SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः अन्यैः शुक्लैः । देवत्वपक्षे शुक्लतिलैः, पितृत्वपक्षे कृष्णतिलैरिति बोध्यम् । भीष्मतर्पणं माघशुक्लाष्टम्यामुक्तम् । लैङ्ग विशेषः "ततः प्रेतचतुर्दश्यां भोजयित्वा तपोधनान् । दानं दत्वा तु तेभ्यस्तु यमलोकं न गच्छति ॥” इति । अस्यां प्रदोषसमये दीपदानं कार्यम् । तदुक्तं भविष्ये "ततः प्रदोषसमये दीपान दद्याद् मनोरमान् । ब्रह्मविष्णुशिवादीनां भवनेषु मठेषु च ॥ प्राकारोद्यानवीथीषु प्रतौलीनिष्कुटेषु च । मन्दुरासु विविक्तासु हस्तिशालासु भूरिशः ॥" "वाजिशाला तु मन्दुरा" इत्यमरः। इदं दीपदानं संलग्न कार्यम् । तदुक्तं ज्योतिर्निबन्धे नारदेन-- "इषासित चतुर्दश्यामिन्दुक्षयतिथावपि । ऊर्जादा स्वातिसंयुक्त तदा दीपावली भवेत् ॥ कुर्यात्संलग्नमेतच्च दीपोत्सवदिनत्रयम् ।" इति । अत्र यमलोकदर्शनाभावकामा नरकचतुर्दश्यां स्नास्ये---इति सङ्कल्प्य, कृताभ्यङ्गः स्नात्वा कृतनित्यक्रियोऽनन्तरं यमतर्पणं करिष्ये--इति सङ्कल्पं कृत्वोपवीती शुक्लतिलैः प्राचीनावीती चेत् कृष्णतिलैर्यमं धर्मराज मृत्युमन्तकं वैवस्वतं कालं सर्वभूतक्षयमौदुम्बरं दन्नं नीलं परमेष्ठिनं वृकोदरं चित्रगुप्तं तर्पयामीति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy