SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ यम: गृह्यपरिशिष्टे 46 " वषटकार होमाश्च पर्व चाग्रयणं तथा । मलमासेऽपि कर्त्तव्यं काम्या इष्टीश्च वर्जयेत् ॥” इति । 'अषटकार होमाः' अग्निहोत्रोपासनवैश्वदेवादयः । 'पर्व' दर्शपूर्णमासस्थालीपाकाः । स्मृत्यन्तरे - - " चन्द्रसूर्यग्रहे चैव मरणे पुत्रजन्मनि । मलमासेऽपि देयं स्याद्दत्तमक्षय्यकारकम् ॥” इति । तिथ्यर्क: बृहस्पतिः " सपिण्डीकरणे नित्ये नाघिमासं विवर्जयेत् । तीर्थस्नानं जपो होमो यवत्रीहितिलादिभिः ॥ जातकर्मान्त्यकर्माणि नवश्राद्धं तथैव च । मघात्रयोदशी श्राद्धं श्राद्धान्यपि च षोडश ।। चन्द्रसूयग्रहे स्नानं श्राद्धदानजपादिकम् । कार्याणि मलमासेऽपि नित्यनैमित्तिकं तथा ।। " इति । वार्षिकमहालयनिषेधवचनानि श्राद्धचन्द्रिकाप्रकाशे उदाहरिष्यन्ते । 46 "अस्तं गते गुरौ शुक्रे वृद्धे बाले मलिम्लुचे । व्रतारम्भापवर्गे च न कुर्यान्मञ्जिबन्धनम् ॥” इति । अस्तलक्षणं सिद्धान्ते २५१ "रविणासत्तिरन्येषां ग्रहाणामस्तमुच्यते । ततोऽवग्वार्धकं मैौढयादूर्ध्वं बाल्य प्रकीर्त्तितम् ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy