SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १८८ तिथ्यर्क: चतुर्दशी शनिवारेण सिद्धा, रविवारेण विरुद्धा | योगिन्यत्र पश्चिमायाम् । इति चतुर्दशी निर्णीता । थमा निर्णीयते । सा व्रतादावुत्तरा ग्राह्या, युग्मवाक्यात् । उपवासेऽप्ययमेव निर्णयः, "अमावास्या तृतीया च ता उपोष्याः परान्विताः । " इति स्मृतेः । इयं सोमवारयुक्ता कपिलातीर्थे श्राद्धादावतिप्रशस्ता, “मासेामसमायोगे श्राद्धं यद्यत्र लभ्यते । तीर्थे कपिलधारेऽस्मिन् गयायां पुष्करेण किम् ॥ दिव्यन्तरिक्षभूतानि यानि तीर्थानि सर्वशः । तान्यत्र त्ववतिष्ठन्ति दर्शे से मदिनान्विते ||" इति काशीखण्डेोक्तः । शङ्खस्मृतावपि - " श्रमावास्या तु सोमेन सप्तमी भानुना तथा । चतुर्थी भूमिपुत्रेण सेोमपुत्रेण चाष्टमी || चतस्रस्तिथयस्त्वताः सूर्यग्रहणसन्निभाः । स्नानं दानं तथा श्राद्धं सर्व तत्राक्षयं भवेत् ॥” इति । अमायाः सामादियोगे पुष्करसंज्ञोक्ता हेमाद्रौ श्रीमहाभारते - " मा सामे तथा भैौमे गुरुवारे यदा भवेत् । तत्तीर्थं पुष्करं नाम सूर्यपर्वशताधिकम् ॥” इति । शातातप: ― "अमावास्या सोमवारे सूर्यवारे च सप्तमी । अङ्गारकदिने प्राप्ते चतुर्थी वा चतुर्दशी || Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy