________________
तिथ्यर्कः
२०१ विशेषो ब्राह्मे
"अर्द्धरात्रे भ्रमत्येव लक्ष्मीराश्रयितुं गृहान् । अतः स्खलङ्कता लिप्ता दीपैर्जाग्रज्जनोत्सवाः ।।
सुधाधवलिताः कार्याः पुष्पमालोपशोभिताः ।" इति । अत्र निशीथोत्तरमलक्ष्मीनिःसारणमुक्तं निर्णयामृते भविष्ये
"एवं गते निशीथे तु जने निद्रार्द्ध लोचने । तावन्नगरनारीभिस्तूर्यडिण्डिमवादनैः ।।
निष्काष्यते प्रहृष्टाभिरलक्ष्मीः स्वगृहाङ्गणात् ।"इति । इयं प्रदोषव्यापिनो ग्राह्या, कर्मकालत्वात् । दिनद्वये तद्वयाप्तावुत्तरा, सामान्यनिर्णयात् । उभयदिने तद्व्याप्त्यभावेऽर्द्धरात्रव्यापिनी ग्राह्या, लक्षम्या गमनकालत्वात्। अस्यामेव केदारगौरीव्रतं कार्यम् ,
"आश्विनस्यासिते पक्षे अमावास्या यदा भवेत् ।
तस्यां व्रतामेदं कार्य यथोक्तं शम्भुना पुरा ॥" इति पद्मपुराणात् । इयमत्र सामान्यनिर्णयादुत्तरा ग्राह्या। माघामायां ब्राह्मणं सम्पूज्य नवनीतधेनु ब्राह्मणाय दद्यादित्युक्तं निर्णयामृते ब्रह्मपुराणे
"अमायां माघमासस्य पूजयित्वा पितामहम् । गायत्र्या सहितं देवं वेदवेदाङ्गभूषितम् ।। नवनीतमयीं धेनु ब्राह्मणाय निवेदयेत् ।" इति । २६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com