SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः इति ध्यात्वा पूर्वोक्तप्रकारेण पूजयेदित्यलं विस्तृतिधारया । पारणं तूर्वरितचतुर्दश्यामेव कार्यम्। तदुक्तं माधवीये स्कन्दपुराणे "उपोषणं चतुर्दश्यां चतुर्दश्यां च पारणम् । कृतैः सुकृतलक्षश्च लभ्यते यदि वा न वा ॥ ब्रह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै । संस्नातानि भवन्तीह भूतायां पारणे कृते ॥ तिथीनामेव सर्वासामुपवासव्रतादिषु । तिथ्यन्ते पारणं कुर्याद्विना शिवचतुर्दशीम् ॥” इति । यत्तु "जन्माष्टमी रोहिणी च शिवरात्रिस्तथैव च । पूर्व विद्धैव कर्तव्या तिथिमान्ते च पारणम् ॥” इति, यच्च स्कान्दे "कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिचतुर्दशी । एताः पूर्वयुताः कार्यास्तिथ्यन्ते पारणं भवेत् ॥" इति तत्पारणाकाले चतुर्दश्यलाभपरम् । अथ चतुर्दश्यामुपवासः केदारकुण्डोदकपानं च कार्यमित्युक्तं स्कन्दपुराणे "चैत्रकृष्णचतुर्दश्यामुपवासं विधाय च । केदारोदकपानश्च तथा तत्र फलं लभेत् ।।" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy