SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: " कार्तिक कृष्णपक्षे तु चतुदश्यामिनादये । अवश्यमेव कर्त्तव्यं स्नानं नरकभीरुणा ||" इति । 'इन' सूर्यः । केचित्विनपदस्य चन्द्रे लक्षणेत्याहुः, तन्मन्दम् ; लक्षणायां भानाभावात् । अपरे तु इनश्चन्द्र इति व्याचख्युस्तदप्यशुद्धम्, इनशब्दस्य सूर्यवाचित्वात् । गौडास्तु सूर्योदयव्यापिन्यां कुर्वन्ति स्नानम् । - अत्र केचिदाहुः–सूर्योदयो गौणकालः, मुख्यकालोत्तरत्वात् । तदेवाह मण्डन: "स्वकालादुत्तरो गौणः कालः सर्वस्य कर्मणः । यद्वागामिक्रियामुख्यकालस्याप्यन्तरालवत् ॥ गौण कालत्वमिच्छन्ति केचित्प्राक्तनकर्मणि । मुख्यकाले यदावश्यं कर्म कर्तु ं न शक्यते ॥ गौणकाले तु कर्तव्यं गौणोऽप्यदृशेो भवेत् । " १८३ 'ईदृशो ' मुख्यकालसदृश इति । वस्तुतस्त्वयं गौणकाला यत्र शास्त्रेण मुख्यकालातिक्रमे कालान्तरमुक्तं तस्मिन् कर्मणि बोध्यः, न तु सर्वत्र काम्येऽपि कर्मणीति । यत्तु केचित् "तैलाभ्यङ्गं तथा शय्यां परान्नं कांस्यभोजनम् । कार्तिके वर्जयेद्यस्तु परिपूर्णवती भवेत् ॥” इति पाद्मनिषेधाद् हविष्यं कार्तिकव्रतिभिन्नपरमित्याहुः, तन; Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy