________________
तिथ्यर्क:
२०५
इति स्कान्दोक्तदूषण दूषितत्वात् । तदिदं माधवमतं रीतिका भरणवदापातरमणीयम् । हेमाद्रिमतं सुवर्णस्वर्णाभरणवद् रमणीयम् । तथाहि-
"नागविद्धा न कर्त्तव्या षष्ठी चैव कदाचन । एकादशी न कर्त्तव्या दशमीसंयुता विभो ! ॥ भूतविद्धा न कर्त्तव्या दर्शः पूर्णा कदाचन ।" इत्यस्य शेषोऽयम्,
“नागो द्वादशनाडीभिदि कपञ्चदशभिस्तथा । भूतोऽष्टादशनाडीभिदूषयत्युत्तरां तिथिम् ॥”
इति लाघवात् । तथा च यत्र भूतविद्धा निषिद्धा तत्रैवाय विशेषविधिर्भवति, न तु सावित्रीव्रते । सोऽपि कर्मकालव्याप्तिशास्त्रौदासीन्य इति न माधवमतदूषण निस्तारः । अस्यामप्यमा - वास्यावच्छ्राद्धं नित्यम्,
"अमावास्याव्यतीपातपौर्णमास्यष्टकासु च ।
विद्वान् श्राद्धमकुर्वाणो नरकं प्रतिपद्यते ॥"
इति पितामहेोक्तेः । तच्चाऽपिण्डक ं कार्यम् । तदाह निर्णयदीपे गर्ग :
" पौर्णमासीषु सर्वासु निषिद्धं पिण्डपातनम् । वर्जयित्वा प्रोष्ठपदीं यथा दर्शस्तथैव सा ॥” इति । अथ चैत्र पौर्णमास्यां दमनेन शिवपूजोक्ता वायवीये
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
www.umaragyanbhandar.com