________________
२५४
तिथ्यर्कः "मीने धनुषि सिंहे च स्थिते सप्ततुरङ्गमे ।
सौरमत्र न कर्त्तव्य विवाहो गृहकर्म च ॥” इति । यम:
"सिताष्टमीषु सर्वासु भूताहेन्दुक्षये तथा ।
तैलाभ्यङ्ग क्षौरकर्म स्त्रीसङ्गं वै विवर्जयेत् ॥” इति । भारद्वाजः
"निषिद्धतिथिवारादा भोजनानन्तरं च यः । क्षौरं करोति तद्गेहे नाश्नन्ति पितरः सुराः ॥ भुजिक्रियोत्तरं कालं क्षारं कर्म करोति यः ।
कृमिभक्ष्यो भवेत् सेोऽपि यावच्चन्द्रदिवाकरौ ॥" इति । वृद्धगार्य:
"रव्यारसौरिवारेषु रात्रौ पाते व्रतेऽहनि ।
श्राद्धाहमतिपद्रिक्ता भद्राः क्षौरेषु वर्जयेत् ।।" 'पाते' व्यतिपाते। 'भद्राः द्वितीयासप्तमीद्वादश्यः । मार्कण्डेयोऽपि
"अष्टमी च तथा षष्ठी नवमी च चतुर्दशी ।
क्षुरकर्मणि वा च पर्वसन्धिस्तथैव च ॥” इति । श्मश्रुकर्मणि निषेधमाह मरीचिः
"निरासनस्य सुप्तस्य तिष्ठतश्च तथैव च । सायं भुक्तवतश्चैव स्नातस्य क्षुधितस्य च ॥ यात्रायुद्धोद्यतस्यापि श्मश्रुकर्म विवर्जयेत् ।" इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com