SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः २४५ "सौरो मासा विवाहादा यज्ञादा सावनः स्मृतः । प्राब्दिके पितृकार्ये च चान्द्रो मासः प्रकीर्तितः ॥” इति । "प्राब्दिके सांवत्सरिकमृताहश्राद्ध, पितृकार्ये पाण्मासिकश्राद्धादी, चशब्दान्माससंवत्सरसाध्ययज्ञव्यतिरिक्त सर्वस्मिन् देवकार्य चान्द्रो मासः प्रशस्यते इत्युक्तम्" इति हेमाद्रिः। उक्तञ्च पितामहेन___"दैवे कर्मणि पित्र्ये च मासश्चांद्रमसः स्मृतः ।" इति । विप्राणान्तु मुख्यश्चान्द्र एव, "अमावास्यापरिच्छिन्नो मासः स्याद् ब्राह्मणस्य तु । संक्रान्तिपौर्णमासीभ्यां तथैव नृपवैश्ययोः ॥" इति ब्रह्मसिद्धान्तात् । नाक्षत्रमासस्योपयोगस्त्वायुर्दीर्घनिर्णयः । माधवस्तु-"अमावास्यया हि मासान् सम्पश्यन्ति, पौर्णमास्या हि मासान् सम्पश्यन्ति” इति श्रुत्या दर्शान्तत्वपूर्णिमान्तत्वयोः साम्यादनुष्ठानादिषु विशेषवचनाच्छिष्टाचाराच व्यवस्थेत्युदाजहार । दर्शान्तानां पूर्णिमान्तानां वा मासविशेषाणां कार्तिकादिसंज्ञा नक्षत्रयोगाद् । यत्र मासे पूर्णिमा कृत्तिकानक्षत्रेण युज्यते, सा कार्तिकी “नक्षत्रेण युक्तः कालः" इत्यण । अणन्तत्वाडङीप् । साऽस्मिन् मासे स कार्तिको मासः, "साऽस्मिन् पौर्णमासीति संज्ञायाम्" इत्यण , "लुबविशेषे” इति तस्य लुप् कार्तिकः । एवं मार्गशीर्षादयोऽपि बोध्याः। अत्र यद्यपि कृत्तिकादिनक्षत्रं कार्तिकादिषु प्रयोजकमुक्तम्, तथापि कृत्तिकादि द्वन्द्वं त्रिकञ्च प्रयोजकं बोध्यम्, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy