SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ विध्यर्कः " सूर्या नाम ये मासा न तेषु मनुसंमतः । व्रतानां चैव यज्ञानामारम्भश्च समापनम् ॥” इति । तेनैवेाक्तत्वात् । 'असूर्याः' संक्रान्तिरहिता: । 'नाम' प्रसिद्धौ । केषांचिन्नित्यानामपि निषेधः काठकगृह्ये "पुष्टीष्ट्याग्रयणाधान चातुर्मास्यादिकान्यपि । महालयाष्टकाश्राद्धोपाकर्माद्यपि कर्म यत् ॥ स्पष्टमास विशेषाख्या विहितं वर्जयेन्मले ।” इति । 'पुष्टि: ' काठकादौ प्रसिद्धेति श्रीगुरवः । श्रग्रयणे विकल्पमाह पैठीनसिः— " संक्रान्तिरहिते मासि कुर्यादाग्रयणं न वा " इति । वृद्धमनु: २४६ "अग्न्याधेयं प्रतिष्ठां च यज्ञदानत्रतानि च । वेदवतवृषे । त्सर्गचूडाकरणमेखलाः ॥ माङ्गल्यमभिषेकं च मलमासे विवर्जयेत् ।" इति । त्राग्न्याधेयमपूर्वम्, प्रतिष्ठाऽप्यपूर्वा, अग्न्यनुगमननिमित्तमाधानं चाण्डालादिसंस्पर्शप्रयुक्ता पुनः प्रतिष्ठा चाऽसावकाशनैमित्तिकत्वान्मलमासेऽपि कार्या, "कुर्यात् व्रतादिकं कर्म प्रयत्नेन मलिम्लुचे । नैमित्तिकं च कुर्वीत सावकाशे न यद्भवेत् ॥” इति भविष्यात् । वृषोत्सर्ग निषेधस्तु काम्यवृषोत्सर्गपरः । प्रेतेद्देश्यकस्तु मलेsपि भवति — ३२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy