________________
विषयर्क:
२४७
हव्यकव्यक्रिया हन्ता तदा ज्ञेयेोऽधिमासकः ॥” इति ।
स्थूलमानेन तस्य कालो ब्रह्मसिद्धान्ते
"द्वात्रिंशद्विगतैर्मासैदिनैः षोडशभिस्तथा । घटिकानां चतुष्केण पतत्येकेोऽधिमासकः ॥” इति ।
क्षयमासस्वरूपं सिद्धान्तशिरोमणी -
संक्रान्तिमा सोऽधिमासः स्फुटः स्याद् द्विसंक्रान्तमासः क्षयाख्यः कदाचित् ।
क्षयः कार्त्तिकादित्रये नान्यतः स्यात् तदा वर्षमध्येऽधिमासद्वयं च ।
एकः क्षयात् प्राक् अपरस्तूर्वमित्येवमधिमासद्वय भवतीति
भावः । अस्मिन्नेवार्थे जाबालि :
--
" एकस्मिन्नेव वर्षे तु द्वौ मासावधिमासका । प्राकृतस्तत्र पूर्वः स्यादुत्तरस्तु मलिम्लुचः || ” इति । प्राकृतः शुद्धः कमाई इत्यर्थः । तयोर्नामनी ज्योतिर्ग्रन्थे— " यस्मिन् मासे न संक्रान्तिः संक्रान्तिद्वयमेव वा । संसपहस्पती मासावधिमासश्च निन्दिताः ||" इति ।
क्षयमासात् प्राचीनोऽसंक्रान्तः संसर्पः, उत्तरोऽहस्पतिरित्यर्थः । कर्मसु सम्यक सर्पतीति संसर्पः । अत एव कर्माहः ।
द्वितीयस्तु स पापानां पतिः, ते निषिद्ध इति भावः । क्षयस्यागमनकालस्तत्रैव
-
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com