SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: "अन्त्योपान्त्यौ त्रिभा ज्ञेयेा फाल्गुनश्च त्रिभो मतः । शेषा मासा द्विभा ज्ञेयाः कृत्तिकादिव्यवस्थया ॥ द्वे द्वे चित्रादिताराणां परिपूर्णेन्दुसङ्गमे । मासाश्चैत्रादयो ज्ञेयास्त्रिकैः पष्ठान्त्याः ॥” इति च्यवनसङ्कर्षणवचनात् । अथ मासदेवता अपरार्के २४६ "केशव मार्गशीर्षे तु पैषे नारायणः स्मृतः । माधव माघमासे तु गोविन्दः फाल्गुने तथा ॥ चैत्रे मासि भवेद्विष्णुवैशाखे माधवस्तथा । त्रिविक्रम ज्येष्ठमासे आषाढे वामनस्तथा || श्री श्रावणे ज्ञेयो हृषीकेशस्ततः परम् । पद्मनाभ आश्वयुजे ततो दामोदरो मतः ।। सर्वेष्वेतेषु मासेषु नरकारिर्मलिम्लुचः । " इति । मलमासः । हेमाद्रौ ब्रह्मसिद्धान्ते "चान्द्रो मासेा ह्यसंक्रान्तो मलमासः प्रकीर्तितः ॥” इति । स द्वेधा— अधिमासक्षयमासभेदात् । तदुक्तं मदनरत्ने काठकगृह्ये— " यस्मिन् मासे न संक्रान्तिः संक्रान्तिद्वयमेव वा । मलमासः स विज्ञेया मासः स्यात्तु त्रयोदशः ||" इति । तत्राधिमासस्वरूपं भृगुणा दर्शितम् - " एकराशिस्थिते सूर्ये यदा दर्शद्वय ं भवेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy