SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः १८१ इति संकल्पं मध्याह्ने कृत्वा, परदिने स्नात्वा पुनर्देवं सम्पूज्य प्रार्थयेत् - " नृसिंहाच्युत ! देवेश ! लक्ष्मीकान्त ! जगत्पते ! अनेनार्चा प्रदानेन सफलाः स्युर्मनेारथाः || मद्वंशे ये नरा जाता ये जनिष्यन्ति चापरे । ताँस्त्वमुद्धर देवेश ! दुःसहाद्भवसागरात् ॥ श्रीनृसिंह ! रमाकान्त ! भक्तानां भयनाशन ! | क्षीराम्बुनिधिवासी त्वं चक्रपाणे ! जनार्दन ! | व्रतेनानेन देवेश ! भुक्तिमुक्तिप्रदो भव ।" इति । ततस्तां प्रतिमां ब्राह्मणाय दद्यात् । योगविशेषेणेकं प्रशस्तेत्युक्तं तत्रैव "स्वाति नक्षत्रसंयोगे शनिवारे च मद्व्रतम् । सिद्धियोगस्य संयोगे वणिजे करणे तथा । पुंसा सैाभाग्ययोगेन लभ्यते दैवयोगतः ।” इति । इदं नित्यत्रतम्, "विज्ञाय महिनं यस्तु लङ्घयेत्पापकृन्नरः । स याति नरके घोरे यावच्चन्द्रदिवाकरौ ॥” इत्यनिष्टश्रुतेः । श्रावण शुक्लचतुर्दशी रात्रिव्यापिनी ग्राह्येत्युक्तं प्राक् । भाद्रशुक्लचतुर्दश्यामनन्तत्रतमुक्तं भविष्ये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy