SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १५० तिथ्यर्क: धात्रीफलकृताहारो नरो नारायणेो भवेत् ॥” इति दानमाह वामनः " रजतं कनकं दीपान् मणिमुक्ताफलादिकम् । दामोदरस्य प्रीत्यर्थं प्रदद्यात् कार्त्तिके नरः ||" इति । स्यामेव पूर्वोक्तद्विदलादिवतस्यारम्भः कार्य इत्युक्तं पामे"आश्विनस्य तु मासस्य या शुक्लैकादशी भवेत् । कार्त्तिकस्य व्रतानीह तस्यां वै मारभेत्सुधीः ||" इति । कार्तिक शुक्लैकादशी बोधिनीत्युक्तं हेमाद्रौ तत्रैव "एकादश्यां तु शुक्लायां कार्त्तिके मासि केशवम् | प्रसुप्तं बोधयेद्रात्रौ श्रद्धाभक्तिसमन्वितः ॥” इति । मदनरत्नेऽपि भविष्ये— "कार्त्तिके शुक्लपक्षे तु एकादश्यां पृथासुत ! मन्त्रेणानेन राजेन्द्र ! देवमुत्थापयेद् द्विजः ॥” इति । यद्यपि हेमाद्रिधृतवचने रात्रौ बोधयेदित्युक्तम्, तथापि प्रवेधस्तु दिवैव कार्य:, " निशि स्वापो दिवोत्थानं सन्ध्यायां परिवत्तनम् ।" इति सर्वनिबन्धकारधृतमात्स्यवाक्यात् । शिष्टास्तु द्वादश्यां प्रबोधयन्ति । तद्विधिस्तु कार्त्तिकशुक्लद्वादश्यां वक्ष्यते । अस्यां भीष्मपञ्चकं कार्यम् । "व्रतं चैतन्महापुण्यं महापातकनाशनम् । तो वरमयत्नेन कर्त्तव्यं भीष्मपञ्चकम् ॥ -- Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy