्रमञ्जल्यर्द्धमितं पयः । मार्कण्डेयवरं लब्ध्वा पिबाम्यायुष्यहेतवे ॥" 'पय क्षीरम् । जन्मतिथौ वानि उक्तानि स्कान्दे "खण्डन नखकेशानां मैथुनाध्यानमेव च । आमिषं कलहं हिंसां वर्षद्धौ विवर्जयेत् ॥” इति । इदं मलमासे न कार्यम् , पूर्वोक्त-"स्पष्टमासविशेषाख्य" इतिवचनात् । जन्मतिथेः खण्डत्वे सति निर्णयः देवीपुराणे"घस्रद्वये जन्मतिथिर्यदा स्यात् पूज्या तदा जन्मभसंयुता च । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #296 -------------------------------------------------------------------------- ________________ २६० तिथ्यर्कः असंस्कृताभे न दिनद्वयेऽपि पूज्या परा या भवतीह तन्त्रम् ॥” इति । उभयदिनेऽपि नक्षत्रयोगेऽपि परा, पूर्वोक्त- "युगाद्या वर्षवृद्धिश्च" इति-भविष्यवचनात् । इति श्रीमद्भारद्वाजमहादेवभट्टात्मजदिवाकरविरचिते तिथ्यर्के जन्मतिथिकृत्यम् ॥ अथ श्राद्धामावास्या निश्चीयते । साऽपराह्वव्यापिनी ग्राह्या, "पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते । वासरस्य तृतीयेऽशे नातिसन्ध्यासमीपतः ।।" इति कात्यायनोक्तः। पिण्डानां पिण्डपितृयज्ञाङ्गभूतानामनु पश्चादाहियते क्रियते इति पिण्डान्वाहार्यक्रममाश्राद्धम् । राजनि चन्द्रे क्षीणे मार्तण्डमण्डलं प्रविष्टे सति वासरस्य दिवसस्य तृतीयेंऽशेऽपराह्णरूपे शस्यते-कार्यमित्यर्थः । "दर्शश्राद्धं तु यत्रोक्तं पार्वणं तत्प्रकीर्तितम् । अपराले पितणां च तत्र दान प्रशस्यते ॥" इति शातातपोक्तश्च । अत्र यद्यपि च त्रेधाविभागाभिप्रायेण पराङ्गकालो व्याख्यातः, तथापि त्रिमुहूर्तात्मकसायाह्ने श्राद्धनिषेधात् पञ्चधाविभक्तदिवसाभिमायेण अपराहो बोद्धव्य इति तत्त्वम् । विवेचयिष्यते चैतत् स्पष्टं श्राद्धचन्द्रिकाप्रकाशे । त्रेधाविभागपक्षस्तु श्राहिताग्निविषयः, तस्य कर्मद्वयानुरोधदीर्घापराला Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #297 -------------------------------------------------------------------------- ________________ तिथ्यः पेक्षणात् । पूर्वेधुरेवापराव्यापिनी चेत्, सैव ग्राह्यत्याह माधवीये हारीतः 'यस्यां सन्ध्यागतः सेामो मृणालमिव दृश्यते । अपराह्ने तु या तस्यां पिण्डानां करणं ध्रुवम् ॥” इति । यत्तु कार्णाजिनिवचः "भूतविद्धाममावास्यां मोहादज्ञानतोऽपि वा। श्राद्ध कर्मणि ये कुयु स्तेषामायुः प्रहीयते ॥” इति, तदपराडव्याप्तिविषयमिति माधवः । 'अपराह्न। चतुर्दशीवेधपरम् " इति हेमाद्रिरुवाच । द्वितीयेऽति चेतादृशी, द्वितीयैव इत्याह स एव "अपरालः पितृणान्तु याऽपराह्मानुयायिनी । सा ग्राह्या पितृकार्ये तु न पूर्वाऽस्तानुयायिनी ॥" इति । दिनद्वयेऽपराह्णव्याप्तिधा-एकदेशेन कात्स्न्येन चेति । एकदेशव्याप्तिरपि द्वेधा भिद्यते-वैषम्येण साम्येन चेति । तत्र वैषम्येणैकदेशव्याप्तौ महत्त्वं निर्णायकम् । तथा च माधवीये स्मृत्यन्तरे "अपराद्वयव्यापिन्यमावास्या यदा भवेत् । तत्राल्पत्वमहत्त्वाभ्यां निर्णयः पितृकर्माणि ॥" इति । शिवराघवसंवादेऽपि "अल्पाऽपराल त्याज्या सा ग्राह्या स्यादधिका भवेत् ।" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #298 -------------------------------------------------------------------------- ________________ २६२ तिथ्यर्कः साम्येनैकदेशव्याप्ती खर्वादिशास्त्रं निर्णायकम् । खर्वादिशास्त्रं तु "खर्वो दर्पस्तथा हिंसा त्रिविधं तिथिलक्षणम् । खर्वी परौ पूज्या हिंसा स्यात् पूर्वकालिकी ॥” इति । खर्वः साम्यम्, दर्पो वृद्धिः, हिंसा क्षयः । माधवीये शिवराघवसंवादेऽपि "अमावास्या तु या हि स्यादपरालद्वयेऽपि सा। क्षये पूर्वाऽपरा वृद्धौ साम्येऽपि च परा स्मृता ।।" इति । स्मृत्यन्तरेऽपि "तिथिक्षये सिनीवाली तिथिद्धौ कुहूर्मता । साम्येऽपि च कुहूर्जेया वेदवेदाङ्गवेदिभिः ॥” इति । कात्स्न्ये नोभयत्रापराह्णव्याप्तावपि तिथिवृद्धित्वात् कुहूरेव ग्राह्या । दिनद्वयेऽपरालव्याप्तौ जाबालि: "अपराह्णद्वयव्यापी यदि दर्शस्तिथिक्षये । आहिताग्नेः सिनीवाली निरग्न्यादेः कुहूर्मता ॥” इति । श्रादिशब्देन स्त्रीशूद्रौ गृह्यते। तथा च लौगाक्षिराह "द्विजैः कार्या सिनीवाली साग्निकैः पितृकर्मणि । स्त्रीभिः शूद्रैः कुहूईया तथा चानग्निकैर्द्विजैः ॥” इति । सिनीवालीकुहोर्लक्षणमाह व्यासः "दृष्टचन्द्रा सिनीवाली नष्टचन्द्रा कुहूर्मता ।" इति । एतदर्थपराण्यन्यानि वचनानि ग्रन्थविस्तरभियेह नोपात्तानी Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #299 -------------------------------------------------------------------------- ________________ तिथ्यर्कः २६३ त्यलं पल्लवितेन । अथ पिण्डपितृयज्ञकालः। आश्वलायन: "अमावास्यायामपराह्न पिण्डपितृयज्ञः।" इति । अत्र नारायणवृत्तिः-अमावास्याशब्दः प्रतिपत्पश्चदश्योः सन्धिवचनोऽप्यत्रापराह्णशब्दसमन्वयात् तद्वत्यहोरात्रे वर्त्तते । तस्यापराह्ण चतुर्थे भागे पिण्डपितृयज्ञः कार्यः। औपवस्थ्ये यजनीये वाऽहनि यदा त्वहोरात्रसन्धौ तिथिसन्धिः स्यात् , तदोपवस्थ्य एवाऽहनि क्रियते इति । अत एव प्रयोगपारिजातकारः "मुहूर्त्तमप्यमावास्या प्रतिपद्यपि चेद्भवेत् । तदिन्नमक्षयं ज्ञेयं पर्वशेषं तु पर्ववत् ॥" इति हेमाद्रिधृतं हारीतवचन पिण्डपितृयज्ञपरमयोजयत् । अयं च पिण्डपितृयज्ञ: स्मार्ताग्निमता मृतपितृकेण यागपूर्व दिने क्रियमाणे दर्शश्राद्धव्यतिषङ्गण कार्यः,"आहिताग्निः पिण्डपितृयज्ञं कृत्वा करोति । अनाहिताग्निस्तु तदितरेण व्यतिषज्यते ।" इति परिशिष्टात् । व्यतिषङ्गो नाम श्राद्धपितृयज्ञयोर्विच्छिद्याविच्छिद्य अनुष्ठानविशेषः । यागदिने क्रियमाणस्तु केवलः कार्यः, पूर्वदिने दर्शश्राद्ध यागदिने केवलः पितृयज्ञ इति भावः। आपस्तम्बानामाश्वलायनवनिर्णयः तथैवापस्तम्बस्मृतेः । कात्यायनबौधायनैर्यागात्पूर्वेऽहनि कार्यः, तथैव तत्सूत्रे प्रतिपादितत्वात् । इत्यन्यत्र विस्तरः । अथ क्षयाहश्राद्धकालो निर्णीयते । तत्र क्षयाहश्राद्धमेकोद्दिष्ट Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #300 -------------------------------------------------------------------------- ________________ २६४ तिथ्यर्क: विधिना क्रियते चेत्, मध्याह्वव्यापिन्यां क्षयाहतिथैौ कार्यम् । यदि पार्वणविधिना, तदाऽपराह्नव्यापिन्यां कार्यम्, “आमश्राद्धं तु पूर्वाह्णे ऽपराह्न े पार्वणं भवेत् । एकोद्दिष्टं तु मध्याह्न प्रातर्दृद्धिनिमित्तकम् ॥” इति शातातपवचनात् । दिनद्वयेऽपराह्वव्यापित्वे माधवीये बौधायनो निर्णयमाह - "अपराह्नद्वयव्यापिन्यतीतस्य यदा तिथिः । क्षये पूर्वा तु कर्त्तव्या वृद्धौ कार्य तथेोत्तरा ॥” इति । अत्र माधवादयस्तु — उत्तरतिथिगतावेव वृद्धिक्षयों ग्राह्यौ, न ग्राह्यतिथिगतावित्याहुः । श्रीमातामहगुरवस्तु परमवृद्ध्यनन्तरमाकस्मिकक्ष यस्य ज्योतिःशास्त्रमर्यादया सम्भवान् पूर्वतिथ्यपेक्षया ग्राह्यतिथिगतावेव वृद्धिक्षयों ग्राह्याविति तत्त्वमित्याहुः | दिनद्वये तदव्याप्तौ तु पूर्वव ग्राह्या, "द्वयव्यापिनी चेत् स्यान्मृताहस्य तु या तिथिः । पूर्वविद्धैव कर्त्तव्या त्रिमुहूर्त्ता भवेद् यदि ||" इति मनुवाक्यात् । "द्वहेऽप्यव्यापिनी चेत् स्यान्मृताहस्य तु या तिथिः । पूर्वस्यां निर्वपेत् पिण्डमित्याङ्गिरसभाषितम् ॥” इति समन्तुवाक्याच्च । “साम्ये तु परैव, देवस्वामिवचनात् "इति माधवः । अत्राप्येकरदेशादिव्याप्तौ दर्शनिर्णयवन्निर्णय बोध्यः । अमावास्यातु वाहीतिवचनापदिष्टौ वृद्धिसयौ ग्राह्यतिथिगतावेवा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #301 -------------------------------------------------------------------------- ________________ तिथ्यर्कः २६५ नया दिशा ज्ञेयौ। अपराह्णद्वयव्यापिनीत्यत्र कालद्वयव्यापित्वं विवक्षितमित्यास्तां तावत् । अथ व्रतविधि व्याख्यास्यामः । तत्राधिकारिणो मदनरत्ने भविष्ये "अनग्नयस्तु ये विप्रास्तेषां श्रेयो विधीयते । व्रतोपवासनियमै नादानैस्तथा नृप ! ॥" इति शूद्रोऽपि "शूद्रो वर्णश्चतुर्थोऽपि वर्णत्वाद्धर्ममर्हति । वेदमन्त्रस्वधाखाहावषट्कारादिभिर्विना ॥" इति व्यासेोक्तव्रताधिकारमर्हति । सवास्त्रोणान्तु भत्रनु. ज्ञयैव व्रताधिकारः "भार्या पत्युर्मतेनैव व्रतादीनाचरेत्सदा ।" इति माधवीये कात्यायनोक्तेः। व्रतारम्भकालमाह मदनरत्ने सत्यव्रत: "उदयस्था तिथिर्या हि न भवेदिनमध्यभाक् । सा खण्डा न व्रतानां स्यादारम्भश्च समापनम् ॥” इति । तत्रैव गार्योऽपि "अस्तगे च गुरौ शुक्रे बाले वृद्ध मलिम्लुचे । उद्यापनशुभारम्भान् व्रतानां नैव कारयेत् ॥" इति । ब्रह्मयामले "दिनभद्रा यदा रात्रौ रात्रिभद्रा यदा दिवा । न त्याज्या शुभकार्येषु प्राहुरेवं पुरातनाः ॥" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #302 -------------------------------------------------------------------------- ________________ २६६ तिथ्यर्कः मदनरत्ने भविष्ये "क्षमा सत्यं दया दानं शौचमिन्द्रियनिग्रहः । देवपूजाग्निहवनं सन्तोषः स्तेयवर्जनम् ॥ सर्वव्रतेष्वयं धर्मः सामान्यो दशधा स्मृतः ।" इति । कूर्मपुराणे "बहिामान्त्यजासूर्ति पतितं च रजस्वलाम् । न स्पृशेन्नाभिभाषेत नेक्षेत व्रतवासरे ॥" विष्णुरहस्ये "स्मृत्यालोकनगन्धादि स्वादनं परिकीर्तनम् । अन्नस्य वर्जयेत्सर्वं ग्रासानां चाभिकाङक्षणम् ।। गात्राभ्यङ्गं च ताम्बूलं शिरसश्चानुलेपनम् । व्रतस्थो वर्जयेत् सर्व यच्चान्यद् बलरागकृत् ॥" पृथ्वीचन्द्रोदयेऽग्निपुराणे "व्रीहिषष्टिकमुद्गाश्च कलापाः सलिलं पयः । श्यामाकाश्चैव नीवारा गोधूमाद्या व्रते हिताः ॥ कूष्माण्डालाबुवार्ताकपालकीज्योत्स्निकास्त्यजेत् । चरुर्भेक्ष्यं सक्तुकणान् शाकं दधि घृतं मधु ।। श्यामाकाः शालिनीवाराः पावकं मूलतण्डुलम् । हविष्यव्रतनक्तादावग्निकार्यादिके हितम् ॥ मधु मासं विहायान्यद् व्रते च हितमोरितम् ।" इति । 'पालकी' पाई, 'ज्योस्निका' कोशातकी । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #303 -------------------------------------------------------------------------- ________________ निय २६७ अथ स्त्रीव्रतेषु व्रतहेमाद्रौ विशेषः "गन्धालङ्कारताम्बूलपुष्पमालानुलेपनम् । उपवासे न दुष्यन्ति दन्तधावनमञ्जनम् ॥” इति । इदं च ताम्बूलादि तासां सौभाग्यव्रतेष्वेव न दुष्यति; एकादश्यादा तु दुष्यत्येव, तत्र तनिषेधात् । हेमाद्रौ पाने "गर्भिणी सूतिकादिश्च कुमारी वाऽथ रोगिणी । यदाऽशुद्धा तदाऽन्येन कारयेत् प्रयता स्वयम् ।।" इति । 'प्रयता' शुद्धा स्वयं कुर्यादित्यर्थः। मदनरत्ने मात्स्येऽपि "अन्तरा तु रजोयोगे पूजामन्येन कारयेत् ।" इति । प्रतिनिधीनाह निर्णयामृते पैठीनसिः "भार्या पत्युव्रतं कुर्याद् भाव्याश्च पतिव्रतम् । असामर्थेऽपरस्ताभ्यां व्रतभङ्गो न जायते ॥" स्कान्देऽपि "पुत्रं वा विनयोपेतं भगिनीं भ्रातरं तथा । एषामभाव एवान्यं ब्राह्मणं विनियोजयेत् ॥” इति । पराशर: "उपवासो व्रतं होमस्तीर्थस्नानजपादिकम् । विप्रैः सम्पादितं यस्य सम्पन्नं तस्य तत्फलम् ॥" इति । मदनरत्ने प्रभासखण्डे "भर्ता पुत्रः पुरोधाश्च भ्राता पत्नी सखाऽपि च । यात्रायां धर्मकार्येषु जायन्ते प्रतिहस्तकाः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #304 -------------------------------------------------------------------------- ________________ २६८ तिथ्यर्कः एभिः कृतं महादेवि ! स्वयमेव कृतं भवेत् ।" इति । अत्र कश्चिद्विशेषः "काम्ये प्रतिनिधिर्नास्ति नित्ये नैमित्तिके व सः । काम्येषूपक्रमा केचित्प्रतिनिधि विदुः ॥” इति । छागलेयः "पूर्व व्रतं गृहीत्वा यो नाचरेत्काममोहितः ।। जीवन् भवति चाण्डालो मृतः श्वा चाभिजायते ॥" गरुडपुराणे "क्रोधात्प्रमादाल्लोभाद्वा व्रतभङ्गो भवेद् यदि । दिनत्रयं न भुञ्जीत मण्डनं शिरसो भवेत् ।।" इति । प्रायश्चित्तादनन्तरमन्तरितव्रतं कार्यम्, ___"प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत् ।" इति वायुपुराणात् । या तु प्रायश्चित्ताम्नानादतिक्रान्तव्रतानुष्ठानं नास्तीति गम्यते इति केषाश्चिदुक्तिः, सा भ्रान्तिभूलिकैव । अथ निमित्तानुरोधेन सदा पुण्यकालः । हेमाद्री विष्णुधर्मोत्तरे "कालः सर्वोऽपि निर्दिष्टः पात्रं सर्वमुदाहृतम् । अवाप्तस्य प्रदाने तु नात्र कार्या विचारणा ।। तदैव दानकालः स यदोभयमुपस्थितम् ।" तथा-"नहि कालं प्रतीक्षेत जलं दातुं तृषान्वित । अनोदकं सदा देयमित्याह भगवान् मनुः ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #305 -------------------------------------------------------------------------- ________________ तिथ्यर्क: २६६ स्कान्दे "अर्द्धप्रमूर्ता गां दद्यात् कालादि न विचारयेत् । कालः स एव ग्रहणे यदा वै द्विमुखी तु गौः ।।" इति । होता व्यासः "आसन्नमृत्युना देया गौः सवत्सा तु पूर्ववत् । तदभावे तु गौरव नरकोद्धारणाय वै॥ तदा यदि न शक्नोति दातुं वैतरणीं तु गाम् । शक्तोऽन्योऽरुक तदा दत्त्वा श्रेयो दद्यान्मृतस्य च ॥" वाराहे "व्यतीपातोऽथ संक्रान्तिस्तथैव ग्रहणं रवेः। पुण्यकालास्तथा सर्वे यदा मृत्युरुपस्थितः ॥ तदा भूमिहिरण्यादि दत्तमक्षयतामियात् ।" इति । विष्णुपुराणे "यदा वा जायते वित्त चित्त श्रद्धासमन्वितम् । तदैव दानकालः स्याद् यतोऽनित्यं हि जीवितम् ॥” इति दिक । श्रीबालकष्णात्मजसूनुनिर्मिती वर्षे खवेदाश्वहिमांशुसंयुते । कृति विलोक्याऽखिलकालनिर्णय निःशङ्कमाशंसतु पण्डितो जनः ॥ १॥ बुधानामुपकाराय धर्मशास्त्रसुधानिधिः । दिवाकरेण रचितः सुधानिधिरिवापरः ॥ २॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #306 -------------------------------------------------------------------------- ________________ २७० तिथ्यर्कः काहं मन्दमतिः क्यायं धर्मशास्त्रसुधानिधिः । तस्माद्भक्तेविलासोऽयं मार्तण्डाइनिसरोजयाः ॥३॥ ग्रन्थेऽस्मिन् विमलमतेर्दिवाकरस्य तिथ्यर्के गुणगणवत्त्वमेव मुख्यम् । तत्सन्तः शिरसि धृताञ्जलिस्तु याचे निःशङ्ख सदसदिहोदितं विमृश्यम् ॥ ४ ॥ उक्तं नात्र मया स्वयं स्वरचितं यद्भट्टपादादिभिः प्रोक्त कालविनिर्णये तदखिलं स्पष्टं परज्ञप्तये । सन्दिष्टं गुरुदत्तमन्त्रकपया शार्दूलविक्रीडितं तेन श्रीरविमण्डलान्तर्गतो नारायणः पीयताम् ॥५॥ यद्वाक्याद्विधिवाक्यानामपूर्वार्थाभिधानता नीलकण्ठेजयत्ययं मीमांसकधुरन्धरः ॥ ६ ॥ नमः सवित्रे रामाय शम्भवे गुरवे तथा । मात्रे भवान्यै वाग्देव्यौ कुलदेव्यै श्रिये नमः ॥ ७ ॥ इति श्रीभारद्वाजबालकृष्णात्मजसकलविबुधचूडा मणिमहादेवात्मजसकलविद्यानिधानश्रीदिवाकरविरचिते धर्मशास्त्रसुधानिधौ तिथ्यर्कः समाप्तिमगमत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #307 -------------------------------------------------------------------------- ________________ श्रीवैजनाथरचिताः तिथ्यर्कविषयानुक्रमणिकाश्लोकाः दिवाकरतनूजेन वैजनाथेन धीमता । खबाणसप्तभूयुक्त वर्षे माधवसंज्ञके ॥ १ ॥ मासि तातकृतग्रन्थेऽनुक्रमः संप्रदर्श्यते । विदुषां सुखलब्ध्यर्थमनया श्लोकमालया ॥ २ ॥ मङ्गलाचरणं पूर्व मातृवंश्यानुवर्णनम् । स्वस्य वंश्यानुचरितं ततेा विधिनिरूपणम् ॥ ३॥ तिथिरूपं ततः प्रोक्तं तद्वैविध्यमुदाहृतम् । लक्षणं निर्णयस्योक्तं प्रतिपन्निर्णयस्ततः ॥ ४॥ नानो निरुक्तिस्तस्यास्तु शुक्ले पूर्वापरेऽपरा । उपवासे तु पूर्वैव पक्षद्वयगतापि हि ॥ ५ ॥ सङ्कल्पः प्रातरेवात्र पूर्वविद्धास्वपीरितः । तिथ्यन्ते पारणं प्रोक्तं सापवादं परेऽहनि ॥ ६ ॥ एकभक्तादिषु तथा गौणकालेऽप्युपेषणम् । ततः कर्मोपयुक्तत्वात्तिथिदेवप्रपूजनम् ॥ ७ ॥ ततेा मन्दादिसंज्ञोक्ता तिथिवर्णानुकीर्त्तनम् । चैत्रशुक्लप्रतिपदा निर्णयेो ब्रह्मपूजनम् ॥ ८ ॥ शकादिश्रवर्ण तत्र निम्बप्राशनमेव च । वासन्तनवरात्रं च प्रपादानं तथैव च ॥ ९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #308 -------------------------------------------------------------------------- ________________ २७२ तिथ्यर्कविषयानुक्रमणिका तदभावे घटानां तु दानमुक्तं फलप्रदम् । अभ्यङ्गनित्यता प्रोक्ता ज्येष्ठप्रतिपदः कृतिः ॥१०॥ भाद्रशुक्लप्रतिपदः कृत्यमुक्तं महालयः । आश्विनस्य सिते पक्षे नवरात्रानुवर्णनम् ॥ ११ ॥ कलशस्थापनं कालकीर्तनं तु ततः परम् । त्रिरात्रं चैकरात्रं च फलभेदेन कीर्तितम् ॥ १२ ॥ वेदिकानिर्मितिश्चात्र कलशद्रव्यकीत्तनम् । प्रतिमाद्रव्यकथनं तदाकारप्रकीर्तनम् ॥ १३ ॥ वेदिकापरिमाणं च नियमाः पूजकस्य च । देवीपूजाप्रयोगस्तु कुमारीपूजनं ततः ॥ १४ ॥ वयाप्रमाणं तस्यास्तु पूजनानह कन्यकाः । कन्याभावे प्रतिनिधिश्चण्डीपाठजपे विधिः ॥ १५ ॥ सूतके पूजन प्रोक्तं देव्यास्तत्र विशेषतः । भेदोऽपि कथितश्चात्र मलमासनिषेधनम् । १६ ।। चतुर्णामपि वर्णानामधिकारः प्रकीर्तितः । अश्वपूजा ततः प्रोक्ता तद्विधानक्रमोपि हि ॥ १७ ॥ अथायुधानां पूनाया मन्त्राः सर्वे यथाक्रमम् । निर्दिष्टाः कार्तिकस्यापि प्रतिपनिर्णयः शुभः ॥ १८ ॥ तैलाभ्यङ्गस्य कथनं द्यूत पर्वतपूजनम् । बल्यर्चनानुकथनं चैत्रप्रतिपदः कृतिः ॥ १९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #309 -------------------------------------------------------------------------- ________________ २७३ तिथ्यर्कविषयानुक्रमणिका श्वपचस्पर्शनं स्नानं होलिकाभूतिवन्दनम् । तन्मन्त्रश्चूतकुसुमपाशनं मन्त्रसंयुतम् ।। २० ॥ पूर्वविद्धा तिथिह्येत्युक्तं वेध उदाहृतः । सायं वेधस्ततः प्रोक्तोऽभ्यङ्गो नित्य इतीरितम् ॥ २१ ॥ अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः । द्वितीयानिर्णयः प्रोक्तः साधारण्येन कृत्स्नशः ॥ २२ ॥ चैत्रशुक्लद्वितीयायाममापूजाऽग्निपूजनम् । पोक्ता तिथिः सेोपपदा तत्राऽध्ययनवर्जनम् ॥ २३ ॥ रामयात्रोत्सवस्याथ कालः सर्वोऽपि कीर्त्तितः । बृहत्तपावतं चोक्तमशुन्याख्यव्रतं तथा ॥ २४ ॥ यमद्वितीया निर्णीता तत्कृत्यं चापि विस्तरात् । चैत्रकृष्णद्वितीयायामनङ्गोत्सव ईरितः ॥ २५ ॥ उत्सवे निर्णयः प्रोक्तस्तिथेः सिद्धविरुद्धकः । योगिनोनिर्णयः प्रोक्तस्तृतीयानिर्णयस्ततः ॥ २६ ॥ साधारणः समुदितस्तता दोलोत्सवः स्मृतः । गौरीपूजनकालस्तु सनिर्णय उदाहृतः ॥ २७ ॥ सौभाग्यव्रतकालोऽथ जयन्ती मत्स्यसंज्ञिका । तृतीयाऽक्षयसंज्ञा तु सनिर्णयमुदाहृता ॥ २८ ॥ तत्कृत्यञ्चाऽपि सम्प्रोक्तं रेणुकासूनुसंभवः । तत्कालनिर्णयश्चाऽथ मलमासे युगादयः ॥ २९ ॥ ३५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #310 -------------------------------------------------------------------------- ________________ २७४ तिथ्यर्कविषयानुक्रमणिका मासद्वयेऽप्ययं पक्षो रम्भाव्रतविनिर्णयः । विशालाक्ष्यर्चनविधिः कज्जलीनिर्णयस्ततः ॥ ३० ॥ भाद्रशुक्लतृतीयाया निर्णयो ललिताविधिः । अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः ।। ३१ ।। चतुर्थीनिर्णयश्चाथ साधारण्येन कीर्तितः । चैत्रशुक्लचतुर्थ्यान्तु गणेशार्चनमीरितम् ।। ३२ ॥ ज्येष्ठशुक्लचतुर्थ्यान्तु पार्वतीपूजनं स्मृतम् । सनिर्णयात्र कथिता संकष्टाख्या चतुर्थिका ॥ ३३ ॥ बहुलावतकालस्य निर्णयः संप्रदर्शितः । भाद्रशुक्लचतुर्थ्यास्तु विस्तरेण विनिर्णयः ।। ३४ ॥ चन्द्रस्य दर्शने दोषो दोषशान्तिस्तवो मनः । तिथेरस्याश्च भौमादियोगपाशस्त्यमीरितम् ॥ ३५ ॥ संज्ञान्तरं शिवाख्येति मार्गशुक्लचतुर्थिका ।। एकभक्तस्वरूपं तु सनिर्णयमुदाहृतम् ॥ ३६ ॥ नक्तस्वरूपं तत्कालः सन्ध्याशब्दार्थ एव च । सौरनक्तं यतेनक्तं विधवानक्तमेव च ॥ ३७ ॥ नक्तव्रतियमाः प्रोक्ता अयाचितविनिर्णयः । तत्फलं तत्र कालस्य निर्णयो निखिलः कृतः ॥ ३८ ॥ माघकृष्णचतुर्थ्यान्तु संकष्टाख्यं व्रतं स्मृतम् । माघशुक्लचतुर्थ्यास्तु तिलसंज्ञा प्रकीर्तिता ॥ ३९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #311 -------------------------------------------------------------------------- ________________ तिथ्यर्कविषयानुक्रमणिका २७५ निर्णयः कुन्दसंज्ञा च तस्या एव प्रकीर्तिता । फाल्गुनादिषु मासेषु चतुषु व्रतमोरितम् ॥ ४० ॥ तदुद्यापनरीतिस्तु पूजामन्त्रस्ततः परम् । अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः ॥ ४१ ॥ पञ्चमीनिर्णयश्चाऽथ सामान्येन प्रकीर्तितः । चैत्रे मासि तु पञ्चम्यां श्रीपूजनमुदीरितम् ॥ ४२ ॥ कल्पादीनां तु कथनं नागपूजननिर्णयः । निर्णयो ऋषिपञ्चम्यास्तत्कृत्यं चापि सर्वशः ।। ४३ ॥ उपाङ्गललितादेव्याः पूजाकालविनिर्णयः । मार्गशुक्लस्य पञ्चम्या निर्णयस्तदनन्तरम् ॥ ४४ ॥ माघमासस्य पञ्चम्यां वसन्तोत्सवनिर्णयः । अथ सिद्धविरुद्धादियोगिनोनिर्णयस्ततः ॥ ४५ ॥ संमोक्तो निर्णयः षष्ठ्याः पञ्चमीवेधनिर्णयः । यात्रा लोलार्कदेवस्य स्कन्दषष्ठोविनिर्णयः ॥ ४६ ॥ कुमारषष्ठयपि प्रोक्ता कपिलाषष्ठिका तथा । तत्कत्यं चापि निर्दिष्ट संज्ञान्तरमुदाहृतम् ॥ ४७॥ विल्वाभिमन्त्रणविधिर्वहिपूजादिवासरः । चम्पाषष्ठी पुनः प्रोक्ता स्कन्दषष्ठयपि सा मता ॥ ४८ ॥ अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः । सप्तमीनिर्णयश्चाऽथ समासेन प्रदर्शितः ॥ ४९ ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #312 -------------------------------------------------------------------------- ________________ २७६ तिथ्यर्कविषयानुक्रमणिका मधुमासस्य शुक्लायां सप्तम्यां भास्करार्चनम् । वैशाखशुक्लसप्तम्यां गङ्गापूजननिर्णयौ ॥ ५० ॥ आषाढशुक्लसप्तम्यां सूर्यपूजनवर्णनम् । इषस्य शुक्लसप्तम्यां देवीपूजननिर्णयः ॥ ५१ ॥ त्रिरात्रकालकथनं दुर्गापूजागृहादिकम् ।। विल्वशाखार्चनं पश्चाच्छाखानयनवर्त्म च ॥ ५२ ।। मूलः पूजनं देव्याः सरस्वत्याः समीरितम् । स्थापितायां महादेव्यामध्यापननिषेधनम् ।। ५३ ॥ मार्गशीर्षादिमासेषु सप्तमीश्राद्धकीर्तनम् । सहसः शुक्ल सप्तम्यां मित्रपूजनमीरितम् ।। ५४ ॥ तत्प्रयोगोऽथ माघस्य सप्तमीनिर्णयः क्रमात । दीपदानविधिः प्रोक्तो रथदानं तथैव च ॥ ५५ ॥ तत्र लोलार्कयात्रा च विजयासप्तमी तथा । योगः पद्मकसंज्ञस्तु सिद्धासिद्धकथानकम् ।। ५६ ॥ योगिनीनिर्णयः पश्चादष्टमीनिर्णयस्तथा । सर्वाष्टमीषु दुर्गायाः पूजनं समुदीरितम् ।। ५७ ॥ चैत्राष्टम्यां भवान्यास्तु यात्रोक्ता शोकनाशिनी । अशोककलिकाभुक्तिस्तत्रोक्ता मन्त्रपूर्वकम् ॥ ५८ ॥ स्नानं लौहित्यतायेन बुधयोगप्रशंसनम् । सहकारफलैः स्नानं वैशाखे ह्यष्टमीदिने ।। ५९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #313 -------------------------------------------------------------------------- ________________ तिथ्यर्कविषयानुक्रमणिका २७७ त्रिलोचनार्चनविधिज्येष्ठाष्टम्यां प्रकोर्तितः । पूर्वपक्षे परे पक्षे शुक्लादेवीप्रपूजनम् ॥ ६० ॥ आषाढशुक्लेऽष्टम्यां तु महिषघ्नीप्रपूजनम् । जन्माष्टमी विनिणीता जयन्ती योगभेदतः ॥ ६१ ॥ प्रकारो ग्रहणस्याथ पारणाकालनिर्णयः । महानिशास्वरूपं च भाद्रशुक्लाष्टमीविधिः ॥ ६२॥ ज्येष्ठादियोगभेदेन निर्णयविस्तरः। अगस्त्युदयकालश्च तथाऽस्तसमयो मुनेः ॥ ६३ ॥ ज्येष्ठापूजनकालस्तु निखिलः संप्रकीर्तितः । महालक्ष्मीव्रतं पश्चात्तत्समापनमीरितम् ॥ ६४ ॥ पौष्ठपद्यष्टकोक्तिश्च पदसंज्ञानिरूपणम् । महाष्टमी विनिीता सविशेषा गवाष्टमी ॥ ६५ ।। भैरवस्याष्टमी प्रोक्ता तत्कृत्यं विनिवेदितम् । अथाष्टकाश्राद्धकालश्चतु भेदः प्रकीर्तितः ॥ ६६ ॥ महाभद्रास्वरूपं च भीष्मतर्पणसंग्रहः । बहुलाकत्यमुदितं दीपदानादि सर्वशः ।। ६७ ॥ सामान्यतो बुधाष्टम्यामेकभक्तव्रतं स्मृतम् । सिद्धयोगानुकथनं योगिनीनिर्णयस्ततः ॥ ६८ ॥ नवमीनिर्णयः पश्चाच्छीरामनवमी तथा । रामव्रतविधिः सर्वः प्रतिमादानमुत्तमम् ॥ ६९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #314 -------------------------------------------------------------------------- ________________ २७८ तिथ्यर्कविषयानुक्रमणिका मलमासे निषेधस्तु व्रतस्यास्य प्रदर्शितः । भद्रकाल्यर्चन विधिर्माधवे पक्षयाईयोः ।। ७० ।। नवम्यामुपवासस्य विधिरेषः प्रदर्शितः । ज्येष्ठशुक्लनवम्यां तु पार्वतीपूजनं मतम् ।। ७१ ॥ आषाढे नवमीयुग्मे दुर्गार्चा संप्रदर्शिता । श्रावणे नवमीयुग्मे नक्तभोजनमीरितम् ।। ७२ ॥ भाद्रशुक्ल नवम्यां च दुर्गार्चनविधिः स्मृतः । इपकृष्णनवम्यादिसंदिष्टोऽन्वष्टकाविधिः ।। ७३ ॥ इषस्य शुक्लनवमी महती संप्रकीर्तिता । बलिप्रदानं तत्रैव बलिद्रव्यन्तु कीर्तितम् ।। ७४ ॥ तन्मन्त्रश्चाथ होमस्य द्रव्याण्युक्तान्यनुक्रमात् । मूर्ते विसर्जनं पश्चात् पारणानिर्णयः कृतः ॥ ७५ ।। सूतके पारणं प्रोक्तमारम्भादेहि लक्षणम् । विवाहोऽथ तुलस्यास्तु कार्तिके नवमीदिने ।। ७६ ।। तद्विधिश्च युगादेहि कृत्यमुक्तं सविस्तरम् । युगान्ताः कथिताः सर्वे तत्कत्यं चापि दर्शितम् ।। ७७ ॥ सहामासस्य नवमीकृत्यं माघस्य चैव हि । अथ सिद्धविरुद्धादियोगिनोनिर्णयस्ततः ।। ७८ ।। दशमीनिर्णयश्चाऽथ साधारण्येन कीर्तितः । चैत्रशुक्लदशम्यां तु यमपूजनमीरितम् ॥ ७९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #315 -------------------------------------------------------------------------- ________________ तिथ्यर्क विषयानुक्रमणिका ज्येष्ठशुक्लदशम्येषा दशपापहरा स्मृता । दशपापानि चेोक्तानि योगानां दशकं तथा ॥ ८० ॥ एतत्कृत्यं सुविततं मलमासेऽपि तत्क्रिया । कर्त्तव्यत्वेन निर्दिष्टा ततो दशहरास्तवः ॥ ८१ ॥ मन्वादयेो विस्तरेण कथिताः कत्यसंयुताः । संक्रान्ति निर्णयः पश्चात्तद्भेदानां प्रदर्शनम् ॥ ८२ ॥ मेषादिदानकथनं पुण्यकाल निरूपणम् । अयने द्वे विनिर्दिष्टे तत्त्यं चापि विस्तरात् ॥ ८३ ॥ आश्विनस्य तु शुकस्य दशमीनिर्णयस्ततः । सीमोल्लङ्घनकार्य हि पूजनं चाऽऽपराजितम् ॥ ८४ ॥ देशान्तरस्य गमन' शमीपूजा निरूपणम् । राजकृत्यं विस्तरेण ह्यभिषेकनिरूपणम् ॥ ८५ ॥ दुर्दशानाशकं पश्चादादित्यव्रतमीरितम् । दशमीनियमाः सर्वे सिद्धयेोगप्रदर्शनम् ॥ ८६ ॥ योगिनीनिर्णयः पश्चान्नितैकादशी ततः । माहात्म्यमा कथितमधिकारिण ईरिताः || ८७ ॥ असामर्थ्य प्रतिनिधिः प्रकारान्तरमीरितम् । स्त्रीणां विशेषः कथितः सूतकेऽनुष्ठितिर्मता ॥ ८८ ॥ दृष्टे रजस्यपि तथा नारीणां करणं मतम् । काम्योपवासे नियमा न तु नित्ये प्रदर्शितम् ॥ ८९ ॥ २७६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #316 -------------------------------------------------------------------------- ________________ २८० तिथ्यर्कविषयानुक्रमणिका वैकादशी द्वेषा शुद्धा विद्धेति भेदतः । शुद्धा त्रिधेति सम्प्रोक्तमरुणोदयलक्षणम् ।। ९० || लक्षणं वैष्णवस्योक्तं ततः स्मार्तविनिर्णयः । शुद्धा विद्धेति संप्रोक्ता शुद्धा स्यात्तु चतुर्विधा ॥ ९९ ॥ २ एकादश्यधिका द्वादश्यधिका चोभयाधिका । उभयाधिक्यरहिता विद्धा चैवं प्रकीर्त्तिता ॥ ९२ ॥ नित्यकाम्यभेदेन द्विविधं व्रतमीरितम् । काम्यासमापने दोष कीर्त्तनं क्षयलक्षणम् ॥ ९३ ॥ उपवासनिषेधे च भक्ष्यनिर्णय ईरितः । हविष्यद्रव्यकथनं भोजनाद्यप्रणाशकम् || ९४ ॥ चैत्रस्यैकादशीकृत्यं विस्तरेणानुवर्णितम् । वैशाखस्तानकालस्तु निर्जलैकादशीव्रतम् ।। ९५ ।। शयनीनिर्णयः पश्चान्मलमासनिषेधनम् । चातुर्मासव्रतारम्भकालाः सर्व इहोदिता: ।। ९६ ।। स्तादिदोषो नास्तीति व्रतसंख्या च कीर्त्तिता । नित्यत्वमेषां कथितं शाकभेदाः प्रकीर्त्तिताः ॥ ९७ ॥ द्विदलानां हि संख्यानं वर्ज्यवस्तु निदर्शनम् । काम्यव्रतानां कथनं समाप्तौ दानकीर्त्तनम् ॥ ९८ ॥ व्रतग्रहणमार्गस्तु श्रावणैकादशीकृतिः । नभस्यैकादशीकृत्ये दुग्धव्रतविचारणम् ।। ९९ ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #317 -------------------------------------------------------------------------- ________________ तिथ्यर्कविषयानुक्रमणिका २८१ कार्तिकस्नानसमयास्त्र्यहस्त्रानप्रशंसनम् । धान्यादिसेवनं दानं द्विदलारम्भकीर्तनम् ॥ १० ॥ देवोत्थापनकालश्च भीष्मपञ्चककीर्तनम् । पौषस्यैकादशीकृत्यं माघस्नानं ततः परम् ॥ १०१ ॥ प्रयागस्नानमहिमा ततस्त्र्यहविनिर्णयः । फाल्गुनैकादशीकृत्यं समासेनानुवर्णितम् ॥ १०२ ॥ अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः । द्वादशीनिर्णयः पश्चात् पारणानिर्णयः पुनः ॥ १०३ ॥ श्राद्धादिकालसंमा विद्भिः पारणनिर्णयः । हरिवासरसंज्ञा तु मधुद्वादशिकाकृतिः ॥ १०४ ॥ मन्त्रा दमनकस्योक्ता वामनाचनमीरितम् । पारिभाषिकसंज्ञाश्च व्यतीपातः प्रकीर्तितः ॥ १०५ ॥ रामद्वादशिका प्रोक्ता तप्तमुद्राविधारणम् । शूद्रस्य विहितं पश्चात् पवित्रारोपणं स्मृतम् ॥ १०६ ॥ जयन्ती वामनस्योक्ता तत्कृत्यं चापि सर्वशः । श्रवणद्वादशी प्रोक्ता विष्णुशृङ्खलवर्णनम् ॥ १०७ ॥ प्राशस्त्यं बुधयोगेन पारणानिर्णयस्ततः । इतरासां द्वादशीनां नामान्युक्तान्यनुक्रमात् ॥ १०८ ॥ आश्विनद्वादशीकृत्यं गोवत्सद्वादशीव्रतम् ।। विधान निर्णययुतं तत्र वर्ण्यविनिर्णयः ॥ १०९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #318 -------------------------------------------------------------------------- ________________ २८२ तिथ्यर्कविषयानुक्रमणिका नृणां नीराजनविधिर्टादशीषु च पञ्चसु । कार्तिकद्वादशीकृत्य देवतोत्थापनादिकम् ॥ ११० ॥ व्रतार्पणविधिस्तत्र तिलद्वादशिकाविधिः । द्वादशीषु विशेषेण व्रतार्पणविधिः स्मृतः ।। १११ ॥ तुलसीमिश्रनैवेद्यभक्षणस्य फलं स्मृतम् । द्वादशीवय॑वस्तूनि संख्यातान्यामिषाणि च ।। ११२ ॥ ऐक्षवं ताम्रपात्रस्थं निषिद्धमिति कीर्तितम् । अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः ।। ११३ ॥ त्रयोदशीनिर्णयस्तु सामान्येन प्रकीर्तितः । पक्षप्रदोषो निर्णीतो वारभेदेन तत्फलम् ॥ ११४ ॥ अध्यापनाध्ययनयोः प्रदोषस्य विनिर्णयः । चैत्रशुक्लत्रयोदश्यामनङ्गपरिपूजनम् ।। ११५ ।। भाद्रशुक्लत्रयोदश्यां गोत्रिरात्रव्रतं स्मृतम् । ऊर्जकृष्णत्रयोदश्यां यमदीपविधिः स्मृतः ॥ ११६ ।। चैत्रकृष्णत्रयोदश्यां वारुणीयोगकीर्तनम् । वरुणप्रतिमादानं विधिः सर्वोपि कीर्तितः ॥ ११७ ।। अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः । शुक्लकृष्णचतुर्दश्यौ विनिर्णीते ततः परम् ।। ११८ ॥ मधेोः शुक्लचतुर्दश्या निर्णयोऽनङ्गपूजनम् । श्रीनृसिंहजयन्त्यास्तु निर्णयः कर्तृ निर्णयः ॥ ११९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #319 -------------------------------------------------------------------------- ________________ तिथ्यर्कविषयानुक्रमणिका २८३ व्रतप्रकारकथनं तन्नित्यत्वप्रकाशनम् । ॐकारयात्रा कथिता श्रावणे भूतनिर्णयः ॥ १२० ॥ भाद्रशुक्लचतुर्दश्यामनन्तव्रतनिर्णयः । ऊर्जकृष्णचतुर्दश्यामभ्यङ्गस्नानमीरितम् ॥ १२१ ।। तन्निर्णयः प्रकथितो यमतर्पणमेव च । प्रदोषसमये दीपदानं च कथितं ततः ॥ १२२ ॥ ऊर्जकृष्णचतुर्दश्याः कृत्यमुक्तं समासतः । मार्गशुक्लचतुर्दश्या अपि कृत्य हि वर्णितम् ॥ १२३ ॥ शिवरात्रिव्रतस्याथ निर्णयः समुदाहृतः । अधिकारश्च सर्वेषां व्रतानुष्ठानपद्धतिः ॥ १२४ ॥ पारणानिर्णयः पश्चाच्चैत्रकष्णचतुर्दशी । अथ सिद्ध विरुद्धादियोगिनीनिर्णयस्ततः ॥ १२५ ॥ अमावास्या विनिर्णीता सोमपाशस्त्यमेव च ।। योगः पुष्करसंज्ञस्तु सावित्रीव्रतकीर्तनम् ॥ १२६ ॥ दर्भसंग्रहकालस्तु कात्तिकामाव्रतं तथा । अझैदयविधिः पश्चादात्मनिर्णय उदाहृतः ॥ १२७ ।। पारिभाषिकयोगस्तु पाताख्यः समुदाहृतः । अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः ॥ १२८ ॥ पूर्णिमानिर्णयः पश्चादथ चैत्रस्य पूर्णिमा । वैशाखोद्यापनविधिर्वैशाख्यामनुवर्णितः ॥ १२९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #320 -------------------------------------------------------------------------- ________________ २८४ तिथ्यर्कविषयानुक्रमणिका दानं कृष्णाजिनस्याथ कुम्भदानं तथैव च । ज्येष्ठस्य पूर्णिमायां तु सावित्रीपूजनं स्मृतम् ॥ १३० ।। तिलछत्रादिदानानि कीर्त्तितानि विशेषतः । कोकिलाव्रतकालश्च व्यासपूजाविनिर्णयः ।। १३१ ।। विष्णोः शयनकालश्च देशकालविभेदतः । श्रावणी पौर्णमासी तु निर्णीता च ततः परम् ।। १३.२ ।। उपाकर्माऽपि तत्रोक्तं विस्तरेण ततः परम् । उत्सर्जनं च कथितं श्रवणाकर्मनिर्णयः ॥ १३३ ॥ सर्वेषामिह वर्णानां रक्षाबन्धविधिस्तथा । भद्रायां तनिषेधस्तु हयग्रीवसुरार्चनम् ॥ १३४ ॥ नान्दीमुखानां प्रत्यब्दं भाद्रयां श्राद्धविधिस्तथा । आश्विन्यामाश्विनीकर्म कोजागरविधिस्तथा ॥ १३५ ॥ कार्तिक्यां कार्तिकेयस्य दर्शनं त्रिपुरोत्सवः । क्षीरसागरदानं च दृषोत्सर्गविधिस्तथा ॥ १३६ ॥ अथार्जवतिनः सम्यगुद्यापनविधिः स्मृतः । मागशीर्ष्या पौर्णमास्यामुक्तं प्रत्यवरोहणम् ॥ १३७ ।। पौषीकृत्यं ततः प्रोक्तं माघीकृत्यं सविस्तरम् । स्नानाद्यापनकर्माणि होलिकानिर्णयस्ततः॥ १३८ ।। भद्रापुच्छं विनिर्णीतं होलिकाकृत्यमेव च । मलमासनिषेधश्च दोलोत्सव उदाहृतः ॥ १३९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #321 -------------------------------------------------------------------------- ________________ तिथ्यर्कविषयानुक्रमणिका अथ सिद्ध विरुद्धादियोगिनी निर्णयस्ततः । सूक्ष्मत्वात्सन्धिकालस्य कृतस्तत्रेष्टिनिर्णयः ॥ १४० ॥ विकृते कालनिर्देशः पश्वाग्रयणनिर्णयः । निर्णय ग्रहणस्याथ दानद्रव्यमुदाहृतम् ॥ १४१ ॥ पात्रलक्षणमप्युक्तमपात्रे दानमीरितम् । चूडामणिसमाख्या च सूतकादैा तदर्हता ॥ १४२ ॥ दानश्राद्धादिकालश्च स्नानतीर्थविनिर्णयः । निषिद्धग्रहणे दानशान्ती मोक्तेऽथ (१) पक्षकः ॥ १४३ ॥ मासस्तद्धे दकथनं विनियोगस्तथैव च । मासदेवाः समाख्याता मलमासस्य निर्णयः ।। १४४ ॥ कार्याकार्यविवेकस्तु दानं चोक्तं ततः परम् । चान्द्रसावन सौरास्तु त्रयः संवत्सरा मी ।। १४५ ॥ २८५ क्षौरकालनिषेधश्च क्वचित्तदपवादनम् । कलिवर्ज्यानि चोक्तानि पर्ववर्ज्यानि चैव हि ॥ १४६ ॥ तैलवर्जनकालश्च पुष्पतैलनिषेधनम् । अष्टम्यादिषु वर्ज्यानि प्रथमाब्द निषेधनम् ॥ १४७ ॥ जन्मवासरकृत्यं च तत्र वर्ज्यानुकीर्त्तनम् । दिनद्वये जन्मतिथेः सत्त्वासत्त्वविनिर्णयः ॥ १४८ ॥ अमावास्या विनिर्णीता पितृयज्ञविनिर्णयः । श्राद्धकालो विनिणींतो व्रतकालस्तथैव च ॥ १४९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #322 -------------------------------------------------------------------------- ________________ २८६ तिथ्यर्कविषयानुक्रमणिका सामान्यो व्रतधर्मश्च हिताहितविकीर्तनम् । स्त्रीव्रतेषु विशेषस्तु गर्भिण्यादिनिषेधनम् ॥ १५० ॥ संख्या प्रतिनिधीनां तु दोषस्त्यागे व्रतस्य हि । नैमित्तिकः पुण्यकाल इत्येवं कथितः क्रमः ॥ १५१ ॥ इत्थं दिवाकरसुतेन कनीयसा श्री रामानुजेन गुरुभक्तिपरायणेन । श्रीतातपादरचिते सुजनप्रियेऽस्मिन् ग्रन्थे क्रमो विलिखितः सवितुः प्रसादात् ॥१५२॥ इति श्रीदिवाकरसूरिसूनुवैजनाथकता तिथ्यप्रकाशा नुक्रमणिका समाप्ता। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #323 -------------------------------------------------------------------------- ________________ तिथ्य प्रमाणत्वेनोपन्यस्तानां ग्रन्थादीना मकारादिक्रमेण वर्णानुक्रमणिका अगस्त्यसंहिता ६१ । ३, १०, १४, १६, ६२ । ६, ११, १८, १३६। ११, १५५ । १६, अग्निपुराणम् ७ । १३, ७१ । १६, ७३ । १२, ७४ । ३, ७८ । १, ३, १२८ । ६, १६१ । १, ५, ६, २६६ । १४, अद्भुतसारः ११८ । १८, अपरार्कः १३६ । १७, १७० । १, २३४ । ११, २४६ । ७, मा प्रादित्यपुराणम् २०० । २, २०६ । ४, २५५ । १२, १५, २५६।६, आपस्तम्बः १७७ । १०, २३३ । १५, २३४ । १६, २३५ । १३, प्राश्वलायन: १५८ । २, २१८। ५, २६३ । २, ईशानसंहिता १८० । २, १६२ । ४, १६३ । १, उशनाः २३७ । १. ऋग्विधानम् १०५ । १५, १०६ । १, ऋष्यशृङ्गः ३८ । १२, १११ । १६, १५१ । १४, २१४ । १०, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #324 -------------------------------------------------------------------------- ________________ तिथ्यर्कवर्णानुक्रमणिका कात्यायन: १२८ । १५, १५४ । १७, १६६ । १६, २१२ । १५, २१४ । ६, २१८ । १२, २३० । ८, २०, २३१ । १६, २३२ । ३, २३५ । ३, २३७ । १७, २६० । ७. २६५ । ११, काठकगृह्यम् २४६ । १८, २४६ । ५, कामिकः १८६ । १६, १६०।१६, १६१ । ८, कार्णाजिनि: २१५ । १६, २१६ । ४, २६१ । ६, कालादर्श: ३२ । १, ६२ । १६, ७७ । ८, ८१ । ३, १४२ । ४, १८२ । १२, १६६ । २०, २१६ । १०, कालिकापुराणम् १३ । २०, ६६।८, ६८ । ६. काशीखण्डम् ११ । ४, ३७ । २०, ३६ । ७, ४८ । ६, ५२ । ६, ५५ । १५, ६६ । ४, ६७ । ८, ११, १५, ८३।८, ८६ । ७, १२, १०६ । १३, ११२ । ४, १४६। ३, ६, ६, १३, १७५ । १७, १८७ । १७, १८८। १, १९८ । ७, २२१ । १०. काश्यपः १२४ । २, कूर्मपुराणम् ४६ । १६, ५५ । ७, ८६ । २, १०१ । ३, १२७ । १३, १२८। १८, १३६ । १४, १५४ । ८, १७४ । ३, २१४ । १८, २६६ । ६, कृत्यचिन्तामणि: २५६ । ६, क्रतुः २५६ । ३, तीरस्वामी १४३ । १५, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #325 -------------------------------------------------------------------------- ________________ तिथ्यर्कवर्णानुक्रमणिका ग गरुडपुराणम् ३५।८, ३७ । ४, छागलेय: २६८ । ६, १२८। १, २५६ | €, २६८ । ६, गर्गः २०५ । १८, २१२ । ४, २१३ । १८, २३४ गार्ग्य: १४३ | ४, २१५ । ३, २३३ । ८, २६५ | १७, गृह्यपरिशिष्टम् २५१ | २, चन्द्रप्रकाशः १७५ । ४, २२६ । ६, चमत्कारचिन्तामणिः ५१ । ११, च्यवनसङ्कर्षणः २४६ । १, गोभिल: १२० । १३, २१५ । १२, २३० । १२, गौडा: ३३ । १०, ७३ । १५, १३३ । ५, छ Shree Sudharmaswami Gyanbhandar-Umara, Surat २८६ ११५ । १२, १३५ । ११, । ११, २४५ । १, ज्योतिर्ब्रन्थः २४७ । १५, २४८ । १, ज्योतिर्निबन्धः २७ । २०, १२६ । १८, १८६ | १३, ३७ जातुकर्ण्यः ८४ । ५, जाबालि: ४ । २०, ४५ । २०, ५० । १४, १७२ । १६, २०७ । १२, १४, २३-८। १२, २४७ । १२, २४८ । २६२ । १४, www.umaragyanbhandar.com Page #326 -------------------------------------------------------------------------- ________________ २६० तिथ्यर्कवर्णानुक्रमणिका ज्योतिःशास्त्रम् ६१ । १६, ६६ । १, ११७ । १, १२२ । १४, १५७ । १, २२७।२, २४२। ३, २५० । ५, २५२ । २, ज्योतिःसागरः २४३ । १, तिथितत्त्वम् १४८। ६, तैत्तिरीयब्राह्मणम् २२६ । १२, त्रिकाण्डमण्डनम् ८८।६, २३३ । १६, दिवोदास: ३६ । १०, ८०।१०, दीपिका ४६ । १६, १७२ । ५, देवलः ६।६, ४३ । १७, ४४ । ११, ११६ । १२, १३१ । ५, १३२ । ११, १५५ । ३, २३८ । १, २५६ । १५, देवीपुराणम् १२ । १४, १३ । ३, १३, १४ । ३, १७, १६ । १, १७ । ५, १८।६, १२, १५, १७, २० । १५, ३१ । १७, ३५ । १२, ३७ । ६, १२, ४० । ११, ४८ । १२, ५७ । १६, ५६ । १८,६६।१८, ७० । १६, ६८।४, १००। ४, १०८। १, ११७ । १०, ११६ । १६, १७८ । १०, २४१ । १२, २५६ । ५, १६, धर्मचिन्तामणिः १२३ । १५, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #327 -------------------------------------------------------------------------- ________________ तिथ्यर्कवर्णानुक्रमणिका धर्मप्रदीपः १८ । १६, धौम्यः १२ । १, १३ । १७, न नारायणवृत्तिः २६३ | ३, नारायणीयधर्मप्रवृत्तिः ७७ । ३, नागरखण्ड: ११६ । ८, १८२ । १४, १-८१ । ११, १६, नारदपुराणम् ३२ । ४, ३६ । १६, ४७ । १३, ( नारदीयम्, नारदः ) ५० | १६, ७६ | १२८ । १८, १२८ । ४, १३५ । ८, १३६, ८, १६१ । १२, १६२ । १२, १६३ । ३, १६४।४, १६७ । ३, १७०।८, १७७।७, १८६ । १३, १-६० । १२, २२८ । ८, निगम: ६७ । ३, ६० ६, निर्णयदीप: २०५ । १८, निर्णयामृतम् ३ । १३, ४ । ४, ६५ । १६, ८५ । ५, १६२ । ५, पद्मपुराणम् २८ । २०, ४४ । ४, ८४ । १, ८६ । ७, २-८१ १०५ । १६, १३२ । २०, १५७ । १६, Shree Sudharmaswami Gyanbhandar-Umara, Surat १०२ । १, १४० । ६, १४१ । २, १४८ । २१, १३५ । १४, १३७ । १०, ११, १८, १५० । ६, १५१ । ४, १५३। ५, ११, १५४ । १४, २०, १७१ । ७, १७४ | १३, १७६ । १, १८३ | १८, १५२ । १, १८, www.umaragyanbhandar.com Page #328 -------------------------------------------------------------------------- ________________ २८२ तिथ्यर्कवर्णानुक्रमणिका १८४ । १, १८५ । ४, २०१ । १३, २०६। ८,२२२ । १७, २५२ । ७, २६७ । ६, पराशर: ४२ । ५, २१४ । २, २६७ । १७, परिशिष्टम् १३८ । १, २६३ । १३, १४, २४५ | ६, पितामहः १३७ | ७, २०५ । पुराणसमुच्चय: २८ । १३, ३२ । १८, ४१ । ५, ५६ । ११, ७१ । १२, ७६ । ८३ | १७, १२६ । १५, २२६ । ११, पुराणान्तरम् ७३ । ४, पुलस्त्य: १३० । २१, २१५ । ८, पृथ्वीचन्द्रोदय: ६८ | १५, १५३ । २, पैठीनसिः ३० । ५, २४६ । १०, २६७ । ११. प्रचेताः १३५ । १८, २१५ । १०, २५८ २, प्रतापमार्तण्डः ८० । ७, प्रयोग पारिजातकार : २३४ । ३, बृहद्यमः ७८ । १३, बृहन्मनुः १७३ | १४, बौधायनः ४४ । ६, ब ६७ । १८, २११ । २, २१२ । १५, २४६ । १२, १२१ । ४, २२८।६, १२८ । १४, २३२ । १८, ब्रह्मपुराणम् ८ । १३, २०, ५२ । १४, ६३ । ३, ५४ । १२, १, ८२ । १६, २०७ । १६, Shree Sudharmaswami Gyanbhandar-Umara, Surat १७८ । ३, २३८ । १५, ७० । १३, १०६ । €, १३६ । ७, ८४ । ६, ६० । ३, ८५ । २०, १०८ । ५, १२१ । १६, १४१ । १८,१५१ । १७,१५२ । ११, १६८ । ६, www.umaragyanbhandar.com Page #329 -------------------------------------------------------------------------- ________________ २६३ तिथ्यर्कवर्णानुक्रमणिका १७२,८,१७३। ११,१७६॥ १,१८४।१०, १३, १६, १८८।१०, २०१ । २, १८, २२० । ४, ८, २२२ । १, २२४ । १५, २२८ । १४, २४० । १६, २५८ । १७, ब्रह्मवैवर्तपुराणम् ११ । १५, ३४ । १८, ४०। ७, ५०।१, ७३ । १८,७६ । ११,७७ । १, ८७। ३, १२६ । १, १६४ । १२, १७१ । १७, १७८ । १४, १९६ । ७, २०४ । १३, २०८। ५, २४० । १०, ब्रह्मसिद्धान्त: २४४ । १३, २४५। ८, २४६ । १५, २४७ । ३, २५३।८, ब्रह्माण्डपुराणम् ३४ । ५, १०५ । ११, १७० । १८, १७६ । ११, भट्टनारायण: २५० । १, भविष्यपुराणम् ४।६,६७,१०।१,१५। १, २१ । १,४,७, २८।७, २६ । ३, ३१ । १४, ३३ । १५, ३४।६, ३६ । ११, ३८।८,४०।१५, ४३ । १, ४६।१६,४७॥ १८,५१ । २०, ५६।६,६०।१३, ६१ । १,६४ । १२, ६५ । ११, ६६ । ८, १३, ७०।६, ७१ । ७,७२।१०,७८।१०, ७६।६, ८२ । २, ६, ८८।१६, २०,६०। १३, ६६।५,६,१४,२१,६७।११,१०६।१६, १०७ । १, १०६।६, १२० । २०, १२५ । ११, १४, १२७ । १०, १३३ । ६, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #330 -------------------------------------------------------------------------- ________________ २६४ तिथ्यवर्णानुक्रमणिका १३८ । ४, १४२ । ६, ८, १४३ । ७, १४४।१६,१४६।१५,१४८।३,१५०।१२, १५२। ६, १५३ । १६, १५७ । ६, १४, १५६। ४,८,११,१६,१६३।६,१६५। ५, ८, १६८ । ११, १७४ । ७, १७६ । ७, १८२ । १, १८, १८३ । १, १८५। १०, १८६।७,१६६।४, २०१। ६,२०८ । २, २०६।६, २१६ । २, ११, १६, २२१ । १३, २२२ । १५, २२५ । ११, १८, २२६ । ३, १५, २२७ । १५, २२८ । ५, २६५ । ४, २६६ । २, भागवतम् १६०।८, भारद्वाज: २५४ । ७, भृगुः १२४ । १८, १३४ । ४, मत्स्यपुराणम् १३ । १०, ३६ । ६, ५१ । ४, ५८ । ११, ११५ । १, १५० । १६, १५८ । १४, १६१ । १६, १६२ । १८, २६७ । ६, मदनपारिजात: २५६ । १२, मदनरत्नम् ३५ । १५, ६५।८, ७६ । १२, ८४ । १८, २१३ । ८, २६७ । २०, मनु: १०८।८, २१७ । १३, २५७ । ३, २६४ । १४, मण्डन: १८३।६, मरीचिः २४८।१८, २४६ । १, २५४ । १६, मल्लारिमाहात्म्यम् ५८ । १७, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #331 -------------------------------------------------------------------------- ________________ तिथ्यर्कवर्णानुक्रमणिका २६५ महाभारतम् ८६।१०, १४२ । १८, १६८ । १४, १८८ । १७, २०२ । ५, २०४ । १, २३८ । ४,७, २४० । १३, महेश्वरकोशः ६४ । १६, माधवः ७४ । १८,७७ । ११,८७ । ७, १७२ । ३, १८२ । ४, २५५ । १८, २६४ । ७, १८, माधवीयम् ६ । ६, १६, ७।६, ३५ । १७, ३६ । १३, मार्कण्डेयपुराणम् । १८, ४२ । १०, ५०।८, (मार्कण्डेयः, मार्कण्डेयवचनम् ) १०७ । १३, १३० । ४, १३५ । ५, २३६ । ३, १२, २५४ । १६, मिताक्षरा २३६।६, मुहूर्तचिन्तामणि: २१६ । १८, २१७ । १, . मोहचूड़ोत्तरम् १४२ । १, यज्ञपार्श्व: २३० । १, यम: १८८।६, २१०। ६, २५१ । ६, ३५४ । ४, याज्ञवल्क्यः ४५ । ५,८८।१०,२११ । ४, २१७। १०, २३८।१०, यामल: १४ । १०, योगिवचनम् १२१ । ११, रत्नकोश: १२३ । १८, रत्नमाला ८।३, १०५ । ५, १२२ । ५, राजमार्तण्ड: ६८।१, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #332 -------------------------------------------------------------------------- ________________ २९६ तिथ्यर्कवर्णानुक्रमणिका रामार्चनचन्द्रिका १४७ । ४, १५६ । १०, १५८ । १७, १६७ । १२, रुद्रयामलम् ६२ । ७, ६८ । १०, ६६ । १३, लल्लः ६६ । ३, २२६ । २०, लिखित: २४४ । ७, लिङ्गपुराणम् ६८।१७, १८६ । ४, १६४।६, २२० । २०, लोगाक्षि: २२६ । १५, २३१ । २, २३५ । १५, २५६ । १८, २६२ । १७, वत्स: ४५। १४, वराहः १४२ । २१, वराहमिहिरः ८६।५, वसिष्ठः ५५ । ११, ७२ । ७, ११६ । ११, १२० । ५, १३७ । १२, वसिष्ठसंहिता ७३ । १, वामनपुराणम् १४२ । १२, १५० । ३, २१० । ३, वायुपुराणम् (वायवीयम् ) १३७ । १५, १६४ । १८, १६१ । १. १६६ । १५, २०६ । :, २५० । १३, वाराहपुराणम् १२६ । ७, १५६ । १७, २६६ । १०, वार्त्तिककार: २ । ८, विश्वरूपनिबन्धः १८ । २०, २० । ३, विश्वामित्रः ११७ । २०, विष्णुपुराणम् । १, १२ । १७, २२ । ७, १०, १३, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #333 -------------------------------------------------------------------------- ________________ तिथ्यवर्णानुक्रमणिका २६७ (विष्णुवचनम् , विष्णुः) २३ । ५, १२, २४ । ६, १६, २५ । १०, १७, २०, २६ । ४, ७, १०, १५, २७ । २, ५, ३०। १०, ३१ । १०, ३५ । ४, ३७ । १७, ६४ । ४, ८, ७२ । १३, ७५ । १७, २०, ८७ । १६, १०५ । २, ८, ११६ । ३, १३१ । १६, १३२ । १, ६, १५२ । १४, १५५ । १२, १६३ । १०, २०६ । ७, २१० । १४, १६, २१६ । ७, २४२ । ८, २४४ । ३, १६, २६८ । १६, २६६ । १४, विष्णरहस्यम् ११६ । ६, १४७ । ६, १४८ । १८, १५८ । ११, १७, २६६ । ६, विष्णुयामलः १०२ । ७, विष्णुस्मृतिः २२४ । ११, वृद्धगाये: १२१ । ६, २३५ । १६, २५४ । १, १२, वृद्धगौतमः २३६ । ८, २४० । १, वृद्धमनु: २१२ । १५, २४६ । १२, वृद्धयामल: २६५ । २०, वृद्धवसिष्ठः २७ । १७, ३० । २, ३६ । ३, ४० । ३, ११८ । १५, १२० । ६, १७७ । १३, २३२ । ६, • ३३६ । १७, २३८ । १७, २३६ । ५, वृद्धशातातपः ७७ । १७, २३१ । १६, बृहस्पतिः ४१ । १२, २५१ । १७, वैखानससंहिता १२३ । १, व्याघ्रः २४१ । ५, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #334 -------------------------------------------------------------------------- ________________ २६८ तिथ्यवर्णानुक्रमणिका व्यास: १२ । ६, ४४ । १६, ४७ । ६, १२६ । १७, १३६ । १, १४१ । १५, २११ । २०, २१५ : १६ २३८ । १८, २४१ । ५, ६, २५७ । १२, १५, १६, २६२ । २०, २६५ । ७, २६६।५, शङ्खः २४१ । १, २५५ । २०, शङ्खस्मृति: १४८ । १४, १९८ । १२, शतपथब्राह्मणम् २२६ । १३, शातातप: १७ । १४, १८८। २०, २३० । १, २३२ । ६, २३६ । १, २४०।।, २६० । १४, २६४ । ३, शारदा १६।६, शिवपुराणम् १५८ । २, शिवराघवसंवाद: २६१ । २०, ३६२ । ७, शौनक: २३८ । १३, श्रीपतिमाला २५८ । २०, षत्रिंशन्मतम् २३७ । ६, २३६ । १७, २५३ । १७, सत्यव्रत: १०१ । ११, १२२ । १७, २६५ । १५, सनत्कुमारसंहिता ( सनत्कुमारः) १४२ । २१, १८७ । ६, संग्रहः २३४ । ६, संग्रहवचनम् ६२ । १२, ६५ । १६, २१६ । १४, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #335 -------------------------------------------------------------------------- ________________ तिथ्यर्कवर्णानुक्रमणिका संवत्सर प्रदीपः ७० । ३, संवर्त्तः ३२ । १४, सिद्धान्तः २५१ । २०, सिद्धान्त शिरोमणिः २४७ । ६, सिद्धान्तशेखरः १०४ । १८, सुमन्तुः ६ । २, ४६ । १३, १३३ । २, २६४ । १७, सौरपुराणम् १०६ । ४, सौरागमः ६५ । ५, स्कन्दपुराणम् ३ । २०, ४ । १५, ५ । ४, ११ । ६, १७, १७ । ८, १०, १७, १८४, २०७,३१ । २,३२८, ३३ । ४, ३५ । २०, ३७ । १, ३८ । ३, ३८ । २, ४० । १८, ४३ । ७, ४५ । १, १७, ४६।४, ४६।१४, ५४ । २, १८, ५५ । २, ५-६ । १४, ७१ । ४, ७२ । २, ७५ । €, १४, ८० । ३, १५, ८२ । १२, १६, ८३ । १२, १०८ । १५, ११५ । १५, ११६ । २०, १०६ । १२० । ३, १२३ । ८, ११, १२४ । ७, १२५ । ८, १२७ । १६, १३३ । १७, १३४।१, १५, १३७ । ४, १४१ । ५, ११, १४३ । १०, २०, १४४ । ४, १४६ । १८, १५४ । ४, १७२ । १३, १७३ | ४, १७० | १२, १७६ ४४, १७७।२०, १८२।६, १८४ । ५, १८६ । १६, १८१ । ४, २१, १८२ । ७, १०, Shree Sudharmaswami Gyanbhandar-Umara, Surat १०७ । २८६ १५, ११, १४, १६७ । ६, www.umaragyanbhandar.com Page #336 -------------------------------------------------------------------------- ________________ तिथ्यर्कवर्णानुक्रमणिका १६३ । ४, ८, ११, १४, १६, १६४ । २, १६७ । ४, १४, १६, २०२ । २, १०, २०३ । ८, २०८ । १०, २५० । १०, २५८ । ६, १३, २५६ । १५, २६७ । १४, स्मृतिचन्द्रिका ३८ । १४, ११६ । १, स्मृतिचन्द्रोदय: ६६ । १७, स्मृतिसमुच्चय: २५७ । ६, स्मृतिसंग्रहः ८२। ६, ८४ । १४, ८५ । १४, २५० । २०, स्मृत्यन्तरम् ५१ । १४, ८३।५, ८५। १८, १३३ । १४, १३४।६, १३७ । १, १६६ । १८, १६० । १६, २१२ । ८, २५० । १७, २५१ । ६, २६१। १७, २६२ । १०, स्मृत्यर्थसार: १७३ । १६, २११ । १०, हारीत: ४६ । १८, ५२ । १०, ५३ । ४, १८६ । १०, २६१ । ४, २६३ । ६, हेमाद्रिः २८ । २, ३४ । ३, ५३ । १२, १२६ । ३, १६० । १३, १६४। ४, १७६। १८, १८०। ११, १८१ । ३, १२, २०५ । ४, २११ । ६, २५५ । ६, २६१ । ६, ११, २६७ । २, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #337 -------------------------------------------------------------------------- ________________ अशुद्धम् प्रतिपदा तिथीन यामले जयायै नमः ब्रह्माणों प्राश्वयुक शुल कालिकादर्श चतुर्ष्वपि पक्षेषु स्याद सामाख्याता ततत्परतः ननु कुर्वति ● दत्वा या ऋतु मत्कृताचारादर्शे हिपतितं गोभिरत्नै शुद्धिपत्रम् शुद्धम् प्रतिपदादितिथीनां रुद्रयामले जयायै नमः ब्राह्मण श्राश्वयुक्शुक्ल कालादर्शे चतुर्ष्वसितपक्षेषु स्याद् समाख्याता तत्परतः न तु कुर्वीत दत्वा क्रतु० मत्कृताचारार्के हि पतितं गोभीरलै सप्तमीयेोगप्रशस्त्यात् सप्तमीयेोगप्राशस्त्यात् उपोषणाङ्गत्वेन नार्घ्यदानम् उपोषणाङ्गत्वेनार्घ्यदानम् दिति मन्त्रेण दिति च मन्त्रेण मपराह्ने मपराद्वे अपराह्ने अपराह्ने Shree Sudharmaswami Gyanbhandar-Umara, Surat पृष्ठे पङ्कौ १४ १६ १८ - १ २०- १५ ३१-२० ३२- १८ ४४-१६ - ६ -5 ४५ ४५ ४५–११ ४७--- २ ५६—— ६३–१८ ७६ ७८-६ ८३ – १५ ८६–१४ १०३—६ १०५ - १८ १२४-१४ www.umaragyanbhandar.com Page #338 -------------------------------------------------------------------------- ________________ दर्श [ २ ] अशुद्धम् शुद्धम् पृष्ठे पडतो परे द्युादश्यभावे परेशुभदश्यभावे १३४-१८ चैत्रात्सवे चैत्रोत्सवे १७४--७ चानन्तयं चानन्तकं १८२--२ भानाभावात् मानाभावात् १८३-४ दर्श च १८४-१३ सहस्रार्कगृहैः सहस्रार्कग्रहैः २०२--३ तदर्भार्द्ध न तदर्हार्द्धन २०६–१२ पराह्निकम् पराह्निकम् २१३-२० व्याप्याराम वाप्याराम २१६-१८ विशोका चतस्रश्च विन्ध्य- विशोका च चतस्ना च) स्योत्तरस्तथा विन्ध्यस्योत्तरतस्तथा २४०-१६ याद्वेदः यावद्वदः २५६-१५ प्येकरदेशादि प्येकदेशादि २६४-२० रविमण्डलान्तर्गतो रविमण्डलान्तरगतो २७०--१० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #339 -------------------------------------------------------------------------- ________________ अच्युतग्रन्थमालातःप्रकाशितानां पुस्तकानां सूचीपत्रम् । (क) विभागे १. भगवन्नामकौमुदी-श्रीलक्ष्मीधरविरचिता श्रीमदनन्तदेवनि मितप्रकाशटीकासहिता, प्राचार्यवरगोस्वामिदामोदरलालशामितप्रकाशटाकाता। त्रिभिः सम्पादिता। मू०-पा० १० २. भक्तिरसायनम्-श्रीमधुसूदनसरस्वतीविरचितम् । प्रथमोल्लासे मूलकृद्रचितया टीकया, शेषद्वयोल्लासे प्राचार्यवरगोस्वामिदामोदरलालशास्त्रिविरचितया प्रेमप्रपया टीकया सहितम् । मू०-पा० १२ ३. शुल्बसूत्रम्-श्रीमहर्षिकात्यायनप्रणीतम् । वेदाचार्यश्रीविद्या धरशर्माविरचितया सरलया वृत्त्या सहितम् । तैरेव सम्पादितम् । मू०-आ०४ ४. कात्यायनप्रौतसूत्रम्-श्रीमहर्षिकात्यायनप्रणीतम् । वेदाचार्य श्रीविद्याधरशर्माविरचितया सरलया वृत्त्या समेतम् । तैरेव सम्पादितम् । मू०-२०६ ५. प्रत्यक्तत्वचिन्तामणिः-(प्रथमो भागः) श्रीसदानन्दविद्व द्विरचितः ग्रन्थकुद्रचितया स्वोपज्ञस्वप्रभाख्यटीकया सहितः, साहित्याचार्यश्रीकृष्णपन्तशास्त्रिणा सम्पादितः । मू०-रु० २ ६. भक्तिरमामृतसिन्धुः-श्रीरूपगोस्वामिविरचितः । श्रीजीवगो स्वामिकृतदुर्गमसङ्गमनीटीकोपेतः, प्राचार्यवरगोस्वामिश्रीदामोदरलालशानिभिः सम्पादितः । मू०-२०३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #340 -------------------------------------------------------------------------- ________________ ( 2 ) 7. प्रत्यक्तत्त्वचिन्तामणिः-(द्वितीयो भागः ) श्रीसदानन्द विद्वद्विरचितः ग्रन्थकृद्रचितया स्वोपज्ञप्रभाख्यव्याख्यया सहितः, साहित्याचार्यश्रीकृष्णपन्तशास्त्रिणा सम्पादितः / मू०-रु० 2 0 4 ८.तिथ्यर्कः-श्रीदिवाकरविरचितः, साहित्याचार्यश्रीकृष्णपन्त__ शास्त्रिणा सम्पादितः। मू०-रु० 1 प्रा०८ ___ (ख) विभागे 1. खण्डनखण्डखाद्यम् -श्रीहर्षप्रणीतम् / पण्डितप्रवरश्रीचण्डी. प्रसादसुकुलविरचितभाषानुवादेन सहितम् / / मू-रु० 2 प्रा० 12 २.काशीकेदारमाहात्म्यम्-साहित्यरचनश्रीविजयानन्दत्रिपा ठिविरचितभाषानुवादेन सहितम् , साहित्याचार्यश्रीकृष्णपन्त शास्त्रिणा सम्पादितम् / मूल-रु० 2 प्रा० 8 प्राप्तिस्थानम् (1) अच्युतग्रन्थमालाकार्यालय, काशी। (2) गीता प्रेस, गोरखपुर / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com