SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः यस्य हस्ते गदाचक्रे गरुडो यस्य वाहनम् । शङ्खः करतले यस्य स मे विष्णुः प्रसीदतु ॥" इति मलमासनिर्णय इत्युपरम्यते । अथ संवत्सरः, स च सम्यग् वसन्त्यस्मिन्नयन मासपक्षादय इति व्युत्पत्त्या मासाद्यवयवयुक्तोऽवयवी कश्चित्प्रत्यक्षः। स द्वादशमासै यते, "द्वादश मासाः संवत्सरे" इति श्रुतेः । अत्र मासानां त्रैविध्येन संवत्सरोऽपि त्रिविधः । तदुक्तं ब्रह्मसिद्धान्ते "चान्द्रसावनसौराणां मासानां तु प्रभेदतः । चान्द्रसावनसौराश्च त्रयः संवत्सरा अमी ॥” इति । तत्र चान्द्रसंवत्सरश्चैत्रशुक्लपतिपदादिः फाल्गुनदर्शान्तश्चतु:पञ्चाशदधिकशतत्रयदिनात्मकः ३५४ । सौरस्तु मेषादि. मीनान्तः पञ्चषष्ट्यधिकशतत्रयदिनात्मकः ३६५। सावनस्तु षष्ट्युत्तरशतत्रयदिनात्मकः ३६०। ते च त्रयः संवत्सरा वचनविशेषेण केषुचित् कर्त्तव्यकर्मसु व्यवतिष्ठन्ते, केषुचिद् विकल्पन्ते इति सङक्षेपः । अथ क्षौरनिषिद्धकालं प्रदर्शयामः । षटत्रिंशन्मते "कुम्भे च कर्कटे चैव कन्यायां कार्मुके रवी । रोमखण्डं गृहस्थस्य पित न त्रासयते यमः ॥ कन्यां सर्वा कर्कटके त्रेधा भागद्वयं त्यजेत् । धनुः कुम्भेऽर्धभागं च पूर्वमेव परित्यजेत् ॥” इति । वृद्धगार्य: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy