SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: पक्षान्तरम् - " सर्वकामप्रदं कृष्ण चतुर्दश्यां शिवव्रतम् । १-६४ श्रामन्त्रयेति शेषः । तत्रैव इत्युपक्रम्य - चतुर्दशाब्दं कर्त्तव्यं शिवरात्रिवतं शुभम् । ” इति संक्षेपः । वार्षिकशिवव्रतानुष्ठानप्रयोगं अथात्र सर्वलोकोपकारार्थ वदामः । तत्र यद्यपि भूयांसः प्रकारा दृश्यन्ते, तथापि प्रमाणीभूत शिवरहस्यसंवादी तावत्प्रकार: प्रदर्श्यते “विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया | पूजितोऽपि महादेवा न स्यात्तस्य फलप्रदः ॥ तस्मान्मृदाऽपि कर्त्तव्यं ललाटे च त्रिपुण्ड्रकम् ।" इति लिङ्गपुराणात् त्रिपुण्ड्ररुद्राक्षमालान्वितो मासपक्षाद्युल्लिख्य श्रीसदाशिवचरण पद्मपरागसारूप्यकामोऽहं महाशिवरात्रौ वार्षिकं शिवरात्रिव्रतं करिष्ये इति प्रातः सङ्कल्प्य मन्त्रान् पठेत् । नूतनते तु नूतनमिति विशेषः । मन्त्रास्तु- "शिवरात्रिव्रतं ह्येतत् करिष्येऽहं महाफलम् | निर्विघ्नमस्तु मे चात्र त्वत्प्रसादाज्जगत्पते ! || चतुर्दश्यां निराहारो भूत्वा शम्भोऽपरेऽहनि । भोक्ष्येऽहं भुक्तिमुक्त्यर्थं शरणं मे महेश्वरः ॥” इति । ततो रात्रौ पूर्वयामे शिवपूजनं करिष्ये - इति सङ्कल्प्य सञ्जात ――――――――――― Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy