________________
तिथ्यर्क:
“श्रवणाश्विधनिष्ठार्द्रा नाग देवतमस्तकैः ।
अमा चेद् रविवारेण व्यतीपातः स उच्यते ॥
तत्र जप्तं हुतं दत्तं सर्व कोटिगुणं भवेत् ॥” 'नागदैवतम् ' आश्लेषा | 'मस्तकम्' मार्गशीर्षम् । चान्द्रमाघामावास्या युगादिः, “पञ्चदशी माघमासे" इति वचनात् । चान्द्रफाल्गुनामा मन्वादिः, " फाल्गुनस्य त्वमावास्या" इति पूर्वोक्तवाक्यात् । मा गुरुवारेण सिद्धा, शनिवारेण विरुद्धा | योगिन्यत्रै शान्याम् । इत्यमा निर्णीता |
२०४
अथ पौर्णमासी निर्णीयते । भविष्योत्तरं - " पौर्णमासी महाराज ! सोमस्य दयिता तिथिः । पूर्णो मासा भवेद् यस्मात् पौर्णमासी ततः स्मृता ॥” इति । सा सावित्रीव्यतिरिक्ता परैव । तदुक्तं ब्रह्मवैवर्ते"भूतविद्धा न कर्त्तव्या दर्श: पूर्णा कदाचन । वर्जयित्वा मुनिश्रेष्ठ ! सावित्रीव्रतमुत्तमम् ॥” इति । यत्तु " चतुर्दश्या च पूर्णिमा" इति युग्मवाक्यम्, तत् सावित्र्यादिव्रतविषयम् । अत्र हेमाद्रिमाधवमतयोर्विप्रतिपत्तिः । • हेमाद्रिमते सावित्री तमन्तरेण श्रमापूर्णिमे परे भवता न पूर्वदिनेऽष्टादशनाडीमित चतुर्दशी सत्त्वेऽपवादः । माधवमते पूर्वदिनेऽष्टादशनाडीमितचतुर्दशीसत्त्वे सावित्रीवतेऽपि परे भवताऽमावास्या -
पूर्णिम,
"भूतोऽष्टादशनाडीभिर्दूषयत्युत्तरां तिथिम् ।"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
―――
www.umaragyanbhandar.com