SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १४६ तिथ्यर्कः हविष्यं ब्रह्मचर्यं च महापातकनाशनम् ॥" इति पायोक्तेः । अशक्तस्तु व्यहं स्नायात्, "वाराणस्यां पञ्चनदे व्यहं स्नातास्तु कार्तिके । अमी ते पुण्यवपुषः पुण्यभाजोऽतिनिर्मलाः ॥" इति काशीखण्डात् । स्नानकालस्तूक्तः काशीखण्डे "कार्तिके बिन्दुतीर्थे यो ब्रह्मचर्यपरायणः । स्नास्यत्यनुदिते भाना भानुजा तस्य भीः कुतः ॥” इति । भानुजोऽन्तकः । स्नानमन्त्रस्तत्रैव "कार्तिकेऽहं करिष्यामि प्रातः स्नानं जनार्दन !। प्रीत्यर्थं तव देवेश ! दामोदर ! मया सह ॥ इमं मन्त्रं समुच्चार्य मौनी स्नायाद् व्रती नरः।" इति । अर्घ्यमन्त्रस्तत्रैव-- "तिनः कार्तिके मासि स्नातस्य विधिवन्मम । दामोदर ! गृहाणाऱ्या दनुजेन्द्रनिषूदन !॥ नित्यनैमित्तिके कृष्ण ! कार्तिके पापशाधने । गृहाणायं मया दत्तं राधया सहित। हरे ! ॥” इति । अत्र धात्रीसेवा कार्येत्युक्तं स्कान्दे कात्तिकप्रशंसापकरणे "धात्रीछायां तु यः कुर्यात् पिण्डदान महामुने! । मुक्ति प्रयान्ति पितरः प्रसादान्माधवस्य तु ॥ धात्रीफलविलिप्ताङ्गो धात्रीफलविभूषितः ।। * मया लक्ष्म्या । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy