SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: बाल्यवार्धकप्रमाणं ज्योतिःशास्त्रे— २५२ "प्राक् पश्चादुदितः शुक्रः पञ्चसप्तदिनं शिशुः । विपरीतं तु वृद्धत्वं तद्वदेव गुरोरपि ॥” विशेषस्तत्रैव ज्ञेयः । मलमासे श्राद्धं कार्य न वेति विचारो विस्त रेण वक्ष्यते श्राद्धचन्द्रिकाप्रकाशे | पाद्ये अत्र दानमुक्तं हेमाद्रौ "अधिमासे तु सम्प्राप्ते गुडसपियु तानि च । त्रयस्त्रिंशदपूपानि दातव्यानि दिने दिने ।। अधिमासे तु सम्प्राप्ते त्रयस्त्रिंशत्त देवताः । उद्दिश्याऽपूपदानेन पृथ्वीदानफलं लभेत् ॥ त्रयस्त्रिंशदपूपांश्च कांस्यपात्रे निधाय च । सघृतं सहिरण्यञ्च ब्राह्मणाय निवेदयेत् ॥” इति । तिथ्यादि संकीर्त्य मम समस्तपापक्षयद्वारा श्रीनरकारिदेवमीत्यमिदं त्रयस्त्रिंशदपूपात्मकं कांस्यपात्रस्थं वायनं सघृतं साहिरण्यममुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे । कृतस्याधिमासवायनदानस्य साङ्गतार्थमिमां दक्षिणां तुभ्यमहं सम्प्रददे । इति यथाशक्ति दक्षिणां दत्वा प्रार्थयेदेतैर्मन्त्रैः --- "विष्णुरूपी सहस्रांशुः सर्वपापप्रणाशनः । पानमदादेन मम पापं व्यपोहतु || नारायण ! जगद्बीज ! भास्करप्रतिरूपक ! | दानेनानेन पुत्रांश्च सम्पदश्चाभिवर्द्धय ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy