________________
तिथ्यर्क: योगविशेषेणाऽर्द्धादय उक्तो हेमाद्रौ स्कान्दे"माघामायां व्यतीपाते आदित्ये विष्णुदैवते । अर्द्धादयं तमित्याहुः सहस्रार्कगृहैः समः ॥ " इति । मदनरत्ने भारतेऽपि -
२०२
"मार्कपातश्रवणैर्युक्ता चेत्पुष्यमाघयेोः । अदयः स विज्ञेयः कोटिसूर्यग्रहैः समः ॥ दिवैव योगः शस्तोऽयं न तु रात्रौ कदाचन ।" इति । दिवैवेत्यर्द्ध निर्णयामृत एव पठितं नान्यग्रन्थेषु । अत्र दानमुक्तं स्कान्दे
"ये तु सम्प्राप्ते सर्व गङ्गासमं जलम् । शुद्धात्मानो द्विजाः सर्वे भवेयुर्ब्रह्मसम्मिताः ॥ यत्किञ्चित् क्रियते दानं मेरुसन्निभमिध्यते । चतुःषष्टिपलं मुख्यममत्रं तत्र कारयेत् ॥ चत्वारिंशत्पलं वाऽथ पञ्चविंशतिमेव च । निधाय पायसं तत्र पद्ममष्टदलं लिखेत् ॥ पद्मस्य कर्णिकायां तु कर्षमात्रं सुवर्णकम् । तदभावे तदर्द्ध वा तदर्द्ध वापि कारयेत् ।। कृत्वा तु तण्डुलैः शुद्धैः पद्ममष्टदलं शुभम् ।
मत्रं स्थापयेत्तत्र ब्रह्मविष्णुशिवात्मकम् ॥ तेषां प्रीतिकरार्थाय श्वेतमाल्यैः सुशोभनैः । वस्त्रादिभिरलङ्कृत्य ब्राह्मणाय निवेदयेत् ॥” इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com