SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: "नरकस्य चतुर्दश्यां तैलाभ्यङ्गञ्च कारयेत् । अन्यत्र कार्तिकस्नायी तैलाभ्यङ्गञ्च वर्जयेत् ॥” इति तत्रैव प्रतिप्रसवश्रुतेः | दिनद्वये तद्व्याप्तौ सामान्यवचनात् पूर्वा, दिनद्वये तद्व्याप्तावपि पूर्वा । १८४ “पूर्वविद्धचतुर्दश्यां कार्तिकस्य सितेतरे । पक्षे प्रत्यूषसमये स्नानं कुर्यात्प्रयत्नतः ॥ " इति स्कान्दात् । अत्र, “तैले लक्ष्मीर्जले गङ्गा दीपावल्याश्चतुर्दशीम् । लब्ध्वेति शेषः । प्रातः स्नानं तु यः कुर्याद् यमलोकं न पश्यति ॥" इति ब्राह्मोक्तेश्चातुर्वर्ण्यस्याप्यधिकारः । चतुर्दशीमारभ्य चतुर्ष्वपि दिनेषु काम्यस्नानमुक्तं पृथ्वीचन्द्रोदये ब्राह्मे "इषे भूते च दर्शे कार्त्तिकप्रथमे दिने । यदा स्वातिस्तदाभ्यङ्गस्नानं कुर्याद्दिनेोदये || ऊर्जे शुक्ल द्वितीयायां तिथैौ यस्तु शुभे दिने । मानवो मङ्गलस्नायी नैव लक्ष्म्या वियुज्यते ॥ दीपैर्नीराजनं तत्र सैषा दीपावली स्मृता ।" इति । स्नानेऽपामार्गभ्रामणमुक्तं ब्राह्मे - “अभ्यङ्गस्नानमध्ये तु नरकस्य क्षयाय वै । अपामार्गस्य पत्राणि भ्रामयेच्छिर से|परि ||" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy