________________
तिथ्यर्कः इति ध्यात्वा पूर्वोक्तप्रकारेण पूजयेदित्यलं विस्तृतिधारया । पारणं तूर्वरितचतुर्दश्यामेव कार्यम्। तदुक्तं माधवीये स्कन्दपुराणे
"उपोषणं चतुर्दश्यां चतुर्दश्यां च पारणम् । कृतैः सुकृतलक्षश्च लभ्यते यदि वा न वा ॥ ब्रह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै । संस्नातानि भवन्तीह भूतायां पारणे कृते ॥ तिथीनामेव सर्वासामुपवासव्रतादिषु ।
तिथ्यन्ते पारणं कुर्याद्विना शिवचतुर्दशीम् ॥” इति । यत्तु
"जन्माष्टमी रोहिणी च शिवरात्रिस्तथैव च ।
पूर्व विद्धैव कर्तव्या तिथिमान्ते च पारणम् ॥” इति, यच्च स्कान्दे
"कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिचतुर्दशी ।
एताः पूर्वयुताः कार्यास्तिथ्यन्ते पारणं भवेत् ॥" इति तत्पारणाकाले चतुर्दश्यलाभपरम् ।
अथ चतुर्दश्यामुपवासः केदारकुण्डोदकपानं च कार्यमित्युक्तं स्कन्दपुराणे
"चैत्रकृष्णचतुर्दश्यामुपवासं विधाय च । केदारोदकपानश्च तथा तत्र फलं लभेत् ।।" इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com