________________
तिथ्यर्कः
१६ तत्र यः कुरुते कर्म शुभं वा यदि वाऽशुभम् ।
पष्टिवर्षसहस्राणि कर्त्ता तत्फलमश्नुते ॥” इति । अथ कृष्णप्रतिपदादिज्येष्ठामायां वटसावित्रीव्रतमुक्तं भविष्ये
"अमायां च तथा ज्येष्ठ वटमूले महासती ।।
त्रिरात्रोपोपिता नारी विधिनाऽनेन पूजयेत् ॥” इति । इदं कान्यकुब्जेषु प्रसिद्धम् । तच्च पूर्व विद्धायामेव कार्यम्,
"भूतविद्धा न कर्त्तव्या अमावास्या च पूर्णिमा ।
वर्जयित्वा नरश्रेष्ठ ! सावित्रीव्रतमुत्तमम् ॥" इति ब्रह्मवैवर्तात् । भाद्रामायां दर्भसंग्रहः कार्यः,
"मासे नभस्यमावास्या तस्यां दर्भाच्चयो मतः ।
अयातयामास्ते दर्भा विनियोज्याः पुनः पुनः ॥" इति हारीतोक्तः। नभः श्रावणः । स च दर्शान्तो बोध्यः । 'अयातयामाः' अगतरसा इत्यर्थः । पूर्णिमान्तमासेनाऽऽश्विनामायोगविशेषेण गजच्छायेत्युक्तं वायुपुराणे
"हंसे हंसस्थिते या तु अमावास्या करान्विता ।
सा ज्ञेया कुञ्जरच्छाया इति बौधायनोऽब्रवीत् ॥" 'हसः सूर्या हस्तनक्षत्रं च । अत्र श्राद्धं प्रशस्तमित्युक्तं प्राक् । कार्तिकामायामभ्यङ्गस्नानं कृत्वा अलक्ष्मोपरिहाराय स्वेष्टदेवतां पूजयेदित्युक्तं कालादर्श
"प्रत्यूषे अश्वयुग्दर्शे कृताभ्यङ्गादिमङ्गलः । भक्त्या प्रपूजयेदेवीमलक्ष्मीविनिवृत्तये ॥"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com