________________
तिथ्यर्कः
१६५ प्रतिष्ठलिङ्ग शिवं मूलमन्त्रण 'त्र्यम्बकम्' इति वैदिकेन वा दुग्धाभिषेकपूर्वकमावाहनादिषोडशोपचारैरर्चयेत् । पूर्वपूजायामर्घ्यदाने मन्त्र:
"शिवरात्रिवतं देव ! पूजाजपपरायणः ।
करोमि विधिवदत्तं गृहाणार्य महेश्वर ! " इति । ततस्तत्कथाः श्रुत्वा द्वितीययामे दध्यभिषेकपूर्वकं प्राग्वदर्च येत् । अर्घ्यदाने मन्त्रः
"नमः शिवाय शान्ताय सर्वपापहराय च ।
शिवरात्रौ ददाम्ययं प्रसीद उमया सह ॥” इति । पूर्ववत्कथाः श्रुत्वा तृतीययामे घृताभिषेकपूर्वकं प्राग्वदर्चयेत् । अध्ये मन्त्रः
"दुःखदारिद्रयशोकेन दग्धोऽहं पार्वतीपते !।
शिवरात्रौ ददाम्यय॑मुमाकान्त ! गृहाण मे ॥" इति । चतुर्थे तु यामे मञ्चभिषेकपूर्वकमर्चयेत् । अर्घ्यप्रदाने मन्त्रः
"मया कृतान्यनेकानि पापानि हर शङ्कर ! ।
शिवरात्रौ ददाम्यय॑मुमाकान्त ! गृहाण मे ॥" इति । ततः पूजान्ते
"भवाय भानाशाय महादेवाय धीमते । रुद्राय नीलकण्ठाय शिवाय शशिमालिने ॥ उग्रायोग्राघनाशाय भीमाय भवरूपिणे । ईशानाय नमस्तुभ्यं पशूनां पतये नमः ॥” इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com