SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २५० तिथ्यर्कः "एकादशेऽह्नि प्रेतस्य यस्य नोत्सृज्यते दृषः । प्रेतत्वं सुस्थि तस्य दत्तैः श्राद्धशतैरपि ॥" इत्यस्मन्मातृप्रपितामहश्रीभट्टनारायणपदपायोजलिखितवचनात् । हेमाद्रौ ज्योतिःशास्त्रे "तत्र दत्तमदत्तश्च हुतं न हुतमेव च । सुजप्तमप्यजप्तं स्यानोपवासः कृतो भवेत् ।। न यात्रां न विवाहञ्च न च वास्तुनिवेशनम् । प्रतिष्ठां न च देवानां प्रासादग्रामभूरुहाम् " ॥ इति । स्कान्दे "मलमासेऽप्यनावृत्तं तीर्थस्नानमपि त्यजेत् ।" 'अनावृत्तम्' नूतनम्, यदुक्तम्-"नूतनतीर्थस्नानादि मलमासे न कर्त्तव्यम्" इति । तस्य क्वचित् प्रतिप्रसवो वायुपुराणे "गयायां सर्वकालेषु पिण्डं दद्याद्विचक्षणः । अधिमासे जन्मदिने अस्ते च गुरुशुक्रयाः॥ न त्यक्तव्यं गयाश्राद्धं सिंहस्थे च दृहस्पती ।" इति । स्मृत्यन्तरे "वापीकूपतडागादिप्रतिष्ठा यज्ञकर्म च । न कुर्यान्मलमासे तु महादानव्रतानि च ॥” इति । मदनरत्ने स्मृतिसंग्रहे "जातकर्म प्रसूतिश्च सीमन्तोन्नयनव्रते ।। मलिम्लुचेऽपि कर्त्तव्यं निमित्तं यदि जायते ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy