________________
२४४
तिथ्यर्फः 'लामज्जकम्' उशीरभेदः, 'फलिनी' प्रियङगुरिति दिक् ।
अथ पक्षः। विष्णुपुराणे"त्रिंशन्मुहूर्त कथितमहोरात्रं तु यन्मया ।
तानि पञ्चदश ब्रह्मन् ! पक्ष इत्यभिधीयते ॥" स च द्वधा, शुक्लकृष्णभेदात् । दैवे कर्मणि शुक्लपक्षः, पित्र्ये कर्मणि कृष्णपक्षो ग्राह्यः, ___"देवे मुख्यः शुक्लपक्षः कृष्णः पित्र्ये विशिष्यते ।" इति माधवलिखितश्रुतेः।
अथ मासनिर्णयः । 'मस' परिमाणे इत्यस्माद्धातोर्निष्पन्नस्य मासशब्दस्यार्थो मस्येते परिमीयेते यावता कालेन चन्द्रद्धिक्षयौ स कालो मास इति । स मासस्त्रिधा, चांद्रसावनसौरभेदात् । चान्द्रादीनां स्वरूपं माधवीये ब्रह्मसिद्धान्ते
"चान्द्रः शुक्लादिदर्शान्तः सावनस्त्रिंशता दिनैः ।
एकराशी रविर्यावत्कालं मासः स भास्करः ॥” इति । माधवमदनरत्नयो क्षत्रमपि केचिदिच्छन्तीत्युक्तम् ,
"सर्वक्षपरिवत्तेस्तु नाक्षत्रो मास उच्यते ।" इति विष्णुधर्मोत्तरात् ।
स च सप्तविंशतिभिः (त्या ?) दिनैः सम्पद्यते,
"माने मासस्तु नाक्षत्रे सप्तविंशतिभिर्दिनैः ।। इति स्मृतेः । कुत्र को वा मासा ग्राह्य इत्याकाङक्षायां गर्गः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com