SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: “श्रवणाश्विधनिष्ठार्द्रा नाग देवतमस्तकैः । अमा चेद् रविवारेण व्यतीपातः स उच्यते ॥ तत्र जप्तं हुतं दत्तं सर्व कोटिगुणं भवेत् ॥” 'नागदैवतम् ' आश्लेषा | 'मस्तकम्' मार्गशीर्षम् । चान्द्रमाघामावास्या युगादिः, “पञ्चदशी माघमासे" इति वचनात् । चान्द्रफाल्गुनामा मन्वादिः, " फाल्गुनस्य त्वमावास्या" इति पूर्वोक्तवाक्यात् । मा गुरुवारेण सिद्धा, शनिवारेण विरुद्धा | योगिन्यत्रै शान्याम् । इत्यमा निर्णीता | २०४ अथ पौर्णमासी निर्णीयते । भविष्योत्तरं - " पौर्णमासी महाराज ! सोमस्य दयिता तिथिः । पूर्णो मासा भवेद् यस्मात् पौर्णमासी ततः स्मृता ॥” इति । सा सावित्रीव्यतिरिक्ता परैव । तदुक्तं ब्रह्मवैवर्ते"भूतविद्धा न कर्त्तव्या दर्श: पूर्णा कदाचन । वर्जयित्वा मुनिश्रेष्ठ ! सावित्रीव्रतमुत्तमम् ॥” इति । यत्तु " चतुर्दश्या च पूर्णिमा" इति युग्मवाक्यम्, तत् सावित्र्यादिव्रतविषयम् । अत्र हेमाद्रिमाधवमतयोर्विप्रतिपत्तिः । • हेमाद्रिमते सावित्री तमन्तरेण श्रमापूर्णिमे परे भवता न पूर्वदिनेऽष्टादशनाडीमित चतुर्दशी सत्त्वेऽपवादः । माधवमते पूर्वदिनेऽष्टादशनाडीमितचतुर्दशीसत्त्वे सावित्रीवतेऽपि परे भवताऽमावास्या - पूर्णिम, "भूतोऽष्टादशनाडीभिर्दूषयत्युत्तरां तिथिम् ।" Shree Sudharmaswami Gyanbhandar-Umara, Surat ――― www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy