________________
तिथ्यर्क:
"नरकस्य चतुर्दश्यां तैलाभ्यङ्गञ्च कारयेत् ।
अन्यत्र कार्तिकस्नायी तैलाभ्यङ्गञ्च वर्जयेत् ॥” इति तत्रैव प्रतिप्रसवश्रुतेः | दिनद्वये तद्व्याप्तौ सामान्यवचनात् पूर्वा, दिनद्वये तद्व्याप्तावपि पूर्वा ।
१८४
“पूर्वविद्धचतुर्दश्यां कार्तिकस्य सितेतरे ।
पक्षे प्रत्यूषसमये स्नानं कुर्यात्प्रयत्नतः ॥ "
इति स्कान्दात् । अत्र,
“तैले लक्ष्मीर्जले गङ्गा दीपावल्याश्चतुर्दशीम् । लब्ध्वेति शेषः ।
प्रातः स्नानं तु यः कुर्याद् यमलोकं न पश्यति ॥" इति ब्राह्मोक्तेश्चातुर्वर्ण्यस्याप्यधिकारः । चतुर्दशीमारभ्य चतुर्ष्वपि दिनेषु काम्यस्नानमुक्तं पृथ्वीचन्द्रोदये ब्राह्मे
"इषे भूते च दर्शे कार्त्तिकप्रथमे दिने । यदा स्वातिस्तदाभ्यङ्गस्नानं कुर्याद्दिनेोदये || ऊर्जे शुक्ल द्वितीयायां तिथैौ यस्तु शुभे दिने । मानवो मङ्गलस्नायी नैव लक्ष्म्या वियुज्यते ॥ दीपैर्नीराजनं तत्र सैषा दीपावली स्मृता ।" इति ।
स्नानेऽपामार्गभ्रामणमुक्तं ब्राह्मे -
“अभ्यङ्गस्नानमध्ये तु नरकस्य क्षयाय वै । अपामार्गस्य पत्राणि भ्रामयेच्छिर से|परि ||"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com