SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ विथ्यर्कः १५१ कात्तिकस्याऽमले पक्षे स्नात्वा सम्यग्यतव्रतः । एकादश्यां तु गृह्णीयाद् व्रतं पञ्चदिनात्मकम् ।।" पाने "पश्चाई पञ्चगव्याशी भीष्मायायं च पञ्चसु । अहःस्खपि तथा दद्यान्मन्त्रेणानेन सुव्रत !॥ सत्यव्रताय शूराय शान्ताय तु महात्मने । भीष्मायैतद्ददाम्यय॑माजन्मब्रह्मचारिणे ॥" इति । अन्योऽपि विस्तरोत्र श्रीमातुलकृतव्रतार्के द्रष्टव्यः। अथ पौषशुक्लैकादशी मन्वादिः, "पुष्यस्यैकादशी सिता" इति वाक्यांशात् । अत्र श्राद्ध कार्यम्, “माध्यां मन्वन्तरादिषु" इति पूर्वोक्तवाक्यात् । तच्च नैमित्तिकम् । एकादशी प्रयुक्तोपवासस्तु नित्यः । तथा च नित्योपवासे श्राद्धप्राप्तौ ऋष्यशृङ्गः "उपवासा यदा नित्यः श्राद्धं नैमित्तिक भवेत् । उपवासं तदा कुर्यादाघ्राय पितृसेवितम् ॥” इति । अस्यामेव माघस्नानारम्भ उक्तो ब्राह्म "एकादश्यां पौषमासे माघस्नान समारभेत् । द्वादश्यां पूर्णिमायां वा शुक्लपक्षे समापनम् ॥” इति । 'शुक्लपक्षे माघशुक्लपक्षे । मासोपवासिनस्त्रिकालं स्नान पूजा चोक्ता पद्मपुराणे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy