SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: ---- दाने मन्त्र: " सौवर्ण पायसामत्रं यस्मादेतत्त्रयात्मकम् । आवयोस्तारकं यस्मात्तद्गृहाण द्विजोत्तम ! || " 'अमत्रम् ' पात्रम् । "समुद्रमेखलां पृथ्वीं सम्यग् दत्वा तु यत्फलम् | तत्फलं लभते मर्त्यः कृत्वा दानममत्रकम् ॥” इति । हेमाद्रौ स्कान्दे तु विशेष: "ब्रह्मविष्णुमहेशानां सौवर्ण पलसङ्ख्यया । प्रतिमास्तु प्रकर्त्तव्या तदर्द्धन द्विजोत्तम ! ॥ सायं शतत्रयं शम्भोर्द्रोणानां तिलपर्वताः ।” 'शम्भोः' ब्रह्मणः । "कर्त्तव्या पर्वता विष्णुरुद्रयाः पूर्व संख्यया । शय्यात्रयं ततः कुर्यादुपस्करसमन्वितम् ॥ मध्याह्न े तु नरः स्नात्वा शुचिर्भूत्वा समाहितः । तिलपर्वतमध्यस्थ पूजयेद् देवतात्रयम् ॥ ब्रह्मविष्णुशिवप्रीत्यै दातव्यं तु गवां त्रयम् । हिरण्यभूमिधान्यादिदानं विभवसारतः ॥ देवतात्रयमुद्दिश्य कर्त्तव्यं भक्तिशक्तितः । एतत्सर्वं ब्राह्मणेभ्यो दातव्यं च प्रयत्नतः ॥ | " इति । अथ यस्यां कस्याममायां योगविशेषैः पारिभाषिको व्यतीपात उक्तो भारते २०३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy