SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः १६ तत्र यः कुरुते कर्म शुभं वा यदि वाऽशुभम् । पष्टिवर्षसहस्राणि कर्त्ता तत्फलमश्नुते ॥” इति । अथ कृष्णप्रतिपदादिज्येष्ठामायां वटसावित्रीव्रतमुक्तं भविष्ये "अमायां च तथा ज्येष्ठ वटमूले महासती ।। त्रिरात्रोपोपिता नारी विधिनाऽनेन पूजयेत् ॥” इति । इदं कान्यकुब्जेषु प्रसिद्धम् । तच्च पूर्व विद्धायामेव कार्यम्, "भूतविद्धा न कर्त्तव्या अमावास्या च पूर्णिमा । वर्जयित्वा नरश्रेष्ठ ! सावित्रीव्रतमुत्तमम् ॥" इति ब्रह्मवैवर्तात् । भाद्रामायां दर्भसंग्रहः कार्यः, "मासे नभस्यमावास्या तस्यां दर्भाच्चयो मतः । अयातयामास्ते दर्भा विनियोज्याः पुनः पुनः ॥" इति हारीतोक्तः। नभः श्रावणः । स च दर्शान्तो बोध्यः । 'अयातयामाः' अगतरसा इत्यर्थः । पूर्णिमान्तमासेनाऽऽश्विनामायोगविशेषेण गजच्छायेत्युक्तं वायुपुराणे "हंसे हंसस्थिते या तु अमावास्या करान्विता । सा ज्ञेया कुञ्जरच्छाया इति बौधायनोऽब्रवीत् ॥" 'हसः सूर्या हस्तनक्षत्रं च । अत्र श्राद्धं प्रशस्तमित्युक्तं प्राक् । कार्तिकामायामभ्यङ्गस्नानं कृत्वा अलक्ष्मोपरिहाराय स्वेष्टदेवतां पूजयेदित्युक्तं कालादर्श "प्रत्यूषे अश्वयुग्दर्शे कृताभ्यङ्गादिमङ्गलः । भक्त्या प्रपूजयेदेवीमलक्ष्मीविनिवृत्तये ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy