SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २०० तिथ्यर्कः अत्र कृत्यान्तरं हेमाद्रावादित्यपुराणे-- "एवं प्रभातसमये अमायाश्च नराधिप ! । स्नात्वा देवान् पितन भक्तया सम्पूज्याऽध प्रणम्य च ॥ कृत्वा तु पार्वणश्राद्धं दधिक्षीरघृतादिभिः । दिवा तत्र न भोक्तव्यमृते बालातुराज्जनात् ॥ प्रदोषसमये लक्ष्मी पूजयित्वा यथाक्रमम् । दीपवृक्षास्तथा कार्याः शक्त्या देवगृहेषु च । ब्राह्मणान् भोजयित्वाऽदा संभोज्य च बुभुक्षितान् ॥ अलङ्कतेन भोक्तव्यं नववस्त्रोपशोभिना ।" यत्तु "भूताष्टम्यार्दिवा भुक्त्वा रात्रौ भुक्त्वा च पर्वणि । एकादश्यामहारानं भुक्त्वा चान्द्रायणं चरेत् ॥" इत्यनेनामायां भोजनं रात्रौ निषिद्धम्, तद् रागमाप्तं न वैधम् ; विधिस्पृष्टे निषेधानवकाशात् । इयमेव रात्रिः सुखरात्रिः। अत्र सर्वदेवानां सुखशयनमुक्तं तत्रैव "अमायां चैव देवास्तु कात्तिके मासि केशवात् । अभयं प्राप्य सुप्तास्तु सुखं क्षीरोदसानुषु । लक्ष्मीर्दै त्यदवान्मुक्ता सुखं सुप्ताऽम्बुजोदरे । अतोऽर्थ विधिवत् कार्या तुष्ट्य तु सुखसुप्तिका ॥" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy