SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः “गतोऽन्थ्यद्रिनन्दर्मिते शाककाले तिथीशैभविष्यत्यथाङ्गाक्ष सूर्यैः । गजायग्निभूमिस्तथा प्रायशोऽयं कुवेदेन्दुवर्षेः क्वचिदोकभिश्च ।" इति । अस्यायमर्थः-अब्धयश्चत्वारः, अद्रयः सप्त, नन्दा नव-९७४ एतैर्युक्ते शाककाले क्षयमासेा गतः पूर्वमासीत् । तिथयः पञ्चदश, ईशा एकादश-१११५ एतैर्युक्ते शाककालेऽग्रे भविष्यति भविता । अङ्गानि षट, अक्षाणि पश्च, सूर्या द्वादश–१२५६, गजा अष्टौ, अद्रयः सप्त, अग्नयस्त्रयः, भूरेकः-१३७८, कुरेकः, वेदाश्चत्वारः, इन्दुरेकः-१४१ एतैर्वरयं मलमासः प्रायशो भवतीत्यर्थः । च परम्, क्वचित्कदाचित्, गावो नव, कुरेकः-१९ एतैरपि भवतीत्यर्थः। अथाऽत्र कार्याकार्य विविच्यते । जाबालिः "नित्यनैमित्तिके कुर्याच्छाद्धं कुर्यान्मलिम्लुचे । तिथिनक्षत्रवारोक्तं काम्य नैव कदाचन ।" इति । अगतिकानि काम्यान्यपि ज्वरादिरोगं शान्तिकारीर्यादिग्रहदास्थ्यपरिहारकादीनि मलेऽपि कार्याणि, "रोगे चालभ्ययोगे च सीमन्ते पुंसवेऽपि च । यद् दानादि समुदिष्ट पूर्वत्रापि न दुष्यति ॥" इति मरीचिवचनात् । अगतिककाम्यनिषेधोऽप्यारम्भसमाप्तिविषय एव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy