SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ विषयर्क: २४७ हव्यकव्यक्रिया हन्ता तदा ज्ञेयेोऽधिमासकः ॥” इति । स्थूलमानेन तस्य कालो ब्रह्मसिद्धान्ते "द्वात्रिंशद्विगतैर्मासैदिनैः षोडशभिस्तथा । घटिकानां चतुष्केण पतत्येकेोऽधिमासकः ॥” इति । क्षयमासस्वरूपं सिद्धान्तशिरोमणी - संक्रान्तिमा सोऽधिमासः स्फुटः स्याद् द्विसंक्रान्तमासः क्षयाख्यः कदाचित् । क्षयः कार्त्तिकादित्रये नान्यतः स्यात् तदा वर्षमध्येऽधिमासद्वयं च । एकः क्षयात् प्राक् अपरस्तूर्वमित्येवमधिमासद्वय भवतीति भावः । अस्मिन्नेवार्थे जाबालि : -- " एकस्मिन्नेव वर्षे तु द्वौ मासावधिमासका । प्राकृतस्तत्र पूर्वः स्यादुत्तरस्तु मलिम्लुचः || ” इति । प्राकृतः शुद्धः कमाई इत्यर्थः । तयोर्नामनी ज्योतिर्ग्रन्थे— " यस्मिन् मासे न संक्रान्तिः संक्रान्तिद्वयमेव वा । संसपहस्पती मासावधिमासश्च निन्दिताः ||" इति । क्षयमासात् प्राचीनोऽसंक्रान्तः संसर्पः, उत्तरोऽहस्पतिरित्यर्थः । कर्मसु सम्यक सर्पतीति संसर्पः । अत एव कर्माहः । द्वितीयस्तु स पापानां पतिः, ते निषिद्ध इति भावः । क्षयस्यागमनकालस्तत्रैव - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy