________________
१६३
तिथ्यर्कः "एवमेतद् व्रतं कुर्यात्पतिसंवत्सरं व्रती ।
द्वादशाब्दिकमेतत्स्याच्चतुर्विशाब्दिकं तु वा ॥” इति । इयं योगविशेषेणातिप्रशस्तेत्युक्तं माधवीये स्कन्दपुराणे
"माघकृष्णचतुर्दश्यां रविवारो यदा भवेत् । भौमवारो भवेद्देवि ! कर्त्तव्यं व्रतमुत्तमम् ।।
शिवयोगस्य योगे च तद्भवेदुत्तमोत्तमम् ।" इति । अत्र कृत्तिवासेश्वरार्चाऽप्युक्ता तत्रैव
"कृत्तिवासेश्वरं लिङ्गमर्चयन्ति शिवं शुभम् ।
ते यान्ति परमस्थानं सदा शिवमनामयम् ॥” इति । अत्र उमासहितं शिवं पूजयेत् । पूजा च रात्रौ प्रहरे प्रहरे कार्या,
"कर्त्तव्या यामपूजा च स्नानं पञ्चामृतेन च ।" इति स्कान्दात् । इदं च व्रतं पातकादिमोक्षकामनायां प्रतिमासं कार्यम् । तदुक्तं मदनरत्ने स्कन्दपुराणे
"प्रतिमासं कार्यमित्युपक्रम्ययतः प्रति चतुर्दश्यां पूजा यत्नेन मे कृता । तथा जागरणं रात्रौ सन्निधौ मे कृतं तदा ॥
तेन कर्मविपाकेन मुक्ताऽसौ पातकेन च ।" इति । काम्यमासशिवगत्रिव्रतस्य ग्रहणकालावधिवतहेमाद्रौ स्कान्दे
"आदी मार्गशिरे मासि दीपोत्सवदिनेऽपि वा। गृह्णीयान्माघमासे वा द्वादशैवमुपोषयेत् ॥ एवं द्वादशवर्षे तु द्वादशैव तपेाधनान् ॥"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com