SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क : “श्रभ्यङ्गस्त्रानमध्ये तु नरकस्य क्षयाय वै । अपामार्गस्थ पत्राणि भ्रामयेच्छिर सोपरि" || इति । मदनरने पाद्मेऽपि - " अपामार्गमथेो तुम्बी पपुन्नाडमथापरम् । भ्रामयेत्स्नानमध्ये तु नरकस्य क्षयाय वै ।।" इति । मन्त्र : “सितालेोष्टसमायुक्त ! सकण्टकदलान्वित ! | हर पापमपामार्ग ! भ्राम्यमाणः पुनः पुनः ॥” इति । अत्र तर्पणमुक्तं भविष्ये " ततश्च तर्पणं कार्यं धर्मराजस्य नामभिः | यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ वैवस्वताय कालाय सर्वभूतक्षयाय च । औदुम्बराय दनाय नीलाय परमेष्ठिने || वृकोदराय चित्राय चित्रगुप्ताय ते नमः ।" इति । एतत्तर्पण' सव्येनापसव्येन वा कार्यम्, "यज्ञोपवीतिना कार्य्यं प्राचीनावीतिनाऽथवा । देवत्वं च पितृत् च यमस्य स्याद् द्विरूपता" || इति तत्रैवाक्तः । इदं च तर्पणं जीवत्पित्रापि कार्यम् । तदुक्तं पाद्मे" जीवत्पितापि कुर्वीत तर्पणं यम भीष्मयेोः । कृष्णैस्तिलैस्तथा चान्यैः कुर्यात्तर्पणमिच्छया ॥” इति । २४ १८५ Shree Sudharmaswami Gyanbhandar-Umara, Surat - www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy