SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः गृहीतेऽस्मिन् व्रते देव ! पञ्चत्वं यदि मे भवेत् । तदा भवतु सम्पूर्ण त्वत्प्रसादाज्जनार्दन ! ॥” इति । श्रावण शुक्लकादश्यां पवित्राधिवासनमुक्तं रामार्चनचन्द्रिकायाम् "स्नात्वा त्रिगुणितं सूत्रं त्रिगुणीकृत्य शोधयेत् । पृथक पृथक पञ्चगव्यैरद्भिः प्रक्षालयेन्नरः ॥ मूलेनाष्टोत्तरशतं गायत्र्या रामसंज्ञया । शङ्खोदकेनाभिमन्त्र्य पवित्राणि विनिर्ममेत् ॥" विष्णुरहस्ये "कुङ्कमोशीरकपूरैश्चन्दनादिविलेपनैः । पवित्राणि विलिप्याऽथ देवाग्रेऽधिवास्य च ॥ एकादश्यां शुभैर्गन्धैः पुष्पधूपविलेपनैः । दीपनैवेद्यवस्त्राद्यैः पूजयेद् गरुडध्वजम् ॥” इति । ततः प्रार्थनां कुर्यात् । "क्रियालोपविधानार्थं यत्त्वया विहित प्रभो ! । मयैतत् क्रियते देव ! तव तुष्टयै पवित्रकम् ॥ प्रातस्त्वां पूजयिष्यामि सान्निध्यं कुरु केशव! । निवेदयाम्यहं तुभ्यं प्रातरेतत्पवित्रकम् ॥ निपतेद्दण्डवद् भूमौ क्षिप्त्वा पुष्पाञ्जलिं ततः । गीतमङ्गलनिर्घोषैः कुर्याज्जागरणं नरः ॥” इति । पवित्रार्पणविधिस्तु श्रावणशुक्लद्वादश्यां वक्ष्यते । अत्रैव दधिवतारम्भोऽपि कार्यः। दधिवते तक्रभक्षणं कार्यम्, तक्रे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy