SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १९६ तिथ्यर्कः चतुर्थ्यन्तैर्नामभिर्विल्वपत्राणि समर्चयेत् । एवं रात्रिमतिवाह्य उपसि व्रतं समर्पयेत् । तत्र मन्त्रः "अविघ्नेन व्रतं देव ! त्वत्प्रसादात् समापितम् । क्षमस्व जगतां नाथ ! त्रैलोक्याधिपते ! हर ! ॥ यन्मयाऽद्य कृतं पुण्यं तद्रुद्रस्य निवेदितम् । त्वत्पसादान्महादेव ! व्रतमद्य समर्पितम् ॥ प्रसन्नो भव मे श्रीमन् ! सद्गतिः प्रतिपाद्यताम् । त्वदालोकनमात्रेण पवित्रोऽस्मि न संशयः ॥" इति । ततो द्वितीयेऽह्नि स्नात्वा कृतनित्यक्रिय एकादश विधान् अशक्तो यथासामर्थ्य भोजयित्वा, "संसारक्लेशदग्धस्य व्रतेनानेन शङ्कर ! । प्रसीद सुमुखा नाथ ! ज्ञानदृष्टिप्रदो भव ॥" इति देव सम्प्रार्थ्य पुत्रमित्रायन्वितः पारणं कुर्यात् । यदा प्रतिष्ठितं लिङ्गं नास्ति तदैवं प्रकारः हराय नम इति मृदमानीय, तां संशोध्य, महेश्वराय नम इति लिङ्ग विधाय, शूलपाणये नम इति शिव ! इह सुप्रतिष्ठिता भवेति प्रतिष्ठाप्य, "ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्ति वसानं विश्वाचं विश्ववीज निखिलभयहरं पञ्चवकां त्रिनेत्रम् ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy