SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः १६५ प्रतिष्ठलिङ्ग शिवं मूलमन्त्रण 'त्र्यम्बकम्' इति वैदिकेन वा दुग्धाभिषेकपूर्वकमावाहनादिषोडशोपचारैरर्चयेत् । पूर्वपूजायामर्घ्यदाने मन्त्र: "शिवरात्रिवतं देव ! पूजाजपपरायणः । करोमि विधिवदत्तं गृहाणार्य महेश्वर ! " इति । ततस्तत्कथाः श्रुत्वा द्वितीययामे दध्यभिषेकपूर्वकं प्राग्वदर्च येत् । अर्घ्यदाने मन्त्रः "नमः शिवाय शान्ताय सर्वपापहराय च । शिवरात्रौ ददाम्ययं प्रसीद उमया सह ॥” इति । पूर्ववत्कथाः श्रुत्वा तृतीययामे घृताभिषेकपूर्वकं प्राग्वदर्चयेत् । अध्ये मन्त्रः "दुःखदारिद्रयशोकेन दग्धोऽहं पार्वतीपते !। शिवरात्रौ ददाम्यय॑मुमाकान्त ! गृहाण मे ॥" इति । चतुर्थे तु यामे मञ्चभिषेकपूर्वकमर्चयेत् । अर्घ्यप्रदाने मन्त्रः "मया कृतान्यनेकानि पापानि हर शङ्कर ! । शिवरात्रौ ददाम्यय॑मुमाकान्त ! गृहाण मे ॥" इति । ततः पूजान्ते "भवाय भानाशाय महादेवाय धीमते । रुद्राय नीलकण्ठाय शिवाय शशिमालिने ॥ उग्रायोग्राघनाशाय भीमाय भवरूपिणे । ईशानाय नमस्तुभ्यं पशूनां पतये नमः ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy