SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १४८ तिथ्यर्कः दधिरसानुपलम्भात् । भाद्रशुक्लैकादश्यां विष्णोरङ्गपरिवतनमुक्तं हेमाद्रौ भविष्ये "प्राप्ते भाद्रपदे मासि एकादश्यां दिने सिते । कटिदानं भवेद्विष्णोर्महापातकनाशनम् ॥” इति । 'कटिदानम्' अङ्ग परिवर्तनम् । तत्र मन्त्रस्तिथितत्त्वे "वासुदेव ! जगन्नाथ ! प्राप्तेयं द्वादशी तव । पार्चन परिवर्तस्व सुखं स्वपिहि माधव ! ॥” इति । द्वादशीपदमत्र सन्निहितपरम् । अत्रैव दुग्धव्रतं स्वीकुर्यात् । दुग्धव्रते पायसादि वर्जयेत्, न तु दध्यादि । यत्र धिकारे प्रकृतिद्रव्य. रसोपलम्भस्तत्प्रत्यभिज्ञानं वा, तस्य विकारस्य निषेधः । न चैव सति सन्धिन्यनिर्दशावत्सगोपयः परिवर्जयेदिति वचनात्सन्धिन्यादिक्षीरनिषेधे सन्धिन्यादिदुग्धसम्भूतस्य दध्नो ग्रहणं स्यादिति वाच्यम्, "क्षीराणि यान्यभक्ष्याणि तद्विकाराशने बुधः । सप्तरात्रं व्रतं कुर्यात्प्रयत्नेन समन्वितः ॥" इति शङ्खस्मृत्या तन्निषेधात् । 'व्रतम्' गोमूत्रपावकाशनम् । आश्विनशुक्लैकादश्यां कार्तिकस्नानारम्भः कार्यः। तदुक्तं विष्णुरहस्ये "आरभ्यैकादशी शुक्लामाश्विनस्य तु मानवः । · प्रातः स्नानं प्रकुर्वीत यावत्कार्तिकभास्करम् ॥" इति । अत्र सौरोऽपि मासे ग्राह्यः, "तुलामकरमेषेषु प्रातः स्ना विधीयते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy