SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २५४ तिथ्यर्कः "मीने धनुषि सिंहे च स्थिते सप्ततुरङ्गमे । सौरमत्र न कर्त्तव्य विवाहो गृहकर्म च ॥” इति । यम: "सिताष्टमीषु सर्वासु भूताहेन्दुक्षये तथा । तैलाभ्यङ्ग क्षौरकर्म स्त्रीसङ्गं वै विवर्जयेत् ॥” इति । भारद्वाजः "निषिद्धतिथिवारादा भोजनानन्तरं च यः । क्षौरं करोति तद्गेहे नाश्नन्ति पितरः सुराः ॥ भुजिक्रियोत्तरं कालं क्षारं कर्म करोति यः । कृमिभक्ष्यो भवेत् सेोऽपि यावच्चन्द्रदिवाकरौ ॥" इति । वृद्धगार्य: "रव्यारसौरिवारेषु रात्रौ पाते व्रतेऽहनि । श्राद्धाहमतिपद्रिक्ता भद्राः क्षौरेषु वर्जयेत् ।।" 'पाते' व्यतिपाते। 'भद्राः द्वितीयासप्तमीद्वादश्यः । मार्कण्डेयोऽपि "अष्टमी च तथा षष्ठी नवमी च चतुर्दशी । क्षुरकर्मणि वा च पर्वसन्धिस्तथैव च ॥” इति । श्मश्रुकर्मणि निषेधमाह मरीचिः "निरासनस्य सुप्तस्य तिष्ठतश्च तथैव च । सायं भुक्तवतश्चैव स्नातस्य क्षुधितस्य च ॥ यात्रायुद्धोद्यतस्यापि श्मश्रुकर्म विवर्जयेत् ।" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy