SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: १८७ चतुर्दशनामभिर्यमं सन्तर्प्य, यथाकालं तपोधनान् भोजयित्वा, स्वयं च भुक्त्वा प्रदोषसमये दीपान् दद्यात् । उक्तस्थलेष्विति प्रयोगः । कार्त्तिकशुक्लचतुर्दशी वैकुण्ठचतुर्दशी इयमरुणोदयव्यापिनी ग्राह्या । तदुक्तं सनत्कुमारसंहितायाम् - "वर्षे वै हेमलम्बाख्ये मासि श्रीमति कार्त्तिके । शुक्लपक्षे चतुर्दश्यामरुणाभ्युदयं प्रति ॥ महादेवतिया ब्राह्मे मुहूर्ते मणिकर्णिके । स्नात्वा विश्वेश्वरो देव्या विश्वेश्वरमपूजयत् || संक्षेपं ज्योतिषस्तस्य प्रतिष्ठाख्यं तदाऽकरोत् । स्वयमेव स्वमात्मानं चरन् पाशुपतव्रतम् ॥” इति । व्रतमित्यनेनेापवास उच्यते, "ततः प्रभाते विमले कृत्वा पूजां महाद्भुताम् । दण्डपाणेर्महानानि वनेऽस्मिन् कृतपारणः ||" इति वचने पारणाशब्दश्रवणात् । अस्यां श्रीविश्वेश्वर दर्शनान्मुक्तिरुक्ता काशीखण्डे -- "कार्त्तिकस्य चतुर्दश्यां विश्वेशं यो विलोकयेत् । स्नात्वा चात्तरवाहिन्यां न तस्य पुनरागतिः ॥” इति । मार्गशीर्ष शुक्लचतुर्दशी पिशाचमेोचनी । अस्यां पिशाचमोचन - तीर्थयात्रोक्ता काशीखण्डे - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy