SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १८२ तिथ्यर्क: “ तथा भाद्रपदस्यान्ते चतुर्दश्यां द्विजोत्तमः । पौर्णमास्याः समायोगे व्रतं चानन्तयं चरेत् ॥” इति । त्रोदयव्यापिनी ग्राह्या, "उदये त्रिमुहूर्ताप ग्राह्यानन्तत्र ते तिथिः । " इति । माधवोक्तः । " मुहूर्त्तमपि चेद्राद्रे पौर्णमास्यां चतुर्दशी । सम्पूर्णा तां विदुस्तस्यां पूजयेद्विष्णुमव्ययम् ॥” इति । स्कान्दाच्च । अतश्च पूर्णिमायुक्तायामुदयकालव्यापिन्यां चतुर्दश्यामनन्तव्रतं कार्यमिति सिद्धम् | दिनद्वये उदयव्यापित्वे सम्पूर्णस्वात् पूर्वैव, दिनद्वये उदयाव्यापित्वेऽपि पूर्वा, मध्याह्ने सत्त्वात् । आश्विन कृष्ण चतुर्दश्यां शस्त्रादिहतानामेव श्राद्धमुक्तं कालादर्शे“श्राद्धं शस्त्र हतस्यैव चतुर्दश्यां महालये" । इति । नागरखण्डेऽपि "अपमृत्युर्भवेद्येषां शस्त्र मृत्युरथापि वा । श्राद्धं तेषां प्रकर्तव्यं चतुर्दश्यां नराधिप !" || इति । कार्तिक कृष्णचतुर्दश्यां चन्द्रोदयव्यापिन्यामभ्यङ्गस्नानं कार्यम् । तदुक्तं हेमाद्रौ भविष्ये— " श्रश्वयुकृष्णपक्षस्य चतुर्दश्यां विधूदये । तिलतैलेन कर्तव्यं स्नानं नरकभीरुणा ||" इति ॥ अत्राश्विनेामान्तो बाध्यः सूर्योदयव्यापिन्यामप्युक्तं हेमाद्रिनिर्ण यामृतयेोर्भविष्ये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy