SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: २०५ इति स्कान्दोक्तदूषण दूषितत्वात् । तदिदं माधवमतं रीतिका भरणवदापातरमणीयम् । हेमाद्रिमतं सुवर्णस्वर्णाभरणवद् रमणीयम् । तथाहि- "नागविद्धा न कर्त्तव्या षष्ठी चैव कदाचन । एकादशी न कर्त्तव्या दशमीसंयुता विभो ! ॥ भूतविद्धा न कर्त्तव्या दर्शः पूर्णा कदाचन ।" इत्यस्य शेषोऽयम्, “नागो द्वादशनाडीभिदि कपञ्चदशभिस्तथा । भूतोऽष्टादशनाडीभिदूषयत्युत्तरां तिथिम् ॥” इति लाघवात् । तथा च यत्र भूतविद्धा निषिद्धा तत्रैवाय विशेषविधिर्भवति, न तु सावित्रीव्रते । सोऽपि कर्मकालव्याप्तिशास्त्रौदासीन्य इति न माधवमतदूषण निस्तारः । अस्यामप्यमा - वास्यावच्छ्राद्धं नित्यम्, "अमावास्याव्यतीपातपौर्णमास्यष्टकासु च । विद्वान् श्राद्धमकुर्वाणो नरकं प्रतिपद्यते ॥" इति पितामहेोक्तेः । तच्चाऽपिण्डक ं कार्यम् । तदाह निर्णयदीपे गर्ग : " पौर्णमासीषु सर्वासु निषिद्धं पिण्डपातनम् । वर्जयित्वा प्रोष्ठपदीं यथा दर्शस्तथैव सा ॥” इति । अथ चैत्र पौर्णमास्यां दमनेन शिवपूजोक्ता वायवीये Shree Sudharmaswami Gyanbhandar-Umara, Surat - www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy